०१

विश्वास-प्रस्तुतिः

युञ्ज᳘न्ति ब्रध्न᳘मरुषञ्च᳘रन्तमि᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यो᳘ ब्र᳘ध्नो ऽरु᳘षो ऽमु᳘मे᳘वास्मा ऽआदित्यं᳘[[!!]] युनक्ति स्वर्ग्ग᳘स्य लोक᳘स्य स᳘मष्ट्यै॥

मूलम् - श्रीधरादि

युञ्ज᳘न्ति ब्रध्न᳘मरुषञ्च᳘रन्तमि᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यो᳘ ब्र᳘ध्नो ऽरु᳘षो ऽमु᳘मे᳘वास्मा ऽआदित्यं᳘[[!!]] युनक्ति स्वर्ग्ग᳘स्य लोक᳘स्य स᳘मष्ट्यै॥

मूलम् - Weber

युञ्ज᳘न्ति ब्रध्न᳘मरुषं च᳘रन्तमि᳘ति॥
असौ वा᳘ आदित्यो᳘ ब्रॗध्नोऽरुॗषोऽमु᳘मेवाॗस्मा आदित्यं᳘ युनक्ति स्वर्ग᳘स्य लोक᳘स्य स᳘मष्ट्यै॥

मूलम् - विस्वरम्

“युंजंति ब्रध्नमरुषं चरंतम्”- (वा० सं० २३ । ५) इति । असौ वा आदित्यो ब्रध्नो ऽरुषः । अमुमेवास्मा आदित्यं युनक्ति । स्वर्गस्य लोकस्य समष्ट्यै ॥ १ ॥

हरिस्वामी

युंजंतीति 1 । “अमुमेवास्मा आदित्यं युनक्ति” इति वाक्यशेषात् मंत्रवर्णात् शाखांतरवचनाच्च अश्वं रथेन युनक्तीति गम्यते। “युंजंत्यस्य" 2 इत्यनेनान्यान् त्रीन् युनक्ति । तेन च रथेनापो गच्छति । अवगाढेषु अश्वेषु “यद्वातः” 3 इति वाचयति ॥ १-३ ॥

Eggeling
  1. [He puts the horse to the chariot 4 with Vāj. S. XXIII, 5], ‘They harness the ruddy bay,

moving (round the moveless: the lights shine in the heavens);’–the ruddy bay, doubtless, is yonder sun: it is yonder sun he harnesses for him, for the gaining of the heavenly world.

०२

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
प᳘राङ्वा᳘ ऽएत᳘स्माद्यज्ञ᳘ ऽएति य᳘स्य पशु᳘रुपा᳘कृतो ऽन्य᳘त्र व्वे᳘देरेती᳘त्येत᳘ᳫँ᳘ स्तोतरने᳘न पथा पु᳘नर᳘श्वमा᳘वर्तयासि न ऽइ᳘ति व्वायुर्व्वै[[!!]] स्तोता त᳘मे᳘वास्मा ऽएत᳘त्पर᳘स्ताद्दधाति त᳘था ना᳘त्येति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
प᳘राङ्वा᳘ ऽएत᳘स्माद्यज्ञ᳘ ऽएति य᳘स्य पशु᳘रुपा᳘कृतो ऽन्य᳘त्र व्वे᳘देरेती᳘त्येत᳘ᳫँ᳘ स्तोतरने᳘न पथा पु᳘नर᳘श्वमा᳘वर्तयासि न ऽइ᳘ति व्वायुर्व्वै[[!!]] स्तोता त᳘मे᳘वास्मा ऽएत᳘त्पर᳘स्ताद्दधाति त᳘था ना᳘त्येति॥

मूलम् - Weber

त᳘दाहुः॥
प᳘राङ्वा एत᳘स्माद्यज्ञ᳘ एति य᳘स्य पशु᳘रुपा᳘कृतोऽन्य᳘त्र वे᳘देरेती᳘त्येत᳘ᳫं᳘ स्तोतरने᳘न पथा पु᳘नर᳘श्वमा᳘वर्तयासि न इ᳘ति वायुर्वै᳘ स्तोता त᳘मेॗवास्मा एत᳘त्पर᳘स्ताद्दधाति त᳘था ना᳘त्येति॥

मूलम् - विस्वरम्

तदाहुः- पराङ्वा एतस्माद्यज्ञ एति । यस्य पशुरुपाकृतो ऽन्यत्र वेदेरेति । इति । “एतं स्तोतरनेन पथा पुनरश्वमावर्तयासि नः”- (वा० सं० २३ । ७) इति । वायुर्वै स्तोता । तमेवास्मा एतत्परस्ताद्दधाति । तथा नात्येति ॥ २ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. Concerning this they say, ‘Surely, the sacrifice goes from him whose beast, when brought up, goes elsewhere than the vedi (altar-ground).’ [Let him, therefore, mutter Vāj. S. XXIII, 7,] ‘Singer of praise, make that horse come back to us by that path!’–the singer of praise, doubtless, is Vāyu (the wind) it is him he thereby places for him (the Sacrificer) on the other side, and so it does not go beyond that.

०३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘प वा᳘ ऽएत᳘स्मात्॥
(त्ते᳘) ते᳘ज ऽइन्द्रिय᳘म्पश᳘वः श्रीः᳘ क्रामन्ति᳘ यो ऽश्वमेधे᳘न य᳘जते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘प वा᳘ ऽएत᳘स्मात्॥
(त्ते᳘) ते᳘ज ऽइन्द्रिय᳘म्पश᳘वः श्रीः᳘ क्रामन्ति᳘ यो ऽश्वमेधे᳘न य᳘जते॥

मूलम् - Weber

अ᳘प वा᳘ एत᳘स्मात्॥
ते᳘ज इन्द्रिय᳘म् पश᳘वः श्रीः᳘ क्रामन्तिॗ योऽश्वमेधे᳘न य᳘जते॥

मूलम् - विस्वरम्

अप वा एतस्मात्तेज इंद्रियं पशवः श्रीः क्रामंति । यो ऽश्वमेधेन यजते ॥ ३ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. But, indeed, fiery mettle and energy, cattle, and prosperity depart from him who offers the Aśvamedha.

