०१
विश्वास-प्रस्तुतिः
नि᳘युक्तेषु पशु᳘षु॥
प्रो᳘क्षणीरध्वर्य्यु᳘रा᳘दत्ते᳘ ऽश्वं प्रो᳘क्षिष्य᳘न्नन्वा᳘रब्धे य᳘जमान ऽआ᳘ध्वरिकं य᳘जुरनुद्रुत्या᳘श्वमेधिकं य᳘जुः प्र᳘तिपद्यते॥
मूलम् - श्रीधरादि
नि᳘युक्तेषु पशु᳘षु॥
प्रो᳘क्षणीरध्वर्य्यु᳘रा᳘दत्ते᳘ ऽश्वं प्रो᳘क्षिष्य᳘न्नन्वा᳘रब्धे य᳘जमान ऽआ᳘ध्वरिकं य᳘जुरनुद्रुत्या᳘श्वमेधिकं य᳘जुः प्र᳘तिपद्यते॥
मूलम् - Weber
नि᳘युक्तेषु पशु᳘षु॥
प्रो᳘क्षणीरध्वर्युरा᳘दत्ते᳘ऽश्वम् प्रोक्षिष्य᳘न्नन्वारब्धे य᳘जमान आ᳘ध्वरिकं य᳘जुरनुद्रुत्या᳘श्वमेधिकं य᳘जुः प्र᳘तिपद्यते॥
मूलम् - विस्वरम्
नियुक्तेषु पशुषु प्रोक्षणीरध्वर्युरादत्ते । अश्वं प्रोक्षिष्यन्नन्वारब्धे यजमान आध्वरिकं यजुरनुद्रुत्याश्वमेधिकं यजुः प्रतिपद्यते ॥ १ ॥
हरिस्वामी
नियुक्तेषु पशुषु । अन्वारब्धे यजमाने । आध्वरिकं प्रोक्षणयजुः 1 “अद्भ्यस्त्वौषधीभ्यः” इत्येतत् (वा. सं. ६ । ९) अनुद्रुत्योच्चार्य । “वायुष्ट्वा” इत्येतदारभ्यते । यजुरिति चैकवचनाच्चतस्रो ऽप्येता मंत्रकंडिकाः (वा. सं. २३ । १३-१६) एकं वाक्यमिति दर्शयति- वायुष्ट्वेति । वायुरेवैनमश्वं पचति अग्निमुपोद्बलयति इति ब्रुवत्पाकैर्वायुस्तावन्नित्ये तमर्थं दर्शयति । अग्निर्वै कृष्णग्रीवः, धूममिश्रत्वात् । स च एनं छागैः सह पचति ॥ १ ॥ २ ॥
Eggeling
- When the victims have been bound (to the stakes), the Adhvaryu takes the sprinkling-water in order to sprinkle the horse. Whilst the Sacrificer holds on to him behind, he (in sprinkling the horse) runs rapidly through the formula used at the Soma-sacrifice 2, and then commences the one for the Aśvamedha.
०२
विश्वास-प्रस्तुतिः
व्वायु᳘ष्ट्वा पचतै᳘रवत्वि᳘ति॥
व्वायु᳘रे᳘वैनं पचत्य᳘सितग्ग्रीवश्छा᳘गैरि᳘त्यग्निर्व्वा ऽअ᳘सितग्ग्रीवो ऽग्नि᳘रे᳘वैनञ्छा᳘गैः पचति॥
मूलम् - श्रीधरादि
व्वायु᳘ष्ट्वा पचतै᳘रवत्वि᳘ति॥
व्वायु᳘रे᳘वैनं पचत्य᳘सितग्ग्रीवश्छा᳘गैरि᳘त्यग्निर्व्वा ऽअ᳘सितग्ग्रीवो ऽग्नि᳘रे᳘वैनञ्छा᳘गैः पचति॥
मूलम् - Weber
वायु᳘ष्ट्वा पचतै᳘रवत्वि᳘ति॥
वायु᳘रेॗवैनम् पचत्य᳘सितग्रीवश्छा᳘गैरि᳘त्यग्निर्वा अ᳘सितग्रीवोऽग्नि᳘रेॗवैनं छा᳘गैः पचति॥
मूलम् - विस्वरम्
“वायुष्ट्वा पचतैरवतु”- इति । वायुरेवैनं पचति । “असितग्रीवश्छागैः”- इति । अग्निर्वा असितग्रीवः । अग्निरेवैनं छागैः पचति ॥ २ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- [Vāj. S. XXIII, 13,] ‘May Vāyu favour thee with cooked kinds of food 3,’–Vāyu (the wind) indeed cooks it 4;–’the dark-necked one with he-goats,’–the dark-necked one, doubtless,
is Agni (the fire); and the fire indeed cooks it (the horse) together with the he-goats.
