०१

विश्वास-प्रस्तुतिः

प्प्रजा᳘पतिरकामयत॥
(तो) उभौ᳘ लोका᳘वभि᳘जयेयन्देवलोक᳘म्मनुष्यलोकञ्चे᳘ति स᳘ ऽएता᳘न्पशू᳘नपश्यद्ग्राम्यां᳘श्चारण्यां᳘श्च ताना᳘लभत तै᳘रिमौ᳘ लोका᳘ववारुन्ध[[!!]] ग्ग्राम्यै᳘रेव᳘ पशु᳘भिरिमं᳘ लोक᳘मवा᳘रुन्द्धारण्यै᳘रमु᳘मयम्वै᳘ लोको᳘ मनुष्यलोको᳘ ऽथासौ᳘ देवलोको य᳘द्ग्राम्या᳘न्पशू᳘नाल᳘भत ऽइम᳘मेव तै᳘र्ल्लोकं य᳘जमानो᳘ ऽवरुन्धे य᳘दारण्या᳘नमुन्तैः[[!!]]॥

मूलम् - श्रीधरादि

प्प्रजा᳘पतिरकामयत॥
(तो) उभौ᳘ लोका᳘वभि᳘जयेयन्देवलोक᳘म्मनुष्यलोकञ्चे᳘ति स᳘ ऽएता᳘न्पशू᳘नपश्यद्ग्राम्यां᳘श्चारण्यां᳘श्च ताना᳘लभत तै᳘रिमौ᳘ लोका᳘ववारुन्ध[[!!]] ग्ग्राम्यै᳘रेव᳘ पशु᳘भिरिमं᳘ लोक᳘मवा᳘रुन्द्धारण्यै᳘रमु᳘मयम्वै᳘ लोको᳘ मनुष्यलोको᳘ ऽथासौ᳘ देवलोको य᳘द्ग्राम्या᳘न्पशू᳘नाल᳘भत ऽइम᳘मेव तै᳘र्ल्लोकं य᳘जमानो᳘ ऽवरुन्धे य᳘दारण्या᳘नमुन्तैः[[!!]]॥

मूलम् - Weber

प्रजा᳘पतिरकामयत॥
उभौ᳘ लोका᳘वभि᳘जयेयं देवलोकं᳘ च मनुष्यलोकं चे᳘ति स᳘ एता᳘न्पशू᳘नपश्यद्ग्राम्यां᳘श्च ताना᳘लभत तै᳘रिमौ᳘ लोकाव᳘वारुन्द्ध ग्राम्यै᳘रेव᳘ पशु᳘भिरिमं᳘ लोकमवा᳘रुन्द्धारण्यै᳘रमु᳘मयं वै᳘ लोको᳘ मनुष्यलोको᳘ऽथासौ᳘ देवलोको य᳘द्ग्राम्या᳘न्पशू᳘नाल᳘भत इम᳘मेव तै᳘र्लोकं य᳘जमानो᳘ऽवरुन्द्धे य᳘दारण्या᳘नमुं तैः᳟॥

मूलम् - विस्वरम्

प्रजापतिरकामयत । उभौ लोकावभिजयेयम् । देवलोकं मनुष्यलोकं चेति । स एतान्पशूनपश्यत् । ग्राम्यांश्चारण्यांश्च । तानालभत । तैरिमौ लोकाववारुन्ध । ग्राम्यैरेव पशुभिरिमं लोकमवारुन्ध; आरण्यैरमुम् । अयं वै लोको मनुष्यलोकः । अथासौ देवलोकः । यद्ग्राम्यान्पशूनालभते । इममेव तैर्लोकं यजमानो ऽवरुन्धे । यदारण्यान् । अमुं तैः ॥ १ ॥

