०१

विश्वास-प्रस्तुतिः

देवा वा᳘ ऽअश्वमेधे प᳘वमानम्॥
(ᳫँ᳭) स्वर्ग्गं᳘ लोकन्न प्प्रा᳘जानंस्तम᳘श्वः प्प्रा᳘जानाद्य᳘दश्वमेधे᳘ ऽश्वेन प᳘वमानाय स᳘र्प्पन्ति स्वर्ग्ग᳘स्य लोक᳘स्य प्र᳘ज्ञात्यै पुच्छमन्वा᳘रभन्ते[[!!]] स्वर्ग्ग᳘स्यैव[[!!]] लोक᳘स्य स᳘मष्ट्यै न वै᳘ मनुष्यः[[!!]] स्वर्ग्गं᳘ लोकम᳘ञ्जसा व्वेदा᳘श्वो वै᳘ स्वर्ग्गं᳘ लोकम᳘ञ्जसा व्वेद॥

मूलम् - श्रीधरादि

देवा वा᳘ ऽअश्वमेधे प᳘वमानम्॥
(ᳫँ᳭) स्वर्ग्गं᳘ लोकन्न प्प्रा᳘जानंस्तम᳘श्वः प्प्रा᳘जानाद्य᳘दश्वमेधे᳘ ऽश्वेन प᳘वमानाय स᳘र्प्पन्ति स्वर्ग्ग᳘स्य लोक᳘स्य प्र᳘ज्ञात्यै पुच्छमन्वा᳘रभन्ते[[!!]] स्वर्ग्ग᳘स्यैव[[!!]] लोक᳘स्य स᳘मष्ट्यै न वै᳘ मनुष्यः[[!!]] स्वर्ग्गं᳘ लोकम᳘ञ्जसा व्वेदा᳘श्वो वै᳘ स्वर्ग्गं᳘ लोकम᳘ञ्जसा व्वेद॥

मूलम् - Weber

देवा वा᳘ अश्वमेधे प᳘वमानं॥
स्वर्गं᳘ लोकं न प्रा᳘जानंस्तम᳘श्वः प्रा᳘जानाद्य᳘दश्वमेधे᳘ऽश्वेन प᳘वमानाय स᳘र्पन्ति स्वर्ग᳘स्य लोक᳘स्य प्र᳘ज्ञात्यै पु᳘छमन्वा᳘रभन्ते स्वर्ग᳘स्यैव᳘ लोक᳘स्य स᳘मष्ट्यै न वै᳘ मनुष्यः᳘ स्वर्गं᳘ लोकम᳘ञ्जसा वेदा᳘श्वो वै᳘ स्वर्गं᳘ लोकम᳘ञ्जसा वेद॥

मूलम् - विस्वरम्

देवा वा अश्वमेधे पवमानं स्वर्गं लोकं न प्राजानन् । तमश्वः प्राजानात् । यदश्वमेधे ऽश्वेन पवमानाय सर्प्पन्ति । स्वर्गस्य लोकस्य प्रज्ञात्यै । पुच्छमन्वारभन्ते । स्वर्गस्यैव लोकस्य समष्ट्यै । न वै मनुष्यः स्वर्गं लोकमञ्जसा वेद । अश्वो वै स्वर्गं लोकमञ्जसा वेद ॥ १ ॥

हरिस्वामी

‘देवा वा अश्वमेधे’ अश्वमेधे मध्यमे ऽहनीति शेषः । कुत एतत् अधिकारात् । तथा च उत्तराश्वमेधे “एकविँशं मध्यममहर्भवति” इत्येवमेव प्रकृत्य वक्ष्यति यत् “अश्वं नित्कोदानयन्ति” इति (श. प. १३ । ५ । १ । ५-१६) पवमानं प्रातःसवनिकं बहिष्पवमानम् 1 । कुत एतत् । स हि नौर्ह वा एषो ऽस्य ज्योतिःसंस्तुत इह च स्वर्गं लोकमित्याह- स एष जीवत्यश्वे वर्तते । उत्तरौ तु पवमानौ संज्ञप्ते ऽश्वे वर्तेते । तदर्थं कथमश्वेन सर्पेत् । यः स्वर्गं लोकं स्वर्गलोकसंस्तुतं प्रज्ञातवंतः । बहिष्पवमानं च स्वर्गं लोकमश्वः प्रज्ञातवान् । यदश्वमेधे मध्यमे ऽहनि अश्वेनोद्गातृस्थानीयेन सह बहिष्पवमानायाश्वाय यजमानो ब्रह्मा ऽऽवसथात्सर्पति, तत्स्वर्गस्य प्रज्ञात्यै पुच्छमन्वारभंते स्वर्गस्यैव । अश्वो वै स्वर्गं लोकं अंजसा ऋजुना मार्गेण वेद । स हि प्रजापतिरित्यभिप्रायः ॥ १ ॥

