०१
विश्वास-प्रस्तुतिः
प्प्रजा᳘पतिरकामयत॥
महान्भू᳘यान्त्स्यामि᳘ति स᳘ ऽएता᳘वश्वमेधे महिमा᳘नौ ग्ग्राहावपश्यत्ता᳘वजुहोत्त᳘तो वै स᳘ महान्भू᳘यानभवत्स यः᳘ काम᳘येत महान्भू᳘यान्त्स्यामि᳘ति स᳘ ऽएता᳘वश्वमेधे᳘ महिमा᳘नौ ग्ग्र᳘हौ जुहुयान्महा᳘न्हैव भू᳘यान्भवति॥
मूलम् - श्रीधरादि
प्प्रजा᳘पतिरकामयत॥
महान्भू᳘यान्त्स्यामि᳘ति स᳘ ऽएता᳘वश्वमेधे महिमा᳘नौ ग्ग्राहावपश्यत्ता᳘वजुहोत्त᳘तो वै स᳘ महान्भू᳘यानभवत्स यः᳘ काम᳘येत महान्भू᳘यान्त्स्यामि᳘ति स᳘ ऽएता᳘वश्वमेधे᳘ महिमा᳘नौ ग्ग्र᳘हौ जुहुयान्महा᳘न्हैव भू᳘यान्भवति॥
मूलम् - Weber
प्रजा᳘पतिरकामयत॥
महान्भूयान्त्स्यामि᳘ति स᳘ एता᳘वश्वमेधे महिमा᳘नौ ग्र᳘हावपश्यत्ता᳘वजुहोत्त᳘तो वै स᳘ महान्भू᳘यानभवत्स यः᳘ काम᳘येत महान्भू᳘यान्त्स्यामि᳘ति स᳘ एता᳘वश्वमेधे᳘ महिमा᳘नौ ग्र᳘हौ जुहुयान्महा᳘न्हैव भू᳘यान्भवति॥
मूलम् - विस्वरम्
प्रजापतिरकामयत । महान् भूयान् स्यामिति । स एतावश्वमेधे महिमानौ ग्रहावपश्यत् । तावजुहोत् । ततो वै स महान् भूयानभवत् । स यः कामयेत- महान् भूयान् स्यामिति । स एताश्वमेधे महिमानौ ग्रहौ जुहुयात् । महान् हैव भूयान् भवति ॥ १ ॥
हरिस्वामी
प्रजापतिः महान् व्यापिशरीरः । यद्वक्ष्यति- “सर्वा व्यष्टीर्व्यश्नुवीयेति”- (श. प. १३ । ४ । १ । १) तदेतद्यूपात्प्रागवस्थायाः बहुतरः कामः । यद्वक्ष्यति- “सर्वान्कामानाप्नुयामिति”- (श. प. १३ । ४ । १ । १) तदेतत् महिमानौ महिमप्राप्त्यर्थौ ग्रहौ- “हिरण्यगर्भो, यः प्राणतः”- (वा. सं. २३ । १-३) इत्येतन्मंत्रकौ । “स यः कामयेत” इति तु क्रतुफलानुवाद एव प्राप्तत्वात् । “महिमानौ ग्रहौ जुहुयात्” इति ग्रहयोर्होमोत्पत्तिवाक्यम् ॥ १ ॥
Eggeling
- Prajāpati desired, ‘Would that I were great, and more numerous!’ He perceived those two Mahiman (greatness) cups of Soma at the Aśvamedha; he offered them; and thereby, indeed, became great and more numerous: hence whosoever should desire to become great, and more numerous, let him offer up those two Mahiman cups of Soma at the Aśvamedha; and he indeed becomes great and more numerous.
०२
विश्वास-प्रस्तुतिः
व्वपा᳘मभि᳘जुहोति॥
य᳘जमानो वा᳘ ऽअश्वमेधो रा᳘जा महिमा᳘ राज्ये᳘नै᳘वैनमुभय᳘तः प᳘रिगृह्णाति पुर᳘स्तात्स्वाहाकृतयो वा᳘ ऽअन्ये᳘ देवा᳘ ऽउप᳘रिष्टात्स्वाहाकृतयो ऽन्ये ता᳘ने᳘वैत᳘त्प्रीणाति स्वा᳘हा देवे᳘भ्यो देवे᳘भ्यः स्वाहे᳘ति रा᳘ज्ञा व्वपाम्प᳘रिजयति ये᳘ चै᳘वास्मिं᳘ल्लोके᳘ देवा य᳘ ऽउ चामु᳘ष्मिंस्ता᳘ने᳘वैत᳘त्प्रीणाति त᳘ ऽएनमुभ᳘ये देवाः᳘ प्रीताः᳘ स्वर्ग्गं᳘ लोक᳘मभि᳘वहन्ति॥
मूलम् - श्रीधरादि
व्वपा᳘मभि᳘जुहोति॥
य᳘जमानो वा᳘ ऽअश्वमेधो रा᳘जा महिमा᳘ राज्ये᳘नै᳘वैनमुभय᳘तः प᳘रिगृह्णाति पुर᳘स्तात्स्वाहाकृतयो वा᳘ ऽअन्ये᳘ देवा᳘ ऽउप᳘रिष्टात्स्वाहाकृतयो ऽन्ये ता᳘ने᳘वैत᳘त्प्रीणाति स्वा᳘हा देवे᳘भ्यो देवे᳘भ्यः स्वाहे᳘ति रा᳘ज्ञा व्वपाम्प᳘रिजयति ये᳘ चै᳘वास्मिं᳘ल्लोके᳘ देवा य᳘ ऽउ चामु᳘ष्मिंस्ता᳘ने᳘वैत᳘त्प्रीणाति त᳘ ऽएनमुभ᳘ये देवाः᳘ प्रीताः᳘ स्वर्ग्गं᳘ लोक᳘मभि᳘वहन्ति॥
मूलम् - Weber
वपा᳘मभि᳘तो जुहोति॥
य᳘जमानो वा᳘ अश्वमेधो रा᳘जा महिमा᳘ राज्ये᳘नैॗवैनमुभय᳘तः प᳘रिगृह्णाति पुर᳘स्तात्स्वाहाकृतयो वा᳘ अन्ये᳘ देवा᳘ उप᳘रिष्टात्स्वाहाकृतयोऽन्ये ता᳘नेॗवैत᳘त्प्रीणाति स्वा᳘हा देवे᳘भ्यो देवे᳘भ्यः स्वाहे᳘ति रा᳘ज्ञा वपाम् प᳘रिजयति ये᳘ चैॗवास्मिं᳘लोके᳘ देवा य᳘ उ चामु᳘ष्मिंस्ता᳘नेॗवैत᳘त्प्रीणाति त᳘ एनमुभ᳘ये देवाः᳘ प्रीताः᳘ स्वर्गं᳘ लोक᳘मभि᳘वहन्ति॥