०४

विश्वास-प्रस्तुतिः

व्व᳘सवस्त्वा ऽञ्जन्तु॥
गायत्रे᳘ण च्छ᳘न्दसे᳘ति म᳘हिष्य᳘भ्यनक्ति[[!!]] ते᳘जो वा ऽआ᳘ज्यन्ते᳘जो गायत्री ते᳘जसी ऽए᳘वास्मिन्त्समी᳘ची दधाति॥

मूलम् - श्रीधरादि

व्व᳘सवस्त्वा ऽञ्जन्तु॥
गायत्रे᳘ण च्छ᳘न्दसे᳘ति म᳘हिष्य᳘भ्यनक्ति[[!!]] ते᳘जो वा ऽआ᳘ज्यन्ते᳘जो गायत्री ते᳘जसी ऽए᳘वास्मिन्त्समी᳘ची दधाति॥

मूलम् - Weber

व᳘सवस्त्वाञ्जन्तु॥
गायत्रे᳘ण छ᳘न्दसे᳘ति म᳘हिष्यभ्य᳘नक्ति ते᳘जो वा आ᳘ज्यं ते᳘जो गायत्री ते᳘जसी एॗवास्मिन्त्समी᳘ची दधाति॥

मूलम् - विस्वरम्

“वसवस्त्वा ऽञ्जन्तु गायत्रेण च्छन्दसा”- इति महिष्यभ्यनक्ति । तेजो वा आज्यम् । तेजो गायत्री । तेजसी एवास्मिन् समीची दधाति ॥ ४ ॥

हरिस्वामी

“वसवस्त्वेति” तिसृभिरेताभिरश्वस्याभ्यंजनमुच्यते 5 । महिषी प्रथमोढा । वावाता प्रिया । परिवृक्ता परिवित्ता दुर्भगा ॥ ४-७ ॥

Eggeling
  1. With (Vāj. S. XXIII, 8), ‘May the Vasus anoint thee with the Gāyatra metre!’ the queen consort anoints (the forepart of the unharnessed horse);–ghee is fiery mettle, and the Gāyatrī also is fiery mettle: two kinds of fiery mettle he thus bestows together on him (the Sacrificer).

०५

विश्वास-प्रस्तुतिः

रुद्रा᳘स्त्वा ऽञ्जन्तु॥
त्रै᳘ष्टुभेन च्छ᳘न्दसे᳘ति व्वा᳘वाता ते᳘जो वा ऽआ᳘ज्यमिन्द्रिय᳘न्त्रिष्टुप्ते᳘जश्चैवास्मिन्निन्द्रिय᳘ञ्च[[!!]] समी᳘ची दधाति॥

मूलम् - श्रीधरादि

रुद्रा᳘स्त्वा ऽञ्जन्तु॥
त्रै᳘ष्टुभेन च्छ᳘न्दसे᳘ति व्वा᳘वाता ते᳘जो वा ऽआ᳘ज्यमिन्द्रिय᳘न्त्रिष्टुप्ते᳘जश्चैवास्मिन्निन्द्रिय᳘ञ्च[[!!]] समी᳘ची दधाति॥

मूलम् - Weber

रुद्रा᳘स्त्वाञ्जन्तु॥
त्रै᳘ष्टुभेन छ᳘न्दसे᳘ति वा᳘वाता ते᳘जो वा आ᳘ज्यमिन्द्रियं᳘ त्रिष्टुप्ते᳘जश्चैॗवास्मिन्निन्द्रियं᳘ च समी᳘ची दधाति॥

मूलम् - विस्वरम्

“रुद्रास्त्वा ऽञ्जन्तु त्रैष्टुभेन च्छन्दसा”- इति वावाताः । तेजो वा आज्यम् । इंद्रियं त्रिष्टुप् । तेजश्चैवास्मिन्निंद्रियं च समीची दधाति ॥ ५ ॥

हरिस्वामी

[व्याख्यानं चतुर्थे]

Eggeling
  1. With, ‘May the Rudras anoint thee with the Traishṭubha metre!’ the (king’s) favourite wife anoints (the middle part):–ghee is fiery mettle, and the Trishṭubh is energy: both fiery

mettle and energy he thus bestows together on him.

०६

विश्वास-प्रस्तुतिः

(त्या) आदित्या᳘स्त्वा ऽञ्जन्तु॥
जा᳘गतेन च्छ᳘न्दसे᳘ति प᳘रिवृक्ता ते᳘जो वा ऽआ᳘ज्यं पश᳘वो ज᳘गती ते᳘जश्चै᳘वास्मिन्पशूं᳘श्च समी᳘ची दधाति॥

मूलम् - श्रीधरादि

(त्या) आदित्या᳘स्त्वा ऽञ्जन्तु॥
जा᳘गतेन च्छ᳘न्दसे᳘ति प᳘रिवृक्ता ते᳘जो वा ऽआ᳘ज्यं पश᳘वो ज᳘गती ते᳘जश्चै᳘वास्मिन्पशूं᳘श्च समी᳘ची दधाति॥

