०१
विश्वास-प्रस्तुतिः
आ ब्र᳘ह्मन्॥
ब्राह्मणो᳘ ब्रह्मवर्चसी᳘ जायतामि᳘ति ब्राह्मण᳘ एव᳘ ब्रह्मवर्चसं᳘ दधाति त᳘स्मात्पुरा᳘ ब्राह्मणो᳘ ब्रह्मवर्चसी᳘ जज्ञे॥
मूलम् - श्रीधरादि
आ ब्र᳘ह्मन्॥
ब्राह्मणो᳘ ब्रह्मवर्चसी᳘ जायतामि᳘ति ब्राह्मण᳘ एव᳘ ब्रह्मवर्चसं᳘ दधाति त᳘स्मात्पुरा᳘ ब्राह्मणो᳘ ब्रह्मवर्चसी᳘ जज्ञे॥
मूलम् - Weber
आ ब्र᳘ह्मन्॥
ब्राह्मणो᳘ ब्रह्मवर्चसी᳘ जायतामि᳘ति ब्राह्मण᳘ एव᳘ ब्रह्मवर्चसं᳘ दधाति त᳘स्मात्पुरा᳘ ब्राह्मणो᳘ ब्रह्मवर्चसी᳘ जज्ञे॥
मूलम् - विस्वरम्
“आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायताम्”- इति । ब्राह्मण एव ब्रह्मवर्चसं दधाति । तस्मात्पुरा ब्राह्मणो ब्रह्मवर्चसी जज्ञे ॥ १ ॥
हरिस्वामी
आ ब्रह्मन् । आ 1 समिदाधानात् कृत्वा आब्रह्मन्निति अध्वर्युर्जपति । आशीरूपत्वात् क्रियांतरे चाविनियोगात् । एवमाशासानो ऽध्वर्युः ब्राह्मणे ब्रह्मवर्चसं दधाति, तस्माच्च पुरा यदा राजानः अश्वमेधैरीजिरे । तदा ब्रह्मवर्चसी जज्ञे । य एष एव तस्मात् एवमन्यानि ईदृशानि वचनानि व्याख्येयानि । शूरयतीति शूरः पराक्रमी । “शूरविक्रांतौ” (धा. पा. चु. प. ३६९) ‘इषव्यः’ इषुषु साधुः । ‘अतिव्याधी’ अतिक्रम्य अन्येषां लक्ष्यं विध्यतीति अतिव्याधी । दोग्ध्री साधुदुग्धा । वोढा साधु वहति । जिष्णुः साधु जयति । सभेयः सभायां साधुः । ‘प्रथमवयसी’ प्रथमं वयः तद्यस्य विद्यते स प्रथमवयसी । तस्मात् पुरा ईजानस्य अश्वमेधेन इष्टवतः वीरो जायते स्म । सस्यानुपरोधादिनियतः कामः ॥ १-१० ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशे काण्डे प्रथमे ऽध्याये नवमं ब्राह्मणम् ॥ १३ । १ । ९ ॥
Eggeling
०२
विश्वास-प्रस्तुतिः
आ᳘ राष्ट्रे᳘ राजन्यः᳘॥
शू᳘र इष᳘व्योऽतिव्याधी᳘ महारथो᳘ जायतामि᳘ति राजन्य᳘ एव शौ᳘र्यम् महिमा᳘नं दधाति त᳘स्मात्पुरा᳘ राजन्यः᳘ शू᳘र इष᳘व्योऽतिव्याधी᳘ महारथो᳘ जज्ञे॥
मूलम् - श्रीधरादि
आ᳘ राष्ट्रे᳘ राजन्यः᳘॥
शू᳘र इष᳘व्योऽतिव्याधी᳘ महारथो᳘ जायतामि᳘ति राजन्य᳘ एव शौ᳘र्यम् महिमा᳘नं दधाति त᳘स्मात्पुरा᳘ राजन्यः᳘ शू᳘र इष᳘व्योऽतिव्याधी᳘ महारथो᳘ जज्ञे॥
मूलम् - Weber
आ᳘ राष्ट्रे᳘ राजन्यः᳟॥
शू᳘र इषॗव्योऽतिव्याधी᳘ महारथो᳘ जायतामि᳘ति राजन्य᳘ एव शौ᳘र्यम् महिमा᳘नं दधाति त᳘स्मात्पुरा᳘ राजन्यः᳘ शू᳘र इषॗव्योऽतिव्याधी᳘ महारथो᳘ जज्ञे॥
मूलम् - विस्वरम्
“आ राष्ट्रे राजन्यः शूर इषव्यो ऽतिव्याधी महारथो जायताम्”- इति । राजन्य एव शौर्यं महिमानं दधाति । तस्मात्पुरा राजन्यः शूर इषव्यो ऽतिव्याधी महारथो जज्ञे ॥ २ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- ‘In the royal order may the Rājanya be born, heroic, skilled in archery, sure of his mark, and a mighty car-fighter:’ on the Rājanya he thereby bestows the grandeur of heroism 4, whence of old the Rājanya was born as one heroic, skilled in archery, certain of his mark, and a mighty car-fighter.
