०१
विश्वास-प्रस्तुतिः
रा᳘जा वा᳘ ऽएष᳘ यज्ञा᳘नां य᳘दश्वमेधः[[!!]]॥
(घो) य᳘जमानो᳘ वा ऽअश्वमेधो य᳘जमानो यज्ञो यद᳘श्वे पशू᳘न्नियुन᳘क्ति यज्ञ᳘ ऽएव त᳘द्यज्ञमा᳘रभते॥
मूलम् - श्रीधरादि
रा᳘जा वा᳘ ऽएष᳘ यज्ञा᳘नां य᳘दश्वमेधः[[!!]]॥
(घो) य᳘जमानो᳘ वा ऽअश्वमेधो य᳘जमानो यज्ञो यद᳘श्वे पशू᳘न्नियुन᳘क्ति यज्ञ᳘ ऽएव त᳘द्यज्ञमा᳘रभते॥
मूलम् - Weber
राजा वा᳘ एष᳘ यज्ञा᳘नां य᳘दश्वमेधः᳟॥
य᳘जमानो वा᳘ अश्द्यज्ञमा᳘रभतेवमेधो य᳘जमानो यज्ञो यद᳘श्वे पशू᳘न्नियुन᳘क्ति यज्ञ᳘ एव त᳟॥
मूलम् - विस्वरम्
राजा वा एष यज्ञानां यदश्वमेधः । यजमानो वा अश्वमेधः । यजमानो यज्ञः । यदश्वे पशून्नियुनक्ति । यज्ञ एव तद्यज्ञमारभते ॥ १ ॥
हरिस्वामी
राजा वा एषः । राजेव राजा । अनुचरभूतानां तूपरादीनां अग्रे सरस्वत्याः संस्कार…… रेकाच्च । एष यज्ञानां यज्ञसाधनानां पशूनां यदश्वमेधः । अश्वश्चासौ मेधश्च । यज्ञसाधनमश्वमेधः । अश्वः पशूनां राजेव राजते इत्यर्थः । ततश्च “सेनामुखमेवास्यैतेन सँश्यति” इत्यादिभी राजोपकरणैर्योक्ष्यते । यजमानो वा अश्वमेधः पशुर्यज्ञसाधनभूतः । यज्ञसाधनत्वात् यजमान एव । ततश्च यज्ञात्मकाद्यजमानादभिन्नत्वात् अश्वो ऽपि यज्ञः । तूपरादयो ऽपि इति कृत्वा यदश्वे पशून् कृष्णग्रीवादीन्नियुनक्ति, तद्यज्ञ एव । कृष्णग्रीवात्मके यज्ञमश्वात्मकमारभते प्राप्नोति । उपकरणभूत उपकार्यभूतम् ॥ १ ॥
Eggeling
- Verily, this–to wit, the Aśvamedha–is the king of sacrifices. But, indeed, the Aśvamedha is the Sacrificer, (for) the sacrifice is the Sacrificer: when he (the priest) binds victims to the horse (or, at the horse-sacrifice), he then, indeed, takes hold 1 of the sacrifice at the sacrifice.
०२
विश्वास-प्रस्तुतिः
(ते ऽश्वं) अ᳘श्वन्तूपर᳘ङ्गोमृगमि᳘ति॥
ता᳘न्मध्यमे यू᳘प ऽआ᳘लभते सेनामुख᳘मे᳘वास्यैते᳘न स᳘ᳫँ᳘श्यति त᳘स्माद्रा᳘ज्ञः सेनामुख᳘म्भीष्मम्भा᳘वुकम्॥
मूलम् - श्रीधरादि
(ते ऽश्वं) अ᳘श्वन्तूपर᳘ङ्गोमृगमि᳘ति॥
ता᳘न्मध्यमे यू᳘प ऽआ᳘लभते सेनामुख᳘मे᳘वास्यैते᳘न स᳘ᳫँ᳘श्यति त᳘स्माद्रा᳘ज्ञः सेनामुख᳘म्भीष्मम्भा᳘वुकम्॥
मूलम् - Weber
अ᳘श्वं तूपरं᳘ गोमृगमि᳘ति॥
ता᳘न्मध्यमे यू᳘प आ᳘लभते सेनामुख᳘मेवास्यैते᳘न सं᳘श्यति त᳘स्माद्रा᳘ज्ञः सेनामुख᳘म् भीष्मम् भा᳘वुकम्॥
मूलम् - विस्वरम्
अश्वं 2 परं गोमृगमिति । तान्मध्यमे यूप आलभते । सेनामुखमेवास्यैतेन संश्यति । तस्माद्राज्ञः सेनामुखं भीष्मं भावुकम् ॥ २ ॥
हरिस्वामी
अश्वम् । तूपरं । अशृंगमजम् । गोमृगं मृगाकारं गाम् । इत्येवमेव यथा निदर्शितान् । तानिति एतदः स्थाने तदः प्रयोगः । एतान् मध्यमे यूपे आलभते । सेनामुखमेव अस्याश्वस्य राजभूतस्य एतेन रूपेण मध्यमे यूपे आलब्धानेतान् संश्यति संस्करोति । राजभूतमप्यश्वं सेनामुख एव करोतीत्यर्थः ॥ २ ॥
Eggeling
- ‘A horse, a hornless he-goat, and a Gomr̥ga 3’
these they bind to the central stake: thereby, indeed, he (the priest) sharpens the front of his (the Sacrificer’s) army 4, whence the front of the king’s army is sure to become terrible.
०३
विश्वास-प्रस्तुतिः
(कङ्कृ) कृष्ण᳘ग्ग्रीवमाग्नेय᳘ᳫँ᳘ ररा᳘टे पुर᳘स्तात्॥
(त्पू) पूर्व्वाग्नि᳘मेव तं᳘ कुरुते त᳘स्माद्रा᳘ज्ञः पूर्व्वाग्निर्भ्भा᳘वुकः॥
मूलम् - श्रीधरादि
(कङ्कृ) कृष्ण᳘ग्ग्रीवमाग्नेय᳘ᳫँ᳘ ररा᳘टे पुर᳘स्तात्॥
(त्पू) पूर्व्वाग्नि᳘मेव तं᳘ कुरुते त᳘स्माद्रा᳘ज्ञः पूर्व्वाग्निर्भ्भा᳘वुकः॥
मूलम् - Weber
कृष्ण᳘ग्रीवमाग्नेयं᳘ ररा᳘टे पुर᳘स्तात्॥
पूर्वाग्नि᳘मेव तं᳘ कुरुते त᳘स्माद्रा᳘ज्ञः पूर्वाग्निर्भा᳘वुकः॥
मूलम् - विस्वरम्
कृष्णग्रीवमाग्नेयं रराटे पुरस्तात् । पूर्वाग्निमेव तं कुरुते । तस्माद्राज्ञः पूर्वाग्निर्भावुकः ॥ ३ ॥
हरिस्वामी
कृष्णग्रीवमजमग्निदेवत्यम् । रराटे ललाटे अश्वस्य यूपभूते उपायेनालभते नियुनक्ति । पुरस्तात् अग्रतो ऽश्वस्येत्यर्थः । ननु- पूर्वस्यां दिशि पशूनां प्रत्यङ्मुखानां सामर्थ्यादेवालंभे सति पूर्वस्यां दिश्यालंभानुपपत्तेः पूर्वाग्निमेव त्रेतायाः प्रथमतरं भवतीत्यावसथ्यः । पूर्वाग्निमेव तं अश्वस्य राजभूतस्य कुरुते । तस्मात्तदनुकारेण राज्ञः पूर्वाग्निः साधुर्भवति । तत्राहितस्य शांतिकपौष्टिकाभिचारिकादीनि बहूनि कर्माणि क्रियन्ते ॥ ३ ॥
Eggeling
०४
विश्वास-प्रस्तुतिः
सारस्वती᳘म्मेषी᳘मध᳘स्ताद्ध᳘न्वोः॥
स्त्री᳘रेव त᳘दनुगाः᳘ कुरुते त᳘स्मात्स्त्रि᳘यः पुᳫँ᳭सो᳘ ऽनुवर्त्मानो भा᳘वुकाः॥
मूलम् - श्रीधरादि
सारस्वती᳘म्मेषी᳘मध᳘स्ताद्ध᳘न्वोः॥
स्त्री᳘रेव त᳘दनुगाः᳘ कुरुते त᳘स्मात्स्त्रि᳘यः पुᳫँ᳭सो᳘ ऽनुवर्त्मानो भा᳘वुकाः॥
मूलम् - Weber
सारस्वतीम् मेषी᳘मध᳘स्ताद्ध᳘न्वोः 7 ॥
स्त्री᳘रेव त᳘दनुगाः᳘ कुरुते त᳘स्मात्स्त्रि᳘यः पुंसो᳘ऽनुवर्त्मानो भा᳘वुकाः॥
मूलम् - विस्वरम्
सारस्वतीं मेषीमधस्ताद्धन्वोः । स्त्रीरेव तदनुगाः कुरुते । तस्मात् स्त्रियः पुंसो ऽनुवर्त्मानो भावुकाः ॥ ४ ॥
हरिस्वामी
सारस्वतीं मेषीं हन्वोर्यूपभूतयोः उपायेनालभते । हन्वोर्हि र्मेष्यालंम्बा सा चाधस्तादेव भवति । स्त्रीरेव तत्तेन अनुगाः अनुगामिनीः पुंसः कुरुते । तस्मात् स्त्रियः पुरुषस्यानुवर्तमानाः साधु भवंति । अनुवर्त्मत्वेन कृतानुकारता । अनुकारकारिणीति आनुकूल्यं लक्ष्यते ॥ ४ ॥
Eggeling
- An ewe, for Sarasvatī, beneath the (horse’s) jaws: he thereby makes women to be dependent, whence women are sure to be attendant upon man.
