०१

विश्वास-प्रस्तुतिः

प्रजा᳘पतिरकामयत॥
अश्वमेधे᳘न यजेये᳘ति᳘ सोऽश्राम्यत्स त᳘पोऽतप्यत त᳘स्य श्रान्त᳘स्य तप्त᳘स्य सप्त᳘धात्म᳘नो देव᳘ता अ᳘पाक्रामन्त्सा᳘ दी᳘क्षाभवत्स᳘ एता᳘नि वैश्वदेवा᳘न्यपश्यत्ता᳘न्यजुहोत्तैर्वै स᳘ दीक्षाम᳘वारुन्द्ध य᳘द्वैश्वदेवा᳘नि जुहो᳘ति दीक्षा᳘मेव तैर्य᳘जमानो᳘ऽवरुन्द्धेऽन्वहं᳘ जुहोत्यन्वह᳘मेव᳘ दीक्षाम᳘वरुन्द्धे सप्त᳘ जुहोति सप्त वै ता᳘ देव᳘ता अ᳘पाक्रामंस्ता᳘भिरे᳘वास्मै दीक्षाम᳘वरुन्द्धे॥

मूलम् - श्रीधरादि

प्रजा᳘पतिरकामयत॥
अश्वमेधे᳘न यजेये᳘ति᳘ सोऽश्राम्यत्स त᳘पोऽतप्यत त᳘स्य श्रान्त᳘स्य तप्त᳘स्य सप्त᳘धात्म᳘नो देव᳘ता अ᳘पाक्रामन्त्सा᳘ दी᳘क्षाभवत्स᳘ एता᳘नि वैश्वदेवा᳘न्यपश्यत्ता᳘न्यजुहोत्तैर्वै स᳘ दीक्षाम᳘वारुन्द्ध य᳘द्वैश्वदेवा᳘नि जुहो᳘ति दीक्षा᳘मेव तैर्य᳘जमानो᳘ऽवरुन्द्धेऽन्वहं᳘ जुहोत्यन्वह᳘मेव᳘ दीक्षाम᳘वरुन्द्धे सप्त᳘ जुहोति सप्त वै ता᳘ देव᳘ता अ᳘पाक्रामंस्ता᳘भिरे᳘वास्मै दीक्षाम᳘वरुन्द्धे॥

मूलम् - Weber

प्रजा᳘पतिरकामयत॥
अश्वमेधे᳘न यजेये᳘तिॗ सोऽश्राम्यत्स त᳘पोऽतप्यत त᳘स्य श्रान्त᳘स्य तप्त᳘स्य सप्तॗधात्म᳘नो 1 देव᳘ता अ᳘पाक्रामन्त्सा᳘ दीॗक्षाभवत्स᳘ एता᳘नि वैश्वदेवा᳘न्यपश्यत्ता᳘न्यजुहोत्तैर्वै स᳘ दीक्षाम᳘वारुन्द्ध य᳘द्वैश्वदेवा᳘नि जुहो᳘ति दीक्षा᳘मेव तैर्य᳘जमानो᳘ऽवरुन्द्धेऽन्वहं᳘ जुहोत्यन्वह᳘मेव᳘ दीक्षाम᳘वरुन्द्धे सप्त᳘ जुहोति सप्त वै ता᳘ देव᳘ता अ᳘पाक्रामंस्ता᳘भिरेॗवास्मै दीक्षाम᳘वरुन्द्धे॥

मूलम् - विस्वरम्

प्रजापतिरकामयत । अश्वमेधेन यजेयेति । सो ऽश्राम्यत् । स तपो ऽतप्यत । तस्य श्रान्तस्य तप्तस्य सप्तधा ऽऽत्मनो देवता अपाक्रामन् । सा दीक्षा ऽभवत् । स एतानि वैश्वदेवान्यपश्यत् । तान्यजुहोत् । तैर्वै स दीक्षामवारुन्ध । यत् वैश्वदेवानि जुहोति । दीक्षामेव तैर्यजमानो ऽवरुन्धे । अन्वहं जुहोति । अन्वहमेव दीक्षामवरुन्धे । सप्त जुहोति । सप्त वै ता देवता अपाक्रामन् । ताभिरेवास्मै दीक्षामवरुन्धे ॥ १ ॥

