०१
विश्वास-प्रस्तुतिः
विभू᳘र्मात्रा᳘ प्रभूः᳘ पित्रे᳘ति॥
इयं वै᳘ मा᳘तासौ᳘ पि᳘ताभ्यामे᳘वैनम् प᳘रिददात्य᳘श्वोऽसि ह᳘योऽसी᳘ति शा᳘स्त्ये᳘वैनं तत्त᳘स्माछिष्टाः᳘ प्रजा᳘ जायन्ते᳘ऽत्योऽसि म᳘योऽसीत्य᳘त्ये᳘वैनं नयति त᳘स्माद᳘श्वः पशूनां श्रै᳘ष्ठ्यं गछत्य᳘र्वासि स᳘प्तिरसि वाज्यसी᳘ति यथायजु᳘रे᳘वैतद्वृ᳘षासि नृम᳘णा असी᳘ति मिथुनत्वा᳘य य᳘युर्ना᳘मासि शि᳘शुर्ना᳘मासी᳘त्येतद्वा अ᳘श्वस्य प्रियं᳘ नामधे᳘यम् प्रिये᳘णै᳘वैनं ना᳘म्नाभि᳘वदति त᳘स्माद᳘प्यामित्रौ᳘ संग᳘त्य ना᳘म्ना चे᳘दभिव᳘दतो᳘ऽन्योऽन्यं स᳘मेव᳘ जानाते॥
मूलम् - श्रीधरादि
विभू᳘र्मात्रा᳘ प्रभूः᳘ पित्रे᳘ति॥
इयं वै᳘ मा᳘तासौ᳘ पि᳘ताभ्यामे᳘वैनम् प᳘रिददात्य᳘श्वोऽसि ह᳘योऽसी᳘ति शा᳘स्त्ये᳘वैनं तत्त᳘स्माछिष्टाः᳘ प्रजा᳘ जायन्ते᳘ऽत्योऽसि म᳘योऽसीत्य᳘त्ये᳘वैनं नयति त᳘स्माद᳘श्वः पशूनां श्रै᳘ष्ठ्यं गछत्य᳘र्वासि स᳘प्तिरसि वाज्यसी᳘ति यथायजु᳘रे᳘वैतद्वृ᳘षासि नृम᳘णा असी᳘ति मिथुनत्वा᳘य य᳘युर्ना᳘मासि शि᳘शुर्ना᳘मासी᳘त्येतद्वा अ᳘श्वस्य प्रियं᳘ नामधे᳘यम् प्रिये᳘णै᳘वैनं ना᳘म्नाभि᳘वदति त᳘स्माद᳘प्यामित्रौ᳘ संग᳘त्य ना᳘म्ना चे᳘दभिव᳘दतो᳘ऽन्योऽन्यं स᳘मेव᳘ जानाते॥
मूलम् - Weber
विभू᳘र्मात्रा᳘ प्रभूः᳘ पित्रे᳘ति॥
इयं वै᳘ माॗतासौ᳘ पिॗताभ्यामेॗवैनम् प᳘रिददात्य᳘श्वोऽसि ह᳘योऽसी᳘ति शा᳘स्त्येॗवैनं तत्त᳘स्माछिष्टाः᳘ प्रजा᳘ जायन्ते᳘ऽत्योऽसि म᳘योऽसीत्य᳘त्येॗवैनं नयति त᳘स्माद᳘श्वः पशूनां श्रै᳘ष्ठ्यं गछत्य᳘र्वासि स᳘प्तिरसि वाज्यसी᳘ति यथायजु᳘रेॗवैतद्वृ᳘षासि नृम᳘णा असी᳘ति मिथुनत्वा᳘य य᳘युर्ना᳘मासि शि᳘शुर्ना᳘मासी᳘त्येतद्वा अ᳘श्वस्य प्रियं᳘ नामधे᳘यम् प्रिये᳘णैॗवैनं ना᳘म्नाभि᳘वदति त᳘स्माद᳘प्यामित्रौ᳘ संग᳘त्य ना᳘म्ना चे᳘दभिव᳘दतोॗऽन्योऽन्यᳫं स᳘मेव᳘ जानाते॥
मूलम् - विस्वरम्
“विभूर्मात्रा प्रभूः पित्रा"- इति । इयं वै माता । असौ पिता । आभ्यामेवैनं परिददाति । “अश्वो ऽसि हयो ऽसि”- इति । शास्त्येवैनं तत् । तस्माच्छिष्टाः प्रजा जायन्ते । “अत्यो ऽसि मयो ऽसि”- इति । अत्येवैनं नयति । तस्मादश्वः पशूनत्येति । तस्मादश्वः पशूनां श्रैष्ठ्यं गच्छति । “अर्वासि सप्तिरसि वाज्यसि”- इति । यथा यजुरेवैतत् । “वृषा ऽसि नृमणा असि”- इति, मिथुनत्वाय । “ययुर्नामा ऽसि शिशुर्नामा ऽसि”- इति । एतद्वा अश्वस्य प्रियं नामधेयम् । प्रियेणैवैनं नाम्ना ऽभिवदति । तस्मादप्यामित्रौ संगत्य नाम्ना चेदभिवदतः । अन्यो ऽन्यं समेव जानाते ॥ १ ॥
हरिस्वामी