०५
विश्वास-प्रस्तुतिः
(ऽ) आश्विना᳘वधो᳘रामौ बाह्वोः᳘॥
(र्बा) बाह्वो᳘रेव ब᳘लन्धत्ते त᳘स्माद्रा᳘जा बाहुबली भा᳘वुकः॥
मूलम् - श्रीधरादि
(ऽ) आश्विना᳘वधो᳘रामौ बाह्वोः᳘॥
(र्बा) बाह्वो᳘रेव ब᳘लन्धत्ते त᳘स्माद्रा᳘जा बाहुबली भा᳘वुकः॥
मूलम् - Weber
आश्विना᳘वधो᳘रामौ बाह्वोः᳟॥
बाह्वो᳘रेव ब᳘लं धत्ते त᳘स्माद्रा᳘जा बाहुबली भा᳘वुकः॥
मूलम् - विस्वरम्
आश्विनावधोरामौ बाह्वोः । बाह्वोरेव बलं धत्ते । तस्मात् राजा बाहुबली भावुकः ॥ ५ ॥
हरिस्वामी
‘बाहुबली’ बाहुबलमस्यास्तीति बाहुबली ॥ ५–८ ॥
Eggeling
०६
विश्वास-प्रस्तुतिः
सौमापौष्ण᳘ᳫँ᳘ श्यामन्ना᳘भ्याम्॥
(म्प्र) प्प्रतिष्ठा᳘मेव ता᳘ङ्कुरुत ऽइयम्वै᳘ पू᳘षा ऽस्या᳘मेव प्प्र᳘तितिष्ठति॥
मूलम् - श्रीधरादि
सौमापौष्ण᳘ᳫँ᳘ श्यामन्ना᳘भ्याम्॥
(म्प्र) प्प्रतिष्ठा᳘मेव ता᳘ङ्कुरुत ऽइयम्वै᳘ पू᳘षा ऽस्या᳘मेव प्प्र᳘तितिष्ठति॥
मूलम् - Weber
सौमापौष्णं᳘ श्यामं ना᳘भ्याम्॥
प्रतिष्ठा᳘मेव तां᳘ कुरुत इयं वै᳘ पूॗषास्या᳘मेव प्र᳘तितिष्ठति॥
मूलम् - विस्वरम्
सौमापौष्णं श्यामं नाभ्याम् । प्रतिष्ठामेव तां कुरुते । इयं वै पूषा । अस्यामेव प्रतितिष्ठति ॥ ६ ॥
हरिस्वामी
[व्याख्यानं पञ्चमे]
Eggeling
- A dark-grey (he-goat) for Soma and Pūshan at the (horse’s) navel: a foothold he makes this one; for Pūshan is this (earth): it is thereon he establishes himself.
०७
विश्वास-प्रस्तुतिः
सौर्य्ययामौ᳘ श्वेत᳘ञ्च कृष्ण᳘ञ्च पार्श्व᳘योः॥
क᳘वचे ऽएव ते᳘ कुरुते त᳘स्माद्रा᳘जा स᳘न्नद्धो व्वी᳘र्य्यङ्करोति[[!!]]॥
मूलम् - श्रीधरादि
सौर्य्ययामौ᳘ श्वेत᳘ञ्च कृष्ण᳘ञ्च पार्श्व᳘योः॥
क᳘वचे ऽएव ते᳘ कुरुते त᳘स्माद्रा᳘जा स᳘न्नद्धो व्वी᳘र्य्यङ्करोति[[!!]]॥
मूलम् - Weber
सौर्ययामौ᳘ श्वेतं᳘ च कृष्णं᳘ च पार्श्व᳘योः॥
क᳘वचे एव ते᳘ कुरुते त᳘स्माद्रा᳘जा सं᳘नद्धो वीर्यं᳘ करोति॥
मूलम् - विस्वरम्
सौर्ययामौ श्वेतं च कृष्णं च पार्श्वयोः । कवचे एव ते कुरुते । तस्माद्राजा सन्नद्धो वीर्यं करोति ॥ ७ ॥
हरिस्वामी
[व्याख्यानं पञ्चमे]
Eggeling
- A white one and a black one, for Sūrya and Yama, on the flanks: a suit of armour he makes those two: whence the king, clad in mail, performs heroic deeds.
०८
विश्वास-प्रस्तुतिः
त्वाष्ट्रौ᳘ लोमश᳘सक्थौ सक्थ्योः᳘॥
(रू) ऊर्व्वो᳘रेव ब᳘लन्धत्ते त᳘स्माद्रा᳘जोरुबली भा᳘वुकः॥
मूलम् - श्रीधरादि
त्वाष्ट्रौ᳘ लोमश᳘सक्थौ सक्थ्योः᳘॥
(रू) ऊर्व्वो᳘रेव ब᳘लन्धत्ते त᳘स्माद्रा᳘जोरुबली भा᳘वुकः॥
मूलम् - Weber
त्वाष्ट्रो᳘ लोमश᳘सक्थौ सक्थ्योः᳟॥
ऊर्वो᳘रेव ब᳘लं धत्ते त᳘स्माद्रा᳘जोरुबली भा᳘वुकः॥
मूलम् - विस्वरम्
त्वाष्ट्रौ लोमशसक्थौ सक्थ्योः । ऊर्वोरेव बलं धत्ते । तस्माद्राजोरुबली भावुकः ॥ ८ ॥
हरिस्वामी
[व्याख्यानं पञ्चमे]
Eggeling
- Two, with shaggy hind thighs, for Tvashṭr̥, to the hind legs: he lays strength into the thighs, whence the king is sure to be strong in his thighs.