Eggeling
  1. Now, the gods did not know the Pavamāna 2 at the Aśvamedha to be the heavenly world, but the horse knew it. When, at the Aśvamedha,

they glide along 3 with the horse for the Pavamāna (-stotra), it is for getting to know (the way to) the heavenly world; and they hold on to the horse’s tail, in order to reach the heavenly world; for man does not rightly know (the way to) the heavenly world, but the horse does rightly know it

०२

विश्वास-प्रस्तुतिः

य᳘दुद्गा᳘तोद्गा᳘येत्॥
(द्य) यथा᳘ ऽक्षेत्रज्ञो ऽन्ये᳘न पथा न᳘येत्ता᳘दृक्तद᳘थ य᳘दुद्गाता᳘रमवरुध्या᳘श्वमुद्गीथा᳘य व्वृणीते य᳘था क्षेत्रज्ञो᳘ ऽञ्जसा न᳘येदेव᳘मे᳘वैतद्य᳘जमानम᳘श्वः स्वर्ग्गं᳘ लोकम᳘ञ्जसा नयति हि᳘ङ्करोति सा᳘मैव तद्धि᳘ङ्करोत्युद्गीथ᳘ ऽएव स व्व᳘डवा ऽउ᳘परुन्द्धन्ति स᳘ᳫँ᳘शिञ्जते य᳘थोपगाता᳘र ऽउपगा᳘यन्ति तादृक्तद्धि᳘रण्यन्द᳘क्षिणा सुव᳘र्ण्णᳫँ᳭ शत᳘मानन्त᳘स्योक्तं ब्रा᳘ह्मणम्॥

मूलम् - श्रीधरादि

य᳘दुद्गा᳘तोद्गा᳘येत्॥
(द्य) यथा᳘ ऽक्षेत्रज्ञो ऽन्ये᳘न पथा न᳘येत्ता᳘दृक्तद᳘थ य᳘दुद्गाता᳘रमवरुध्या᳘श्वमुद्गीथा᳘य व्वृणीते य᳘था क्षेत्रज्ञो᳘ ऽञ्जसा न᳘येदेव᳘मे᳘वैतद्य᳘जमानम᳘श्वः स्वर्ग्गं᳘ लोकम᳘ञ्जसा नयति हि᳘ङ्करोति सा᳘मैव तद्धि᳘ङ्करोत्युद्गीथ᳘ ऽएव स व्व᳘डवा ऽउ᳘परुन्द्धन्ति स᳘ᳫँ᳘शिञ्जते य᳘थोपगाता᳘र ऽउपगा᳘यन्ति तादृक्तद्धि᳘रण्यन्द᳘क्षिणा सुव᳘र्ण्णᳫँ᳭ शत᳘मानन्त᳘स्योक्तं ब्रा᳘ह्मणम्॥

मूलम् - Weber

य᳘दुद्गाॗतोद्गा᳘येत्॥
यथा᳘क्षेत्रज्ञोऽन्ये᳘न पथा न᳘येत्तादृक्तद᳘थ य᳘दुद्गाता᳘रमवरुध्या᳘श्वमुद्गीथा᳘य वृणीते य᳘था क्षेत्रज्ञो᳘ऽञ्जसा न᳘येदेव᳘मेॗवैतद्य᳘जमानम᳘श्वः स्वर्गं᳘ लोकम᳘ञ्जसा नयति हि᳘ङ्करोति सा᳘मैव तद्धि᳘ङ्करोत्युद्गीथ᳘ एव स व᳘डवा उ᳘परुन्धन्ति सं᳘शिञ्जते य᳘थोपगाता᳘र उपगा᳘यन्ति तादृक्तद्धि᳘रण्यं द᳘क्षिणा सुव᳘र्णं शत᳘मानं त᳘स्योक्तम् ब्रा᳘ह्मणम्॥

मूलम् - विस्वरम्

यदुद्गातोद्गायेत् । यथा ऽक्षेत्रज्ञो ऽन्येन पथा नयेत् । तादृक्तत् । अथ यदुद्गातारमपरुध्याश्वमुद्गीथाय वृणीते । यथा क्षेत्रज्ञो ऽञ्जसा नयेत् । एवमेवैतत् यजमानमश्वः स्वर्गं लोकमञ्जसा नयति । हिं करोति । सामैव तत् । हिं करोति । उद्गीथ एव सः वडवा उपरुन्धन्ति संशिञ्जते । यथोपगातार उपगायन्ति । तादृक्तत् । हिरण्यं दक्षिणा । सुवर्णं शतमानम् । तस्योक्तं ब्राह्मणम् ॥ २ ॥