हरिस्वामी

प्रजापतिरिति । आरण्यान्पशून्पर्यग्निकृतानेवोत्सृजंति ग्राम्यैः संस्थापयतीत्येतावदत्र विधीयते । पश्वालंभस्तु सत्रयागादेव प्राप्तो ऽनूच्यते । स यदि ग्राम्यैः पशुभिः अश्वादिभिर्यज्ञं ब्राह्मणतर्पणांतं संस्थापयेत् । आरण्यान्पर्यग्निकृतानुत्सृज्य ततः पूर्वदेशपश्चाद्देश उत्तरापथदक्षिणापथ इत्येवमादयः परस्परं संक्रामयेयुः । संचरेयुरित्यर्थः । अध्वभिरत्रार्द्धस्थलना लक्ष्यन्ते । क्षेमे सति मनुष्याः सर्वान् देशान् संचरेयुरित्यभिप्रायः । क्षेम एव सति निमत्तांत्तरे विप्रिये च वसति । समंतिकं समीपे ग्रामयोः ग्रामांतौ सीमान्तौ स्याताम् । अन्यासु हि सीमासु ग्रामस्य समीप एव सीमांतो भवति । नर्क्षा एव नर्क्षीकाः । पुरुषाश्च ते व्याघ्राश्च पुरुषव्याघ्राः । म्लेच्छा हि व्याघ्ररूपाः पुरुषा वदन्ति ते पुरुषव्याघ्राः । परिमोषिणश्चौराः । ‘आव्याधिन्यः’ आविध्यंत्यायुधैरित्याव्याधिन्यः चोरसेनाः । तस्करास्तत्पापं कुर्वंतीत्यतो ऽन्ये चौराः । न आजायेरन् क्षेमत्वाद्राष्ट्रस्य । यत् यदि आरण्यैः संस्थापयेत् । तत अध्वानः पूर्वदेशादयो विक्रामेयुः विरुद्धं क्रामयेयुः । स्वदेश एव मनुष्याः संचरेयुः, न देशांतरेषु अंतरालानामभिन्नत्वात् अक्षेमत्वाच्च । विदूरं ग्रामयोर्ग्रामांतौ स्याताम् । अक्षेमे हि सति प्रविरला ग्रामा भवन्ति । तेषां च सीमांता दूरे भवंति ॥ १ ॥ २ ॥

Eggeling
  1. Prajāpati desired, ‘Would that I might gain both worlds, the world of the gods, and the world of men.’ He saw those beasts, the tame and the wild ones; he seized them, and by means of them took possession of these two worlds: by means of the tame beasts he took possession of this (terrestrial) world, and by means of the wild beasts of yonder (world); for this world is the world of men, and yonder world is the world of the gods. Thus when he seizes tame beasts he thereby takes possession of this world, and when wild beasts, he thereby (takes possession) of yonder (world).

०२

विश्वास-प्रस्तुतिः

स य᳘द्ग्राम्यैः᳘ सᳫँ᳭स्थाप᳘येत्॥
(त्स) सम᳘ध्वानः क्रामेयुः स᳘मन्तिकङ्ग्रा᳘मयोर्ग्ग्रामान्तौ᳘ स्यातां न ऽर्क्षी᳘काः[[!!]] पुरुषव्याघ्राः᳘ परिमोषि᳘ण ऽआव्याधि᳘न्यस्त᳘स्करा ऽअ᳘रण्येष्वा᳘जायेरन्य᳘दारण्यैर्व्व्य᳘ध्वानः क्रामेयुर्व्वि᳘दूरङ्ग्रा᳘मयोर्ग्ग्रामान्तौ᳘ स्यातामृक्षी᳘काः पुरुषव्याघ्राः᳘ परिमोषि᳘ण ऽआव्याधि᳘न्यस्त᳘स्करा ऽअ᳘रण्येष्वा᳘जायेरन्॥

मूलम् - श्रीधरादि

स य᳘द्ग्राम्यैः᳘ सᳫँ᳭स्थाप᳘येत्॥
(त्स) सम᳘ध्वानः क्रामेयुः स᳘मन्तिकङ्ग्रा᳘मयोर्ग्ग्रामान्तौ᳘ स्यातां न ऽर्क्षी᳘काः[[!!]] पुरुषव्याघ्राः᳘ परिमोषि᳘ण ऽआव्याधि᳘न्यस्त᳘स्करा ऽअ᳘रण्येष्वा᳘जायेरन्य᳘दारण्यैर्व्व्य᳘ध्वानः क्रामेयुर्व्वि᳘दूरङ्ग्रा᳘मयोर्ग्ग्रामान्तौ᳘ स्यातामृक्षी᳘काः पुरुषव्याघ्राः᳘ परिमोषि᳘ण ऽआव्याधि᳘न्यस्त᳘स्करा ऽअ᳘रण्येष्वा᳘जायेरन्॥