विभूर्मात्रेति । तृतीयायां सावित्र्यामिष्टौ “संस्थितायामुपोत्थायाध्वर्युश्च यजमानश्चाश्वस्य दक्षिणे कर्णे आजपतो विभूर्मात्रा प्रभूः पित्रेति" वक्ष्यति (श. प. १३ । ४ । २ । १५) । अत्र तु मन्त्रो व्याख्यायते । ‘इयं वै माता’ । एभ्य आध्वर्यवाद्वृष्टिलक्षणरेतःप्रतिग्रहाच्च । ‘असौ पितेति’ उक्तत्वादुदकासेकाच्च । तदुदकं तैलं पतिश्चास्यासौ पितेत्युच्यते । आभ्यामेवैनं परिददातीति । विभूर्मात्रा प्रभूः पित्रा सन् । आदित्यानां पत्वानामनुगच्छेति कृत्वा द्यावापृथिवीभ्यामेवैनमश्वं परित्रातुं निवेदयति- शास्त्येवैनं तदिति । महाशनस्त्वं गतौ विनिशास्ति शिक्षयत्येनं तदनुकारेण शिष्टाः स्वकर्मकुशलाः प्रजा जायंते । अत एव स तमश्वं नयतीति ब्रुवन् । अतिशब्दादव्ययादयमत्यशब्दो दर्शयति । अतिक्रम्यान्यान् यश्च भवतीत्यत्यः । अथवा “अत सातत्यगमने” इत्यस्मात्कर्तरि यत्प्रत्ययः । वर्षति सिञ्चति इति वृषा अन्यथा वर्षप्राप्तो ऽत्र दर्शितः । अन्यान्पशूनत्येति अतः अयमेवाश्व इत्युच्यते । अतिशयेन अश्नोनीति । यथा यजुरेवैतत् ब्राह्मणमिव ब्रुवन् अर्वतेः प्राप्तिकर्मणः । अर्वतीत्यर्वा । सर्पतीति सप्तिः । साधु वाजतीति वाजी । बुद्धावुत्पत्तिं दर्शयति- मिथुनत्वायेति । वृषावान् मिथुनेन विना न भवतीति । नृमणा अपि नृभिर्विषयभूतैर्विना न भवतीति । सो ऽपि मिथुनरूपं विना साक्षीत्यभिप्रायः । एतद्वा अश्वस्य । प्रियं नामधेयमिति । विषयानत्यर्थं यातीति ययुः । अत्यर्थत्वं प्रशस्तार्थं चेति प्रियं । शिशुः शंसनीयो भवतीत्येतदपि प्रशंसानिमित्तत्वात् प्रियम् । आमित्रौ अमित्रायाः पुत्रौ ॥ १ ॥
Eggeling
- [The Adhvaryu and Sacrificer whisper in the right ear of the horse, Vāj. S. XXII, 19 1,] ‘Plenteous by the mother, strengthful by the father,’–its mother, doubtless, is this (earth), and its father yonder (sky): it is to these two he commits it;–‘a horse thou art, a steed thou art,’–he thereby instructs it, whence clever subjects (or children) are born to him;–‘a courser (atya) thou art, a charger thou art,’–he therewith leads it beyond (ati), whence the horse goes beyond (surpasses) other animals, and whence the horse attains to pre-eminence among animals;–‘a runner thou art, a racer thou art, a prize-winner thou
art,’–in accordance with the text is (the meaning of) this;–‘a male thou art, well-disposed towards man thou art,’–this is with a view to its (or, his) being supplied with a mate;–‘Speedy thou art called, Child thou art called,’–this is the horse’s favourite name: by its favourite name he thus addresses it; whence even if two enemies 2, on meeting together, address one another by name, they get on amicably together.
