०१
विश्वास-प्रस्तुतिः
देवा वा ऽउ᳘दञ्चः॥
स्वर्गं᳘ लोकन्न प्प्रा᳘जानंस्तम᳘श्वः प्रा᳘जानाद्यद᳘श्वेनो᳘दञ्चो य᳘न्ति स्वर्ग्ग᳘स्य लोक᳘स्य प्प्र᳘ज्ञात्यै व्वा᳘सो ऽधिवासᳫँ᳭ हि᳘रण्यमित्य᳘श्वायो᳘पस्तृणन्ति य᳘था᳘ नान्य᳘स्मै पश᳘वे त᳘स्मिन्नेनम᳘धि सं᳘ज्ञपयन्त्यन्यै᳘रे᳘वैनन्त᳘त्पशु᳘भिर्व्व्या᳘कुर्व्वन्ति॥
मूलम् - श्रीधरादि
देवा वा ऽउ᳘दञ्चः॥
स्वर्गं᳘ लोकन्न प्प्रा᳘जानंस्तम᳘श्वः प्रा᳘जानाद्यद᳘श्वेनो᳘दञ्चो य᳘न्ति स्वर्ग्ग᳘स्य लोक᳘स्य प्प्र᳘ज्ञात्यै व्वा᳘सो ऽधिवासᳫँ᳭ हि᳘रण्यमित्य᳘श्वायो᳘पस्तृणन्ति य᳘था᳘ नान्य᳘स्मै पश᳘वे त᳘स्मिन्नेनम᳘धि सं᳘ज्ञपयन्त्यन्यै᳘रे᳘वैनन्त᳘त्पशु᳘भिर्व्व्या᳘कुर्व्वन्ति॥
मूलम् - Weber
देवा वा उ᳘दञ्चः॥
स्वर्गं᳘ लोकं न प्रा᳘जानंस्तम᳘श्वः प्रा᳘जानाद्यद᳘श्वेनो᳘दञ्चो यन्ति स्वर्ग᳘स्य लोक᳘स्य प्र᳘ज्ञात्यै वा᳘सोऽधिवासᳫं हि᳘रण्यमित्य᳘श्वायो᳘पस्तृणन्ति य᳘थाॗ नान्य᳘स्मै पश᳘वे त᳘स्मिन्नेनम᳘धि सं᳘ज्ञपयन्त्यन्यै᳘रेॗवैनं त᳘त्पशु᳘भिर्व्या᳘कुर्वन्ति॥
मूलम् - विस्वरम्
देवा वा उदंचः स्वर्गं लोकं न प्राजानन् । तमश्वः प्राजानात् । यदश्वेनोदंचो यंति । स्वर्गस्य लोकस्य प्रज्ञात्यै । वासो ऽधिवासं हिरण्यमित्यश्वायोपस्तृणन्ति । यथा नान्यस्मै पशवे । तस्मिन्नेनमधि संज्ञपयन्ति । अन्यैरेवैनं तत्पशुभिर्व्याकुर्वन्ति ॥ १ ॥
हरिस्वामी
देवा वा उदंचः । यदश्वेनोदंचो यंतीत्यनुवाद एव । वासो ऽधिवासं 1 हिरण्यमित्येतत् त्रयमश्वायोपस्तृणंतीत्येतत्संबंधार्थम् । वासो यदंतर्द्धानायालम् । अधिवासो यत् आच्छादनायाप्यलम् । तच्च वास उपर्यास्तरणीयम् । तयोरुपरि हिरण्यम् । तस्मिन् त्रय एनं अधि उपरि संज्ञपयन्ति । अन्यैरेव एनमश्वं तत् पशुभिर्विलक्षणं तेभ्यः अधिकं कुर्वंति । एतेन च त्रयेण दर्भो [^२_४३] न निवर्त्यते भिन्नार्थत्वात् । एतद्धि तस्मिन्नेनमधि संज्ञपयंतीति संज्ञपनार्थः । “तद्यदेवास्यात्र विशस्यमानस्य किंचित्स्कंदति तदेतस्मिन् प्रतितिष्ठति” इति वचनात् ॥ १ ॥
Eggeling
- Now the gods, when going upwards, did not know (the way to) the heavenly world, but the horse knew it: when they go upwards with the horse, it is in order to know (the way to) the heavenly world. ‘A cloth, an upper cloth, and gold,’ this 2 is what they spread out for the horse 3:
thereon they quiet (slay) it, as (is done) for no other victim; and thus they separate it from the other victims.