हरिस्वामी

प्रजापतिः इति । तस्य य आत्मा शरीरम् । तस्मात्सप्तभेदात् चक्षुरादिभिश्छिद्रैः देवता अपक्रान्ताः सा च दीक्षा देवता आश्वमेधिकी अभवत् । स प्रजापतिः तस्या अवरोधार्थम् एतानि वक्ष्यमाणानि “काय स्वाहा” इत्यादिमंत्रकाणि अपक्रांतसप्तदेवताकानि वैश्वदेवानि नामानि हवनानि अपश्यत् । अन्वहमहन्यहनि जुहोति । न तु सर्वाणि । किंतु, वक्ष्यमाणेन विभागेन सप्त जुहोति । समानदेवतानि त्रीण्येकीकृत्य एवं सप्तेति । ताभिरेव देवताभिस्तर्पिताभिः अस्मै यजमानाय दीक्षामवरुन्धे ॥ १ ॥

Eggeling
  1. Prajāpati desired, ‘Might I perform a horse-sacrifice 2?’ He toiled and practised fervid devotion. From the body of him, when wearied and heated, the deities departed in a sevenfold way: therefrom the Dīkshā (initiation) was produced. He perceived those Vaiśvadeva 3 (oblations). He offered

them, and by means of them he gained the Dīkshā: and when the Sacrificer offers the Vaiśvadeva (oblations) it is the Dīkshā he thereby gains. Day after day he offers them: day after day he thus gains the Dīkshā 4. Seven of them he offers; for seven were those deities that departed (from Prajāpati); it is by means of them that he (the priest) gains the Dīkshā for him.

०२

विश्वास-प्रस्तुतिः

अ᳘प वा᳘ एते᳘भ्यः प्राणाः᳘ क्रामन्ति॥
ये᳘ दीक्षा᳘मतिरेच᳘यन्ति सप्ताहम् प्र᳘चरन्ति सप्त वै᳘ शीर्ष᳘ण्याः प्राणाः᳘ प्राणा᳘ दीक्षा᳘ प्राणै᳘रे᳘वास्मै प्राणा᳘न्दीक्षाम᳘वरुन्द्धे त्रेधा᳘ विभ᳘ज्य देव᳘तां जुहोति᳘ त्र्यावृतो वै᳘ देवा᳘स्त्र्यावृत इमे᳘ लोका ऋ᳘द्ध्यामेव᳘ वीर्य᳘ एषु᳘ लोके᳘षु प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

अ᳘प वा᳘ एते᳘भ्यः प्राणाः᳘ क्रामन्ति॥
ये᳘ दीक्षा᳘मतिरेच᳘यन्ति सप्ताहम् प्र᳘चरन्ति सप्त वै᳘ शीर्ष᳘ण्याः प्राणाः᳘ प्राणा᳘ दीक्षा᳘ प्राणै᳘रे᳘वास्मै प्राणा᳘न्दीक्षाम᳘वरुन्द्धे त्रेधा᳘ विभ᳘ज्य देव᳘तां जुहोति᳘ त्र्यावृतो वै᳘ देवा᳘स्त्र्यावृत इमे᳘ लोका ऋ᳘द्ध्यामेव᳘ वीर्य᳘ एषु᳘ लोके᳘षु प्र᳘तितिष्ठति॥