०९
विश्वास-प्रस्तुतिः
(को) व्वाय᳘व्यᳫँ᳭ श्वेतम्पु᳘च्छे॥
(च्छ ऽउ) उत्सेध᳘मेव[[!!]] त᳘ङ्कुरुते त᳘स्मादुत्सेध᳘म्प्रजा᳘ भ᳘ये ऽभिस᳘ᳫँ᳘श्रयन्ती᳘न्द्राय स्वप᳘स्याय व्वेह᳘तं यज्ञ᳘स्य सेन्द्र᳘तायै व्वैष्णवो᳘ व्वामनो᳘ यज्ञो वै व्वि᳘ष्णुर्य्यज्ञ᳘ ऽए᳘वान्ततः प्प्र᳘तितिष्ठति॥
मूलम् - श्रीधरादि
(को) व्वाय᳘व्यᳫँ᳭ श्वेतम्पु᳘च्छे॥
(च्छ ऽउ) उत्सेध᳘मेव[[!!]] त᳘ङ्कुरुते त᳘स्मादुत्सेध᳘म्प्रजा᳘ भ᳘ये ऽभिस᳘ᳫँ᳘श्रयन्ती᳘न्द्राय स्वप᳘स्याय व्वेह᳘तं यज्ञ᳘स्य सेन्द्र᳘तायै व्वैष्णवो᳘ व्वामनो᳘ यज्ञो वै व्वि᳘ष्णुर्य्यज्ञ᳘ ऽए᳘वान्ततः प्प्र᳘तितिष्ठति॥
मूलम् - Weber
वायव्यं᳘ श्वेतम् पु᳘छे॥
उत्से᳘ध᳘मेव तं᳘ कुरुते त᳘स्मादुत्सेध᳘म् प्रज्:! भॗयेऽभिसं᳘श्रयन्ती᳘न्द्राय स्वपॗस्याय वेह᳘तम् यज्ञ᳘स्य सेन्द्र᳘तायै वैष्णवो᳘ वामनो᳘ यज्ञो वै वि᳘ष्णुर्यज्ञ᳘ एॗवान्ततः प्र᳘तितिष्ठति॥
मूलम् - विस्वरम्
वायव्यं श्वेतं पुच्छे । उत्सेधमेव तं कुरुते । तस्मादुत्सेधं प्रजा भये ऽभिसंश्रयन्ति । इन्द्राय स्वपस्याय वेहतम् । यज्ञस्य सेन्द्रतायै । वैष्णवो वामनः । यज्ञो वै विष्णुः । यज्ञ एवान्ततः प्रतितिष्ठति ॥ ९ ॥
हरिस्वामी
उत्सेधमुच्छ्रायं पर्वतादिकं स्थलं प्रासादं वा तत्कुरुते । वायुर्हि स्कंधस्य उच्छ्रित इत्यभिप्रायः । तस्मादुत्सेधं स्थलं प्रासादं वा पर्वतं सप्रोदं भये सति प्रजा अभिसंश्रयन्ति । स हि राजसंबंधो राजवत्पालयतीति मन्यमाने । वेहतं गर्भघातिनम् ॥ ९ ॥
Eggeling
- A white one, for Vāyu, to the tail,–an elevation he makes this one, whence people in danger betake themselves to an elevated place 10;–a cow wont to cast her calf, for Indra, the ever active, in order to associate the sacrifice with Indra;–a dwarfish one for Vishṇu; for Vishṇu is the sacrifice: it is in the sacrifice he (the Sacrificer) thus finally establishes himself.
१०
विश्वास-प्रस्तुतिः
ते वा᳘ ऽएते[[!!]]॥
प᳘ञ्चदश प᳘र्य्यङ्ग्याः पश᳘वो भवन्ति पञ्चदशो वै व्व᳘ज्रो व्वी᳘र्य्यम्व᳘ज्रो[[!!]] व्व᳘ज्रेणै᳘वैत᳘द्वी᳘र्य्येण य᳘जमानः पुर᳘स्तात्पाप्मा᳘नम᳘पहते॥
मूलम् - श्रीधरादि
ते वा᳘ ऽएते[[!!]]॥
प᳘ञ्चदश प᳘र्य्यङ्ग्याः पश᳘वो भवन्ति पञ्चदशो वै व्व᳘ज्रो व्वी᳘र्य्यम्व᳘ज्रो[[!!]] व्व᳘ज्रेणै᳘वैत᳘द्वी᳘र्य्येण य᳘जमानः पुर᳘स्तात्पाप्मा᳘नम᳘पहते॥
मूलम् - Weber
ते वा᳘ एते᳟॥
प᳘ञ्चदश प᳘र्यङ्ग्याः पश᳘वो भवन्ति पञ्चदशो वै व᳘ज्रो वीर्यं᳘ व᳘ज्रो व᳘ज्रेणैॗवैत᳘द्वीॗर्येण य᳘जमानः पुर᳘स्तात्पाप्मा᳘नम᳘पहते॥
मूलम् - विस्वरम्
ते वा एते पंचदश पर्यंग्याः पशवो भवन्ति । पंचदशो वै वज्रः । वीर्यं वज्रः । वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते ॥ १० ॥
हरिस्वामी
ते वा एते पर्यंग्याः । राज्ञः पर्यंगानि सेनापत्यादीनि यूपेषु सर्वेषु पंचदशसु एव नियुज्यत इत्यर्थः । अश्वो ह्यग्निष्टे नियुज्यते इत्यर्थः । (कृष्णग्रीवादयो ऽप्यश्व इतिषु नदाः पर्यंग्या एव ही ते च विंशदश्वस्तूपरगोमृगैर्भवन्ति ?) । यदि पुनरश्वस्य पर्यंगानि रराटादीनि तेषु भवाः पर्यंग्या इति स्यात् । ततः कृष्णग्रीवादयो द्वादशैव पर्यंग्याः स्युः । पंचदशैव पशव इतरेषु नियुज्यंते नियुक्ता भवन्ति । तेन विधीयमानत्वात्तत्र दुरितशयहतैरपहतैरेव केवलमेतैः पंचदशभिः पाप्मानं हताः इतिकरणं उत्तरकंडिकाया इति वाक्यसमाप्त्यर्थो द्रष्टव्यः । अकृत्स्नं तु प्रजापतिं संस्करोति । न चेदं सर्वमवरुंध इति दूषणम् । कथं तर्हि कुर्यात् ? इत्यत एवाहुः ॥ १०-१२ ॥
Eggeling
- These, then, are the fifteen ‘paryaṅgya’ (body-encircling) 11 animals,–for fifteenfold is the
thunderbolt, and the thunderbolt means manly vigour: with that thunderbolt, manly vigour, the Sacrificer now repels evil from in front 12 (of the sacrifice).
११
विश्वास-प्रस्तुतिः
प᳘ञ्चदश पञ्चदशो ऽएवे᳘तरेषु॥
पञ्चदशो वै व्व᳘ज्रो व्वी᳘र्य्यम्व᳘ज्रो[[!!]] व्व᳘ज्रेण᳘वैत᳘द्वी᳘र्य्येण य᳘जमानो ऽभि᳘तः पाप्मा᳘नम᳘पहते॥
मूलम् - श्रीधरादि
प᳘ञ्चदश पञ्चदशो ऽएवे᳘तरेषु॥
पञ्चदशो वै व्व᳘ज्रो व्वी᳘र्य्यम्व᳘ज्रो[[!!]] व्व᳘ज्रेण᳘वैत᳘द्वी᳘र्य्येण य᳘जमानो ऽभि᳘तः पाप्मा᳘नम᳘पहते॥
मूलम् - Weber
प᳘ञ्चदश पञ्चदशो एवे᳘तरेषु॥
पञ्चदशो वै व᳘ज्रो वीर्यं᳘ व᳘ज्रो व᳘ज्रेणॗवैत᳘द्वीॗर्येण य᳘जमानोऽभि᳘तः पाप्मा᳘नम᳘पहते॥
मूलम् - विस्वरम्
पंचदश पंचदश उ एवेतरेषु । पंचदशो वै वज्रः । वीर्यं वज्रः । वज्रेणैवैतद्वीर्येण यजमानो ऽभितः पाप्मानमपहते ॥ ११ ॥
हरिस्वामी
[व्याख्यानं दशमे]
Eggeling
- And fifteen (victims), indeed, are (bound) to each of the other (stakes);–for fifteenfold is the thunderbolt, and the thunderbolt means manly vigour: with that thunderbolt, manly vigour, the Sacrificer now repels evil on both sides 13 (of the sacrifice).