०३
विश्वास-प्रस्तुतिः
न्यग्ग्रो᳘धश्चमसैरि᳘ति॥
य᳘त्र वै᳘ देवा᳘ यज्ञेना᳘यजन्त त᳘ ऽएतां᳘श्चमसा᳘न्न्यौब्जंस्ते᳘ न्यञ्चो ऽरोहंस्त᳘स्मा᳘न्न्यञ्चो न्यग्ग्रो᳘धा रोहन्ति॥
मूलम् - श्रीधरादि
न्यग्ग्रो᳘धश्चमसैरि᳘ति॥
य᳘त्र वै᳘ देवा᳘ यज्ञेना᳘यजन्त त᳘ ऽएतां᳘श्चमसा᳘न्न्यौब्जंस्ते᳘ न्यञ्चो ऽरोहंस्त᳘स्मा᳘न्न्यञ्चो न्यग्ग्रो᳘धा रोहन्ति॥
मूलम् - Weber
न्यग्रो᳘धश्चमसैरि᳘ति॥
य᳘त्र वै᳘ देवा᳘ यज्ञेना᳘यजन्त त᳘ एतां᳘श्चमसाॗन्न्यौब्जंस्ते न्य᳘ञ्चो न्यग्रो᳘धा रोहन्ति॥
मूलम् - विस्वरम्
“न्यग्रोधश्चमसैः"- इति । यत्र वै देवा यज्ञेनायजंत । त एतांश्चमसान्न्यौब्जन् । ते न्यंचो ऽरोहन् । तस्मान्न्यंचो न्यग्रोधा रोहन्ति ॥ ३ ॥
हरिस्वामी
‘न्यग्रोधश्चमसैः’ । न्यग्रोधः स्वकीयैश्चमसैः सोमांगभूतैश्चावत्विति मंत्रार्थः प्रसिद्ध एवेति न व्याख्यातः । चरकाणां हि नैयग्रोधाश्चमसाः पच्यंते तेषु च सत्सु अश्वं आलभते नासत्स्विति । तानुपपादयन् न्यग्रोधाश्वमुपाकरोति । चमसभवत्वं न्यग्रोधस्याह । कथं नाम देवचमसप्रकृतिकन्यग्रोधविकाराश्चमसा मंस्यते । न्यौब्जन् । “उब्ज आर्जवे”- (धा. पा. तु. प. २३) अधोमुखांश्चक्रुरित्यर्थः ॥ ३ ॥
Eggeling
- ‘The Nyagrodha with cups,’–for when the gods were performing sacrifice, they tilted over those Soma-cups, and, turned downwards, they took root, whence the Nyagrodhas (ficus indica), when turned downwards (nyac), take root (roha 5).
०४
विश्वास-प्रस्तुतिः
शल्मलिर्व्वृध्ये᳘ति॥
शल्मलौ व्वृ᳘द्धिन्दधाति त᳘स्माच्छल्मलिर्व्व᳘नस्प᳘तीनां व्व᳘र्षिष्ठं व्वर्द्धते॥
मूलम् - श्रीधरादि
शल्मलिर्व्वृध्ये᳘ति॥
शल्मलौ व्वृ᳘द्धिन्दधाति त᳘स्माच्छल्मलिर्व्व᳘नस्प᳘तीनां व्व᳘र्षिष्ठं व्वर्द्धते॥
मूलम् - Weber
शल्मलिर्वृद्ध्ये᳘ति॥
शल्मलौ वृ᳘द्धिं दधाति त᳘स्माछल्मलिर्व᳘नस्प᳘तीनां व᳘र्षिष्थं वर्धते॥
मूलम् - विस्वरम्
“शल्मलिर्व्वृध्या”- इति । शल्मलौ वृद्धिं दधाति । तस्माच्छलमलिर्वनस्पतीनां वर्षिष्ठं वर्द्धते ॥ ४ ॥
हरिस्वामी
शल्मलिः । शल्मलिरुपमानभूतः 6 । वृध्या त्वां चतुःसंस्करोति । शाल्मलिरिव कायतो वर्द्धस्वेति मंत्रार्थः । नाप उद्वृद्धे शल्मलिमुपाददानः शल्मलौ वृद्धिं दधातीति गम्यते । नानार्थकार्यवचनम् ॥ ४ ॥
Eggeling
- ‘The cotton-tree with growth,’–he confers growth on the cotton-tree (salmalia malabarica), whence the cotton-tree grows largest amongst trees 7.
०५
विश्वास-प्रस्तुतिः
(त ऽए) एष स्य᳘ राथ्यो व्वृषे᳘ति॥
(त्य᳘) अ᳘श्वेनैव र᳘थᳫँ᳭ स᳘म्पादयति त᳘स्माद᳘श्वो᳘ नान्यद्र᳘थाद्वहति॥
मूलम् - श्रीधरादि
(त ऽए) एष स्य᳘ राथ्यो व्वृषे᳘ति॥
(त्य᳘) अ᳘श्वेनैव र᳘थᳫँ᳭ स᳘म्पादयति त᳘स्माद᳘श्वो᳘ नान्यद्र᳘थाद्वहति॥
मूलम् - Weber
एष स्य᳘ राथ्यो वृषे᳘ति॥
अ᳘श्वेनैव र᳘थᳫं स᳘म्पादयति त᳘स्माद᳘श्वोॗ नान्यद्रथाद्वहति॥
मूलम् - विस्वरम्
“एष स्य राथ्यो वृषा”- इति । अश्वेनैव रथं संपादयति । तस्मादश्वो नान्यद्रथाद्वहति ॥ ५ ॥
हरिस्वामी
एष स्य राथ्यः । रथे साधुः रथाय हितः राथ्य इत्युक्तेः श्वेतरथस्य संपत्तिर्गम्यते ॥ ५ ॥
Eggeling
- ‘This male, fit for the chariot,’–he supplies the chariot with a horse, whence the horse draws nothing else than a chariot.