मूलम् - Weber

अ᳘प वा᳘ एते᳘भ्यः प्राणाः᳘ क्रामन्ति॥
ये᳘ दीक्षा᳘मतिरेच᳘यन्ति सप्ताहम् प्र᳘चरन्ति सप्त वै᳘ शीर्षॗण्याः प्राणाः᳘ प्राणा᳘ दीक्षा᳘ प्राणै᳘रेॗवास्मै प्राणा᳘न्दीक्षाम᳘वरुन्द्धे त्रेधा᳘ विभ᳘ज्य देव᳘तां जुहोतिॗ त्र्यावृतो वै᳘ देवाॗस्त्र्यावृत इमे᳘ लोका ऋ᳘द्ध्यामेव᳘ वीर्य᳘ एषु᳘ लोके᳘षु प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

अप वा एतेभ्यः प्राणाः क्रामन्ति । ये दीक्षामतिरेचयन्ति । सप्ताहं प्रचरन्ति । सप्त वै शीर्षण्याः प्राणाः । प्राणा दीक्षा । प्राणैरेवास्मै प्राणान् दीक्षामवरुन्धे । त्रेधा विभज्य देवतां जुहोति । त्र्यावृतो वै देवाः । त्र्यावृत इमे लोकाः । ऋध्यामेव वीर्य एषु लोकेषु प्रतितिष्ठति ॥ २ ॥

हरिस्वामी

अप वा एतेभ्यः । ये दीक्षामवरुध्य वैश्वदेवानि अतिरेचयन्ति । एकाहर्दीक्षया सप्ताहर्दीक्षया प्रचरन्ति । सप्त वैश्वदेवानि जुह्वति । दीक्षायाः सकाशात् वैश्वदेवानि व्यतिरेचयन्ति । तेभ्यः प्राणा अपक्रामन्ति । तत्प्रतीकाराय सप्ताहं दीक्षया प्रचरन्ति । सप्त ये शीर्षण्याः प्राणास्ते आश्वमेधिकीदीक्षाभूताः । ततश्च प्राणैरेव दीक्षात्मकैः प्राणात्मिकां दीक्षामवरुन्धे । त्रेधा त्रीणि रूपाणि विभज्य देवतां जुहोति । “काय स्वाहा कस्मै स्वाहा” इत्येवमादिना । त्र्यावृतो वसुरुद्रादित्यात्मकैरवयवैस्त्रिगुणा देवाः । अग्निः सोम इन्द्र इत्येवमाद्यात्मिकात्र्यावृतो वा । एवं लोका अपि त्रिगुणाः । समस्ताः प्रत्येकं चादिमध्यान्तविभागेन त्र्यावृतः । ततश्च त्रिगुणाभिर्देवताभिरिष्टाभिः त्रिगुणश्च दीर्घवत्सु समृद्धेषु एषु लोकेषु प्रतितिष्ठति ॥ २ ॥

Eggeling
  1. But, indeed, the vital airs depart from those who exceed (the duration of) the Dīkshā. For

seven days they observe it; for there are seven (outlets of) vital airs in the head, and the Dīkshā is the vital airs: it is by means of the vital airs he gains the Dīkshā, the vital airs, for him. He makes offering by dividing (each) deity into three parts 5; for the gods are of three orders 6, and of three orders are these worlds: he thus establishes himself in these worlds in prosperity and vital power.

०३

विश्वास-प्रस्तुतिः

ए᳘कविंशतिः स᳘म्पद्यन्ते॥
द्वा᳘दश मा᳘साः प᳘ञ्चर्त᳘वस्त्र᳘य इमे᳘ लोका᳘ असा᳘वादित्य᳘ एकविंशस्तद्दै᳘वं क्षत्रं सा श्रीस्तदा᳘धिपत्यं त᳘द्ब्रध्न᳘स्य विष्ट᳘पं तत्स्वा᳘राज्यमश्नुते॥

मूलम् - श्रीधरादि

ए᳘कविंशतिः स᳘म्पद्यन्ते॥
द्वा᳘दश मा᳘साः प᳘ञ्चर्त᳘वस्त्र᳘य इमे᳘ लोका᳘ असा᳘वादित्य᳘ एकविंशस्तद्दै᳘वं क्षत्रं सा श्रीस्तदा᳘धिपत्यं त᳘द्ब्रध्न᳘स्य विष्ट᳘पं तत्स्वा᳘राज्यमश्नुते॥