मूलम् - Weber

आदित्या᳘स्त्वाञ्जन्तु॥
जा᳘गतेन छ᳘न्दसे᳘ति प᳘रिवृक्ता 6 ते᳘जो वा आ᳘ज्यम् पश᳘वो ज᳘गती ते᳘जश्चैॗवास्मिन्पशूं᳘श्च समी᳘ची दधाति॥

मूलम् - विस्वरम्

“आदित्यास्त्वा ऽञ्जन्तु जागतेन च्छन्दसा”- (वा० सं० २३ । ८) इति परिवृक्ता । तेजो वा आज्यम् । पशवो जगती । तेजश्चैवास्मिन्पशूंश्च समीचो दधाति ॥ ६ ॥

हरिस्वामी

[व्याख्यानं चतुर्थे]

Eggeling
  1. With, ‘May the Ādityas anoint thee with the Jāgata metre!’ a discarded wife 7 (of the king) anoints (the hindpart);–ghee is fiery mettle, and the Jagatī is cattle: both fiery mettle and cattle he thus bestows together on him.

०७

विश्वास-प्रस्तुतिः

प᳘त्न्यो᳘ ऽभ्यञ्ज्यन्ति[[!!]]॥
श्रियै वा᳘ ऽएत᳘द्रूपं यत्प᳘त्न्यः श्रि᳘यमे᳘वास्मिंस्त᳘द्दधति᳘ नास्मात्ते᳘ज ऽइन्द्रियं᳘ पश᳘वः श्रीर᳘पक्रामन्ति॥

मूलम् - श्रीधरादि

प᳘त्न्यो᳘ ऽभ्यञ्ज्यन्ति[[!!]]॥
श्रियै वा᳘ ऽएत᳘द्रूपं यत्प᳘त्न्यः श्रि᳘यमे᳘वास्मिंस्त᳘द्दधति᳘ नास्मात्ते᳘ज ऽइन्द्रियं᳘ पश᳘वः श्रीर᳘पक्रामन्ति॥

मूलम् - Weber

प᳘त्न्योऽभ्य᳘ञ्जन्ति॥
श्रियै वा᳘ एत᳘द्रूपं यत्प᳘त्न्यः श्रि᳘यमेॗवास्मिंस्त᳘द्दधतिॗ नास्मात्ते᳘ज इन्द्रि᳘यम् पश᳘वः श्रीर᳘पक्रामन्ति॥

मूलम् - विस्वरम्

पत्न्यो ऽभ्यंज्यंति । श्रियै वा एतद्रूपम् । यत्पत्न्यः । श्रियमेवास्मिंस्तद्दधति । नास्मात्तेज इन्द्रियं पशवः श्रीरपक्रामन्ति ॥ ७ ॥

हरिस्वामी

[व्याख्यानं चतुर्थे]

Eggeling
  1. It is the wives 8 that anoint (the horse), for they to wit, (many) wives–are a form of prosperity (or social eminence): it is thus prosperity he confers on him (the Sacrificer), and neither fiery spirit, nor energy, nor cattle, nor prosperity pass away from him.

०८

विश्वास-प्रस्तुतिः

य᳘था वै᳘ हविषो᳘ हुतस्य स्क᳘न्देत्॥
(दे) एव᳘मेत᳘त्पशो᳘ स्कन्दति य᳘स्य निक्त᳘स्य लो᳘मानि शी᳘यन्ते य᳘त्काचा᳘नाव᳘यन्ति लो᳘मान्ये᳘वास्य स᳘म्भरन्ति हिरण्म᳘या भवन्ति त᳘स्योक्तं ब्रा᳘ह्मणमे᳘कशतमेकशतङ्काचाना᳘वयन्ति शता᳘युर्व्वै पु᳘रुष ऽआत्मै᳘कशत ऽआ᳘युष्ये᳘वात्मन्प्र᳘तितिष्ठति[[!!]] भूर्भु᳘वः᳘ स्वरि᳘ति[[!!]] प्राजापत्या᳘भिरा᳘वयन्ति प्राजापत्यो᳘ ऽश्वः स्व᳘यै᳘वैनन्देवतया[[!!]] स᳘मर्द्धयन्ति लाजी३ञ्छाची३न्य᳘व्ये ग᳘व्य ऽइत्य᳘तिरिक्तम᳘न्नम᳘श्वायोपा᳘वहरति प्रजा᳘मे᳘वान्नादीं᳘ कुरुत ऽएतद᳘न्नमत्त देवा ऽएतद᳘न्नमद्धि प्रजापत ऽइ᳘ति प्रजा᳘मे᳘वान्ना᳘द्येन स᳘मर्द्धयति॥

मूलम् - श्रीधरादि

य᳘था वै᳘ हविषो᳘ हुतस्य स्क᳘न्देत्॥
(दे) एव᳘मेत᳘त्पशो᳘ स्कन्दति य᳘स्य निक्त᳘स्य लो᳘मानि शी᳘यन्ते य᳘त्काचा᳘नाव᳘यन्ति लो᳘मान्ये᳘वास्य स᳘म्भरन्ति हिरण्म᳘या भवन्ति त᳘स्योक्तं ब्रा᳘ह्मणमे᳘कशतमेकशतङ्काचाना᳘वयन्ति शता᳘युर्व्वै पु᳘रुष ऽआत्मै᳘कशत ऽआ᳘युष्ये᳘वात्मन्प्र᳘तितिष्ठति[[!!]] भूर्भु᳘वः᳘ स्वरि᳘ति[[!!]] प्राजापत्या᳘भिरा᳘वयन्ति प्राजापत्यो᳘ ऽश्वः स्व᳘यै᳘वैनन्देवतया[[!!]] स᳘मर्द्धयन्ति लाजी३ञ्छाची३न्य᳘व्ये ग᳘व्य ऽइत्य᳘तिरिक्तम᳘न्नम᳘श्वायोपा᳘वहरति प्रजा᳘मे᳘वान्नादीं᳘ कुरुत ऽएतद᳘न्नमत्त देवा ऽएतद᳘न्नमद्धि प्रजापत ऽइ᳘ति प्रजा᳘मे᳘वान्ना᳘द्येन स᳘मर्द्धयति॥