०६
विश्वास-प्रस्तुतिः
षड्भि᳘श्चतुर्भिरे᳘दगन्नि᳘ति[[!!]]॥
त᳘स्माद᳘श्वस्त्रिभिस्ति᳘ष्ठंस्तिष्ठत्य᳘थ युक्तः स᳘र्वैः पद्भिः᳘ सममा᳘युते॥
मूलम् - श्रीधरादि
षड्भि᳘श्चतुर्भिरे᳘दगन्नि᳘ति[[!!]]॥
त᳘स्माद᳘श्वस्त्रिभिस्ति᳘ष्ठंस्तिष्ठत्य᳘थ युक्तः स᳘र्वैः पद्भिः᳘ सममा᳘युते॥
मूलम् - Weber
षड्भि᳘श्चतु᳘र्भिरे᳘दगन्नि᳘ति॥
त᳘स्माद᳘श्वस्त्रिभिस्ति᳘ष्ठंस्तिष्ठत्य᳘थ युक्तः स᳘र्वैः पद्भिः᳘ 8 सममा᳘युते॥
मूलम् - विस्वरम्
“पद्भिश्चतुर्भिरेदगन्- इति । तस्मादश्वस्त्रिभिस्तिष्ठंस्तिष्ठति । अथ युक्तः सर्वैः पद्भिः सममायुते ॥ ६ ॥
हरिस्वामी
आयुते आगच्छति ॥ ६ ॥ ७ ॥
Eggeling
- ‘Hath come hither on his four feet,’–therefore the horse, when standing, stands on three feet, but, when harnessed, it pulls with all its feet at one and the same time.
०७
विश्वास-प्रस्तुतिः
ब्र᳘ह्मा ऽकृष्णश्च[[!!]] नो ऽवत्वि᳘ति॥
चन्द्र᳘मा वै᳘ ब्रह्मा᳘ ऽकृष्णश्चन्द्रम᳘स ऽए᳘वैनम्प᳘रिददाति न᳘मो ऽग्न᳘य ऽइ᳘त्यग्न᳘य ऽएव न᳘मस्करोति॥
मूलम् - श्रीधरादि
ब्र᳘ह्मा ऽकृष्णश्च[[!!]] नो ऽवत्वि᳘ति॥
चन्द्र᳘मा वै᳘ ब्रह्मा᳘ ऽकृष्णश्चन्द्रम᳘स ऽए᳘वैनम्प᳘रिददाति न᳘मो ऽग्न᳘य ऽइ᳘त्यग्न᳘य ऽएव न᳘मस्करोति॥
मूलम् - Weber
ब्रह्मा᳘कृष्णश्च नोऽवत्वि᳘ति॥
चन्द्र᳘मा वै᳘ ब्रह्मा᳘कृष्णश्चन्द्रम᳘स एॗवैनम् प᳘रिददाति न᳘मोऽग्न᳘य इ᳘त्यग्न᳘य एव न᳘मस्करोति॥
मूलम् - विस्वरम्
“ब्रह्मा ऽकृष्णश्च नो ऽवतु”- इति । चन्द्रमा वै ब्रह्मा ऽकृष्णः । चन्द्रमस एवैनं परिददाति । “नमो ऽग्नये”- (वा. सं. २३ । १३) इति । अग्नय एव नमस्करोति ॥ ७ ॥
हरिस्वामी
[व्याख्यानं षष्ठे]
Eggeling
- ‘May the spotless Brahman protect us!’–the spotless 9 Brahman (m.), doubtless, is the moon:
to the moon he thus commits it;–‘Reverence to Agni!’–to Agni he thus makes reverence.
०८
विश्वास-प्रस्तुतिः
स᳘ᳫँ᳘शितो रश्मि᳘ना र᳘थ ऽइ᳘ति॥ रश्मि᳘नैव र᳘थᳫँ᳭ स᳘म्पादयति त᳘स्माद्र᳘थः प᳘र्य्युतो दर्शनी᳘यतमो भवति॥
मूलम् - श्रीधरादि
स᳘ᳫँ᳘शितो रश्मि᳘ना र᳘थ ऽइ᳘ति॥ रश्मि᳘नैव र᳘थᳫँ᳭ स᳘म्पादयति त᳘स्माद्र᳘थः प᳘र्य्युतो दर्शनी᳘यतमो भवति॥
मूलम् - Weber
सं᳘शितो रश्मि᳘ना र᳘थ इ᳘ति रश्मि᳘नैव र᳘थᳫं स᳘म्पादयति त᳘स्माद्र᳘थः प᳘र्युतो दर्शनी᳘यतमो भवति॥
मूलम् - विस्वरम्
“संशितो रश्मिना रथः”- इति । रश्मिनैव रथं संपादयति । तस्माद्रथः पर्युतो दर्शनीयतमो भवति ॥ ८ ॥
हरिस्वामी
पर्युतः परिवेष्टितः रज्जुभिः परितः प्रतिकृतः । प्रति…… ॥ ८ ॥ ९॥
Eggeling
०९
विश्वास-प्रस्तुतिः
स᳘ᳫँ᳘शितो रश्मि᳘ना ह᳘य ऽइ᳘ति॥
रश्मि᳘नैवा᳘श्वᳫँ᳭ स᳘म्पादयति त᳘स्माद᳘श्वो रश्मि᳘ना प्प्र᳘तिहृतो भू᳘यिष्ठᳫँ᳭ रोचते॥
मूलम् - श्रीधरादि
स᳘ᳫँ᳘शितो रश्मि᳘ना ह᳘य ऽइ᳘ति॥
रश्मि᳘नैवा᳘श्वᳫँ᳭ स᳘म्पादयति त᳘स्माद᳘श्वो रश्मि᳘ना प्प्र᳘तिहृतो भू᳘यिष्ठᳫँ᳭ रोचते॥
मूलम् - Weber
सं᳘शितो रश्मि᳘ना ह᳘य इ᳘ति॥
रश्मि᳘नैवा᳘श्वᳫं स᳘म्पादयति त᳘स्माद᳘श्वो रश्मि᳘ना प्र᳘तिहृतो भू᳘यिष्ठं रोचते॥
मूलम् - विस्वरम्
“संशितो रश्मिना हयः”- इति । रश्मिनैवाश्वं संपादयति । तस्मादश्वो रश्मिना प्रतिहृतो भूयिष्ठं रोचते ॥ ९ ॥
हरिस्वामी
[व्याख्यानं अष्टमे]
Eggeling
- ‘Trimmed up is the steed with the rein,’–with the rein one indeed completes the horse, whence the horse, when curbed by the rein, looks most beautiful.