१२
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र) अपा᳘है᳘वैतैः᳘ पाप्मा᳘नᳫँ᳭ हता ऽइत्य᳘कृत्स्नञ्च त्वै᳘ प्रजा᳘पतिᳫँ᳭ सᳫँ᳭स्करो᳘ति[[!!]] न᳘ चेदᳫँ᳭ स᳘र्व्वम᳘वरुन्द्धे॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र) अपा᳘है᳘वैतैः᳘ पाप्मा᳘नᳫँ᳭ हता ऽइत्य᳘कृत्स्नञ्च त्वै᳘ प्रजा᳘पतिᳫँ᳭ सᳫँ᳭स्करो᳘ति[[!!]] न᳘ चेदᳫँ᳭ स᳘र्व्वम᳘वरुन्द्धे॥
मूलम् - Weber
त᳘दाहुः॥
अपा᳘हैॗवैतैः᳘ पाप्मा᳘नᳫं हता इत्य᳘कृत्स्नं च त्वै᳘ प्रजा᳘पतिᳫं स᳘ᳫं᳘स्करोति न᳘ चेदᳫं स᳘र्वम᳘वरुन्द्धे॥
मूलम् - विस्वरम्
तदाहुः । अपाहैवैतैः पाप्मानं हता इति । अकृत्स्नं च वै प्रजापतिं संस्करोति । न चेदं सर्वमवरुन्धे ॥ १२ ॥
हरिस्वामी
[व्याख्यानं दशमे]
Eggeling
- As to this they say, ‘Does he really repel evil by these?’ And, indeed, he does not make up the complete Prajāpati, and does not here gain everything.
१३
विश्वास-प्रस्तुतिः
सप्त᳘दशैव᳘ पशू᳘न्मध्यमे यू᳘प ऽआ᳘लभेत॥
सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिरश्वमे᳘धो ऽश्वमेध᳘स्यैवा᳘प्त्यै षो᳘डश षोडशे᳘तरेषु षो᳘डशकलम्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वन्त᳘दिदᳫँ᳭ स᳘र्व्वम᳘वरुन्द्धे॥
मूलम् - श्रीधरादि
सप्त᳘दशैव᳘ पशू᳘न्मध्यमे यू᳘प ऽआ᳘लभेत॥
सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिरश्वमे᳘धो ऽश्वमेध᳘स्यैवा᳘प्त्यै षो᳘डश षोडशे᳘तरेषु षो᳘डशकलम्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वन्त᳘दिदᳫँ᳭ स᳘र्व्वम᳘वरुन्द्धे॥
मूलम् - Weber
सप्त᳘दशैव᳘ पशू᳘न्मध्यमे यू᳘प आ᳘लभेत॥
सप्तदशो वै᳘ प्रजा᳘पतिम् प्रजा᳘पतिरश्वमेधोऽश्वमेध᳘स्यैवा᳘प्त्यै षो᳘डश षोडशे᳘तरेषु षो᳘डशकलं वा᳘ इदᳫं स᳘र्वं त᳘दिदᳫं स᳘र्व म᳘वरुन्द्धे॥
मूलम् - विस्वरम्
सप्तदशैव पशून्मध्यमे यूप आलभेत । सप्तदशो वै प्रजापतिः । प्रजापतिरश्वमेधः । अश्वमेधस्यैवाप्त्यै । षोडश षोडशेतरेषु । षोडशकलं वा इदं सर्वम् । तदिदं सर्वमवरुन्धे ॥ १३ ॥
हरिस्वामी
सप्तदशैवेत्यादि । पंचदश पर्यंग्याः । द्वौ चाग्नेयावैकादशिनौ । एते सप्तदश मध्यमे । इतरेषु पंचदश पंचदश रोहितादयः । एकैकश्चैकादशिनः । एवं षोडश षोडश भवन्ति । इत्येवं कात्यायनो मेने । एतदेवांगीकृत्या ऽन्ये ऽप्याहुः। षट्शतानि नियुज्यन्ते पशूनां मध्यमे ऽहनि । अश्वमेधस्य यज्ञस्य न्यूनानि पशुभिस्त्रिभिरिति । एवं वर्ण्यमाने द्वादश पशवो ऽतिरिच्येरन् । अश्वादयो ह्येकोनविंशतिः 14 । पंचदशकाः पठ्यन्ते । चत्वारश्च त्रिकाः । ततश्च एते चत्वारस्त्रिकाः । तेषां यूपो नोक्तः स्यात् । मध्यमे च यूपे साक्षात् सप्तदशैवालभ्येरन् । तत्र सप्तदशैव पशून्मध्यमे यूप आलभेतेति गौणो मध्यमस्याधिकरणभावो द्वादशसु स्यात् । तस्मादेवमवगच्छामः । त्रयः अश्वादयो द्वादश रोहितादयो द्वौ चाग्नेयौ इत्येते सप्तदश मध्यमे यूपे । षोडश षोडशेति तु यथोक्तमेवेति ॥ १३ ॥
Eggeling
- Let him rather bind seventeen animals to the central stake 15; for seventeenfold is Prajāpati, and the Aśvamedha is Prajāpati,–thus for the
obtainment of the Aśvamedha. And sixteen (victims he binds) to each of the other (stakes), for of sixteen parts (kalā) consists all this 16 (universe); all this (universe) he thus gains.
१४
विश्वास-प्रस्तुतिः
ता᳘न्कथमा᳘प्प्रीणीयादि᳘त्याहुः॥
स᳘मिद्धो ऽअञ्जन्कृ᳘दरम्मतीनामि᳘ति बार्हदुक्थी᳘भिरा᳘प्प्रीणीयाद्बृह᳘दुक्थो[[!!]] ह वै᳘ व्वामदेव्यो᳘ ऽश्वो वा सा᳘मुद्रिर᳘श्वस्याप्प्री᳘र्द्ददर्श ता᳘ ऽएतास्ता᳘भिरे᳘वैनमेतदा᳘प्प्रीणीम ऽइ᳘ति व्वद᳘न्तो न त᳘था कुर्य्याज्जामदग्नी᳘भिरेवा᳘प्प्रीणीयात्प्रजा᳘पतिर्व्वै᳘ जम᳘दग्निः᳘ सो ऽश्वमेधः स्व᳘यै᳘वैनन्देवतया[[!!]] स᳘मर्द्धयति त᳘स्माज्जामदग्नी᳘भिरेवा᳘प्प्रीणीयात्॥
मूलम् - श्रीधरादि
ता᳘न्कथमा᳘प्प्रीणीयादि᳘त्याहुः॥
स᳘मिद्धो ऽअञ्जन्कृ᳘दरम्मतीनामि᳘ति बार्हदुक्थी᳘भिरा᳘प्प्रीणीयाद्बृह᳘दुक्थो[[!!]] ह वै᳘ व्वामदेव्यो᳘ ऽश्वो वा सा᳘मुद्रिर᳘श्वस्याप्प्री᳘र्द्ददर्श ता᳘ ऽएतास्ता᳘भिरे᳘वैनमेतदा᳘प्प्रीणीम ऽइ᳘ति व्वद᳘न्तो न त᳘था कुर्य्याज्जामदग्नी᳘भिरेवा᳘प्प्रीणीयात्प्रजा᳘पतिर्व्वै᳘ जम᳘दग्निः᳘ सो ऽश्वमेधः स्व᳘यै᳘वैनन्देवतया[[!!]] स᳘मर्द्धयति त᳘स्माज्जामदग्नी᳘भिरेवा᳘प्प्रीणीयात्॥
मूलम् - Weber
ता᳘न्कथमा᳘प्रीणीयादि᳘त्याहुः॥
स᳘मिद्धो अञ्जन्कृ᳘दरम् मतीनामि᳘ति बार्हदुक्थी᳘भिरा᳘प्रीणीयाद्बृहदु᳘क्थो ह वै᳘ वामदेव्यो᳘ऽश्वो वा सा᳘मुद्रिर᳘श्वस्याप्री᳘र्ददर्श ता᳘ एतास्ता᳘भिरेॗवैनमेतदा᳘प्रीणीम इ᳘ति वद᳘न्तो न त᳘था कुर्याज्जामदग्नी᳘भिरेवा᳘प्रीणीयात्प्रजा᳘पतिर्वै᳘ जम᳘दग्निःॗ सोऽश्वमेधः स्व᳘यैॗवैनं देव᳘तया स᳘मर्धयति त᳘स्माज्जामदग्नी᳘भिरेवा᳘प्रीणीयात्॥
मूलम् - विस्वरम्
तान्कथमाप्रीणीयादित्याहुः- “समिद्धो अंजन्कृदरं मतीनाम्"- (वा. सं. २९ । १) इति बार्हदुक्थीभिराप्रीणीयात् । बृहदुक्थो ह वै वामदेव्यो ऽश्वो वा सामुद्रिरश्वस्याप्रीर्ददर्श । ता एताः । ताभिरेवैनमेतदाप्रीणीमः, इति वदन्तः । न तथा कुर्यात् । जामदग्नीभिरेवाप्रीणीयात् । प्रजापतिर्वै जमदग्निः । सो ऽश्वमेधः । स्वयैवैनं देवतया समर्द्धयति । तस्माज्जामदग्नीभिरेवाप्रीणीयात् ॥ १४ ॥
हरिस्वामी
जामदग्नीभिः । जामदग्न्यः “समिद्धो अद्य मनुषो दुरोणे" इत्येताः (वा. सं. २९ । २५–३६) ॥ १४ ॥
Eggeling
- ‘How is he to appease 17 these?’ they ask. ‘Let him appease them with the Bārhaduktha verses 18, “Enkindled, anointing the lap of the faithful(f.) . . .;” for Br̥haduktha, the son of Vāmadeva, or Aśva, son of Samudra, saw these very (verses) to be the āprī-verses of the horse: it is by means of these we appease it,’ so they say. But let him not do so; let him appease it with the Jāmadagna verses; for Jamadagni is Prajāpati, and so is the Aśvamedha: he thus supplies it with its own deity; let him therefore appease (the victims) with the Jāmadagna verses 19.