०२
विश्वास-प्रस्तुतिः
घ्न᳘न्ति वा᳘ ऽएत᳘त्पशु᳘म्॥
य᳘देनᳫँ᳭ संज्ञप᳘यन्ति प्प्राणा᳘य स्वाहा᳘ ऽपाना᳘य स्वा᳘हा व्व्याना᳘य स्वाहे᳘ति संज्ञप्य᳘मान ऽआ᳘हुतीर्ज्जुहोति प्प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति त᳘थो हास्यैते᳘न जी᳘वतैव᳘ पशु᳘नेष्ट᳘म्भवति॥
मूलम् - श्रीधरादि
घ्न᳘न्ति वा᳘ ऽएत᳘त्पशु᳘म्॥
य᳘देनᳫँ᳭ संज्ञप᳘यन्ति प्प्राणा᳘य स्वाहा᳘ ऽपाना᳘य स्वा᳘हा व्व्याना᳘य स्वाहे᳘ति संज्ञप्य᳘मान ऽआ᳘हुतीर्ज्जुहोति प्प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति त᳘थो हास्यैते᳘न जी᳘वतैव᳘ पशु᳘नेष्ट᳘म्भवति॥
मूलम् - Weber
घ्न᳘न्ति वा᳘ एत᳘त्पशु᳘म्॥
य᳘देनᳫं संज्ञप᳘यन्ति प्राणा᳘य स्वाहा᳘पाना᳘य स्वा᳘हा व्याना᳘य स्वाहे᳘ति संज्ञप्य᳘मान आ᳘हुतीर्जुहोति प्राणा᳘नेॗवास्मिन्नेत᳘द्दधाति त᳘थो हास्यैते᳘न जी᳘वतैव᳘ पशु᳘नेष्टं᳘ भवति॥
मूलम् - विस्वरम्
घ्नन्ति वा एतत्पशुं यदेनं संज्ञपयन्ति । “प्राणाय स्वाहा ऽपानाय स्वाहा व्यानाय स्वाहा”- (वा. सं. २३ । १८) इति संज्ञप्यमान आहुतीर्जुहोति । प्राणानेवास्मिन्नेतद्दधाति । तथो हास्यैतेन जीवतैव पशुनेष्टं भवति ॥ २ ॥
हरिस्वामी
घ्नंति वा एतत् पशुं यदेनम् । “संज्ञप्यमाने” इति वचनात् परिपशव्यान्तराल इति प्राप्नोति । सूत्रकारस्तु- “परिपशव्ये हुत्वा प्राणाय स्वाहेति तिस्रो ऽपरां जुहोति” (का. श्रौ. सू २० । १४९) इत्याह । तस्याभिप्रायः- संज्ञप्यमाने इति “वर्तमानसामीप्ये वर्तमानवद्वा” (पा. सू. ३ । ३ । १३१) इत्येव वर्तमानोपदेशो ऽयमिति । कुतः ? “प्राणानेवास्मिन्नेतद्दधाति” इति वाक्यशेषात् । उत्क्रांतानां हि प्राणानां पुनर्विधानं युक्तं, नानुत्क्रांतानामिति ॥ २ ॥
Eggeling
- When they quiet a victim they kill it. Whilst it is being quieted, he (the Adhvaryu) offers (three) oblations 4, with (Vāj. S. XXIII, 18), ‘To the breath hail! to the off-breathing hail! to the through-breathing hail!’ he thereby lays the vital airs into it, and thus offering is made by him with this victim as a living one 5.