१०
विश्वास-प्रस्तुतिः
स᳘ᳫँ᳘शितो ऽअप्स्वप्सुजा ऽइ᳘ति[[!!]]॥
(त्य) अ᳘प्सुयोनिर्व्वा ऽअ᳘श्वः[[!!]] स्व᳘यै᳘वैनं यो᳘न्या स᳘मर्द्धयति ब्रह्मा सो᳘मपुरोगव ऽइ᳘ति सो᳘मपुरोगवमे᳘वैनᳫँ᳭ स्वर्गं᳘ लोक᳘ङ्गमयति॥
मूलम् - श्रीधरादि
स᳘ᳫँ᳘शितो ऽअप्स्वप्सुजा ऽइ᳘ति[[!!]]॥
(त्य) अ᳘प्सुयोनिर्व्वा ऽअ᳘श्वः[[!!]] स्व᳘यै᳘वैनं यो᳘न्या स᳘मर्द्धयति ब्रह्मा सो᳘मपुरोगव ऽइ᳘ति सो᳘मपुरोगवमे᳘वैनᳫँ᳭ स्वर्गं᳘ लोक᳘ङ्गमयति॥
मूलम् - Weber
सं᳘शितो अप्स्व᳘प्सुजा इ᳘ति॥
अप्सु᳘योनिर्वा अ᳘श्वः स्व᳘यैॗवैनं यो᳘न्या स᳘मर्धयति ब्रह्मा सो᳘मपुरोगव इ᳘ति सो᳘मपुरोगवमेॗवैनᳫं 12 स्वर्गं᳘ लोकं᳘ गमयति॥
मूलम् - विस्वरम्
“संशितो अप्स्वप्सुजाः”- इति । अप्सुयोनिर्वा अश्वः । स्वयैवैनं योन्या समर्द्धयति । “ब्रह्मा सोमपुरोगवः”- इति । सोमपुरोगवमेवैनं स्वर्गं लोकं गमयति ॥ १० ॥
हरिस्वामी
सोमपुरोगवम् । पूर्वं सोमः प्रदीयते पश्चादश्व इत्येतदभिप्रायमेतत् ॥ १० ॥
Eggeling
- ‘Trimmed up in the waters was the water-born,’–the horse, indeed, has sprung from the womb of the waters 13: with its own (mother’s) womb he thus supplies it;–‘Brahman (m.), with Soma for his leader,’–he thus makes it go to heaven with Soma for its leader.
११
विश्वास-प्रस्तुतिः
स्वय᳘म्वाजिंस्त᳘न्वं[[!!]] कल्पयस्वे᳘ति॥
स्वय᳘ᳫँ᳘ रूपं᳘ कुरुष्व यादृ᳘शमिच्छसी᳘त्ये᳘वैनं त᳘दाह स्वयं᳘ यजस्वे᳘ति स्वा᳘राज्यमे᳘वास्मिन्दधाति स्वयं᳘ जुषस्वे᳘ति स्वयं᳘ लोक᳘ᳫँ᳘ रोचयस्व या᳘वन्तमिच्छसी᳘त्ये᳘वैनन्त᳘दाह महिमा᳘ ते ऽन्ये᳘न न᳘ सन्न᳘श ऽइत्य᳘श्वमेव᳘ महिम्ना स᳘मर्द्धयति॥
मूलम् - श्रीधरादि
स्वय᳘म्वाजिंस्त᳘न्वं[[!!]] कल्पयस्वे᳘ति॥
स्वय᳘ᳫँ᳘ रूपं᳘ कुरुष्व यादृ᳘शमिच्छसी᳘त्ये᳘वैनं त᳘दाह स्वयं᳘ यजस्वे᳘ति स्वा᳘राज्यमे᳘वास्मिन्दधाति स्वयं᳘ जुषस्वे᳘ति स्वयं᳘ लोक᳘ᳫँ᳘ रोचयस्व या᳘वन्तमिच्छसी᳘त्ये᳘वैनन्त᳘दाह महिमा᳘ ते ऽन्ये᳘न न᳘ सन्न᳘श ऽइत्य᳘श्वमेव᳘ महिम्ना स᳘मर्द्धयति॥
मूलम् - Weber
स्वयं᳘ वाजिंस्तन्वं᳘ कल्पयस्वे᳘ति॥
स्वयं᳘ रूपं᳘ कुरुष्व यादृशमिछसी᳘त्येॗवैनं त᳘दाह स्वयं᳘ यजस्वे᳘ति स्वा᳘राज्यमेॗवास्मिन्दधाति स्वयं᳘ जुषस्वे᳘ति स्वयं᳘ लोकं᳘ रोचयस्व या᳘वन्तमिछसी᳘त्येॗवैनं त᳘दाह महिमा᳘ तेऽन्ये᳘न न᳘ संन᳘श इत्य᳘श्वमेव᳘ महिम्ना स᳘मर्धयति॥
मूलम् - विस्वरम्
“स्वयं वाजिंस्तन्वं कल्पयस्व”- इति । स्वयं रूपं कुरुष्व यादृशमिच्छसीत्येवैनं तदाह- “स्वयं यजस्व”- इति । स्वाराज्यमेवास्मिन्दधाति । “स्वयं जुषस्व”- इति । स्वयं लोकं रोचयस्व । यावन्तमिच्छतीत्येवैनं तदाह- “महिमा ते ऽन्येन न सन्नशे- (वा. सं. २३ । १५) इति । अश्वमेव महिम्ना समर्द्धयति ॥ ११ ॥
हरिस्वामी
स्वयं वाजिंस्तन्वम् यजस्व यजिर्दानकर्मा । यः स्वयं ददाति स्वशरीरादि चेत्यभिप्रायः । “महिमा ते ऽन्येन न सन्नशे” इति ब्रुवन् अश्वमेव केवलं महिम्ना समर्द्धयति ॥ ११ ॥