मूलम् - विस्वरम्
वपामभिजुहोति । यजमानो वा अश्वमेधः । राजा महिमा । राज्येनैवैनमुभयतः परिगृह्णाति । पुरस्तात्स्वाहाकृतयो वा अन्ये देवाः । उपरिष्टात्स्वाहाकृतयो ऽन्ये । तानेवैतत्प्रीणाति । “स्वाहा देवेभ्यः, देवेभ्यः स्वाहा”- (वा० सं० २३ । २ । ४) इति राज्ञा वपां परियजति । ये चैवास्मिन् लोके देवाः । य उ चामुष्मिन् । तानेवैतत्प्रीणाति । त एनमुभये देवाः प्रीताः स्वर्गं लोकमभिवहन्ति ॥ २ ॥
हरिस्वामी
वपामभिजुहोति । वपाहोममभितो महिमानौ जुहोतीति क्रमवचनम् । यजमानो वै । अश्ववपाहोमः अश्वमेधः । राजा राज्यकारणं महिमा ग्रहः । राज्येनैव महिमात्मकेन एनं यजमानमुभयतः परिगृह्णाति । पुरस्तात्स्वाहाकृतयश्च केचिद्देवाः । उपरिष्टात्स्वाहाकृतयः केचित् । तानेव एतत्प्रीणाति । महिमानौ “स्वाहा देवेभ्यो देवेभ्यः स्वाहा” इत्येवं जुहोति । राज्ञा च महिमावपां परियजति इति परिगृह्य, यजति इति यत्; तेन च अस्मिन् लोके काले वा ये देवाः चामुष्मिन् तानेवैतत्प्रीणातीति दर्शनांतरम् ॥ २ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे द्वितीये ऽध्याये एकादशं ब्राह्मणम् ॥ (१३ । २ । ११) ॥
नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन्हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥ १ ॥
श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥ २ ॥
भूभर्त्रा विक्रमार्केण क्लृप्तां कनकवेदिकाम् । दानायाध्यास्य कृतवान् श्रुत्यर्थविवृतिं हरिः ॥ ३ ॥
इति श्रीसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीनां श्रीहरिस्वामिनां कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे द्वितीयो ऽध्यायः समाप्तः ॥ १३-२ ॥
Eggeling
- He offers them on both sides (before and after) the omentum;–the Aśvamedha, doubtless, is the Sacrificer, and that Mahiman (cup) is the king: it is with royal dignity he thus encompasses him on both sides. Some gods have the svāhā-call (‘hail’) in front, and the other gods have the svāhā-call behind 1: it is them he thus gratifies. With ‘Hail
to the gods!’ and ‘To the gods hail!’ he makes offering by means of the king (Soma) on both sides of the omentum: he thereby gratifies those gods who are in this world, and those who are in the other, and thus gratified, both these kinds of gods lead him to the heavenly world.
-
327:2 The formula uttered whilst the first Mahiman cup is offered runs thus (Vāj. S. XXIII, 2): ‘What greatness of thine there hath been in the day and the year; what greatness of thine there hath been in the wind and the air; what greatness of thine there hath been in the heavens and the sun, to that greatness of thine, to Prajāpati, hail, to the gods!’ whilst that of the second Mahiman cup runs thus (XXIII, 4): ‘What greatness of thine there hath been in the night and the year; what greatness of thine there hath been in the earth and the fire; what greatness of thine there hath been in the Nakshatras (lunar asterisms) and the moon, to that greatness of thine, to Prajāpati, to the gods, hail!’ cf. XIII, 5, 2, 23; 3, 7. ↩︎