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘म्बे ऽअ᳘म्बिके᳘ ऽम्बालिके॥
न᳘ मा नयति क᳘श्चने᳘ति प᳘त्नीरुदा᳘नयत्य᳘ह्वतै᳘वैना ऽएतद᳘थो मे᳘ध्या ऽए᳘वैनाः करोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘म्बे ऽअ᳘म्बिके᳘ ऽम्बालिके॥
न᳘ मा नयति क᳘श्चने᳘ति प᳘त्नीरुदा᳘नयत्य᳘ह्वतै᳘वैना ऽएतद᳘थो मे᳘ध्या ऽए᳘वैनाः करोति॥
मूलम् - Weber
अ᳘म्बे अ᳘म्बिके᳘ऽम्बालिके॥
न᳘ मा नयति क᳘श्चने᳘ति प᳘त्नीरुदा᳘नयत्य᳘ह्वतैॗवैना एतद᳘थो मे᳘ध्या एॗवैनाः करोति॥
मूलम् - विस्वरम्
“अम्बे अम्बिके ऽम्बालिके न मा नयति कश्चन”- (वा. सं. २३ । १८) इति पत्नीरुदानयति । अह्नतैवैना एतत् । अथो मेध्या एवैनाः करोति ॥ ३ ॥
हरिस्वामी
अंबे ऽअंबिके इति । “उदानयति" इति वचनात् उदानकरण एष मंत्रः प्रतिभाति । सूत्रकारस्त्वाह- “वाचयति पत्नीर्न्नयन्नमस्ते ऽम्ब 6 इति”- (का. श्रौ. सू. २० । १५०) तस्याभिप्रायः । इति वाचयन् पत्नीरुदानयतीत्येष श्रुत्यर्थ इति । कुतः ? लिप्सन्तावदेष पत्नीकर्तृकः प्राप्नोति । कथं ? एकैका हि पत्नी इतरास्तिस्र आमंत्र्य शेषाः परिदेवयमाना दृश्यंते । हे अंबे ! हे अंबिके ! हे अंबालिके ! (यूयमपुण्यानीषदोत्वस्य ?) समीपम् । स च पक्षपाती कुत्सितो ऽश्वः । कामपि युष्माकं ससस्ति । सुभद्रिकां सुष्ठु भद्रिकां कांपीलवासिनीमिव सुरूपाम् । न तु मां तत्र कश्चिन्नयतीति सप्तमीत्यर्थः । “वर्तमानसामीप्ये वर्तमानवद्वा”- (पा. सू. ३ । ३ । १३१) इत्यासन्नसेवने द्रष्टव्यः । एषः ससस्ति । “सस्ति स्वप्ने”- (धा. पा. अ. प. ६९) इति धातुः सुप्तिः स्वप्नवचनः सर्वान् लक्षयति । एवं तावत्पत्नीकर्तृकत्वमस्य मंत्रस्य सिद्धम् । अनेनापि तु वाचयतीति वाक्यशेषाद्गम्यते । एवं ह्याह- अह्वत । “ह्वेञ् स्पर्द्धायां शब्दे च”- (धा. पा. भ्वा. उ. १०३३) एवैना एतदिति मेध्यतामुच्चारयतश्च उपपन्नं वाचनम् । अथो मेध्याः मेधार्हा एव एनाः करोति मंत्रेण वाचनेनेत्यभिप्रायः । एतदपि वाचने लिंगम् ॥ ३ ॥
Eggeling
- With, ‘Ambā! Ambikā! Ambālikā 7! there is no one to lead me,’–he leads up the (four)
wives 8: he thereby has called upon them (to come), and, indeed, also renders them sacrificially pure.
