१०

०१

विश्वास-प्रस्तुतिः

य᳘दसिपथा᳘न्कल्प᳘यन्ति॥
से᳘तुमेव त᳘ᳫँ᳘ सङ्क्र᳘मणं य᳘जमानः कुरुते स्वर्ग्ग᳘स्य लोक᳘स्य स᳘मष्ट्यै॥

मूलम् - श्रीधरादि

य᳘दसिपथा᳘न्कल्प᳘यन्ति॥
से᳘तुमेव त᳘ᳫँ᳘ सङ्क्र᳘मणं य᳘जमानः कुरुते स्वर्ग्ग᳘स्य लोक᳘स्य स᳘मष्ट्यै॥

मूलम् - Weber

य᳘दसिपथा᳘न्कल्प᳘यन्ति॥
से᳘तुमेव त᳘ᳫं᳘ संक्र᳘मणं य᳘जमानः कुरुते स्वर्ग᳘स्य लोक᳘स्य स᳘मष्ट्यै॥

मूलम् - विस्वरम्

यदसिपथान् कल्पयन्ति । सेतुमेव तं संक्रमणं यजमानः कुरुते । स्वर्गस्य लोकस्य समष्ट्यै ॥ १ ॥

हरिस्वामी

यदसिपथान् । असेः शासस्य मार्गाः असिपथाः, तान् सूचीभिः लौह्यादिभिः कल्पयंति । इत्येतदत्र ब्राह्मणमुच्यते ॥ १ ॥

Eggeling
  1. When they prepare the knife-paths, the Sacrificer makes for himself that passage across, a bridge, for the attainment of the heavenly world.

०२

विश्वास-प्रस्तुतिः

सूची᳘भिः कल्पयन्ति॥
वि᳘शो वै᳘ सू᳘च्यो राष्ट्र᳘मश्वमेधो व्वि᳘शञ्चै᳘वास्मिन्राष्ट्र᳘ञ्च समी᳘ची दधति हिरण्यमय्यो भवन्ति त᳘स्योक्तं ब्रा᳘ह्मणम्॥

मूलम् - श्रीधरादि

सूची᳘भिः कल्पयन्ति॥
वि᳘शो वै᳘ सू᳘च्यो राष्ट्र᳘मश्वमेधो व्वि᳘शञ्चै᳘वास्मिन्राष्ट्र᳘ञ्च समी᳘ची दधति हिरण्यमय्यो भवन्ति त᳘स्योक्तं ब्रा᳘ह्मणम्॥

मूलम् - Weber

सूची᳘भिः कल्पयन्ति॥
वि᳘शो वै᳘ सूॗच्यो राष्ट्र᳘मश्वमेधो वि᳘शं चैॗवास्मिन्राष्ट्रं᳘ च समी᳘ची दधति हिरण्यम᳘य्यो भवन्ति त᳘स्योक्तम् ब्रा᳘ह्मणम्॥

मूलम् - विस्वरम्

सूचीभिः कल्पयन्ति । विशो वै सूच्यः । राष्ट्रमश्वमेधः । विशं चैवास्मिन् राष्ट्रं च समीची दधति । हिरण्मय्यो भवन्ति । तस्योक्तं ब्राह्मणम् ॥ २ ॥

हरिस्वामी

विशो है सूच्यः । बहुत्वात् क्षुद्रत्वाच्च । तास्ताम्रमय्यः । रजतमय्यः । हिरण्यलोहमय्यः । दिशो वै लोहमय्यः । इत्याद्यागामिकाः ॥ २ ॥ ३ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे द्वितीये ऽध्याये दशमं ब्राह्मणम् ॥ १३ । २ । १० ॥

Eggeling
  1. They prepare them by means of needles; the needles, doubtless, are the people 1 (clans), and the Aśvamedha is the royal power: they thus supply him with people and royal power combined. They are made of gold: the meaning of this has been explained.

०३

विश्वास-प्रस्तुतिः

(न्त्र᳘) त्र᳘य्यः[[!!]] सू᳘च्यो भवन्ति॥
लोहम᳘य्यो रजता[[!!]] ह᳘रिण्यो दि᳘शो वै᳘ लोहम᳘य्यो ऽवान्तरदि᳘शो रजता᳘ ऽऊर्ध्वा ह᳘रिण्यस्ता᳘भिरे᳘वैनङ्कल्पयन्ति तिर᳘श्चीभिश्चोर्ध्वा᳘भिश्च बहुरूपा᳘ भवन्ति त᳘स्माद्बहुरूपा दि᳘शो ना᳘नारूपा भवन्ति त᳘स्मान्ना᳘नारूपा दि᳘शः॥

मूलम् - श्रीधरादि

(न्त्र᳘) त्र᳘य्यः[[!!]] सू᳘च्यो भवन्ति॥
लोहम᳘य्यो रजता[[!!]] ह᳘रिण्यो दि᳘शो वै᳘ लोहम᳘य्यो ऽवान्तरदि᳘शो रजता᳘ ऽऊर्ध्वा ह᳘रिण्यस्ता᳘भिरे᳘वैनङ्कल्पयन्ति तिर᳘श्चीभिश्चोर्ध्वा᳘भिश्च बहुरूपा᳘ भवन्ति त᳘स्माद्बहुरूपा दि᳘शो ना᳘नारूपा भवन्ति त᳘स्मान्ना᳘नारूपा दि᳘शः॥

मूलम् - Weber

त्रय्यः᳘ सूॗच्यो भवन्ति॥
लोहम᳘य्यो र᳘जता ह᳘रिण्यो दि᳘शो वै᳘ लोहम᳘य्योऽवान्तरदि᳘शो रजता᳘ ऊर्ध्वा ह᳘रिण्यस्ता᳘भिरेॗवैनं कल्पयन्ति तिर᳘श्चीभिष्चोर्ध्वा᳘भिश्च बहुरूपा᳘ भवन्ति त᳘स्माद्बहुरूपा दि᳘शो ना᳘नारूपा भवन्ति त᳘स्मान्ना᳘नारूपा दि᳘शः॥

मूलम् - विस्वरम्

त्रय्यः सूच्यो भवन्ति । लोहमय्यो रजता हरिण्यः । दिशो वै लोहमय्यः । अवान्तरदिशो रजताः । ऊर्ध्वा हरिण्यः । ताभिरेवैनं कल्पयन्ति । तिरश्वीभिश्चोर्ध्वाभिश्च । बहुरूपा भवन्ति । तस्माद्बहुरूपा दिशो नानारूपा भवन्ति । तस्मान्नानारूपा दिशः ॥ ३ ॥

हरिस्वामी

[व्याख्यानं द्वितीये]

Eggeling
  1. Three kinds of needles are (used), copper ones, silver ones, and gold ones;–those of copper, doubtless, are the (principal) regions (of the compass), those of silver the intermediate ones, and those of gold the upper ones: it is by means of these (regions) they render it fit and proper. By way of horizontal and vertical (stitches 2) they are many-formed, whence the regions are many-formed; and they are of distinct form, whence the regions are of distinct form.

  1. 326:3 Viz. because of the large number and the small size (insignificance) of the needles, or wires, (and the common people), comm. ↩︎

  2. 327:1 It is doubtful what word, if any, has to be supplied here,–perhaps it means, by way of their being (in sewing) horizontal and vertical. The commentary is silent on this passage. ↩︎