Eggeling
- [Vāj. S. XXIII, 15,1 ‘Thyself, fit out thy body, O racer,’–‘Take thyself the form which thou wishest,’ he thereby says to him;–‘make offering thyself,’–sovereign rule (independence) he thereby confers on it;–‘rejoice thou thyself,’–’enjoy (rule) thou thyself the world as far as thou wishest,’ he thereby says to him;–’thy glory is not to be equalled by any one!’–with glory he thereby endows the horse.
१२
विश्वास-प्रस्तुतिः
न वा᳘ ऽउ ऽएत᳘न्म्रियसे न᳘ रिष्यसी᳘ति॥
प्प्र᳘श्वासयत्ये᳘वैनन्त᳘द्देवाँ २॥ ऽइ᳘देषि पथि᳘भिः[[!!]] सुगे᳘भिरि᳘ति देवया᳘नाने᳘वैनम्पथो᳘ दर्शयति यत्रा᳘सते सुकृ᳘तो य᳘त्र ते᳘ ययुरि᳘ति सुकृ᳘द्भिरे᳘वैनᳫँ᳭ स᳘लोकङ्करोति त᳘त्र त्वा देवः᳘ सविता᳘ दधात्वि᳘ति सवि᳘तै᳘वैनᳫँ᳭ स्वर्गे᳘ लोके᳘ दधाति प्प्रजा᳘पतये त्वा जु᳘ष्टम्प्रो᳘क्षामी᳘त्युपाᳫँ᳭श्वथो᳘पगृह्णाति॥
मूलम् - श्रीधरादि
न वा᳘ ऽउ ऽएत᳘न्म्रियसे न᳘ रिष्यसी᳘ति॥
प्प्र᳘श्वासयत्ये᳘वैनन्त᳘द्देवाँ २॥ ऽइ᳘देषि पथि᳘भिः[[!!]] सुगे᳘भिरि᳘ति देवया᳘नाने᳘वैनम्पथो᳘ दर्शयति यत्रा᳘सते सुकृ᳘तो य᳘त्र ते᳘ ययुरि᳘ति सुकृ᳘द्भिरे᳘वैनᳫँ᳭ स᳘लोकङ्करोति त᳘त्र त्वा देवः᳘ सविता᳘ दधात्वि᳘ति सवि᳘तै᳘वैनᳫँ᳭ स्वर्गे᳘ लोके᳘ दधाति प्प्रजा᳘पतये त्वा जु᳘ष्टम्प्रो᳘क्षामी᳘त्युपाᳫँ᳭श्वथो᳘पगृह्णाति॥
मूलम् - Weber
न वा᳘ उ एत᳘न्म्रियसे न᳘ रिष्यसी᳘ति॥
प्र᳘श्वासयत्येॗवैनं त᳘द्देवां 14 इ᳘देषि पथिभिः᳘ सुगे᳘भिरि᳘ति देवया᳘नानेॗवैनम् पथो᳘ दर्शयति यत्रा᳘सते सुकृ᳘तो य᳘त्र ते᳘ ययुरि᳘ति सुकृ᳘द्भिरेॗवैनᳫं स᳘लोकं करोति त᳘त्र त्वा देवः᳘ सविता᳘ दधात्वि᳘ति सविॗतैॗवैनᳫं स्वर्गे᳘ लोके᳘ दधाति प्रजा᳘पतये त्वा जु᳘ष्टम् प्रो᳘क्षामी᳘त्युपांश्वथो᳘पगृह्णाति॥
मूलम् - विस्वरम्
न वा उ एतन्म्रियसे न रिष्यसि”- इति । प्रश्वासयत्येवैनं तत् । “देवाँ २ इदेषि पथिभिः सुगेभिः”- इति । देवयानानेवैनं पथो दर्शयति । “यत्रासते सुकृतो यत्र ते ययुः”- इति । सुकृद्भिरेवैनं सलोकं करोति । “तत्र त्वा देवः सविता दधातु”- (वा. सं. २३ । १६) इति । सवितैवैनं स्वर्गे लोके दधाति । “प्रजापतये त्वा जुष्टं प्रोक्षामि”- इत्युपांशु । अथोपगृह्णाति ॥ १२ ॥
हरिस्वामी
प्रजापतये त्वा जुष्टं प्रोक्षामीति । एनं देवतादेशमस्मिन् कुरुते । उपांशु ब्रूयात् । क्रमार्थं चेदं वचनं अप्राप्तत्वात् । आध्वरिकत्वाद्धि पूर्वमेवायं देवतादेशः प्राप्नुयात् । उपांशुत्वं तु सर्वेषां यजुषां सिद्धमनूच्यते । अथोपगृह्णाति 15 । आध्वरिकं यजुरनुद्रुत्येति वर्तते । “आध्वरिकमपां पेरुः" (वा. सं. ६ । १०) इत्युक्त्वा । अग्निः पशुरिति (वा. सं. २३ । १७ ।) आश्वमेधिकैरुपगृह्णाति ॥ १२ ॥
Eggeling
- [Vāj: S. XXIII, 16 16,] ‘Thou shalt not die