०४
विश्वास-प्रस्तुतिः
गणा᳘नां त्वा गण᳘पतिᳫ᳭ हवामह ऽइ᳘ति॥
पत्न्यः[[!!]] प᳘रियन्त्य᳘पह्नुव᳘त ऽए᳘वास्मा ऽएतद᳘तो᳘ न्ये᳘वा ऽस्मै ह्नुवते᳘ ऽथो धुव᳘त ऽए᳘वैनन्त्रिः प᳘रियन्ति त्र᳘यो वा᳘ ऽइमे᳘ लोका᳘ ऽएभि᳘रे᳘वैनं तल्लोकै᳘र्धुवते त्रिः पु᳘नः प᳘रियन्ति षट् स᳘म्पद्यन्ते षड्वा᳘ ऋत᳘व ऽऋतु᳘भिरे᳘वैनन्धुवते॥
मूलम् - श्रीधरादि
गणा᳘नां त्वा गण᳘पतिᳫ᳭ हवामह ऽइ᳘ति॥
पत्न्यः[[!!]] प᳘रियन्त्य᳘पह्नुव᳘त ऽए᳘वास्मा ऽएतद᳘तो᳘ न्ये᳘वा ऽस्मै ह्नुवते᳘ ऽथो धुव᳘त ऽए᳘वैनन्त्रिः प᳘रियन्ति त्र᳘यो वा᳘ ऽइमे᳘ लोका᳘ ऽएभि᳘रे᳘वैनं तल्लोकै᳘र्धुवते त्रिः पु᳘नः प᳘रियन्ति षट् स᳘म्पद्यन्ते षड्वा᳘ ऋत᳘व ऽऋतु᳘भिरे᳘वैनन्धुवते॥
मूलम् - Weber
गणा᳘नां त्वा गण᳘पतिᳫं हवामह इ᳘ति॥
प᳘त्न्यः प᳘रियन्त्यपह्नुव᳘त 9 एॗवास्मा एतद᳘तोॗ न्येॗवास्मै ह्नुवते᳘ऽथो ध्रुव᳘त एॗवैनं त्रिः प᳘रियन्ति त्र᳘यो वा᳘ इमे᳘ लोका᳘ एभि᳘रेॗवैनं लोकै᳘र्धुवते त्रिः पु᳘नः प᳘रियन्ति षट् स᳘म्पद्यन्ते षड्वा᳘ ऋत᳘व ऋतु᳘भिरेॗवैनं धुवते॥
मूलम् - विस्वरम्
गणानां त्वा गणपतिं हवामहे"- (वा. सं. २३ । १९) इति पत्न्यः परियन्ति । अपह्नुवत एवास्मा एतत् । अतो न्येवा ऽस्मै ह्नुवते । अथो धुवत एवैनम् त्रिः परियन्ति । त्रयो वा इमे लोकाः । एभिरेवैनं तल्लोकैर्धुवते । त्रिः पुनः परियन्ति । षट् संपद्यन्ते । षड्वा ऋतवः । ऋतुभिरेवैनं धुवते ॥ ४ ॥
हरिस्वामी
गणानां त्वा गणपतिमिति । अनेन मंत्रेण सकृदेव अर्थात्सर्वाः पत्न्यः अश्वं परिभ्रमंति । अपन्हुवते विस्मरंत्येवास्मै । एतत्प्रदक्षिणावर्तनेन संज्ञपनमुन्नयतीत्यर्थः । अपिवा ऽविस्मृतमपि निह्नुवति क्षमयंति च ऋत्विग्यजमानाः । एतत्संज्ञपने प्रदक्षिणकरणेन । अथो धुवते । “धूञ् विधूनने”- (धा. पा. तु. उ. ११७) धवित्रैरुपवाजयंति एनमश्वं राजानमिव व्यजनैरेतत् । त्रिः पुनः परियन्ति पत्न्यः । प्रियाणां त्वा प्रियमिति । कुतः ? मंत्रक्रमात् ॥ ४ ॥
Eggeling
- With (Vāj. S. XXIII, 19), ‘We call upon thee, the host-leader of (divine) hosts, O my true lord!’ the wives walk round (the horse), and thus make amends to it for that (slaughtering 10): even thereby they (already) make amends to it; but,
indeed, they also fan 11 it. Thrice they walk round 12; for three (in number) are these worlds: by means of these worlds they fan it. Thrice again they walk round 13,–that amounts to six, for there are six seasons: by means of the seasons they fan it.