मूलम् - Weber

य᳘था वै᳘ हविषो᳘ऽहुतस्य स्क᳘न्देत्॥
एव᳘मेत᳘त्पशो᳘ स्कन्दति य᳘स्य निक्त᳘स्य लो᳘मानि शी᳘यन्ते य᳘त्काचा᳘नाव᳘यन्ति लो᳘मान्येॗवास्य स᳘म्भरन्ति हिरण्म᳘या भवन्ति त᳘स्योक्तं ब्रा᳘ह्मणमे᳘कश तमेकशतं काचाना᳘वयन्ति शता᳘युर्वै पु᳘रुष आत्मै᳘कशत आ᳘युष्येवा᳘त्मन्प्र᳘तितिष्ठति भूर्भु᳘वः स्व᳘रि᳘ति प्राजापत्याभिरा᳘वयन्ति प्राजापत्यो᳘ऽश्वः स्व᳘यैॗवैनं देव᳘तया स᳘मर्धयन्ति लाजी३ञ्छाची३न्य᳘व्ये ग᳘व्य इत्य᳘तिरिक्तम᳘न्नम᳘श्वायो᳘पा᳘वहरति प्रजा᳘मेॗवान्नादीं᳘ कुरुत एतद᳘न्नमत्त देवा एतद᳘न्नमद्धि प्रजापत इ᳘ति प्रजा᳘मेॗवान्ना᳘द्येन स᳘मर्धयति॥

मूलम् - विस्वरम्

यथा वै हविषो हुतस्य स्कन्देत् । एवमेतत्पशोः स्कंदति । यस्य निक्तस्य लोमानि शीयंते । यत् काचानावयंति । लोमान्येवास्य संभरंति । हिरण्मया भवन्ति । तस्योक्तं ब्राह्मणम् । एकशतमेकशतं काचानावयन्ति । शतायुर्वै पुरुषः । आत्मैकशतः । आयुष्येवात्मन्प्रतितिष्ठति । “भूर्भुवः स्वः”- इति प्राजापत्याभिरावयन्ति । प्राजापत्यो ऽश्वः । स्वयैवैनं देवतया समर्द्धयन्ति । “लाजी ३ ञ्छाची ३ न्यव्ये गव्ये”-इत्यतिरिक्तमन्नमश्वायोपावहरति । प्रजामेवान्नादीं कुरुते । “एतदन्नमत्त देवा एतदन्नमद्धि प्रजापते”- (वा. सं. २३ । ८) इति । प्रजामेवान्नाद्येन समर्द्धयति ॥ ८ ॥

हरिस्वामी

निक्त इति वक्तव्ये प्रथमास्थाने षष्ठी छांदसी । शीयंते सदृशानने पतंति । काचा 9 मणयः । तस्योक्तं ब्राह्मणम्- “ज्योतिर्वै हिरण्यं राष्ट्रमश्वमेधः” इत्यादि (१३ । २ । २ । १६ ।) एकशतमेकशतम् । एकैका पत्नी आवयति आबध्नाति । केसरपुच्छेषु भूर्भुवः स्वरित्येताभिर्व्याहृतिभिर्यथासंख्यम् । प्रथमया महिषी, द्वितीयया वावाता, तृतीयया परिवृक्ता, अतिरिक्तमन्नं आज्यसक्तुलाजाधानालाजात्मकं रात्रिहुतशेषं 10 अश्वायोपावहरति अश्वार्थं तत्समीपमवनयति । यथा स तद्भक्षयति तथा ढौकयतीत्यर्थः ॥ ८ ॥

Eggeling
  1. But even as some of the offering-material may get spilled before it is offered, so (part of) the victim is here spilled in that the hair of it when wetted comes off. When they (the wives) weave pearls (into the mane and tail) they gather up its hair. They are made of gold: the significance of this has been explained. A hundred and one pearls they weave into (the hair of) each part 11; for man has a life of a hundred (years), and his own self (or body) is the one hundred and first: in vital power, in the self, he establishes himself. They weave them in (each) with (one of) the (sacred utterings) relating to Prajāpati, ‘Būḥ! bhuvaḥ! svar (earth, air,

heaven)!’ for the horse is sacred to Prajāpati: with its own deity he thus supplies it. With, ‘Parched grain, or parched groats?–in grain-food and in food from the cow’–he takes down the remaining food 12 (from the cart) for the horse: he thereby makes the (king’s) people eaters of food (prosperous);–’eat ye, gods, this food! eat thou, Prajāpati, this food!’ he thereby supplies the people with food.