१५
विश्वास-प्रस्तुतिः
(त्त) तद्धै᳘के॥
(क ऽए) एते᳘षाम्प᳘र्य्यङ्ग्याणां ना᳘ना याज्यापुरो ऽनुवा᳘क्याः कुर्व्वन्ति व्विन्दा᳘म ऽएते᳘षाम᳘वित्ये᳘तरेषान्न᳘ कुर्म्म ऽइ᳘ति न त᳘था कुर्य्यात्क्षत्रम्वा ऽअ᳘श्वो व्विडि᳘तरे पश᳘वः प्प्रतिप्प्रति᳘नीᳫँ᳭ हते᳘ प्प्रत्युद्यामि᳘नीं क्षत्रा᳘य व्वि᳘शङ्कुर्व्वन्त्य᳘थो ऽआ᳘युषा य᳘जमानं᳘ व्व्यर्द्धयन्ति[[!!]] ये त᳘था कुर्व्व᳘न्ति त᳘स्मात्प्राजापत्य᳘ ऽएवा᳘श्वो देवदेव᳘त्या ऽइ᳘तरे क्षत्रा᳘यैव तद्वि᳘शङ्कृतानुकराम᳘नुवर्त्मानङ्करोत्य᳘थो ऽआ᳘युषैव य᳘जमानᳫँ᳭ स᳘मर्द्धयति॥
मूलम् - श्रीधरादि
(त्त) तद्धै᳘के॥
(क ऽए) एते᳘षाम्प᳘र्य्यङ्ग्याणां ना᳘ना याज्यापुरो ऽनुवा᳘क्याः कुर्व्वन्ति व्विन्दा᳘म ऽएते᳘षाम᳘वित्ये᳘तरेषान्न᳘ कुर्म्म ऽइ᳘ति न त᳘था कुर्य्यात्क्षत्रम्वा ऽअ᳘श्वो व्विडि᳘तरे पश᳘वः प्प्रतिप्प्रति᳘नीᳫँ᳭ हते᳘ प्प्रत्युद्यामि᳘नीं क्षत्रा᳘य व्वि᳘शङ्कुर्व्वन्त्य᳘थो ऽआ᳘युषा य᳘जमानं᳘ व्व्यर्द्धयन्ति[[!!]] ये त᳘था कुर्व्व᳘न्ति त᳘स्मात्प्राजापत्य᳘ ऽएवा᳘श्वो देवदेव᳘त्या ऽइ᳘तरे क्षत्रा᳘यैव तद्वि᳘शङ्कृतानुकराम᳘नुवर्त्मानङ्करोत्य᳘थो ऽआ᳘युषैव य᳘जमानᳫँ᳭ स᳘मर्द्धयति॥
मूलम् - Weber
तद्धै᳘के॥
एते᳘षाम् प᳘र्यङ्ग्याणां ना᳘ना याज्यापुरोऽनुवाॗक्याः कुर्वन्ति विन्दा᳘म एते᳘षाम᳘वित्त्ये᳘तरेषां न᳘ कुर्म इ᳘ति न त᳘था कुर्यात्क्षत्रं वा अ᳘श्वो विडि᳘तरे पश᳘वः प्रतिप्रति᳘नीᳫं ह ते᳘ प्रत्युद्यामि᳘नीं क्षत्रा᳘य वि᳘शं कुर्वन्त्य᳘थो आ᳘युषा य᳘जमानं व्य᳘र्धयन्ति ये त᳘था कुर्व᳘न्ति त᳘स्मात्प्राजापत्य᳘ एवा᳘श्वो देवदेव᳘त्या इ᳘तरे क्षत्रा᳘यैव तद्वि᳘शं कृता?उकराम᳘नुवर्त्मानं करोत्य᳘थो आ᳘युषैव य᳘जमानᳫं स᳘मर्धयति॥
मूलम् - विस्वरम्
तद्धैके । एतेषां पर्यंग्याणां नाना याज्यापुरो ऽनुवाक्याः कुर्वंति । विन्दाम एतेषामविति 20 (?) । आ (?) इतरेषां न कुर्म इति । न तथा कुर्यात् । क्षत्त्रं वा अश्वः । विडितरे पशवः । प्रतिप्रतिनी ह ते प्रत्युद्यामिनीं क्षत्त्राय विशं कुर्वंति । अथो आयुषा यजमानं व्यर्द्धयन्ति । ये तथा कुर्वंति । तस्मात्प्राजापत्य एवाश्वः । देवदेवत्या इतरे । क्षत्त्रायैव तद्विशं कृतानुकरामनुवर्त्मानं करोति । अथो आयुषैव यजमानं समर्द्धयति ॥ १५ ॥
हरिस्वामी
तद्धैके । एतेषामश्वादीनां एके नाना पृथक् पृथक् याज्यापुरो ऽनुवाक्याः कुर्वंति । भिन्नदेवत्यानामिति द्रष्टव्यम् । ये न समानदेवा अश्वतूपरगोमृगाः, तेषां तन्त्रेणैव प्रदानम् । याज्यापुरो ऽनुवाक्याभेदद्वारेण च प्रदानभेद एवायमुपन्यस्तो द्रष्टव्यः । एष एव प्रदानभेदो वपानामप्युपन्यस्तः । पुरोडाशानामपि अंगानामपीति वाच्यमविशेषात् । विदामः लभामहे “विद्लृ लाभे”- (धा. पा. तु. उ. १५१)- एषातेमश्वादीनां प्राजापत्यादिका याज्या ऽनुवाक्याः । ताः किमिति न पृथक्कुर्मः । इतरेषां तु रोहितादीनां न विंदामः । त्र्यवयो गायत्र्य इत्यादयो देवताः । तद्देवत्याश्च दुर्लभाः लक्षणोपेता याज्या ऽनुवाक्या इत्यभिप्रायः । क्षत्त्रं वै अश्वः, महत्त्वात् बहूपकरणत्वात् एकत्वाद्वा । विडितरे पशवः, अल्पत्वात् अल्पोपकरणत्वाच्च । ‘प्रतिप्रतिनीं’ प्रतिप्रति वर्तत इति प्रतिप्रति प्रतिस्पर्द्धा, सा अस्यां विद्यत इति प्रतिप्रतिनी विट् । ‘व्रीह्यादिभ्यश्च’- (पा. सू. ५-२-११६) इति इनिर्मत्वर्थे द्रष्टव्यः । प्रत्युद्यामिनी प्रत्युद्गमनशीला । क्षत्त्रस्येति प्राप्ते क्षत्त्रायेति षष्ठ्यर्थे छन्दसि चतुर्थी (पा. सू. २ । ३ । ६२ वा.) यद्येवं न कुर्यात् । कथं ? तर्हि कुर्यादित्यत आह-तस्मात्प्राजापत्य एवाश्वः । कर्तव्य इति शेषः । देवदेवत्या इतरे । कर्तव्या इति शेषः । एतदुक्तं भवति- प्राजापत्यस्याश्वादेः पृथक् याज्या ऽनुवाक्ये कर्तव्ये । इतरेषां सर्वेषां साधारण्यौ देवदेवत्ये द्वे एव कार्ये । ततश्च भिन्नदेवत्या अपि ते सहैव प्रदेय इति । अश्वग्रहणं चाशेषाणां प्राजापत्यानां दर्शनार्थम् । ततश्च सर्वे प्राजापत्या अश्वेनैव सह प्रदेयाः । तथा च वक्ष्यति- “सकृदेव प्राजापत्याभिः प्रचरेयुः सकृद्देवदेवत्याभिः”- (श. प. १३ । ५ । ३ । ६ ।) इति । तत्र च वपाग्रहणं मुख्यत्वाद्धविषामपि प्रदर्शनार्थम् । एवं ह्यपेक्षितम् । न तु विशेषमेतद्वचनं वक्ष्यति ॥ १५ ॥
Eggeling
