०१
विश्वास-प्रस्तुतिः
अ᳘प वा᳘ एत᳘स्मात्॥
श्री᳘ राष्ट्रं᳘ क्रामति᳘ योऽश्वमेधे᳘न य᳘जते यदा वै पु᳘रुषः श्रि᳘यं ग᳘छति वी᳘णास्मै वाद्यते ब्राह्मणौ᳘ वीणागाथि᳘नौ संवत्सरं᳘ गायतः श्रियै वा᳘ एत᳘द्रूपं यद्वी᳘णा श्रि᳘यमे᳘वास्मिंस्त᳘द्धत्तः॥
मूलम् - श्रीधरादि
अ᳘प वा᳘ एत᳘स्मात्॥
श्री᳘ राष्ट्रं᳘ क्रामति᳘ योऽश्वमेधे᳘न य᳘जते यदा वै पु᳘रुषः श्रि᳘यं ग᳘छति वी᳘णास्मै वाद्यते ब्राह्मणौ᳘ वीणागाथि᳘नौ संवत्सरं᳘ गायतः श्रियै वा᳘ एत᳘द्रूपं यद्वी᳘णा श्रि᳘यमे᳘वास्मिंस्त᳘द्धत्तः॥
मूलम् - Weber
अ᳘प वा᳘ एत᳘स्मात्॥
श्री᳘ राष्ट्रं᳘ क्रामतिॗ योऽश्वमेधे᳘न य᳘जते यदा वै पु᳘रुषः श्रि᳘यं ग᳘छति वी᳘णास्मै वाद्यते ब्राह्मणौ᳘ वीणागाथि᳘नौ संवत्सरं᳘ गायतः श्रियै वा᳘ एत᳘द्रूपं यद्वी᳘णा श्रि᳘यमेॗवास्मिंस्त᳘द्धत्तः॥
मूलम् - विस्वरम्
अप वा एतस्माच्छ्री राष्ट्रं क्रामति । यो ऽश्वमेधेन यजते । यदा वै पुरुषः श्रियं गच्छति । वीणा ऽस्मै वाद्यते । ब्राह्मणौ वीणागाथिनौ संवत्सरं गायतः । श्रियै वा एतद्रूपम् । यद्वीणा । श्रियमेवास्मिंस्तद्धत्तः ॥ १ ॥
हरिस्वामी
अप वा एतस्मात् । एतेभ्यो यो ऽश्वमेधेन यजते । तस्मात् श्रीश्च समृद्धिः राष्ट्रं च जनपदः अप्रक्रामति । (ऋस्त्यौदीयानम् । ?) तत्प्रतीकाराय । ब्राह्मणौ वीणागाथिनौ संवत्सरं गायतः । श्रियो ह्येतत् रूपम् । या वीणा । श्रियमेवास्मिन्नेव धत्तः । कथं पुरा एतत् श्रियो रूपम्, इत्यत आह- यदा वै पुरुष इति । अर्थवादार्थ एवायमुपन्यासः । तस्यै प्रयाजेषु तायमानेषु । (अथ सायं धृतिषु हूयमानास्वश्विनोपबंधने च गुणत्वाद्गानोत्पत्तौ वाक्ये द्रष्टव्ये इतरे तावृत्तिवाक्यविशिष्टयोर्ब्राह्मणयोरन्यतरे ऽन्ये राजम्येन कथं बाध्येत !) ॥ १-३ ॥
Eggeling
- But, indeed, distinction, royal sway, departs from him who performs the horse-sacrifice; and when a man attains to distinction, the lute is played to him. Two Brāhmaṇical lute-players sing (and play) for a year; for that–to wit, the lute–is a form (attribute) of distinction: it is distinction they thus confer upon him.
०२
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
य᳘दुभौ᳘ ब्राह्मणौ गा᳘येताम᳘पास्मात्क्षत्रं᳘ क्रामेद्ब्र᳘ह्मणो वा᳘ एत᳘द्रूपं य᳘द्ब्राह्मणो न वै ब्र᳘ह्मणि क्षत्रं᳘ रमत इ᳘ति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
य᳘दुभौ᳘ ब्राह्मणौ गा᳘येताम᳘पास्मात्क्षत्रं᳘ क्रामेद्ब्र᳘ह्मणो वा᳘ एत᳘द्रूपं य᳘द्ब्राह्मणो न वै ब्र᳘ह्मणि क्षत्रं᳘ रमत इ᳘ति॥
मूलम् - Weber
त᳘दाहुः॥
य᳘दुभौ᳘ ब्राह्मणौ गा᳘येताम᳘पास्मात्क्षत्रं᳘ क्रामेद्ब्र᳘ह्मणो वा᳘ एत᳘द्रूपं य᳘द्ब्राह्मणो न वै ब्र᳘ह्मणि क्षत्रं᳘ रमत इ᳘ति॥
मूलम् - विस्वरम्
तदाहुः- यदुभौ ब्राह्मणौ गायेताम् । अपास्माक्षत्त्रं क्रामेत् । ब्रह्मणो वा एतद्रूपम् । यद् ब्राह्मणः । न वै ब्रह्मणि क्षत्त्रं रमत इति ॥ २ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- Concerning this they say, ‘Were both to be Brāhmaṇas who sing, noble rank (or political power) would depart from him; for he–to wit, a Brāhmaṇa–is a form of the priestly office; and the nobility takes no delight in the priestly office (or priesthood).