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘प वा᳘ ऽएत᳘स्मात्॥
(त्ते᳘) ते᳘जो ब्रह्मवर्च्चस᳘ङ्क्रामति᳘ यो ऽश्वमेधे᳘न यजते[[!!]] हो᳘ता च ब्रह्मा᳘ च ब्रह्मो᳘द्यम्वद᳘त ऽआग्नेयो वै हो᳘ता बार्हस्पत्यो᳘ ब्रह्मा ब्र᳘ह्म बृ᳘हस्पतिस्ते᳘जश्चै᳘वास्मिन्ब्र᳘ह्मवर्चस᳘ञ्च समी᳘ची धत्तो यू᳘पमभि᳘तो व्वदतो य᳘जमानो वै यू᳘पो य᳘जमानमे᳘वैतत्ते᳘जसा च ब्रह्मवर्च्चसे᳘न चोभय᳘तः प᳘रिधत्तः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘प वा᳘ ऽएत᳘स्मात्॥
(त्ते᳘) ते᳘जो ब्रह्मवर्च्चस᳘ङ्क्रामति᳘ यो ऽश्वमेधे᳘न यजते[[!!]] हो᳘ता च ब्रह्मा᳘ च ब्रह्मो᳘द्यम्वद᳘त ऽआग्नेयो वै हो᳘ता बार्हस्पत्यो᳘ ब्रह्मा ब्र᳘ह्म बृ᳘हस्पतिस्ते᳘जश्चै᳘वास्मिन्ब्र᳘ह्मवर्चस᳘ञ्च समी᳘ची धत्तो यू᳘पमभि᳘तो व्वदतो य᳘जमानो वै यू᳘पो य᳘जमानमे᳘वैतत्ते᳘जसा च ब्रह्मवर्च्चसे᳘न चोभय᳘तः प᳘रिधत्तः॥

मूलम् - Weber

अ᳘प वा᳘ एत᳘स्मात्॥
ते᳘जो ब्रह्मवर्चसं᳘ क्रामतिॗ योऽश्वमेधे᳘न य᳘जते हो᳘ता च ब्रह्मा᳘ च ब्रह्मो᳘द्यं वदत आग्नेयो वै हो᳘ता बार्हस्पत्यो᳘ ब्रह्मा ब्र᳘ह्म बृ᳘हस्प᳘तिस्ते᳘जश्चैॗवास्मिन्ब्रह्मवर्चसं᳘ च समी᳘ची धत्तो यू᳘पमभि᳘तो वदतो य᳘जमानो वै यू᳘पो य᳘जमानमेॗवैतत्ते᳘जसा च ब्रह्मवर्चसे᳘न चोभय᳘तः प᳘रिधत्तः॥

मूलम् - विस्वरम्

अप वा एतस्मात्तेजो ब्रह्मवर्चसं क्रामति । यो ऽश्वमेधेन यजते । होता च ब्रह्मा च ब्रह्मोद्यं वदतः । आग्नेयो वै होता । बार्हस्पत्यो ब्रह्मा । ब्रह्म बृहस्पतिः । तेजश्चैवास्मिन् ब्रह्मवर्चसं च समीची धत्तः । यूपमभितो वदतः । यजमानो वै यूपः । यजमानमेवैतत्तेजसा च ब्रह्मवर्चसेन चोभयतः परिधत्तः ॥ ९ ॥

हरिस्वामी

अप वा एतस्मात् । ब्रह्मणि वेदे वदनं ब्रह्मोद्यं प्रश्नप्रतिवचनात्मकम् । आग्नेयः अग्नेरधिदैवात्मकस्याधिष्ठेयो होता । बार्हस्पत्यो बृहस्पतेरधिदैवभूतस्याधिष्ठेयो ब्रह्मा । ब्रह्म किं ? इत्यत आह- ब्रह्म बृहस्पतिः । इति तु प्रसिद्धत्वात्तेनोक्तम् । ततश्च तेजश्च ब्रह्मवर्चसं च अस्मिन् यजमाने धत्त इत्युपपन्नम् ॥ ९ ॥

Eggeling
  1. Verily, fiery spirit and spiritual lustre pass away from him who performs the Aśvamedha. The Hotr̥ and the Brahman engage in a Brahmodya 13 (theological discussion); for the Hotr̥ relates to Agni, and the Brahman (priest) to Br̥haspati, Br̥haspati being the Brahman (n.): fiery spirit 14 and spiritual lustre he thus bestows together on him. With the (central) sacrificial stake between them, they discourse together; for the stake is the Sacrificer 15: he thus encompasses the Sacrificer on both sides with fiery spirit and spiritual lustre.

१०

विश्वास-प्रस्तुतिः

कः᳘ स्विदेकाकी᳘ चरती᳘ति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽएकाकी᳘ चरत्येष᳘ ब्रह्मवर्च्चसं᳘ ब्रह्मवर्च्चस᳘मे᳘वास्मिंस्त᳘द्धत्तः॥

मूलम् - श्रीधरादि

कः᳘ स्विदेकाकी᳘ चरती᳘ति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽएकाकी᳘ चरत्येष᳘ ब्रह्मवर्च्चसं᳘ ब्रह्मवर्च्चस᳘मे᳘वास्मिंस्त᳘द्धत्तः॥

मूलम् - Weber

कः᳘ स्विदेकाकी चरती᳘ति॥
असौ वा᳘ आदित्य᳘ एकाकी᳘ चरत्येष᳘ ब्रह्मवर्चस᳘म् ब्रह्मवर्चस᳘मेॗवास्मिंस्त᳘द्धत्तः॥

मूलम् - विस्वरम्

“कः स्विदेकाकी चरति”- इति । असौ वा आदित्य एकाकी चरति । एष ब्रह्मवर्चसम् । ब्रह्मवर्चसमेवास्मिंस्तद्धत्तः ॥ १० ॥

हरिस्वामी

कः स्विदेकाकी चरति । ब्रह्मा पृच्छति होतारम् । कुत एतत् शाखांतरात् । असौ वा आदित्य एकाकी चरतीति प्रतिवचनार्थः । एवं प्रश्नप्रतिप्रश्नान् विवृणोति । वचनान्यपि व्याचष्टे । तेनैव वचनानि न पुनर्विवृणोति । एकाकी असहाय आदित्यो भ्रमति । तेन सहान्यस्य कस्यचिददर्शनात् । अस्मिन् यजमाने ॥ १० ॥

Eggeling
  1. [The Brahman asks, Vāj. S. XXIII, 9,] ‘Who is it that walketh singly?’–it is yonder sun, doubtless, that walks singly 16, and he is spiritual

lustre: spiritual lustre the two (priests) thus bestow on him.