०२
विश्वास-प्रस्तुतिः
आदित्या᳘नाम् पत्वा᳘न्विही᳘ति॥
आदित्या᳘ने᳘वैनं गमयति दे᳘वा आशापाला एतं᳘ देवेभ्यो᳘ऽश्वम् मेधा᳘य प्रो᳘क्षितं रक्षते᳘ति शतं वै त᳘ल्प्या राजपुत्रा᳘ आशापालास्ते᳘भ्य ए᳘वैनम् प᳘रिददातीह र᳘न्तिरिह᳘ रमतामिह धृ᳘तिरिह स्व᳘धृतिः स्वाहे᳘ति संवत्सरमा᳘हुतीर्जुहोति षो᳘डश नवती᳘रेता वा अ᳘श्वस्य ब᳘न्धनं ता᳘भिरे᳘वैनम् बध्नाति त᳘स्माद᳘श्वः प्र᳘मुक्तो ब᳘न्धनमा᳘गछति षो᳘डश नवती᳘रेता वा अ᳘श्वस्य ब᳘न्धनं ता᳘भिरे᳘वैनम् बध्नाति त᳘स्माद᳘श्वः प्र᳘मुक्तो ब᳘न्धनं न᳘ जहाति॥
मूलम् - श्रीधरादि
आदित्या᳘नाम् पत्वा᳘न्विही᳘ति॥
आदित्या᳘ने᳘वैनं गमयति दे᳘वा आशापाला एतं᳘ देवेभ्यो᳘ऽश्वम् मेधा᳘य प्रो᳘क्षितं रक्षते᳘ति शतं वै त᳘ल्प्या राजपुत्रा᳘ आशापालास्ते᳘भ्य ए᳘वैनम् प᳘रिददातीह र᳘न्तिरिह᳘ रमतामिह धृ᳘तिरिह स्व᳘धृतिः स्वाहे᳘ति संवत्सरमा᳘हुतीर्जुहोति षो᳘डश नवती᳘रेता वा अ᳘श्वस्य ब᳘न्धनं ता᳘भिरे᳘वैनम् बध्नाति त᳘स्माद᳘श्वः प्र᳘मुक्तो ब᳘न्धनमा᳘गछति षो᳘डश नवती᳘रेता वा अ᳘श्वस्य ब᳘न्धनं ता᳘भिरे᳘वैनम् बध्नाति त᳘स्माद᳘श्वः प्र᳘मुक्तो ब᳘न्धनं न᳘ जहाति॥
मूलम् - Weber
आदित्या᳘नाम् पत्वा᳘न्विही᳘ति॥
आदित्या᳘नेॗवैनं गमयति दे᳘वा आशापाला एतं᳘ देवेभ्यो᳘ऽश्वम् मेधा᳘य प्रो᳘क्षितं रक्षते᳘ति शतं वै त᳘ल्प्या राजपुत्रा᳘ आशापालास्ते᳘भ्य एॗवैनम् प᳘रिददातीह र᳘न्तिरिह᳘ रमतामिह धृ᳘तिरिह स्व᳘धृतिः स्वाहे᳘ति संवत्सरमा᳘हुतीर्जुहोति षो᳘डश नवती᳘रेता वा अ᳘श्वस्य ब᳘न्धनं ता᳘भिरेॗवैनम् बध्नाति त᳘स्माद᳘श्वः प्र᳘मुक्तो ब᳘न्धनमा᳘गछति षो᳘डश नवती᳘रेता वा अ᳘श्वस्य ब᳘न्धनं ता᳘भिरेॗवैनम् बध्नाति त᳘स्माद᳘श्वः प्र᳘मुक्तो ब᳘न्धनं न᳘ जहाति॥
मूलम् - विस्वरम्
“आदित्यानां पत्वा ऽन्विहि”- इति । आदित्यानेवैनं गमयति । “देवा आशापाला एतं देवेभ्यो ऽश्वं मेधाय प्रोक्षितं रक्षत”- इति । शतं वै तल्प्या राजपुत्रा आशापालाः । तेभ्य एवैनं परिददाति । “इह रन्तिरिह रमतामिह धृतिरिह स्वधृतिः स्वाहा”- (वा. सं. २२ । १९ ।) इति । संवत्सरमाहुतीर्जुहोति षोडश नवतीः । एता वा अश्वस्य बन्धनम् । ताभिरेवैनं बध्नाति । तस्मादश्वः प्रमुक्तो बन्धनमागच्छति । षोडश नवतीः । एत वा अश्वस्य बन्धनम् । ताभिरेवैनं बध्नाति । तस्मादश्वः प्रमुक्तो बन्धनं न जहाति ॥ २ ॥
हरिस्वामी
तल्प्याः । तल्पसाधवस्तल्याः । शतं शय्या गताः तल्पेन समं रात्रौ ये साधु रक्षंति राजपुत्राः । तेभ्य एवैनं परिददातीति । ब्रुवन् देवशब्दं तेष्टे गौणं दर्शयति । अथैते देवा इत्यत्र तु देवा आशापाला लक्ष्यन्ते । “इह रंतिरिह रमताम्” इति क्रमप्राप्तमंत्रानुक्रमणार्थं पुनर्वचनम् । षोडश नवतीरिति । ता एताः संवत्सरे संपद्यन्ते । एतामिति । इह रंतिरित्येवं प्रार्थना । ‘बन्धनं’ बध्यते ऽस्मिन्निति बंधनं स्थानं तस्मात्प्रमुक्तः स्वयमप्यागच्छति । (सत्ये च सत्यजन्यम् ?) ॥ २ ॥