०५
विश्वास-प्रस्तुतिः
(ते᳘ ऽप) अ᳘प वा᳘ ऽएते᳘भ्यः प्प्राणाः᳘ क्रामन्ति॥
ये᳘ यज्ञे धु᳘वनन्तन्व᳘ते न᳘वकृ᳘त्वः प᳘रियन्ति न᳘व वै᳘ प्प्राणाः᳘ प्प्राणा᳘ने᳘वात्म᳘न्दधते᳘ नैभ्यः प्प्राणा ऽअ᳘पक्रामन्त्याह᳘मजानि[[!!]] गर्भधमा त्व᳘मजासि गर्भधमि᳘ति प्प्रजा वै᳘ पश᳘वो ग᳘र्भः प्प्रजा᳘मेव᳘ पशू᳘नात्मन्धत्ते[[!!]] ता᳘ ऽउभौ᳘ चतु᳘रः पदः᳘ सम्प्र᳘सारयावे᳘ति मिथुनस्या᳘वरुद्ध्यै स्वर्ग्गे᳘ लोके प्प्रो᳘र्ण्णुवाथामि᳘त्येष वै᳘ स्वर्ग्गो᳘ लोको य᳘त्र पशु᳘ᳫँ᳘ संज्ञप᳘यन्ति त᳘स्मादेव᳘माह व्वृ᳘षा व्वाजी᳘ रेतोधा रे᳘तो दधात्वि᳘ति मिथुन᳘स्यैवा᳘वरुद्ध्यै॥
मूलम् - श्रीधरादि
(ते᳘ ऽप) अ᳘प वा᳘ ऽएते᳘भ्यः प्प्राणाः᳘ क्रामन्ति॥
ये᳘ यज्ञे धु᳘वनन्तन्व᳘ते न᳘वकृ᳘त्वः प᳘रियन्ति न᳘व वै᳘ प्प्राणाः᳘ प्प्राणा᳘ने᳘वात्म᳘न्दधते᳘ नैभ्यः प्प्राणा ऽअ᳘पक्रामन्त्याह᳘मजानि[[!!]] गर्भधमा त्व᳘मजासि गर्भधमि᳘ति प्प्रजा वै᳘ पश᳘वो ग᳘र्भः प्प्रजा᳘मेव᳘ पशू᳘नात्मन्धत्ते[[!!]] ता᳘ ऽउभौ᳘ चतु᳘रः पदः᳘ सम्प्र᳘सारयावे᳘ति मिथुनस्या᳘वरुद्ध्यै स्वर्ग्गे᳘ लोके प्प्रो᳘र्ण्णुवाथामि᳘त्येष वै᳘ स्वर्ग्गो᳘ लोको य᳘त्र पशु᳘ᳫँ᳘ संज्ञप᳘यन्ति त᳘स्मादेव᳘माह व्वृ᳘षा व्वाजी᳘ रेतोधा रे᳘तो दधात्वि᳘ति मिथुन᳘स्यैवा᳘वरुद्ध्यै॥
मूलम् - Weber
अ᳘प वा᳘ एते᳘भ्यः प्राणाः᳘ क्रामन्ति॥
ये᳘ यज्ञे धु᳘वनं तन्व᳘ते न᳘व कृ᳘त्वः प᳘रियन्ति न᳘व वै᳘ प्राणाः᳘ प्राणा᳘नेॗवात्म᳘न्दधतेॗ नैभ्यः प्राणा अ᳘पक्रामॗन्त्याह᳘मजानि 14 गर्भधमा त्व᳘मजासि गर्भधमि᳘ति प्रजा वै᳘ पश᳘वो ग᳘र्भः प्रजा᳘मेव᳘ पशू᳘नात्म᳘न्धत्ते ता᳘ उभौ᳘ चतु᳘रः पदः᳘ सम्प्र᳘सारयावे᳘ति मिथुनस्या᳘वरुद्ध्यै स्वर्गे᳘ लोके प्रो᳘र्णुवाथामि᳘त्येष वै᳘ स्वर्गो᳘ लोको य᳘त्र पशु᳘ᳫं᳘ संज्ञप᳘यन्ति त᳘स्मादेव᳘माह वृ᳘षा वाजी᳘ रेतोधा रे᳘तो दधात्वि᳘ति मिथुन᳘स्यैवा᳘वरुद्ध्यै॥
मूलम् - विस्वरम्