मूलम् - Weber

ए᳘कविंशतिः स᳘म्पद्यन्ते॥
द्वा᳘दश मा᳘साः प᳘ञ्चर्त᳘वस्त्र᳘य इमे᳘ लोका᳘ असा᳘वादित्य᳘ एकविंशस्तद्दै᳘वं क्षत्रᳫं सा श्रीस्तदा᳘धिपत्यं त᳘द्ब्रध्न᳘स्य विष्ट᳘पं तत्स्वा᳘राज्यमश्नुते॥

मूलम् - विस्वरम्

एकविंशतिः संपद्यन्ते । द्वादश मासाः । पञ्चर्तवः । त्रय इमे लोकाः । असावादित्य एकविंशः । तद्दैवं क्षत्त्रं । सा श्रीः । तदाधिपत्यम् । तत् ब्रध्नस्य विष्टपम् । तत् स्वाराज्यमश्नुते ॥ ३ ॥

हरिस्वामी

तानि च सप्त । सप्त त्रिकाणि । एकविंशतिः संगच्छन्ते । अथ तैः किमधिदैवमपि इत्यत आह- द्वादश मासा इत्यादि । उत्तरत्र तच्छब्दश्च अतो यच्छब्दः अध्याहार्यः । यदेव द्वादश मासा इत्यादि तद्देवं देवेषु भवं क्षत्त्रं । मासादींस्तान् देवानभिप्रेत्याह- सा श्रीरिति । तत्सौभाग्यतामाश्रित्याह- तदेव ब्रध्नस्यादित्यस्य संबन्धि प्रकाश्यम् । तत् आधिपत्यं अधिपतिभवम् । तत् स्वाराज्यमेकैश्वर्यम् अश्नुते ॥ ३ ॥

Eggeling
  1. They amount to one and twenty (single invocations and oblations),–there are twelve months, five seasons, these three worlds, and yonder sun as the twenty-first,–that is the divine ruling-power, that is the glory: that supreme lordship, that summit of the fallow one (the Sun), that realm of light he attains.

०४

विश्वास-प्रस्तुतिः

त्रिंश᳘तमौद्ग्रभणा᳘नि जुहोति॥
त्रिंश᳘दक्षरा विरा᳘ड्विरा᳘डु कृत्स्नम᳘न्नं कृत्स्न᳘स्यै᳘वान्ना᳘द्यस्या᳘वरुद्ध्यै चत्वा᳘र्यौद्ग्रभणा᳘नि जुहोति त्री᳘णि वैश्वदेवा᳘नि सप्त स᳘म्पद्यन्ते सप्त वै᳘ शीर्ष᳘ण्याः प्राणाः᳘ प्राणा᳘ प्राणै᳘रे᳘वास्मै प्राणा᳘न्दीक्षाम᳘वरुन्द्धे पूर्णाहुति᳘मुत्तमां᳘ जुहोति प्रत्यु᳘त्तब्ध्यै सयुक्त्वा᳘य॥

मूलम् - श्रीधरादि

त्रिंश᳘तमौद्ग्रभणा᳘नि जुहोति॥
त्रिंश᳘दक्षरा विरा᳘ड्विरा᳘डु कृत्स्नम᳘न्नं कृत्स्न᳘स्यै᳘वान्ना᳘द्यस्या᳘वरुद्ध्यै चत्वा᳘र्यौद्ग्रभणा᳘नि जुहोति त्री᳘णि वैश्वदेवा᳘नि सप्त स᳘म्पद्यन्ते सप्त वै᳘ शीर्ष᳘ण्याः प्राणाः᳘ प्राणा᳘ प्राणै᳘रे᳘वास्मै प्राणा᳘न्दीक्षाम᳘वरुन्द्धे पूर्णाहुति᳘मुत्तमां᳘ जुहोति प्रत्यु᳘त्तब्ध्यै सयुक्त्वा᳘य॥