- Now some make the invitatory-formulas and the offering-formulas (to be pronounced) separately for the ‘paryaṅgyas,’ saying, ‘For these we find (formulas)–for the others, on account of not finding any, we do not use them 21.’ Let him not do so;
for the horse is the nobility (chieftain), and the other animals are the peasantry (clan); and those who do this really make the peasantry equal and refractory to the nobility; and they also deprive the Sacrificer of his vital power. Therefore the horse alone belongs to Prajāpati 22, and the others are sacred to the gods: he thus, indeed, makes the peasantry obedient and subservient to the nobility; and he also supplies the Sacrificer with vital power.
१६
विश्वास-प्रस्तुतिः
हिरण्मयो᳘ ऽश्वस्य शासो भ᳘वति॥
लोहम᳘याः प᳘र्य्यङ्ग्याणामायसा ऽइ᳘तरेषाञ्ज्यो᳘तिर्व्वै हि᳘रण्यᳫँ᳭ राष्ट्र᳘मश्वमेधो ज्यो᳘तिरेव त᳘द्द्राष्ट्रे᳘ दधात्य᳘थो हिरण्यज्योति᳘षैव य᳘जमानः स्वर्ग्गं᳘ लोक᳘मेत्य᳘थो ऽअनूकाश᳘मेव त᳘ङ्कुरुते स्वर्ग्ग᳘स्य लोक᳘स्य स᳘मष्ट्यै॥
मूलम् - श्रीधरादि
हिरण्मयो᳘ ऽश्वस्य शासो भ᳘वति॥
लोहम᳘याः प᳘र्य्यङ्ग्याणामायसा ऽइ᳘तरेषाञ्ज्यो᳘तिर्व्वै हि᳘रण्यᳫँ᳭ राष्ट्र᳘मश्वमेधो ज्यो᳘तिरेव त᳘द्द्राष्ट्रे᳘ दधात्य᳘थो हिरण्यज्योति᳘षैव य᳘जमानः स्वर्ग्गं᳘ लोक᳘मेत्य᳘थो ऽअनूकाश᳘मेव त᳘ङ्कुरुते स्वर्ग्ग᳘स्य लोक᳘स्य स᳘मष्ट्यै॥
मूलम् - Weber
हिरण्मयो᳘ऽश्वस्य शासो भ᳘वति॥
लोहम᳘याः प᳘र्यङ्ग्याणामायसा इ᳘तरेषां ज्यो᳘तिर्वै हि᳘रण्यं राष्ट्र᳘मश्वमेधो ज्यो᳘तिरेव त᳘द्राष्ट्रे᳘ दधात्य᳘थो हिरण्यज्योति᳘षैव य᳘जमानः स्वर्गं᳘ लोक᳘मेत्य᳘थो अनूकाश᳘मेव तं᳘ कुरुते स्वर्ग᳘स्य लोक᳘स्य स᳘मष्ट्यै॥
मूलम् - विस्वरम्
हिरण्मयो ऽश्वस्य शासो भवति । लोहमयाः पर्यंग्याणाम् । आयसा इतरेषाम् । ज्योतिर्वै हिरण्यम् । राष्ट्रमश्वमेधः । ज्योतिरेव तद्राष्ट्रे दधाति । अथो हिरण्यज्योतिषैव यजमानः स्वर्गं लोकमेति । अथो अनूकाशमेव तं कुरुते । स्वर्गस्य लोकस्य समष्ट्यै ॥ १६ ॥
हरिस्वामी
हिरण्मयः । हिरण्यपरिष्कृतं शासम् । लोहमयाः लोहं ताम्रम् । ताम्रपरिष्कृताः स्वरवः शासाः । कुत एतत् । तथैव विशसनसामर्थ्यात् । यदि तु ताम्रहिरण्यगर्भधारा एव स्युः । ततो विशसनमेव तैर्न शक्यते कर्तुम् । पर्यंग्याश्चात्राश्वव्यतिरिक्ता द्रष्टव्याः, अश्वस्य पृथग्वचनात् । आयसाः अयस एव अयोविकारास्त एव । न तत्परिष्कृताः । इतरेषां रोहितादीनां ज्योतिष्मद्धिरण्यं ज्योतिरेव । दीप्तिः शोभा राष्ट्रे स्वानुकारेण ज्योतिः । तेन युक्तो यजमानः स्वर्गं लोकं गच्छति । अपि च अनूकाशमालोकमनातपं कुरुते स्वर्गस्य प्राप्तये । पशवः पशून्मध्यमे यूपे ॥ १६ ॥
Eggeling
- The slaughtering-knife of the horse is made of gold, those of the ‘paryaṅgyas’ of copper, and those of the others of iron; for gold is (shining) light, and the Aśvamedha is the royal office: he thus bestows light upon the royal office. And by means of the golden light (or, by the light of the gold), the Sacrificer also goes to the heavenly world; and he, moreover, makes it a gleam of light shining after him, for him to reach the heavenly world.
१७
विश्वास-प्रस्तुतिः
(ष्ट्या ऽअ᳘) अ᳘थो क्षत्रम्वा ऽअ᳘श्वः॥
क्षत्र᳘स्यैत᳘द्रूपं यद्धि᳘रण्यं क्षत्र᳘मेव त᳘त्क्षत्रे᳘ण स᳘मर्द्धयति॥
मूलम् - श्रीधरादि
(ष्ट्या ऽअ᳘) अ᳘थो क्षत्रम्वा ऽअ᳘श्वः॥
क्षत्र᳘स्यैत᳘द्रूपं यद्धि᳘रण्यं क्षत्र᳘मेव त᳘त्क्षत्रे᳘ण स᳘मर्द्धयति॥
मूलम् - Weber
अ᳘थो क्षत्रं वा अ᳘श्वः॥
क्षत्र᳘स्यैत᳘द्रूपं यद्धि᳘रण्यं क्षत्र᳘मेव त᳘त्क्षत्रे᳘ण स᳘मर्धयति॥
मूलम् - विस्वरम्
अथो क्षत्त्रं वा अश्वः । क्षत्त्रस्यैतद् रूपम् । यद्धिरण्यम् । क्षत्त्रमेव तत्क्षत्त्रेण समर्द्धयति ॥ १७ ॥
हरिस्वामी
अथो क्षत्त्रं वै अश्वः, अभ्यर्हितत्वात् । हिरण्यमपि अभ्यर्हितत्वादेव क्षत्त्रस्य रूपम् ॥ १७ ॥
Eggeling
- But, indeed, the horse is also the nobility; and this also–to wit, gold–is a form (symbol) of
the nobility: he thus combines the nobility with the nobility.