हरिस्वामी

यद्यदि उद्गाता स्तोतृप्रतिहर्तृभ्यां सह उद्गायेत् स्तोत्रं कुर्यात् । ततो यथा अक्षेत्रज्ञः अन्येन पथा गंतव्ये नयेत् । तद्वत्ते ऽन्येन गच्छंति स्वदर्शनप्राप्तायाः तादृक्तत् । अथ यत् उद्गातारं ससहायमपरुध्यापनीय अश्वमुद्गीथाय स्तोत्राय वृणते । तद्यथा क्षेत्रज्ञः देशज्ञः अंजसा नयेत् । एवं यजमानमश्वः स्वर्गं पवमानमंजसा नयति । ‘हिं करोति’ हेषितशब्दं करोति । सो ऽश्वः बहिष्पवमानदेशं गत्वा यच्च हिं करोति । तत्साम हिं करोति । साम एव तत् हिंकारं करोतीत्यर्थः । उद्गीथ एव स इति । न हिंकारमात्रं तत् । किं तर्हि सकलमेव तत्स्तोत्रं द्रष्टव्यमित्यर्थः । वडवा 4 उप अस्याश्वस्य समीपे रुंधंति । यजमानपुरुषा अश्वाश्च तेन संशिंजते । अव्यक्तं स्वनंति । तथा कार्यम्, यथा ताः संशिंज्यंते । अथ कस्मात् उद्गीथभक्तेरेवायं विकारो न भवति । नैतदेवम् । उपक्रमे हि पवमानस्तोत्रमेव देवा न प्राजानंस्तमश्वः प्राजानादित्याह- ततश्च स्तोत्रविकार एवायं लक्षणया गम्यते । तेन च स्वभक्तिमात्रविकारः । अन्ये त्वाहुः अश्वस्य पुच्छमन्वारभ्य बहिष्पवमानाय सर्पंति । वडवा दर्शयति । अभिरसं शिंजाना इत्येतावदनुविधीयते । तत्रोद्गीथोपगीतवचनं शक्तिमात्रमिति तेषामुद्गातारः स्तुवत 5 एवेति ॥ २ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशकाण्डे द्वितीये ऽध्याये तृतीयं ब्राह्मणम् ॥ १३ । २ । ३॥

Eggeling
  1. Were the Udgātr̥ to chant the Udgītha 6, it would be even as if one who does not know the country were to lead by another (than the right) way. But if, setting aside the Udgātr̥, he chooses

the horse for (performing) the Udgītha, it is just as when one who knows the country leads on the right way: the horse leads the Sacrificer rightly to the heavenly world. It makes ‘Hiṅ 7,’ and thereby makes the. Sāman itself to be ‘hiṅ’: this is the Udgītha. They pen up mares, (and on seeing the horse) they utter a shrill sound: as when the chanters sing, such like is this. The priests’ fee is gold weighing a hundred (grains): the mystic import of this has been explained 8.


  1. बहिष्पवमानाय सर्पणमश्वमालभ्य । का. श्रौ. सू. २० । ११८ । ↩︎

  2. 304:2 Pavamāna is the name of the pressed Soma while it is ‘clarifying.’ Hence the first stotra of each of the three Savanas of a Soma-day–chanted after the pressing of the Soma and the drawing of the principal cups–is called Pavamāna-stotra. Whether by the term ‘Pavamāna’ here the clarifying Soma is alluded to, as well as the stotra–which alone the commentator takes it to mean, and to which the second mention certainly refers–must remain doubtful. The commentator, it would seem, accounts for this identification of the Pavamāna-stotra with heaven by the fact that the second day of the Aśvamedha is an ekaviṁśa day (see XIII, 3, 3, 3; Tāṇḍya-Br. XXI, 4, 1), i.e. one on which all the stotras are performed in the twenty-one-versed hymn-form; and that the Sun is commonly called ’ekaviṁśa,’ the twenty-first, or twenty-one-fold. The particular chant intended is that of the morning pressing, viz. the Bahishpavamāna, or outside-Pavamāna-stotra, so-called because at the ordinary one-day’s Soma-sacrifice, it is chanted outside the Sadas. But, on the other hand, in the case of Ahīna-sacrifices, or those lasting from two to twelve days, that stotra is chanted outside only on the first day, whilst on the others it is done inside the Sadas. An exception is, however, made in the case of the Aśvamedha, which requires the morning Pavamāna, on all three days, to be performed in its usual place on the north-eastern part of Vedi, south of the Cātvāla. ↩︎

  3. 305:1 For the noiseless way of sliding or creeping from the Sadas, and returning thither, and approaching the different Dhishṇyas, or fire-hearths, see part ii, p. 299, note 2. As has already been stated, it is only after the chanting of the Bahishpavamāna that the victims are driven up to the offering place. ↩︎

  4. वडवा दर्शयत्यभिरसति तत्स्तोत्रम् । का. श्रौ. सू. २० । ११९ । ↩︎

  5. शतमानं ददाति । का. श्रौ. सू. २० । १२१ । ↩︎

  6. 305:2 It is from this, the principal part of the Sāman, or chanted verse (cf. part ii, p. 310, note), that the Udgātr̥ takes his name; this particular function of his being, on the present occasion, supposed to he performed by the whinnying of the horse. After this they make the horse step on the chanting-ground, apparently either as a visible recognition of the part it has been made to play, or because the horse thereby is made to go to heaven with which the Bahishpavamāna was identified. ↩︎

  7. 306:1 On the mystic significance of this ejaculation (here compared with the neighing of the horse) in the sacrifice, and especially in the Sāman, see I, 4, 1, 1 seqq.; II, 2, 4, 12. ↩︎

  8. 306:2 XII, 7, 2, 13. ↩︎