मूलम् - Weber

स य᳘द्ग्राम्यैः᳘ संस्थाप᳘येत्॥
समध्वानः क्रामेयुः स᳘मन्तिकं ग्रा᳘मयोर्ग्रामान्तौ᳘ स्यातां न᳘र्क्षी᳘काः पुरुषव्याघ्राः᳘ परिमोषि᳘ण आव्याधि᳘न्यस्त᳘स्करा अ᳘रण्येष्वा᳘जायेरन्य᳘दारण्यैर्व्य᳘ध्वानः क्रामेयुर्वि᳘दूरं ग्रा᳘मयोर्ग्रामान्तौ᳘ स्यातामृक्षी᳘काः पुरुषव्याघ्राः᳘ परिमोषि᳘ण आव्याधि᳘न्यस्त᳘स्करा अ᳘रण्येष्वा᳘जायेरन्॥

मूलम् - विस्वरम्

स यत् ग्राम्यैः संस्थापयेत् । समध्वानः क्रामेयुः । समंन्तिकं ग्रामयोर्ग्रामान्तौ स्याताम् । न ऽर्क्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा अरण्येष्वाजायेरन् । यदारण्यैः व्यध्वानः क्रामेयुर्विदूरं ग्रामयोर्ग्रामान्तौ स्याताम् । ऋक्षीकाः पुरुपव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा अरण्येष्वाजायेरन् ॥ २ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. Were he to complete (the sacrifice) with tame ones, the roads would run together 1, the village-boundaries

of two villages would be contiguous 2, and no ogres 3, man-tigers, thieves, murderers, and robbers would come to be in the forests. By (so doing) with wild (beasts) the roads would run asunder 4, the village-boundaries of two villages would be far asunder 5; and there would come to be ogres, man-tigers, thieves, murderers, and robbers in the forests.

०३

विश्वास-प्रस्तुतिः

(रंस्त᳘) त᳘दाहुः॥
(र᳘) अ᳘पशुर्व्वा᳘ ऽएष य᳘दारण्यो᳘ नैत᳘स्य होत᳘व्यं य᳘ज्जुहुया᳘त्क्षिप्प्रं य᳘जमानम᳘रण्यम्मृत᳘ᳫँ᳘ हरेयुर᳘रण्यभागा᳘ ह्यारण्याः᳘ पश᳘वो यन्न᳘ जुहुया᳘द्यज्ञवेशस᳘ᳫँ᳘ स्यादि᳘ति प᳘र्य्यग्निकृतानेवो᳘त्सृजन्ति त᳘न्नैव[[!!]] हुतन्ना᳘हुतन्न य᳘जमानम᳘रण्यम्मृत᳘ᳫँ᳘ हरन्ति न᳘ यज्ञवेशसं᳘ भवति॥

मूलम् - श्रीधरादि

(रंस्त᳘) त᳘दाहुः॥
(र᳘) अ᳘पशुर्व्वा᳘ ऽएष य᳘दारण्यो᳘ नैत᳘स्य होत᳘व्यं य᳘ज्जुहुया᳘त्क्षिप्प्रं य᳘जमानम᳘रण्यम्मृत᳘ᳫँ᳘ हरेयुर᳘रण्यभागा᳘ ह्यारण्याः᳘ पश᳘वो यन्न᳘ जुहुया᳘द्यज्ञवेशस᳘ᳫँ᳘ स्यादि᳘ति प᳘र्य्यग्निकृतानेवो᳘त्सृजन्ति त᳘न्नैव[[!!]] हुतन्ना᳘हुतन्न य᳘जमानम᳘रण्यम्मृत᳘ᳫँ᳘ हरन्ति न᳘ यज्ञवेशसं᳘ भवति॥