१८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘ल्लोहम᳘याः प᳘र्य्यङ्ग्याणाम्॥
य᳘था वै राज्ञो᳘ ऽराजानो राजकृ᳘तः सूतग्ग्राम᳘ण्य[[!!]] ऽएवम्वा᳘ ऽएते᳘ ऽश्वस्य यत्प᳘र्य्यङ्ग्या ऽएव᳘मु वा᳘ ऽएतद्धि᳘रण्यस्य य᳘ल्लोहᳫँ᳭ स्वे᳘नै᳘वैनांस्त᳘द्रूपे᳘ण स᳘मर्द्धयति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘ल्लोहम᳘याः प᳘र्य्यङ्ग्याणाम्॥
य᳘था वै राज्ञो᳘ ऽराजानो राजकृ᳘तः सूतग्ग्राम᳘ण्य[[!!]] ऽएवम्वा᳘ ऽएते᳘ ऽश्वस्य यत्प᳘र्य्यङ्ग्या ऽएव᳘मु वा᳘ ऽएतद्धि᳘रण्यस्य य᳘ल्लोहᳫँ᳭ स्वे᳘नै᳘वैनांस्त᳘द्रूपे᳘ण स᳘मर्द्धयति॥
मूलम् - Weber
अ᳘थ य᳘ल्लोहम᳘याः प᳘र्यङ्ग्याणाम्॥
य᳘था वै राज्ञो᳘ राजानो राजकृ᳘तः सूतग्रामण्य᳘ एवं वा᳘ एते᳘ऽश्वस्य यत्प᳘र्यङ्ग्या एव᳘मु वा᳘ एतद्धि᳘रण्यस्य य᳘ल्लोहᳫं स्वे᳘नैॗवैनांस्त᳘द्रूपे᳘ण स᳘मर्धयति॥
मूलम् - विस्वरम्
अथ यल्लोहमयाः पर्यंग्याणाम् । यथा वै राज्ञो ऽराजानो राजकृतः सूतग्रामण्यः । एवं वा एते ऽश्वस्य यत्पर्यंग्याः । एवमु वा एतद्धिरण्यस्य यल्लोहम् । स्वेनैवैनांस्तद्रूपेण समर्द्धयति ॥ १८ ॥
हरिस्वामी
अथ यत् । यथा वै राज्ञः । अराजानः राजकृतः मंत्रिपुरोहितस्वभूताः अराजानः । सूतग्रामण्यश्चोपकरणभूताः ये तूपरादयः पर्यंग्याः । एवमेवैतद्धिरण्यस्योपकरणभूतं यत्ताम्रम् । तत्र हि तत् प्रतिबाध्यते तेन च रक्ष्यते ॥ १८ ॥
Eggeling
- And as to why there are copper (knives) for the ‘paryaṅgyas,’–even as the non-royal kingmakers, the heralds and headmen, are to the king, so those ‘paryaṅgyas’ are to the horse; and so, indeed, is this–to wit, copper–to gold: with their own form he thus endows them.
१९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दायसा ऽइ᳘तरेषाम्॥
(म्वि) व्विड्वा ऽइ᳘तरे पश᳘वो व्वि᳘श ऽएत᳘द्रूपं[[!!]] यद᳘यो व्वि᳘शमेव त᳘द्विशा स᳘मर्द्धयति व्वैतस᳘ ऽइटसून᳘ ऽउत्तरतो᳘ ऽश्वस्या᳘वद्यन्त्या᳘नुष्टुभो वा ऽअ᳘श्व ऽआ᳘नुष्टुभैषा दिक्स्वा᳘यामे᳘वैनन्त᳘द्दिशि᳘ दधात्य᳘थ य᳘द्वैतस᳘ ऽइटसू᳘ने ऽप्सु᳘योनिर्व्वा ऽअ᳘श्वो ऽप्सुजा᳘ व्वेतसः स्व᳘यै᳘वैनं यो᳘न्या स᳘मर्द्धयति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दायसा ऽइ᳘तरेषाम्॥
(म्वि) व्विड्वा ऽइ᳘तरे पश᳘वो व्वि᳘श ऽएत᳘द्रूपं[[!!]] यद᳘यो व्वि᳘शमेव त᳘द्विशा स᳘मर्द्धयति व्वैतस᳘ ऽइटसून᳘ ऽउत्तरतो᳘ ऽश्वस्या᳘वद्यन्त्या᳘नुष्टुभो वा ऽअ᳘श्व ऽआ᳘नुष्टुभैषा दिक्स्वा᳘यामे᳘वैनन्त᳘द्दिशि᳘ दधात्य᳘थ य᳘द्वैतस᳘ ऽइटसू᳘ने ऽप्सु᳘योनिर्व्वा ऽअ᳘श्वो ऽप्सुजा᳘ व्वेतसः स्व᳘यै᳘वैनं यो᳘न्या स᳘मर्द्धयति॥
मूलम् - Weber
अ᳘थ य᳘दायसा इ᳘तरेषाम्॥
विड्वा इ᳘तरे पश᳘वो विश᳘ एत᳘द्रूपं 23 यद᳘यो वि᳘शमेव त᳘द्विशा स᳘मर्धयति वैतस᳘ इटसून᳘ उत्तरतो᳘ऽश्वस्या᳘वद्यन्त्या᳘नुष्टुभो वा अ᳘श्व आ᳘नुष्टुभैषा दिक्स्वा᳘यामेॗवैनं त᳘द्दिशि᳘ दधात्य᳘थ य᳘द्वैतस᳘ इटसूॗनेऽप्सु᳘योनिर्वा अ᳘श्वोऽप्सुजा᳘ वेतसः स्व᳘यैॗवैनं यो᳘न्या स᳘मर्धयति॥
मूलम् - विस्वरम्
अथो यदायसा इतरेषाम् । विड्वा इतरे पशवः । विश एतद् रूपं यदयः । विशमेव तद्विशा समर्द्धयति । वैतस इटसूने । उत्तरतो ऽश्वस्यावद्यन्ति । आनुष्टुभो वा अश्वः । आनुष्टुभैषा दिक् । स्वायामेवेनं तद्दिशि दधाति । अथ यद्वैतस इटसूने । अप्सुयोनिर्वा अश्वः । अप्सुजा वेतसः । स्वयैवैनं योन्या समर्द्धयति ॥ १९ ॥
हरिस्वामी
विड्वै इतरे पशवः, बहुत्वात् । विश एतद्रूपं यदयः । तद्वत्वात्सर्वकर्मकरणत्वाच्च । वैतसे वेतसविकारे । ‘इटसूने’ इटः कटः । इटश्चासौ सूनं च इटसूनम् । तस्मिन्नेव शाखामये कटे । उत्तरत उत्तरपार्श्व आहवनीयस्य अश्वस्य यान्यवदानानि तान्यवद्यंति । ‘आनुष्टुभः’ अनुष्टुभा सम्मितास्तस्य हि चत्वारः खुरा भवंति । अनुष्टुबपि चतुष्पदा । ‘आनुष्टुभा’ अनुष्टुभा सम्मिता एषा उत्तरा दिक् । एषा हि प्राच्या आरभ्य चतुर्थी भवति । अनुष्टुबपि चतुष्पदा । आनुष्टुभीति प्राप्ते छांदसः । य एव ‘अप्सुयोनिः’ आपो योनिरस्य सः अप्सुयोनिः । अब्योनिरिति प्राप्ते प्रथमायाः सप्तमी । तस्यां छांदसः अप्सु जायत इत्यत्र लुकि प्राप्ते “तत्पुरुषे कृति बहुलम्” (पा. सू. ६ । ३ । १४) इति सप्तम्या अलुक् ॥ १९ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशकाण्डे द्वितीया ऽध्याये द्वितीयं ब्राह्मणम् ॥ (१३ । २ । २) ॥
Eggeling
- And as to why there are iron ones for the others,–the other animals, indeed, are the peasantry, and this–to wit, iron–is a form of the peasantry: he thus combines the peasantry with the peasantry. On a rattan mat (lying) north (of the Āhavanīya) they cut the portions of the horse(-flesh); for the horse is of anushṭubh nature, and related to the Anushṭubh is that (northern) quarter: he thus places that (horse) in its own quarter. And as to (his doing so) on a rattan mat,–the horse was produced from the womb of the waters 24, and the rattan springs from the water: he thus causes it to be possessed of its own (maternal) womb.