Eggeling
- ‘Go thou along the way of the Ādityas!’–to the Ādityas he thus makes it go.–‘Ye divine guardians of the quarters, protect this horse, sprinkled for sacrifice to the gods!’–the guardians of the quarters are a hundred princes born in wedlock: to them he commits it;–‘here is joy: here let it rejoice!–here is safe keeping, here is its own safe keeping, hail!’ For a year he offers the (four Dhr̥ti) oblations 3–(amounting to) sixteen nineties, for they are the horse’s chain 4, and it is therewith alone that he chains it; whence the horse when let loose returns to its chain: (they amount to) sixteen nineties 5; for these (oblations of safe keeping) are the horse’s chain, and it is therewith alone that he chains it, whence the horse, when let loose, does not (entirely) abandon its chain.
०३
विश्वास-प्रस्तुतिः
राष्ट्रं वा᳘ अश्वमेधः᳘॥
राष्ट्र᳘ एते व्या᳘यछन्ते ये᳘ऽश्वं र᳘क्षन्ति ते᳘षां य᳘ उदृ᳘चं ग᳘छन्ति राष्ट्रे᳘णैव ते᳘ राष्ट्र᳘म् भवन्त्य᳘थ ये᳘ नोदृ᳘चं ग᳘छन्ति राष्ट्रात्ते व्य᳘वछिद्यन्ते त᳘स्माद्राष्ट्र्य᳘श्वमेधे᳘न यजेत प᳘रा वा᳘ एष᳘ सिच्यते᳘ योऽब᳘लोऽश्वमेधे᳘न य᳘जते य᳘द्यमि᳘त्रा अ᳘श्वं विन्दे᳘रन्य᳘ज्ञोऽस्य वि᳘छिद्येत पा᳘पीयान्त्स्याछतं᳘ कवचि᳘नो रक्षन्ति यज्ञ᳘स्य सं᳘तत्या अ᳘व्यवछेदाय न पा᳘पीयान्भवत्य᳘थान्य᳘मानी᳘य प्रो᳘क्षेयुः᳘ सैव त᳘त्र प्रा᳘यश्चित्तिः॥
मूलम् - श्रीधरादि
राष्ट्रं वा᳘ अश्वमेधः᳘॥
राष्ट्र᳘ एते व्या᳘यछन्ते ये᳘ऽश्वं र᳘क्षन्ति ते᳘षां य᳘ उदृ᳘चं ग᳘छन्ति राष्ट्रे᳘णैव ते᳘ राष्ट्र᳘म् भवन्त्य᳘थ ये᳘ नोदृ᳘चं ग᳘छन्ति राष्ट्रात्ते व्य᳘वछिद्यन्ते त᳘स्माद्राष्ट्र्य᳘श्वमेधे᳘न यजेत प᳘रा वा᳘ एष᳘ सिच्यते᳘ योऽब᳘लोऽश्वमेधे᳘न य᳘जते य᳘द्यमि᳘त्रा अ᳘श्वं विन्दे᳘रन्य᳘ज्ञोऽस्य वि᳘छिद्येत पा᳘पीयान्त्स्याछतं᳘ कवचि᳘नो रक्षन्ति यज्ञ᳘स्य सं᳘तत्या अ᳘व्यवछेदाय न पा᳘पीयान्भवत्य᳘थान्य᳘मानी᳘य प्रो᳘क्षेयुः᳘ सैव त᳘त्र प्रा᳘यश्चित्तिः॥
मूलम् - Weber
राष्ट्रं वा᳘ अश्वमेधः᳟॥