here, neither suffer harm,’–he thereby cheers it;–‘on easy paths thou goest to the gods,’–he thereby shows him the paths leading to the gods;–‘where dwell the pious, whither they have gone,’–he thereby makes it one who shares the same world with the pious;–’thither the god Savitr̥ shall lead thee,’–it is, indeed, Savitr̥ that leads him to the heavenly world.–Whilst whispering 17 ‘I sprinkle thee, acceptable unto Prajāpati,’ he then holds (the sprinkling water) under (its mouth).
१३
विश्वास-प्रस्तुतिः
(त्य) अग्निः᳘ पशु᳘रासीत्॥
(त्ते᳘) ते᳘नायजन्त स᳘ ऽएतं᳘ लोक᳘मजयद्य᳘स्मिन्नग्निः स᳘ ते लोको᳘ भविष्यति त᳘ञ्जेष्यसि पि᳘बैता᳘ ऽअप ऽइ᳘ति या᳘वानग्ने᳘र्व्विजयो या᳘वांल्लोको या᳘वदै᳘श्वर्य्यं ता᳘वांस्ते व्विजयस्ता᳘वांल्लोकस्ता᳘वदै᳘श्वर्य्यम्भविष्यती᳘त्ये᳘वैनन्त᳘दाह॥
मूलम् - श्रीधरादि
(त्य) अग्निः᳘ पशु᳘रासीत्॥
(त्ते᳘) ते᳘नायजन्त स᳘ ऽएतं᳘ लोक᳘मजयद्य᳘स्मिन्नग्निः स᳘ ते लोको᳘ भविष्यति त᳘ञ्जेष्यसि पि᳘बैता᳘ ऽअप ऽइ᳘ति या᳘वानग्ने᳘र्व्विजयो या᳘वांल्लोको या᳘वदै᳘श्वर्य्यं ता᳘वांस्ते व्विजयस्ता᳘वांल्लोकस्ता᳘वदै᳘श्वर्य्यम्भविष्यती᳘त्ये᳘वैनन्त᳘दाह॥
मूलम् - Weber
अग्निः᳘ पशु᳘रासीत्॥
ते᳘नायजन्त स᳘ एतं᳘ लोक᳘मजयद्य᳘स्मिन्नग्निः स᳘ ते लोको᳘ भविष्यति तं᳘ जेष्यसि पि᳘बैता᳘ अप इ᳘ति या᳘वानग्ने᳘र्विजयो या᳘वांलोको या᳘वदै᳘श्वर्यं ता᳘वांस्ते विजयस्ता᳘वांलोकस्ता᳘वदै᳘श्वर्यम् भविष्यती᳘त्येॗवैनं त᳘दाह॥
मूलम् - विस्वरम्
“अग्निः पशुरासीत् । तेनायजंत । स एतं लोकमजयत् । यस्मिन्नग्निः । स ते लोको भविष्यति । तं जेष्यसि । पिबैता अपः”- इति । यावानग्नेर्विजयः । यावान् लोकः । यावदैश्वर्यं तावांस्ते विजयः । तावान् लोकः । तावदैश्वर्यं भविष्यतीत्येवैनं तदाह ॥ १३ ॥
हरिस्वामी
विजयः विजितः । लोकः स्थानं ऐश्वर्यमिच्छानुविधानम् । पुनः संस्कृत्येति वचनं अप्राप्तत्वात् तस्य प्रोक्षणीनां पुनः संस्करणस्यातः परं ब्राह्मणं वक्ष्यत इति शेषः । “अन्यैरेवैनं तत्पशुभिर्व्याकुर्वंति" (श. प. १३ । २ । ८ । १) इति तदत्रापि द्रष्टव्यम् । तर्पयित्वा ऽश्वम् । पुनः संस्कृत्य प्रोक्षणीरितरान् पशून् 18 प्रोक्षति । अन्यैरेवैनं तत्पशुभिर्व्याकुर्वंति । इति ॥ १३-१५ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे द्वितीये ऽध्याये सप्तमं ब्राह्मणम् ॥ १३ ॥ २॥ ७ ॥
Eggeling
- [Vāj. S. XXIII, 17,] ‘Agni was an animal; they sacrificed him, and he gained that world wherein Agni (ruleth): that shall be thy world, that thou shalt gain,–drink thou this water!’–‘As great as Agni’s conquest was, as great as is his world, as great as is his lordship, so great shall be thy conquest, so great thy world, so great thy lordship,’ this is what he thereby says to him.