०३
विश्वास-प्रस्तुतिः
य᳘दुभौ᳘ राज᳘न्यौ॥
अ᳘पास्माद्ब्रह्मवर्चसं᳘ क्रामेत्क्षत्र᳘स्य वा᳘ एत᳘द्रूपं य᳘द्राज᳘न्यो न वै᳘ क्षत्रे᳘ ब्रह्मवर्चसं᳘ रमत इ᳘ति ब्राह्म᳘णोऽन्यो गा᳘यति राज᳘न्योऽन्यो ब्र᳘ह्म वै᳘ ब्राह्मणः᳘ क्षत्रं᳘ राजन्य᳘स्त᳘दस्य ब्र᳘ह्मणा च क्षत्रे᳘ण चोभय᳘तः श्रीः प᳘रिगृहीता भवति॥
मूलम् - श्रीधरादि
य᳘दुभौ᳘ राज᳘न्यौ॥
अ᳘पास्माद्ब्रह्मवर्चसं᳘ क्रामेत्क्षत्र᳘स्य वा᳘ एत᳘द्रूपं य᳘द्राज᳘न्यो न वै᳘ क्षत्रे᳘ ब्रह्मवर्चसं᳘ रमत इ᳘ति ब्राह्म᳘णोऽन्यो गा᳘यति राज᳘न्योऽन्यो ब्र᳘ह्म वै᳘ ब्राह्मणः᳘ क्षत्रं᳘ राजन्य᳘स्त᳘दस्य ब्र᳘ह्मणा च क्षत्रे᳘ण चोभय᳘तः श्रीः प᳘रिगृहीता भवति॥
मूलम् - Weber
य᳘दुभौ᳘ राजॗन्यौ॥
अ᳘पास्माद्ब्रह्मवर्चसं᳘ क्रामेत्क्षत्र᳘स्य वा᳘ एत᳘द्रूपं य᳘द्राजॗन्यो न वै᳘ क्षत्रे᳘ ब्रह्मवर्चसं᳘ रमत इ᳘ति ब्राह्मॗणोऽन्यो गा᳘यति राजॗन्योऽन्यो ब्र᳘ह्म वै᳘ ब्राह्मणः᳘ क्षत्रं᳘ राजन्य᳘स्त᳘दस्य ब्र᳘ह्मणा च क्षत्रे᳘ण चोभय᳘तः श्रीः प᳘रिगृहीता भवति॥
मूलम् - विस्वरम्
यदुभौ राजन्यौ । अपास्माद् ब्रह्मवर्चसं क्रामेत् । क्षत्त्रस्य वा एतद्रूपम् । यद्राजन्यः । न वै क्षत्त्रे ब्रह्मवर्चसं रमत इति । ब्राह्मणो ऽन्यो गायति । राजन्यो ऽन्यः । ब्रह्म वै ब्राह्मणः । क्षत्त्रं राजन्यः । तदस्य ब्रह्मणा च क्षत्त्रेण चोभयतः श्रीः परिगृहीता भवति ॥ ३ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- ‘And were both to be Rājanyas (nobles), spiritual lustre would depart from him; for he–to wit, the Rājanya–is a form of noble rank, and spiritual lustre takes no delight in noble rank.’ One of those who sing is a Brāhmaṇa, and the other a Rājanya; for the Brāhmaṇa means priestly office, and the Rājanya noble rank: thus his distinction (social position) comes to be guarded on either side by the priesthood and the nobility.