११

विश्वास-प्रस्तुतिः

क᳘ ऽउ स्विज्जायते पु᳘नरि᳘ति॥
चन्द्र᳘मा वै᳘ जायते पु᳘नरा᳘युरे᳘वास्मिंस्त᳘द्धत्तः॥

मूलम् - श्रीधरादि

क᳘ ऽउ स्विज्जायते पु᳘नरि᳘ति॥
चन्द्र᳘मा वै᳘ जायते पु᳘नरा᳘युरे᳘वास्मिंस्त᳘द्धत्तः॥

मूलम् - Weber

क᳘ उ स्विज्जायते पु᳘नरि᳘ति॥
चन्द्रमा वै᳘ जायते पु᳘नरा᳘युरेॗवास्मिंस्त᳘द्धत्तः॥

मूलम् - विस्वरम्

“क उ स्विज्जायते पुनः”- इति । चंद्रमा वै जायते पुनः । आयुरेवास्मिंस्तद्धत्तः ॥ ११ ॥

हरिस्वामी

चन्द्रमा वै जायते पुनः । मासांतर इत्यभिप्रायः । यश्च पुनःपुनर्नवो जायते स आयुष्मानिति गम्यते । ततश्च तत्प्रश्नप्रतिवचनाभ्यामायुरेवास्मिन् यजमाने ब्रह्महोतारौ धत्तः ॥ ११ ॥ १२ ॥

Eggeling
  1. ‘Who is it that is born again?’–it is the moon, doubtless, that is born again (and -again): vitality they thus bestow on him.

१२

विश्वास-प्रस्तुतिः

कि᳘ᳫँ᳘ स्विद्धिम᳘स्य भेषजमि᳘ति॥
(त्य) अग्निर्व्वै᳘ हिम᳘स्य भेषजन्ते᳘ज ऽए᳘वास्मिंस्त᳘द्धत्तः॥ शतम् ६५००॥

मूलम् - श्रीधरादि

कि᳘ᳫँ᳘ स्विद्धिम᳘स्य भेषजमि᳘ति॥
(त्य) अग्निर्व्वै᳘ हिम᳘स्य भेषजन्ते᳘ज ऽए᳘वास्मिंस्त᳘द्धत्तः॥ शतम् ६५००॥

मूलम् - Weber

कि᳘ᳫं᳘ स्विद्धिम᳘स्य भेषजमि᳘ति॥
अग्निर्वै᳘ हिम᳘स्य भेषजं ते᳘ज एॗवास्मिंस्त᳘द्धत्तः॥

मूलम् - विस्वरम्

“किं स्विद्धिमस्य भेषजम्”- इति अग्निर्वै हिमस्य भेषजम् । तेज एवास्मिंस्तद्धत्तः ॥ १२ ॥

हरिस्वामी

[व्याख्यानं एकादशे]

Eggeling
  1. ‘What is the remedy for cold?’–the remedy for cold, doubtless, is Agni ‘(fire): fiery spirit they thus bestow on him.

१३

विश्वास-प्रस्तुतिः

कि᳘म्वा ऽऽव᳘पनम्महदि᳘ति॥
(त्य) अयम्वै᳘ लोक᳘ ऽआव᳘पनम्मह᳘दस्मि᳘न्नेव᳘ लोके प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

कि᳘म्वा ऽऽव᳘पनम्महदि᳘ति॥
(त्य) अयम्वै᳘ लोक᳘ ऽआव᳘पनम्मह᳘दस्मि᳘न्नेव᳘ लोके प्र᳘तितिष्ठति॥

मूलम् - Weber

कि᳘म्वाव᳘पनम् महदि᳘ति॥
अयं वै᳘ लोकं᳘ आव᳘पनम् मह᳘दस्मि᳘न्नेव᳘ लोके प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

“किं वा ऽऽवपनं महत्”- (वा. सं. २३ । ९) इति । अयं वै लोक आवपनं महत् । अस्मिन्नेव लोके प्रतितिष्ठति ॥ १३ ॥

हरिस्वामी

अस्मिन्नेव लोके प्रतितिष्ठति । एताभ्यां प्रश्नप्रतिवचनाभ्याम् ॥ १३ ॥

Eggeling
  1. ‘And what is the great vessel?’–the great vessel, doubtless, is this (terrestrial) world: on this earth he thus establishes himself.

१४

विश्वास-प्रस्तुतिः

का᳘ स्विदासीत्पूर्व्व᳘चित्तिरि᳘ति॥
द्यौर्व्वै व्वृ᳘ष्टिः पूर्व्व᳘चित्तिर्द्दि᳘वमेव व्वृ᳘ष्टिम᳘वरुन्धे॥

मूलम् - श्रीधरादि

का᳘ स्विदासीत्पूर्व्व᳘चित्तिरि᳘ति॥
द्यौर्व्वै व्वृ᳘ष्टिः पूर्व्व᳘चित्तिर्द्दि᳘वमेव व्वृ᳘ष्टिम᳘वरुन्धे॥

मूलम् - Weber

का᳘ स्विदासीत्पूर्व᳘चित्तिरि᳘ति॥
द्यौर्वै वृ᳘ष्टिः पूर्व᳘चित्तिर्दि᳘वमेव वृ᳘ष्टिम᳘वरुन्द्धे॥

मूलम् - विस्वरम्

“का स्विदासीत् पूर्वचित्तिः”- इति । द्यौर्वै वृष्टिः पूर्वचित्तिः । दिवमेव वृष्टिमवरुन्धे ॥ १४ ॥

हरिस्वामी

का स्विदासीत्पूर्वचित्तिरिति । “होता ब्रह्माणं पृच्छति” इति शाखांतरात् । द्यौर्वै वृष्टेर्हेतुः । ततश्च राष्ट्रोपकाराय दिवं वृष्टिमेवावरुंधे यजमानः । एताभ्यां प्रश्नप्रतिवचनाभ्याम् ॥ १४ ॥

Eggeling
  1. [The Hotr̥ asks the Brahman, Vāj. S. XXIII, 11,] ‘What was the first conception?’–the first conception, doubtless, was the sky, rain: the sky, rain, he thus secures for himself.