१४
विश्वास-प्रस्तुतिः
व्वायुः᳘ पशु᳘रासीत्॥
(त्ते᳘) ते᳘नायजन्त स᳘ ऽएतं᳘ लोक᳘मजयद्य᳘स्मिन्वायुः स᳘ ते लोको᳘ भविष्यति त᳘ञ्जेष्यसि पि᳘बैता᳘ ऽअप ऽइ᳘ति या᳘वान्वायो᳘र्व्विजयो या᳘वांल्लोको या᳘वदै᳘श्वर्य्यं ता᳘वांस्ते व्विजयस्ता᳘वांल्लोकस्ता᳘वदै᳘श्वर्य्यम्भविष्यती᳘त्ये᳘वैनन्त᳘दाह॥
मूलम् - श्रीधरादि
व्वायुः᳘ पशु᳘रासीत्॥
(त्ते᳘) ते᳘नायजन्त स᳘ ऽएतं᳘ लोक᳘मजयद्य᳘स्मिन्वायुः स᳘ ते लोको᳘ भविष्यति त᳘ञ्जेष्यसि पि᳘बैता᳘ ऽअप ऽइ᳘ति या᳘वान्वायो᳘र्व्विजयो या᳘वांल्लोको या᳘वदै᳘श्वर्य्यं ता᳘वांस्ते व्विजयस्ता᳘वांल्लोकस्ता᳘वदै᳘श्वर्य्यम्भविष्यती᳘त्ये᳘वैनन्त᳘दाह॥
मूलम् - Weber
वायुः᳘ पशु᳘रासीत्॥
ते᳘नायजन्त स᳘ एतं᳘ लोक᳘मजयद्य᳘स्मिन्वायुः स᳘ ते लोको᳘ भविष्यति तं᳘ जेष्यसि पि᳘बैता᳘ अप इ᳘ति या᳘वान्वायो᳘र्विजयो या᳘वांलोको॥
मूलम् - विस्वरम्
“वायुः पशुरासीत् । तेनायजंत । स एतं लोकमजयत् । यस्मिन् वायुः । स ते लोको भविष्यति । तं जेष्यसि । पिबैता अपः”- इति । यावान् वायोर्विजयः । यावान् लोकः । यावदैश्वर्यम् । तावांस्ते विजयः । तावान् लोकः । तावदैश्वर्यं भविष्यतीत्येवैनं तदाह ॥ १४ ॥
हरिस्वामी
[व्याख्यानं त्रयोदशे]
Eggeling
- ‘Vāyu was an animal; they sacrificed him, and he gained that world wherein. Vāyu (ruleth): that shall be thy world, that thou shalt gain,–drink thou this water!’–‘As great as Vāyu’s conquest was, as great as is his world, as great as is his lordship, so great shall be thy conquest, so great thy world, so great thy lordship,’ this is what he thereby says to him.
१५
विश्वास-प्रस्तुतिः
सू᳘र्य्यः पशु᳘रासीत्॥
(त्ते᳘) ते᳘नायजन्त स᳘ ऽएतं᳘ लोक᳘मजयद्य᳘स्मिन्त्सू᳘र्य्यः स᳘ ते लोको᳘ भविष्यति त᳘ञ्जेष्यसि पि᳘बैता᳘ ऽअप ऽइ᳘ति या᳘वान्त्सू᳘र्य्यस्य व्विजयो या᳘वांल्लोको या᳘वदै᳘श्वर्य्यं ता᳘वांस्ते व्विजयस्ता᳘वांल्लोकस्ता᳘वदै᳘श्वर्य्यम्भविष्यती᳘त्ये᳘वैनन्त᳘दाह तर्प्पयित्वा᳘ ऽश्वम्पुनः[[!!]] सᳫँ᳭स्कृ᳘त्य प्प्रो᳘क्षणीरि᳘तरान्पशून्प्रो᳘क्षति तस्या᳘तः॥
मूलम् - श्रीधरादि
सू᳘र्य्यः पशु᳘रासीत्॥
(त्ते᳘) ते᳘नायजन्त स᳘ ऽएतं᳘ लोक᳘मजयद्य᳘स्मिन्त्सू᳘र्य्यः स᳘ ते लोको᳘ भविष्यति त᳘ञ्जेष्यसि पि᳘बैता᳘ ऽअप ऽइ᳘ति या᳘वान्त्सू᳘र्य्यस्य व्विजयो या᳘वांल्लोको या᳘वदै᳘श्वर्य्यं ता᳘वांस्ते व्विजयस्ता᳘वांल्लोकस्ता᳘वदै᳘श्वर्य्यम्भविष्यती᳘त्ये᳘वैनन्त᳘दाह तर्प्पयित्वा᳘ ऽश्वम्पुनः[[!!]] सᳫँ᳭स्कृ᳘त्य प्प्रो᳘क्षणीरि᳘तरान्पशून्प्रो᳘क्षति तस्या᳘तः॥
मूलम् - Weber
सू᳘र्यः पशु᳘रासीत्॥
ते᳘नायजन्त स᳘ एतं᳘ लोक᳘मजयद्य᳘स्मिन्त्सू᳘र्यः स᳘ ते लोको᳘ भविष्यति तं᳘ जेष्यसि पि᳘बैता᳘ अप इ᳘ति या᳘वान्त्सू᳘र्यस्य विजयो या᳘वांलोको या᳘वदै᳘श्वर्यं ता᳘वांस्ते विजयस्ता᳘वांलोकस्ता᳘वदै᳘श्वर्यम् भविष्यती᳘त्येॗवैनं त᳘दाह तर्पयित्वा᳘श्वम् पु᳘नः संस्कृ᳘त्य प्रो᳘क्षणीरि᳘तरान्पशून्प्रो᳘क्षति 19 तस्या᳘तः॥
मूलम् - विस्वरम्
“सूर्यः पशुरासीत् । तेनायजंत । स एतं लोकमजयत् । यस्मिन् सूर्यः । स ते लोको भविष्यति । तं जेष्यसि । पिबैता अपः"- (वा० सं० २३ । १७)- इति । यावान् सूर्यस्य विजयः । यावान् लोकः । यावदैश्वर्यं तावांस्ते विजयः । तावान् लोकः । तावदैश्वर्यं भविष्यतीत्येवैनं तदाह । तर्पयित्वा ऽश्वम् । पुनः संस्कृत्य प्रोक्षणीरितरान्पशून्प्रोक्षति । तस्यातः ॥ १५ ॥
हरिस्वामी
[व्याख्यानं त्रयोदशे]
Eggeling