०३
विश्वास-प्रस्तुतिः
दो᳘ग्ध्री धेनुरि᳘ति॥
धेन्वा᳘मेव प᳘यो दधाति त᳘स्मात्पुरा᳘ धेनुर्दो᳘ग्ध्री जज्ञे॥
मूलम् - श्रीधरादि
दो᳘ग्ध्री धेनुरि᳘ति॥
धेन्वा᳘मेव प᳘यो दधाति त᳘स्मात्पुरा᳘ धेनुर्दो᳘ग्ध्री जज्ञे॥
मूलम् - Weber
दो᳘ग्ध्री धेनुरि᳘ति॥
धेन्वा᳘मेव प᳘यो दधाति त᳘स्मात्पुरा᳘ धेनुर्दो᳘ग्ध्री जज्ञे॥
मूलम् - विस्वरम्
“दोग्ध्री धेनुः”- इति । धेन्वामेव पयो दधाति । तस्मात्पुरा धेनुर्दोग्ध्री जज्ञे ॥ ३ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- ‘The milch cow:’ on the cow he thereby bestows milk; whence of old the cow was born as one yielding milk.
०४
विश्वास-प्रस्तुतिः
वो᳘ढा᳘नड्वानि᳘ति॥
अनडु᳘ह्येव ब᳘लं दधाति त᳘स्मात्पु᳘रानड्वान्वो᳘ढा जज्ञे॥
मूलम् - श्रीधरादि
वो᳘ढा᳘नड्वानि᳘ति॥
अनडु᳘ह्येव ब᳘लं दधाति त᳘स्मात्पु᳘रानड्वान्वो᳘ढा जज्ञे॥
मूलम् - Weber
वो᳘ढा᳘नड्वानि᳘ति॥
अनडु᳘ह्येव ब᳘लं दधाति त᳘स्मात्पुॗरानड्वान्वो᳘ढा जज्ञे॥
मूलम् - विस्वरम्
“वोढा ऽनड्वान्”- इति । अनडुह्येव बलं दधाति । तस्मात्पुरा ऽनड्वान्वोढा जज्ञे ॥ ४ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- ‘The draught ox:’ on the ox he thereby bestows strength, whence of old the ox was born as a draught (animal).
०५
विश्वास-प्रस्तुतिः
आशुः स᳘प्तिरि᳘ति॥
अ᳘श्व एव᳘ जवं᳘ दधाति त᳘स्मात्पुरा᳘श्वः स᳘र्ता जज्ञे॥
मूलम् - श्रीधरादि
आशुः स᳘प्तिरि᳘ति॥
अ᳘श्व एव᳘ जवं᳘ दधाति त᳘स्मात्पुरा᳘श्वः स᳘र्ता जज्ञे॥
मूलम् - Weber
आशुः स᳘प्तिरि᳘ति॥
अ᳘श्व एव᳘ जवं᳘ दधाति त᳘स्मात्पुरा᳘श्वः स᳘र्ता जज्ञे॥
मूलम् - विस्वरम्
“आशुः सप्तिः”- इति । अश्व एव जवं दधाति । तस्मात्पुरा ऽश्वः सर्ता जज्ञे ॥ ५ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- ‘The swift racer:’ on the horse he thereby bestows speed, whence of old the horse was born as a runner.