१५

विश्वास-प्रस्तुतिः

कि᳘ᳫँ᳘ स्विदासीद्बृहद्व᳘य ऽइति[[!!]]॥
(त्य᳘) अ᳘श्वो वै᳘ बृहद्व᳘य ऽआ᳘युरेवा᳘वरुन्धे॥

मूलम् - श्रीधरादि

कि᳘ᳫँ᳘ स्विदासीद्बृहद्व᳘य ऽइति[[!!]]॥
(त्य᳘) अ᳘श्वो वै᳘ बृहद्व᳘य ऽआ᳘युरेवा᳘वरुन्धे॥

मूलम् - Weber

कि᳘ᳫं᳘ स्विदासीद्बृहद्व᳘य इ᳘ति॥
अ᳘श्वो वै᳘ बृहद्व᳘य आ᳘युरेवा᳘वरुन्द्धे॥

मूलम् - विस्वरम्

“किं स्विदासीद बृहद्वयः”- इति । अश्वो वै बृहद्वयः । आयुरेवावरुन्धे ॥ १५ ॥

हरिस्वामी

अश्वो वै बृहद्वयः । महान् पशुरिति ब्रुवद्भ्यां शब्दसामान्यात् महद्वयः शतार्द्धकं आयुः यजमानः अवरुन्धे ॥ १५ ॥

Eggeling
  1. ‘Who was the great bird 17?’–the great bird, doubtless, was the horse:. vital power he thus secures for himself.

१६

विश्वास-प्रस्तुतिः

का᳘ स्विदासीत्पिलिप्पिले᳘ति॥
श्रीर्व्वै᳘ पिलिप्पिला श्रि᳘यमेवा᳘वरुन्धे॥

मूलम् - श्रीधरादि

का᳘ स्विदासीत्पिलिप्पिले᳘ति॥
श्रीर्व्वै᳘ पिलिप्पिला श्रि᳘यमेवा᳘वरुन्धे॥

मूलम् - Weber

का᳘ स्विदासीत्पिलिप्पिले᳘ति॥
श्रीर्वै᳘ पिलिप्पिला श्रि᳘यमेवा᳘वरुन्द्धे॥

मूलम् - विस्वरम्

“का स्विदासीत्पिलिप्पिला”- इति । श्रीर्वै पिलिप्पिला । श्रियमेवावरुन्धे ॥ १६ ॥

हरिस्वामी

श्रीर्वै पिलिप्पिला । रूपानुकरणशब्दो ऽयम् बहुरूपविलासोद्योतनवती श्रीः । मंत्रे तु (वा. सं. २३ । १२) अविः पिलिप्पिला उक्ता । सा तु श्रीरेवेति ब्राह्मणे विवृतम् । कथमियं वै अविः पृथिवी । सा च श्रीः । “श्रीर्वा इयम्” इति वचनात् ॥ १६ ॥

Eggeling
  1. ‘Who was the smooth one?’–the smooth one (pilippilā), doubtless, was beauty (śrī 18): beauty he thus secures for himself.

१७

विश्वास-प्रस्तुतिः

का᳘ स्विदासीत्पिशङ्गिले᳘ति॥
(त्य) अहोरात्रे वै᳘ पिशङ्गिले᳘ ऽअहोरात्र᳘योरेव प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

का᳘ स्विदासीत्पिशङ्गिले᳘ति॥
(त्य) अहोरात्रे वै᳘ पिशङ्गिले᳘ ऽअहोरात्र᳘योरेव प्र᳘तितिष्ठति॥

मूलम् - Weber

का᳘ स्विदासीत्पिशंगिले᳘ति॥
अहोरात्रे वै᳘ पिशंगिले᳘ अहोरात्र᳘योरेव प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

“का स्विदासीत्पिशंगिला”- (वा. सं. २३ । ११) इति । अहोरात्रे वै पिशंगिले । अहोरात्रयोरेव प्रतितिष्ठति ॥ १७ ॥

हरिस्वामी

अहोरात्रे वै पिशंगिले इति । मंत्रे (वा. सं. २३ । १२) रात्रिग्रहणेनैव अहरपि संगृहीतमिति दर्शयति । ततश्च एताभ्यां प्रश्नप्रतिवचनाभ्याम् । अहोरात्रयोर्यजमानः प्रतितिष्ठति । उभयोरपि राज्यं करोतीत्यर्थः ॥ १७ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे कांडे द्वितीये ऽध्याये षष्ठं ब्राह्मणम् ॥ १३ ॥ २ ॥ ६ ॥

Eggeling
  1. ‘Who was the tawny one?’–the two tawny ones, doubtless, are the day and the night 19: in the day and night he thus establishes himself.