मूलम् - Weber

त्रिंश᳘तमौद्ग्रभणा᳘नि जुहोति॥
त्रिंश᳘दक्षरा विरा᳘ड्विरा᳘डु कृत्स्नम᳘न्नं कृत्स्न᳘स्यैॗवान्ना᳘द्यस्या᳘वरुद्ध्यै चत्वा᳘र्यौद्ग्रभणा᳘नि जुहोति त्री᳘णि वैश्वदेवा᳘नि सप्त स᳘म्पद्यन्ते सप्त वै᳘ शीर्ष᳘ण्याः 7 प्राणाः᳘ प्राणा᳘ प्राणै᳘रेॗवास्मै प्राणा᳘न्दीक्षाम᳘वरुन्द्धे पूर्णाहुति᳘मुत्तमां᳘ जुहोति प्रत्यु᳘त्तब्ध्यै सयुक्त्वा᳘य॥

मूलम् - विस्वरम्

त्रिंशतमौद्ग्रभणानि जुहोति । त्रिंशदक्षरा विराट् । विराडु कृत्स्नमन्नम् । कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै । चत्वार्यौद्ग्रभणानि जुहोति । त्रीणि वैश्वदेवानि । सप्त संपद्यन्ते । सप्त वै शीर्षण्याः प्राणाः । प्राणा दीक्षा । प्राणैरेवास्मै प्राणान्दीक्षामवरुन्धे । पूर्णाहुतिमुत्तमां जुहोति । प्रत्युत्तब्ध्यै सयुक्त्वाय ॥ ४ ॥

हरिस्वामी

तैरेकविंशत्या वैश्वदेवैस्त्रिंशतमौद्ग्रभणानि जुहोति । सप्तभिर्दिवसैः कृते एकविंशतिः संपद्यते इति संपदधिकारात् । चत्वारि औद्ग्रभणानि जुहोतीति च एकस्मिन्नहनि चतुर्होमवचनाच्च । चत्वारि औद्ग्रभणानि प्रत्यहं जुहोति । प्रागल्भ्येन सप्तमे तु षडाग्निकानि जुहोति । कुत एवम् । त्रिंशत्संपद्वचनात्तेषां च साग्निचित्ये अवश्यं होम्यत्वात् । अध्वरस्य तु अनग्नेरित्येतेनापि तत्प्राप्तेः । शीर्षण्याः शिरसि भवाः । यति तद्धिते शिरसः शीर्षन्नादेशः । प्राणा दीक्षेति । याः सप्त प्राणदेवता अपाक्रामन् । सा दीक्षा ऽभवदित्येवं प्राणदीक्षया प्राणैरेव सप्तभिरधियज्ञियैः प्राणान् दीक्षात्मकान् अधिदैवकान् अवरुन्धे । पूर्णाहुतिं “विश्वो देवस्य” इत्येतामुत्तमां जुहोति । किमर्थं ? प्रत्युत पूर्वेषामौद्ग्रभणानाम् । उत्तव्ध्यै महत्यै । कथं नाम । प्रतिष्टंभः स्यात् । प्रतिस्तब्धानि च सयुंजि समानयोगीनि कथं स्युरिति । प्रतिस्तब्धानि हि वर्तुलानि हि संहत्यकारीणि भवंतीत्यर्थः ॥ ४ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये प्रथमे ऽध्याये सप्तमं ब्राह्मणम् ॥ १३ । १ । ७ ॥

Eggeling
  1. Thirty Audgrabhaṇas 8 he offers,–of thirty syllables the Virāj (metre) consists, and the Virāj means all food: thus (he offers) for the obtainment of all food. Four Audgrabhaṇas he offers (on each day), and three Vaiśvadevas;–they amount to seven; for there are seven vital airs of the head, and the Dīkshā is the vital airs: by means of the vital airs he thus gains the Dīkshā, the vital airs,

for him. A full (-spoon)-oblation 9 he offers last for the sake of invigoration and union.