राष्ट्र᳘ एते व्या᳘यछन्ते ये᳘ऽश्वं र᳘क्षन्ति ते᳘षां य᳘ उदृ᳘चं ग᳘छन्ति राष्ट्रे᳘णैव ते᳘ राष्ट्र᳘म् भवन्त्य᳘थ येॗ नोदृ᳘चं ग᳘छन्ति राष्ट्रात्ते व्य᳘वछिद्यन्ते त᳘स्माद्राष्ट्र्य᳘श्वमेधे᳘न यजेत प᳘रा वा᳘ एष᳘ सिच्यतेॗ योऽब᳘लोऽश्वमेधे᳘न 6 य᳘जते य᳘द्यमि᳘त्रा अ᳘श्वं विन्दे᳘रन्यॗज्ञोऽस्य वि᳘छिद्येत पा᳘पीयान्त्स्याछतं᳘ कवचि᳘नो रक्षन्ति यज्ञ᳘स्य सं᳘तत्या अ᳘व्यवछेदाय न पा᳘पीयान्भवत्य᳘थान्य᳘मानी᳘य प्रो᳘क्षेयुःॗ सैव त᳘त्र प्रा᳘यश्चित्तिः॥
मूलम् - विस्वरम्
राष्ट्रं वा अश्वमेधः । राष्ट्र एते व्यायच्छन्ति । ये ऽश्वं रक्षन्ति । तेषां य उदृचं गच्छन्ति । राष्ट्रेणैव ते राष्ट्रं भवन्ति । अथ ये नोदृचं गच्छन्ति । राष्ट्रात्ते व्यवच्छिद्यन्ते । तस्माद्द्राष्ट्र्यश्वमेधेन यजेत । परा वा एष सिच्यते । यो ऽबलो ऽश्वमेधेन यजते । यद्यमित्रा अश्वं विन्देरन् । यज्ञो ऽस्य विच्छिद्येत । पापीयान् स्यात् । शतं कवचिनो रक्षन्ति । यज्ञस्य सन्तत्या अव्यवच्छेदाय । न पापीयान् भवति । अथान्यमानीय प्रोक्षेयुः । सैव तत्र प्रायश्चित्तिः ॥ ३ ॥
हरिस्वामी
राष्ट्रं जनपदम् । अश्वमेधकारणम् । कथं ? यस्मात् राष्ट्रे एते विविधं आयच्छन्ते व्याप्रियंते । तेषां ये राजपुत्रादयो राजन्यादयः उद्दृचं समाप्तिं गच्छंति । अश्वमात्राद्रक्षंति । ते राष्ट्रेणैवाश्वमेधेन हेतुना राष्ट्रं राष्ट्रात् स्वं रक्षंति राजपुत्रादयो भवंति । तयैव सेवया देशा आप्ताश्च प्राप्नुवंतीत्यर्थः । तस्मात् राष्ट्री राष्ट्रपतिः । अश्वमेधेन यजेतेति विधिः । परा बहिः । परासिच्यते क्षीयंते ऽरातयः । अबलो मंदबलः सामंतेभ्यः । अश्वमेधेन यजते ॥ ३ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशकाण्डे प्रथमे ऽध्याये षष्ठं ब्राह्मणम् ॥ १३ । १ । ६ ॥
Eggeling
- Verily, the Aśvamedha means royal sway: it is after royal sway that these strive who guard the horse. Those of them who reach the end become
(sharers in) the royal sway, but those who do not reach the end are cut off from royal sway. Wherefore let him who holds royal sway perform the horse-sacrifice; for, verily, whosoever performs the horse-sacrifice, without possessing power, is poured (swept) away.–Now, were unfriendly, men to get hold of the horse, his sacrifice would be cut in twain, and he would become the poorer for it. A hundred men clad in armour guard it for the continuity and uninterrupted performance of the sacrifice; and he will not become the poorer for it; (but if it be lost) they should fetch another (horse), and sprinkle it: this is the expiation in that case.