-
298:3 Ārabhate prāpnoti, comm.; it might also be rendered by ‘he enters upon the sacrifice.’ ↩︎
-
(कं० २-९) इत्यत्र (वा. सं. २४ । १) इत्ययं मन्त्रो ऽनुसंधेयः । ↩︎
-
298:4 This (and the identical passage XIII, 5, 1, 13) looks like a quotation, as if quoted from Vāj. S. XXIV, 1; where are likewise found the references to the other victims and their places, in paragraphs 2-9. Possibly, however, the ‘iti’ may be used here with a kind of ‘deiktic’ force (cf. the similar use in XIII, 2, 8, 1); if, indeed, it does not simply refer to ‘gomr̥ga,’ i.e. ’the animal called Gomr̥ga.’ (lit. ‘bovine deer’), regarding which see note on XIII, 3, 4, 3.–Though the victims to be immolated on this day are first dealt with in this and the following Brāhmaṇas, their slaughter only takes place at the usual time at every Soma-sacrifice, viz. after the Sarpaṇam (XIII, 2, 3, 1 seqq.), the chanting of the Bahishpavamāna Stotra, and the drawing of the Āśvina-graha. On the present occasion these ceremonies are preceded by the drawing of the Mahiman cups of Soma (see XIII, 2, 11, 1 seqq.); whilst the chant is followed by the driving up of the victims, and the putting to of the horse, and the driving to the water, treated of in XIII, 2, 6, 1 seqq. ↩︎
-
299:1 Harisvāmin takes this to mean that he makes the (sacrificial) horse, i.e. the king, alone the head of the army,–rājabhūtam apy aśvaṁ senāmukham ekaṁ karotīty arthaḥ. ↩︎
-
299:2 According to the comments on Vāj. S. XXIV, 1, and Kāty. XX, 6, 4, a rope is wound round the horse’s body in the same way as it is done with a bottle-gourd (lagenaria vulgaris), and it is to this rope that these so-called ‘paryaṅgyāh (circumcorporal),’ or victims surrounding the (horse’s) body, would then be tied. ↩︎
-
299:3 The commentator explains ‘bhāvuka’ by ‘sādhur bhavati;’ and he adds that this is important inasmuch as numerous magic rites, such as rites for insuring success and averting evil (śāntikapaushṭika), and incantations (ābhicārika) are performed thereon. It is the name here assigned to this, the Āvasathya, fire, viz. ‘pūrvāgni’ or, original fire–with its secondary meaning ‘front-fire’–which is seized upon by the author for symbolically identifying it with the victim fastened in front (or to the front) of the horse. ↩︎
-
स्ताद्ध᳘न्वोः । त्री᳘रेव A. see १२.७.१.६. ↩︎
-
300:1 Mahīdhara takes ‘adhorāma’ to mean ‘white-coloured on the lower part of the body.’ ↩︎
-
300:2 The word ‘bāhu’ means both ‘arm’ and ‘front leg.’ ↩︎
-
300:3 That is, a mountain, a palace, high ground, &c., comm. (‘vāyur hi skandhasyocchrita ity abhiprāyaḥ’). ↩︎
-
300:4 Here the encircled horse itself, and the other two victims tied directly to the central stake, are improperly included in the term ‘paryaṅgya.’ ↩︎
-
301:1 Viz. inasmuch as the sacrificial stake to which the horse is tied (and hence the victims fastened thereto) is the so-called ‘agnishṭḥa’ stake, or the one standing opposite to (directly in front of) the Āhavanīya fire. ↩︎
-
301:2 Viz. inasmuch as these other stakes stand in a line to the north (left) and south (right) of the central stake. Whilst, in the case of a simple ’ekādaśinī’ (cf. III, 7, 2, 1 seqq.) there would be five stakes on each side of the central one, at the Aśvamedha there are to be twenty-one stakes, or ten on either side of the central stake. See XIII, 4, 4, 5 seqq. ↩︎
-
कंडिका इत्यर्थः । तत्र पंचदशकंडिकाः पंचदशकाः । ततश्चतस्रः कंडिकास्त्रिकाः १५-४-१९ । इत्यर्थः । चतसृषु कंडिकासु त्रिकाः पशवश्चत्वारः । द्वादशेत्यर्थः । ↩︎
-
301:3 These seventeen victims do not include the twelve paryaṅgyas which are tied to different parts of the horse’s body, but only to those which are actually tied to the central stake,–viz. the horse and its two immediate neighbours (paragraph 2), then twelve victims (enumerated Vāj. S. XXIV, 2, beginning with three victims of different shades of red, rohita), and lastly two beasts belonging to two sets of eleven victims finally superadded to the sets of fifteen victims tied in the first place to the stakes. Cf. note on XIII, 2, 5, 2. ↩︎
-
302:1 Regarding this division into sixteen parts, as applied to man, the animal, and the universe, see Weber, Ind. Stud. IX, p. 111 with note. ↩︎
-
302:2 Or, ‘what Āprīs (appeasing verses) is he to pronounce over them?’ These verses are pronounced as the offering-formulas (yājyā) at the fore-offerings of the animal sacrifice. See part ii, p. 185, note 1. ↩︎
-
302:3 Viz. Vāj. S. XXIX, 1-11. ↩︎
-
302:4 Viz. Vāj. S. XXIX, 25-36, beginning, ‘Enkindled in the house of man this day, a god, thou worshippest the gods, O Jātavedas.’ ↩︎
-
अत्र मूलमेवान्यथा जातमिति प्रतीयते । परं त्वादर्शपुस्तकेषु सर्वेष्वयमेव पाठ उपलभ्यते । अतः स एवात्र स्थापितः । इति ध्येयम् । ↩︎
-
302:5 The commentator takes this to mean that, inasmuch as these paryaṅgyas–here improperly including the horse itself and the two other victims of Prajāpati at the central stake–are assigned to commonly invoked deities, formulas relating to these would easily be found; whilst in the case of the other twelve victims tied to the central stake (see p. 301, note 3), as well as those of the other stakes–though they, too, are assigned to definite deities–some of their deities (as in the case of three a year and a half old heifers assigned to Gāyatrī, Vāj. S. XXIV, 21), are such as to make it difficult to find suitable formulas for them:–eteshām aśvādīnāṁ prajāpatvādikā yājyānuvākyās tāḥ kim iti na pr̥thak kurmaḥ; itareshāṁ rohitādīnāṁ na vindāmaḥ, tryavayo gāyatryādayo devatās taddevatyāś ca durlabhā lakshaṇopetā yājyānuvākyā ity abhiprāyaḥ. ↩︎
-
303:1 The invitatory-formula and offering-formula are, however, pronounced once for the ‘paryaṅgyas’ (including the horse) in common, whilst a second pair of formulas are used for the other victims in common. ↩︎
-
वि᳘श एत᳘द्रूपं AP. ↩︎
-
304:1 See VI, 1, 1, 11 (V, 1, 4, 5). ↩︎