अप वा एतेभ्यः प्राणाः क्रामन्ति । ये यज्ञे धुवनं तन्वते । नवकृत्वः परियन्ति । नव वै प्राणाः । प्राणानेवात्मन्दधते । नैभ्यः प्राणा अपक्रामन्ति । “आ ऽहमजानि गर्भधमा त्वमजासि गर्भधम्”- (वा. सं. २३ । १९) इति । प्रजा वै पशवो गर्भः । प्रजामेव पशूनात्मन्धत्ते । “ता उभौ चतुरः पदः संप्रसारयाव”- इति । मिथुनस्यावरुद्ध्यै । “स्वर्गे लोके प्रोर्णुवाथाम्”- इति । एष वै स्वर्गो लोकः । यत्र पशुं संज्ञपयन्ति । तस्मादेवमाह- “वृषा वाजी रेतोधा रेतो दधातु”- (वा. सं. २३ । २०) इति । मिथुनस्यैवावरुद्ध्यै ॥ ५ ॥
हरिस्वामी
अप वा एतेभ्यः । ये यज्ञे धुवनं तन्वते ऋत्विग्यजमानाः । पत्नीप्रयोगद्वारेण तेषामयं दोषः । नवकृत्वः 15 परियन्ति । पत्न्यः पुनरपि त्रिः परियंतीत्यर्थः । नैभ्यः ऋत्विग्यजमानेभ्यः प्राणा अपक्रामंति पत्नीष्वेवं परियंतीषु । आहमजानि गर्भधमिति, महिषी अश्वमुपसंविशति लिंगात् । स्वर्गे लोके प्रोर्णुवाथामिति । एतावपि अधिवासे न संप्रोर्णुवंति यस्मादेष स्वर्गो लोको यत्र पशुं संज्ञपयन्ति तस्मादेवमाह- स्वर्गे लोके प्रोर्णुवाथामिति, वृषा वाजी रेतोधा इति, महिषी अश्वशिश्नमुपस्थे कुरुते ॥ ५ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशकाण्डे द्वितीये ऽध्याये अष्टमं ब्राह्मणम् ॥ १३ । २ । ८ ॥
Eggeling
- But, indeed, the vital airs depart from those who perform the fanning at the sacrifice. Nine times they walk round 16; for there are nine vital airs: vital airs they thus put into their own selves, and the vital airs do not depart from them. ‘I will urge the seed-layer, urge thou the seed-layer!’ (the Mahishī says 17);–seed, doubtless, means offspring and cattle: offspring and cattle she thus secures for herself. [Vāj. S. XXIII, 20,] ‘Let us stretch our feet,’ thus in order to secure union. ‘In heaven ye envelop yourselves’ (the Adhvaryu says),–for that is, indeed, heaven where they immolate the victim: therefore he
speaks thus.–‘May the vigorous male, the layer of seed, lay seed!’ she says in order to secure union.