०६
विश्वास-प्रस्तुतिः
पु᳘रंधिर्येषे᳘ति॥
योषि᳘त्येव᳘ रूपं᳘ दधाति त᳘स्माद्रूपि᳘णी युवतिः᳘ प्रिया भा᳘वुका॥
मूलम् - श्रीधरादि
पु᳘रंधिर्येषे᳘ति॥
योषि᳘त्येव᳘ रूपं᳘ दधाति त᳘स्माद्रूपि᳘णी युवतिः᳘ प्रिया भा᳘वुका॥
मूलम् - Weber
पु᳘रंधिर्येषे᳘ति॥
योषि᳘त्येव᳘ रूपं᳘ दधाति त᳘स्माद्रूपि᳘णी युवतिः᳘ प्रिया भा᳘वुका॥
मूलम् - विस्वरम्
“पुरंधिर्योषा”- इति । योषित्येव रूपं दधाति । तस्मात् रूपिणी युवतिः प्रिया भावुका ॥ ६ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- ‘The well-favoured woman:’ on the woman
he thereby bestows beautiful form, whence the beautiful maiden is apt to become dear (to men).
०७
विश्वास-प्रस्तुतिः
जिष्णू᳘ रथेष्ठा इ᳘ति॥
राजन्य᳘ एव जै᳘त्रम् महिमा᳘नं दधाति त᳘स्मात्पुरा᳘ राज᳘न्यो जिष्णु᳘र्जज्ञे॥
मूलम् - श्रीधरादि
जिष्णू᳘ रथेष्ठा इ᳘ति॥
राजन्य᳘ एव जै᳘त्रम् महिमा᳘नं दधाति त᳘स्मात्पुरा᳘ राज᳘न्यो जिष्णु᳘र्जज्ञे॥
मूलम् - Weber
जिष्णू᳘ रथेष्ठा इ᳘ति॥
राजन्य᳘ एव जै᳘त्रम् महिमा᳘नं दधाति त᳘स्मात्पुरा᳘ राजॗन्यो जिष्णु᳘र्जज्ञे॥
मूलम् - विस्वरम्
“जिष्णू रथेष्ठाः”-इति । राजन्य एव जैत्रं महिमानं दधाति । तस्मात्पुरा राजन्यो जिष्णुर्जज्ञे ॥ ७ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- ‘The victorious warrior:’ on the Rājanya he thereby bestows the grandeur of victoriousness 5, whence of old the Rājanya was born as one victorious.
०८
विश्वास-प्रस्तुतिः
सभे᳘यो युवे᳘ति॥
एष वै᳘ सभे᳘यो यु᳘वा यः᳘ प्रथमवयसी त᳘स्मात्प्रथमवयसी᳘ स्त्रीणा᳘म् प्रियो भा᳘वुकः॥
मूलम् - श्रीधरादि
सभे᳘यो युवे᳘ति॥
एष वै᳘ सभे᳘यो यु᳘वा यः᳘ प्रथमवयसी त᳘स्मात्प्रथमवयसी᳘ स्त्रीणा᳘म् प्रियो भा᳘वुकः॥
मूलम् - Weber
सभे᳘यो युवे᳘ति॥
एष वै᳘ सभे᳘यो यु᳘वा यः᳘ प्रथमवयसी त᳘स्मात्प्रथमवयसी᳘ स्त्रीणा᳘म् प्रियो भा᳘वुकः॥
मूलम् - विस्वरम्
“सभेयो युवा”- इति । एष वै सभेयो युवा । यः प्रथमवयसी । तस्मात् प्रथमवयसी स्त्रीणां प्रियो भावुकः ॥ ८ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- ‘The blitheful youth:’ he, indeed, is a blitheful (or, sociable) youth who is in his prime of life; whence one who is in his prime of life is apt to become dear to women.
०९
विश्वास-प्रस्तुतिः
आस्य य᳘जमानस्य वीरो᳘ जायतामि᳘ति॥
य᳘जमानस्यैव᳘ प्रजा᳘यां वीर्यं᳘ दधाति त᳘स्मात्पु᳘रेजान᳘स्य वीरो᳘ जज्ञे॥
मूलम् - श्रीधरादि
आस्य य᳘जमानस्य वीरो᳘ जायतामि᳘ति॥
य᳘जमानस्यैव᳘ प्रजा᳘यां वीर्यं᳘ दधाति त᳘स्मात्पु᳘रेजान᳘स्य वीरो᳘ जज्ञे॥
मूलम् - Weber
आस्य य᳘जमानस्य वीरो᳘ जायतामि᳘ति॥
य᳘जमानस्यैव᳘ प्रजा᳘यां वीर्यं᳘ दधाति त᳘स्मात्पुॗरेजान᳘स्य वीरो᳘ जज्ञे॥
मूलम् - विस्वरम्
“आ ऽस्य यजमानस्य वीरो जायताम्”- इति । यजमानस्यैव प्रजायां वीर्यं दधाति । तस्मात्पुरेजानस्य वीरो जज्ञे ॥ ९ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- ‘May a hero be born unto this Sacrificer!’ on the Sacrificer’s family he thereby bestows manly vigour, whence of old a hero was born to him who had performed the (Aśvamedha) sacrifice.