  1. युनक्त्येनं युंजन्ति ब्रध्नमिति । का. श्रौ. सू. २० । १२५ । ↩︎

  2. इतरांश्च युंजंत्यस्येति । अश्वाः सौवर्णालंकाराः । रथञ्च । का. श्रौ. सू. २० । १२६-१२८ । ↩︎

  3. अपो यात्वा ऽवगाढेषु वाचयति यद्वात इति । का. श्रौ. सू. २० । १२९ । ↩︎

  4. 311:2 Along with the sacrificial horse three other horses are put to the chariot, with the formula Vāj. S. XXIII, 6. Previously to this, however, the Hotr̥ recites eleven verses in praise of the horse (cf. XIII, 5, 1, 16). Both the horses and the chariot are decorated with gold ornaments. The Adhvaryu then drives with the Sacrificer to a pond of water to the east of the sacrificial ground (an indispensable feature in choosing the place of sacrifice), and having driven into the water he makes him pronounce the formula XXIII, 7, ‘When the wind hath entered the waters, the dear form of Indra, do thou, singer of praise, make that horse come back to us by that path;’ whereupon they return to the sacrificial ground. ↩︎

  5. आयाय विमुक्तमश्वं महिषी वावाता परिवृक्ता ऽऽज्येनाभ्यंज्यंति पूर्वकायमध्यापरकायान्यथादेशं वसवस्त्वेति प्रतिमंत्रम् । का. श्रौ. सू. २० । १३० ॥ ↩︎

  6. परिवित्ता Harisv. ↩︎

  7. 313:1 That is, a former favourite, but now neglected; or, according to others, one who has borne no son. ↩︎

  8. 313:2 The fourth and lowest wife of the King the Pālāgalī (cf. XIII, 4, 1, 8; 5, 2, 8), though present at the sacrifice, does not take part in this ceremony, probably on account of her low-caste origin, as the daughter of a messenger, or courier. ↩︎

  9. अभ्रंश्यमानान्मणीन्त्सौवर्णानेकशतमेकशतं केसरपुच्छेष्वावयन्ति भूर्भुवः स्वरिति प्रतिमहाव्याहृति । अनुचर्यस्य तूष्णीमेकेषाम् । का. श्रौ. सू. २० । १३१ । १३२ । ↩︎

  10. अश्वाय रात्रिहुतशेषं प्रयच्छति लाजी ३ ञ्छाची ३ म् इति । अप्स्ववहरणमखादति । का. श्रौ. सू. २० । १३३ । १३४ । (शाखांतरादिदम् ।) ↩︎

  11. 313:3 Viz. either the mane on both sides, and the tail, or the hair of the head, the neck (mane) and the tail; each of the ladies apparently taking one of these parts. ↩︎

  12. 314:1 Viz. the material left over after what was taken for the Annahomas, XIII, 2, 1, 1 seqq. ↩︎

  13. 314:2 For a similar discussion between the four priests, prior to the offering of the omenta, see XIII, 5, 2, 11 seq. ↩︎

  14. 314:3 ‘Tejas’ is pre-eminently the quality assigned to Agni. ↩︎

  15. 314:4 It must be remembered that the sacrificial horse here represented by the stake is identified with both Prajāpati and the Sacrificer. ↩︎

  16. 314:5 The actual replies to the questions in Vāj. S. XXIII, 9 and 11, are contained in the corresponding verses ten and twelve; being given here in an expository way, with certain variations and occasional explanatory words (such as ‘vr̥shṭi,’ rain, in paragraph 14). The answers to the first four questions are supposed to be given by the Hotr̥, and the last four by the Brahman. ↩︎

  17. 315:1 This is the meaning assigned here to ‘vayas’ by Mahīdhara; but the other meaning of ‘vayas,’ viz. ‘youthful vigour, or age, (generally),’ would seem to suit much better, or at least to be implied. And Harisvāmin accordingly takes it in the sense of ‘vārdhakam’ (old age, or long life). Mahīdhara, moreover, identifies the horse with the horse-sacrifice, which, in the shape of a bird, carries the Sacrificer up to heaven. On this notion cp. part iv, introduction, pp. xxi-xxii. ↩︎

  18. 315:2 Instead of ‘śrīḥ,’ the answer given to this question in Vāj. S. XXIII, 12 was ‘aviḥ’ which would either mean ’the gentle, kindly one,’ or ’the sheep (f.),’ but which Mahīdhara (in the former sense) takes as (an epithet of) the earth which he also takes ‘śrī’ to mean in the above passage of the Brāhmaṇa; whilst to the ἅπαξ λεγόμενον ‘pilippilā’ he assigns the meaning ‘slippery’ (cikkaṇa) as applying to the earth after rain (? deriving it from the root ’lip,’ to smear, anoint). Harisvāmin, on the other hand, takes ‘pilippilā’ to be an onomatopoetic word, in the sense of ‘(glossy), beautiful, shining’:–rūpānukaranaśabdoyaṁ bahurūpāvilā (? bahurūpānvitā) uddyotavatī; and he adds:–śrīmīṁtratuḥ (? śrīr mantre tu) aviḥ pippaloktau (?) sā tu śrīr eveti brāhmaṇe vivr̥taṁ, katham, iyaṁ vā aviḥ pr̥thivī, sā ca śrīḥ, śrīr vā iyam iti vacanāt. Cf. VI, 1, 2, 33. ↩︎

  19. Here the original text in Vāj S. XXIII. 12, has simply ’ the piśaṅgilā was the night.’ Mahīdhara explains ’ piśaṅgilā ’ by ‘ piśaṁ gila ‘beauty devouring’, inasmuch as the night swallows. or conceals all beauty (or form). Neither this nor the other explanation ( = piśaṅgilā, ruddy-brown) suits the day ; but harisvāmin, wiiodoes not explain the name, remarks that the night here is taken to include the day. Cf. XIII, 5, 2, 18. ↩︎