-
“हिरण्यवासो ऽधिवासेष्वश्वसंज्ञपनम्" (हिरण्यस्याभ्यर्हितत्वात्सूत्रे पूर्वमुच्चारणमिति देवयाह्निकभाष्ये । अतः श्रुत्युक्तः क्रमः) का. श्रौ. सू. २० । १४८ ॥ ↩︎
-
320:1 The ‘iti’ seems superfluous; Harisvāmin explains it by ’etat trayam.’ For a similar use of the particle, see XIII, 2, 2, 1. ↩︎
-
320:2 That is, they spread them on the ground for the horse to lie upon. Differently St. Petersb. Dict., ’they spread over the horse;’ but see Kāty. XX, 6, 10 comm.; and Harisvāmin:–vāso yad antardhānāyālam, adhivāso yad ācchādanāyālam, tac ca vāsasa upari staraṇīyaṁ, tayor upari hiraṇyaṁ nidheyam, tasmiṁs traye enam adhi upari saṁjñapayanti;–and he then remarks that these three objects here do not take the place of the stalk of grass which, in the ordinary animal sacrifice, is thrown on the place where the victim is to be killed and cut up (III, 8, 1, 14; Kāty. VI, 5, 15-16), but that the stalk is likewise put down on this occasion. Similarly the comm. on Kātyāyana, where it is stated that the stalk of grass (or straw) is first laid down, and then the others thereon. Indeed, as was the case in regard to the stalk of grass–representing the barhis, or layer of sacrificial grass on the vedi–so here the fourfold underlayer is intended to prevent any part of the sacrificial material (havis)–the victim in this case–from being spilt. The upper garment (or cloth) must be sufficiently large to allow its being afterwards turned up so as to cover the horse and the queen consort. ↩︎
-
321:1 Prior to these, however, he offers the two ‘Paripaśavya,’ i.e. ‘oblations relating to the victim,’–or, perhaps, ‘oblations performed in connection with the carrying of fire round the victim,’ for this last ceremony is performed for all the victims (whereupon the wild beasts placed between the stakes are let loose) before the killing of the horse. See III, 8, 1, 6-16. ↩︎
-
321:2 For the symbolic import of this, see III, 8, 2, 4. ↩︎
-
पत्नीरिति बहुवचनात् सर्वाः पत्नीरिति, अत्रैव सूत्रे देवयाज्ञिकः । अत्रैव सूत्रे कर्कदेवयाज्ञिकौ । “पान्नेजनहस्तां वाचयति नयन्नमस्त आतानेति” का. श्रौ. सू. ६ । ७ । १ । इति प्राकृतवैकृतमंत्रयोर्वाचने समुच्चय इति । ↩︎
-
321:3 These are just three variants used in addressing a mother (Mutter, Mütterchen, Mütterlein), or, indeed, as here, any woman (good lady! good woman!. Acc. to Kāty. XX, 6, 12, this is the formula which the assistant priest (the Neshṭr̥, or, according to others, the Pratiprasthātr̥, cf. Kāty. VI, 5, 27-28) makes the king’s wives say whilst leading them up to the slain horse to cleanse it. It is, moreover, to be preceded by the formula used, at this juncture, at the ordinary animal sacrifice, viz. ‘Homage be to thee, O wide-stretched one, advance unresisted unto the rivers of ghee, along the paths of sacred truth! Ye divine, pure waters, carry ye (the sacrifice) to the gods, well-prepared! may ye be well-prepared preparers!’ (III, 8, 2, 2-3). The words ‘Ambā!’ &c. are, according to Mahīdhara, addressed by the women to one another. The latter part of the formula as given in the Vāj . Saṁh. (viz. ’the horse sleeps near Subhadrikā, dwelling in Kāmpīla’) is apparently rejected (? as antiquated, or inauspicious) by the author of the Brāhmaṇa. The ceremony of lying near the dead horse being looked upon as assuring fertility to a woman, the formula used here is also doubtless meant to express an eagerness on the part of the women to be led to the slaughtered horse, representing the lord of creatures, Prajāpati. On this passage compare the remarks of Professor Weber (Ind. Stud. I, p. 183), who takes the formula to be spoken by the queen consort to her three fellow-wives; and who also translates the words ’na mā nayati kaś cana’ (nobody leads me) by ’nobody shall lead me (by force to the horse; but if I do not go) the (wicked) horse will lie near (another woman such as) the (wicked) Subadhrā living in Kāmpīla.’–Harisvāmin’s commentary on this passage is rather corrupt, but he seems at all events to assume that each of the four wives apostrophizes the others with the above formula (probably substituting their real names for the words ‘ambā,’ &c.):–lepsam (? lipsāṁ) tāvad esha patnīvaktrakaḥ (? patnīvakirataḥ) prāpnoti, katham, ekaikā hi patnī itarās tisra āmantrya śeshāḥ paridevayamānā dr̥śyate, he ambe he ambike he ambālike yūyam apuṇyā nīshpādotv asya (?) samīpaṁ, sa ca pakshapātī kutsitosvako mayi yushmākaṁ sasasti meva (!) subhadrikāṁ kāmpīlavāsinīm ida (? iha) surūpāṁ na tu māṁ kaścit tatra nayatīti; sasastīty eva vartamānasāmīpye vartamānavad (Pāṇ. III, 3, 131) ity āsannasevane drashṭavyaḥ.–This barbarous ceremony was evidently an old indigenous custom too firmly established in popular practice to be easily excluded from the sacrificial ritual. That it had nothing to do with Vedic religion and was distasteful to the author of the Brāhmaṇa is evident from the brief way in which he refers to it, and from the far-fetched symbolic explanations attached to the formulas and discourses. ↩︎
-
322:1 Viz. from their ordinary place near the Gārhapatya he leads them whilst holding jars of water in their hands. ↩︎
-
प᳘रियन्त्य᳘प ह्नुव᳘त A. P. ↩︎
-
322:2 Apahnuvate vismaranty evāsmai etat pradakshiṇāvartanena saṁjñapanam unnayanti, comm. ↩︎
-
323:1 Thus Harisvāmin:–dhuvate dhūnane(na) upavājayanti, evam aśvaṁ rājānam iva vyajanair etat,–’they shake themselves,’ St. Petersb. Dict.; and, indeed, it is doubtless by the flutter of the garments produced in walking round first one way and then another, that the fanning is supposed to be produced. ↩︎
-
323:2 Viz. in sunwise fashion (pradakshiṇā), that is so as to keep the object circumambulated on one’s right side. ↩︎
-
323:3 Viz. in the opposite, the ‘apradakshiṇaṁ’ way, as is done in the sacrifice to the departed ancestors. They do so with the text, ‘We call upon thee, the dear Lord of the dear ones, O my true lord!’ ↩︎
-
अ᳘पक्रामन्त्याह᳘मजानि A. P. ↩︎
-
अश्वं त्रिस्त्रिः परियंति पितृवन्मध्ये गणानां प्रियाणां निर्धानामिति । (का. श्रौ. सू. २० । ६ । १३) अत्र कर्कः- गणानां त्वेति त्रिः प्रदक्षिणं, प्रियाणामिति त्रिरप्रदक्षिणं, निधीनां त्वेति च त्रिः प्रदक्षिणं, वसो ममेति च सर्वत्रानुषंगः, तुल्ययोगादिति । सर्वाः पात्रेजनहस्ता एवेति देवयाज्ञिकः ॥ ↩︎
-
323:4 Viz. another three times in the sunwise way. Having completed their circumambulation, the king’s wives cleanse the horse’s apertures of the vital airs (mouth, nostrils, eyes, &c.), as the Sacrificer’s wife did at the ordinary animal sacrifice (III, 8, 2, 4), which they do with the text, ‘We call upon thee, the treasure-lord of treasures, O my true lord!’ ↩︎
-
323:5 Cf. III, 5, 2, 1 seqq. ↩︎