१०
विश्वास-प्रस्तुतिः
निकामे᳘ नः पर्ज᳘न्यो वर्षत्वि᳘ति॥
निकामे᳘निकामे वै त᳘त्र पर्ज᳘न्यो वर्षति य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते फ᳘लवत्यो न ओ᳘षधयः पच्यन्तामि᳘ति फ᳘लवत्यो वै᳘ तत्रौ᳘षधयः पच्यन्ते य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते योगक्षेमो᳘ नः कल्पतामि᳘ति योगक्षेमो वै त᳘त्र कल्पते य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते त᳘स्माद्य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते कॢप्तः᳘ प्रजा᳘नां योगक्षेमो᳘ भवति॥

“निकामेनिकामे नः पर्जन्यो वर्षतु”- इति । निकामेनिकामे वै तत्र पर्जन्यो वर्षति । यत्रैतेन यज्ञेन यजन्ते । “फलवत्यो न ओषधयः पच्यन्ताम्”- इति । फलवत्यो वै तत्रौषधयः पच्यन्ते । यत्रैतेन यज्ञेन यजन्ते । “योगक्षेमो नः कल्पताम्”- (वा. सं. २२ । २२) इति । योगक्षेमो वै तत्र कल्पते । यत्रैतेन यज्ञेन यजन्ते । तस्माद्यत्रैतेन यज्ञेन यजन्ते । क्लृप्तः प्रजानां योगक्षेमो भवति ॥ १० ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन्हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥ १ ॥
श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥ २ ॥
भूभर्त्रा विक्रमार्केण क्लृप्तां कनकवेदिकाम् । दानायाध्यास्य कृतवान् श्रुत्यर्थविवृतिं हरिः ॥ ३ ॥
इति श्रीसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीनां श्रीहरिस्वामिनां कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशकाण्डे प्रथमो ऽध्यायः समाप्तः ॥ (१३-१) ॥
Eggeling
- ‘May Parjanya rain for us whensoever we list!’–where they perform this sacrifice, there Parjanya, indeed, rains whenever they list;–‘may our fruit-bearing plants ripen!’–there the fruit-bearing plants indeed ripen where they perform this sacrifice;–‘may security of possession be assured for us!’–where they perform this sacrifice there security of possession indeed is assured; whence wherever they perform this (Aśvamedha) sacrifice, security of possession becomes assured to the people.
-
कृष्णाजिनाद्यासमिदाधानात्कृत्वा ऽब्रह्मन्निति जपति । (आ समिदाधानात्- उखायां त्रयोदशसमिदाधानांतम् ।) उत्सर्गकाल एके । का. श्रौ. सू. २० । ९२ । ९३ ॥ उपतिष्ठत उत्सर्गैः का. श्रौ. सू. १७ । ११८ (इत्युत्सर्गोपस्थानकालः ।) पशुवदुत्सर्जनं निरष्टे ऽश्वशते । का. श्रौ. सू. २० । ४९ । इत्यश्वोत्सर्गकालो वा । ↩︎
-
294:1 These formulas are muttered after the thirteen samidhs have been put in the ukhā, or fire-pan. See p. 290, note 1. ↩︎
-
294:2 ‘Whence formerly a Brāhmaṇa was at once born as Brahmavarcasin (whilst now he must study),’ Delbrück, Altindische Syntax, p. 287. Perhaps, however, ‘purā’ has here (as it certainly has in the following paragraphs) the force of ‘agre’–at the beginning, from the first, from of old. ↩︎
-
294:3 I take ‘śauryam mahimānam’ here (and ‘jaitraṁ mahimānam’ in paragraph 7) to stand in apposition to one another, with something of the force of a compound word. See above, p. 66, note 4. ↩︎
-
295:1 See note 3, p. 294. ↩︎