- ‘Sūrya was an animal; they sacrificed him, and he gained that world wherein Sūrya (ruleth): that shall be thy world, that thou shalt gain,–drink thou this water!’–‘As great as Sūrya’s conquest was, as great as is his world, as great as is his lordship, so great shall be thy conquest, so great thy world, so great thy lordship,’ this is what he thereby says to him. Having satisfied the horse, and consecrated again the sprinkling water, he sprinkles the other victims: thereof hereafter.
-
अश्वप्रोक्षणमद्भ्यस्त्वा व्वायुष्ट्वेति । का. श्रौ. सू. २० । १४५ । ↩︎
-
316:2 Viz. Vāj. S. VI, 9; see III, 7, 4, 4-5. ↩︎
-
316:3 The author seems to take ‘pacataiḥ’ in the sense of ‘cooking.’ ↩︎
-
316:4 Viz. inasmuch as it causes the fire to blaze up, comm. ↩︎
-
317:1 Or, whence the Nyagrodhas grow downwards. This refers to the habit of the Indian fig-tree, of sending down from the branches numerous slender roots which afterwards become fresh stems. Cp. the corresponding legend in Ait. Br. VII, 30, told there by way of explaining why Kshatriyas, being forbidden to drink Soma, should drink the juice extracted from the descending roots of the Indian fig-tree. Another reason why the Indian fig-tree (also called ‘vaṭa’) is here connected with the priests’ Soma-cups (camasa), is that this is one of the kinds of wood used in making those cups (cf. Katy, I, 3, 36 comm.). ↩︎
-
“पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः"- (२ । ४ । ४६) इत्यमरः । शल्मलिरित्यपि । षष्टिर्वर्षसहस्राणि वने जीवति शाल्मलिरिति तट्टीकायाम् । (सांवरी) इति महाराष्ट्रभाषायामुच्यते ॥ ↩︎
-
317:2 According to Stewart and Brandis, Forest Flora, p. 31, the cotton-tree (or silk-cotton tree) is a very large tree of rapid growth, attaining a height of 150 ft., and a girth of 40 ft. ↩︎
-
सर्वैः पड्भिः A. B prima manu. ↩︎
-
317:3 Lit. ’the non-black Brahman,’ explained as one who has no black spots; though it is difficult to see why the moon should be favoured with this epithet. ↩︎
-
318:1 In Indian vehicles the different parts are held together by cords. For a drawing see Sir H. M. Elliot, The Races of the N.W. Provinces. of India, II, p. 342. The word for ‘cord’ and ‘rein’ is the same in Sanskrit. ↩︎
-
318:2 Paryutaḥ = pariveshṭito rajjubhiḥ, comm.; hardly ‘hung all round (with ornaments),’ as the St. Petersb. Dict. takes it. ↩︎
-
महीधरः at Vâj. S. २३. १४. reads सोमपुरोगमं – गमयन्ति. ↩︎
-
318:3 See V, 1, 4, 5; VI, 1, 1, 11. ↩︎
-
त᳘द्देवां३ऽइ᳘देषि A. वां३ऽइ B. वा३ऽइ C. वां२ऽइ P. ↩︎
-
अथोपगृह्णात्यपां पेरुरग्निः पशुरिति का. श्रौ. २० । १४६ ॥ ↩︎
-
318:4 The first two pādas of this verse form the first half-verse of R̥g-veda S. I, 162, 21. ↩︎
-
319:1 Cp. I, 4, 5, 12: ‘Hence whatever at the sacrifice is performed for Prajāpati, that is performed in a low voice (under the breath); for speech would not act as oblation-bearer for Prajāpati.’ Prajāpati, as representing generation, is often spoken of as ‘undefined’ or ‘unexpressed (secret)’; and so is what is muttered in a low voice. ↩︎
-
एतत्सूत्रकारेणानुपनिबद्धमप्यनुष्ठेयमिति, अत्र सूत्रे देवयाज्ञिकः । ↩︎
-
प्रोक्षणीभिः Harisv. (?). ↩︎