मूलम् - Weber

त᳘दाहुः॥
अ᳘पशुर्वा᳘ एष य᳘दारण्योॗ नैत᳘स्य होत᳘व्यं य᳘ज्जुहुया᳘त्क्षिप्रं य᳘जमानम᳘रण्यम् मृत᳘ᳫं᳘ हरेयुर᳘रण्यभागाॗ ह्यारण्याः᳘ पश᳘वो यन्न᳘ जुहुया᳘द्यज्ञवेशस᳘ᳫं᳘ स्यादि᳘ति प᳘र्यग्निकृतानेवो᳘त्सृजन्ति तॗन्नैव᳘ हुतं ना᳘हुतं न य᳘जमानम᳘रण्यम् मृत᳘ᳫं᳘ हरन्ति न᳘ यज्ञवेशस᳘म् भवति॥

मूलम् - विस्वरम्

तदाहुः- अपशुर्वा एष यदारण्यः । नैतस्य होतव्यम् । यत् जुहुयात् । क्षिप्रं यजमानमरण्यं मृतं हरेयुः । अरण्यभागा ह्यारण्याः पशवः । यन्न जुहुयात् । यज्ञवेशसं स्थात् इति । पर्यग्निकृतानेवोत्सृजंति । तन्नै हुतम् । नाहुतम् । न यजमानमरण्यं मृतं हरंति । न यज्ञवेशसं भवति ॥ ३ ॥

हरिस्वामी

कथं पुनरालब्धैरारण्यैर्न संस्थाप्यते यज्ञ इत्यत आह- तदाहुरिति । तत्रारण्यैरसंस्थापने आह- अपशुर्वा । यान्वा पशूनपेक्ष्य न्यूनगुण एष स आरण्यः । नैतस्यारण्यस्य बहिर्वपाभिर्होतव्यम् । यदि जुहुयादयं दोषः स्यात् । यदि न जुहुयात्, यज्ञविनाशः स्यात् । कथं हि देवतायै संकल्पः । सर्वं तदीयेन तेनैव तद्भुतमिति । साक्षादभावपक्षे यन्न हुतम् । पर्यग्निकरणेन तु ग्रसितमिति भवतीति । नाहुतम् । यथा संकल्पितानां च त्यागांते यज्ञविनाशः । वचनाच्च पर्यग्निकरणम् । तैरेवांगैरवैगुण्यमित्यभिप्रायः ॥ ३ ॥

Eggeling
  1. As to this they say, ‘Surely that–to wit, the forest (beast)–is not a beast (or cattle), and offering should not be made thereof: were he to make offering thereof, they would ere long carry away the Sacrificer dead to the woods, for forest (or wild) beasts have the forest for their share; and were he not to make offering thereof, it would be a violation of the sacrifice.’ Well, they dismiss them after fire has been carried around them 6: thus, indeed, it is

neither an offering nor a non-offering, and they do not carry the Sacrificer dead to the forest, and there is no violation of the sacrifice.

०४

विश्वास-प्रस्तुतिः

ग्ग्राम्यैः स᳘ᳫँ᳘स्थापयति॥
वि᳘ पितापुत्राव᳘वस्यतः सम᳘ध्वानः क्रामन्ति स᳘मंतिकङ्ग्रा᳘मयोर्ग्ग्रामान्तौ᳘ भवतो᳘ नर्क्षी᳘काः[[!!]] पुरुषव्याघ्राः᳘[[!!]] परिमोषि᳘ण ऽआव्याधि᳘न्यस्त᳘स्करा ऽअ᳘रण्येष्वा᳘जायन्ते॥

मूलम् - श्रीधरादि

ग्ग्राम्यैः स᳘ᳫँ᳘स्थापयति॥
वि᳘ पितापुत्राव᳘वस्यतः सम᳘ध्वानः क्रामन्ति स᳘मंतिकङ्ग्रा᳘मयोर्ग्ग्रामान्तौ᳘ भवतो᳘ नर्क्षी᳘काः[[!!]] पुरुषव्याघ्राः᳘[[!!]] परिमोषि᳘ण ऽआव्याधि᳘न्यस्त᳘स्करा ऽअ᳘रण्येष्वा᳘जायन्ते॥