  1. सप्त᳘ऽआत्म᳘नो A. ↩︎

  2. 289:1 Or, ‘might I make offering with the life-sap of the horse?’ the natural, as well as the technical, meaning of the term ‘aśvamedha’ being generally understood in these speculations. ↩︎

  3. 289:2 The oblations offered prior to the initiation–here, as at any Soma-sacrifice–are called Audgrabhaṇa (elevatory) oblations. On the present occasion he, in the first place, performs, on each of the first six days of the Dīkshā, the four oblations of this kind offered at the ordinary Soma-sacrifice (for which see III, 1, 4, 1 seqq.); whilst on the seventh day he offers, instead of these, the six corresponding oblations of the Agnicayana (which forms a necessary element of the Aśvamedha), see VI, 6, 1, 15-20; for a further and final oblation offered on all these occasions, see p. 292, note 1. He then performs on each day three additional oblations (increased to four on the last day) which are peculiar to the Aśvamedha, and vary from day to day in respect of the deities to whom they are offered. But whilst, in the Śrautasūtras, these special oblations are likewise called Audgrabhaṇa (Katy. XX, 4, 2-10), the author here applies to them the term Vaiśvadeva, owing apparently to the fact of their being offered, not to the Viśve Devāḥ properly speaking, but to different deities. In the dogmatic explanation of the Audgrabhaṇas of the ordinary sacrifice, reference was also made (at III, 1, 4, 9) to the Viśve Devāḥ, but only incidentally. Harisvāmin, indeed, points out that the designation Vaiśvadeva refers in the first place to the invocations (Vāj. S. XXII, 20) used with these special oblations (as is, indeed, evident from paragraph 2; cf. also part ii, p. 20, note 1); and the total of seven applied to them does not therefore refer here (as it does in paragraph 4) to the four ordinary and the three special Audgrabhaṇa oblations, but to the series of dedicatory formulas relating to the latter oblations, as explained p. 291, note 1; and, of course, by implication, to the oblations themselves. ↩︎

  4. 290:1 Though the Initiation only becomes perfect by the Sacrificer being girded with a hempen zone, whilst kneeling on a double black-antelope skin, and by a staff being handed to him (III, 2, 1, 1-32); on the present occasion, the Sacrificer is on each day, after the performance of the Audgrabhaṇa oblations, at least to sit down on the antelope skin; whilst on the seventh and last day of the Dīkshaṇīyeshṭi, the remaining ceremonies take place, after which those of the Agnicayana, viz. the placing of the Ukhā, or fire-pan, on the fire and the putting of thirteen fire-sticks in the pan (VI, 6, 2, 1 seqq.), &c. ↩︎

  5. 291:1 The kaṇḍikā XXII, 20 is made up of seven parts, each of which consists of three distinct invocations addressed to the same deity; the seven deities addressed in the whole formula being Ka, Prajāpati, Aditi, Sarasvatī, Pūshan, Tvashṭr̥, and Vishṇu; whilst the three invocations to Ka, for instance, are ‘Kāya svāhā! Kasmai svāhā! Katamasmai svāhā!’ Cf. XIII, 1, 8, 2 seqq. ↩︎

  6. 291:2 Viz. either the Vasus, Rudras, and Ādityas (cf. IV, 5, 7, 2); or those of the sky, the air, and the earth, headed by Sūrya, Vāyu, and Agni respectively. ↩︎

  7. शीर्षॗण्याः. ↩︎

  8. 291:3 That is, the four Audgrabhaṇas of the ordinary Soma-sacrifice offered on each of the seven days of the Dīkshā, and two more added thereto on the seventh day. ↩︎

  9. 292:1 For a full discussion of this final Audgrabhaṇa oblation, the only one, it would seem, offered with the regular offering-spoon (juhū) filled by means of the dipping-spoon (sruva), see III, 1, 4, 2; 16-23; cf. also VI, 6, 1, 21. ↩︎