मूलम् - Weber

ग्राम्यैः स᳘ᳫं᳘स्थापयति॥
वि᳘ पितापुत्राव᳘वस्यतः सम᳘ध्वानः क्रामन्ति स᳘मन्तिकं ग्रा᳘मयोर्ग्रामान्तौ᳘ भवतो न᳘र्क्षी᳘काः पुरुषव्या᳘घ्राः परिमोषि᳘ण आव्याधि᳘न्यस्त᳘स्करा अ᳘रण्येष्वा᳘जायन्ते॥

मूलम् - विस्वरम्

ग्राम्यैः संस्थापयति । वि पितापुत्राववस्यतः । समध्वानः क्रामंति । समंतिकं ग्रामयोर्ग्रामांतौ भवतः । नर्क्षीकाः पुरुषव्याघ्राः परिमोषिणः आव्याधिन्यस्तस्करा अरण्येष्वाजायंते ॥ ४ ॥

हरिस्वामी

ग्राम्यैः संस्थापयति । पितापुत्रौ वै पृथग्व्यवस्यतः । क्षेमे हि सति विपृथग्वसतः । अक्षेमे तु संबद्धावप्येकत्र वसतः ॥ ४ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशकाण्डे द्वितीये ऽध्याये चतुर्थं ब्राह्मणम् ॥ १३ । २ । ४ ॥

Eggeling
  1. He completes (the sacrifice) with tame (beasts),–father and son part company 7, the roads run together, the village-boundaries of two villages become contiguous, and no ogres, man-tigers, thieves, murderers, and robbers come to be in the forests.

  1. 306:3 The commentary remarks that by ‘roads’ here is meant those walking on them–as, in that case, peace and security would reign, men would range all the lands:–adhvabhir atrādhvasthā lakshyante; ksheme sati manushyāḥ sarvān deśān saṁcareyur ity abhiprāyaḥ. ↩︎

  2. 307:1 Harisvāmin takes ‘samantikam’ in the sense of ’near’ and construes it with ‘grāmayoḥ’ (as he does ‘vidūram’ in the next paragraph)–’the two village-boundaries would be near (far from) the two villages;’ but see I, 4, 1, 22, where samantikam (and IX, 3, 1, 11, where ‘samantikataram’) is likewise used without a complement; as is ‘vidūram’ in I, 4, 1, 23. ↩︎

  3. 307:2 Harisvāmin takes ‘r̥kshīkā’ to ‘mean ‘a bear;’–r̥kshā eva r̥kshīkāḥ. ↩︎

  4. 307:3 Hardly as the commentary takes it, ’they would become blocked up,’ and people would have to stay in their own country:–adhvānaḥ pūrvadeśādayo vikrameyur, viruddhaṁ krāmayeyuḥ (!), svadeśa eva manushyāḥ saṁcareyur na deśāntarepy antarālānām . . bhinnatvād akshematvāc ca vidūraṁ grāmayor grāmāntau syātām. ↩︎

  5. 307:4 Viz. because, for want of security and peace, the villages would be few and far between,–aksheme hi sati praviralā grāmā bhavanti, comm. ↩︎

  6. 307:5 On the ‘paryagnikaraṇam’ or circumambulation of an oblation in accordance with the course of the sun, whilst holding a firebrand in one’s hand, see part i, p. 45, note; part ii, p, 187, note. ↩︎

  7. 308:1 Or, they exert themselves in different directions,–that is, as the commentator explains, because in peace they would not be forced to keep together, as they would have to do in troublous times. He, however, seems somehow to connect ‘vy avasyataḥ’ with the root ‘vas’:–ksheme hi sati pitāputrāv atra vi pr̥thag vasataḥ; aksheme tu sambaddhāv apy etāv atra vasataḥ.–Whilst in this passage the verb would hardly suggest an estrangement between father and son, this is distinctly the case in the parallel passage, Taitt. Br. III, 9, I, 2, where, however, this contingency is connected with the completion of the sacrifice, not, as here, with tame, but with wild beasts. ↩︎