०४
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
य᳘दुभौ दि᳘वा गा᳘येताम् प्रभ्रं᳘शुकास्माछ्रीः᳘ स्याद्ब्र᳘ह्मणो वा᳘ एत᳘द्रूपं यद᳘हर्यदा वै रा᳘जा काम᳘यतेऽथ ब्राह्मणं᳘ जिनाति पा᳘पीयांस्तु᳘ भवति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
य᳘दुभौ दि᳘वा गा᳘येताम् प्रभ्रं᳘शुकास्माछ्रीः᳘ स्याद्ब्र᳘ह्मणो वा᳘ एत᳘द्रूपं यद᳘हर्यदा वै रा᳘जा काम᳘यतेऽथ ब्राह्मणं᳘ जिनाति पा᳘पीयांस्तु᳘ भवति॥
मूलम् - Weber
त᳘दाहुः॥
य᳘दुभौ दि᳘वा गा᳘येताम् प्रभ्रं᳘शुकास्माछ्रीः᳘ स्याद्ब्र᳘ह्मणो वा᳘ एत᳘द्रूपं यद᳘हर्यदा वै रा᳘जा काम᳘यतेऽथ ब्राह्मणं᳘ जिनाति पा᳘पीयांस्तु᳘ भवति॥
मूलम् - विस्वरम्
तदाहुः- यदुभौ दिवा गायेताम् । प्रभ्रंशुका ऽस्माच्छ्रीः स्यात् । ब्रह्मणो वा एतद्रूपम् । यदहः । यदा वै राजा कामयते । अथ ब्राह्मणं जिनाति । पापीयांस्तु भवति ॥ ४ ॥
हरिस्वामी
प्रभ्रंशुका प्रकर्षेण भ्रंशनधर्मिका इत्येवंबहुलक्षणं बह्वन्नमभक्षत् । बहुभिर्ऋतुभिरयं राजा अयजत इष्टवान् इति । एवं प्रभूतं सारं अचितमक्लिष्टं सात्विकं पात्रेषु अददात् दत्तवानिति ब्राह्मणो गायति । एवं बहुभिः शूरैः सह निर्यात्यम्, जयोत्तरमविक्रव्यं अयुध्यत इति । एवं चतुरंगेण बलेन वक्त्रादिना व्यूहेन अनीकोरः-कक्ष्यादिमबध्नन् । अमुं चतुर्दत्तकूटयुद्धादिकं संग्रामम् । अथवा कुरुसंग्रामं बालसंग्रामं प्राच्यसंग्रामं उदीच्यमपीत्यादिकं अजयज्जितवान् । अयं राजेति राजन्यो गायति । नान्यं प्रत्येकं 1 शतं ददाति । परिक्रीयमाणयोस्तयोः प्राधान्यात् । ऋत्विजां तु क्रतुदक्षिणोक्तपरिमाणा दीयते । इति न प्रत्येकं सकला दीयते ॥ ४-६ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशकाण्डे प्रथमे ऽध्याये पञ्चमं ब्राह्मणम् ॥ १३ । १ । ५ ॥
Eggeling
- Concerning this they say, ‘Were both to sing by day, his distinction would be apt to fall away from him: for that–to wit, the day–is a form of the priestly dignity; and when the king chooses he may oppress (despoil) the Brāhmaṇa, but he will fare the worse (or, become the poorer) for it.
०५
विश्वास-प्रस्तुतिः
य᳘दुभौ न᳘क्तम्॥
अ᳘पास्माद्ब्रह्मवर्चसं᳘ क्रामेत्क्षत्र᳘स्य वा᳘ एत᳘द्रूपं यद्रा᳘त्रिर्न वै᳘ क्षत्रे᳘ ब्रह्मवर्चसं᳘ रमत इ᳘ति दि᳘वा ब्राह्मणो गा᳘यति न᳘क्तं राजन्य᳘स्त᳘थो हास्य ब्र᳘ह्मणा च क्षत्रे᳘ण चोभय᳘तः श्रीः प᳘रिगृहीता भवती᳘ति॥
मूलम् - श्रीधरादि
य᳘दुभौ न᳘क्तम्॥
अ᳘पास्माद्ब्रह्मवर्चसं᳘ क्रामेत्क्षत्र᳘स्य वा᳘ एत᳘द्रूपं यद्रा᳘त्रिर्न वै᳘ क्षत्रे᳘ ब्रह्मवर्चसं᳘ रमत इ᳘ति दि᳘वा ब्राह्मणो गा᳘यति न᳘क्तं राजन्य᳘स्त᳘थो हास्य ब्र᳘ह्मणा च क्षत्रे᳘ण चोभय᳘तः श्रीः प᳘रिगृहीता भवती᳘ति॥
मूलम् - Weber
य᳘दुभौ न᳘क्तम्॥
अ᳘पास्माद्ब्रह्मवर्चसं᳘ क्रामेत्क्षत्र᳘स्य वा᳘ एत᳘द्रूपं यद्रा᳘त्रिर्न वै᳘ क्षत्रे᳘ ब्रह्मवर्चसं᳘ रमत इ᳘ति दि᳘वा ब्राह्मणो गा᳘यति न᳘क्तं राजन्य᳘स्त᳘थो हास्य ब्र᳘ह्मणा च क्षत्रे᳘ण चोभय᳘तः श्रीः प᳘रिगृहीता भवती᳘ति 2 ॥
मूलम् - विस्वरम्
यदुभौ नक्तम् । अपास्माद्ब्रह्मवर्चसं क्रामेत् । क्षत्त्रस्य वा एतद्रूपम् । यद्रात्रिः । न वै क्षत्त्रे ब्रह्मवर्चसं रमत इति । दिवा ब्राह्मणो गायति । नक्तं राजन्यः । तथो हास्य ब्रह्मणा च क्षत्त्रेण चोभयतः श्रीः परिगृहीता । भवति इति ॥ ५ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- ‘And if both (were to sing) at night, spiritual lustre would fall away from him; for that–to wit, the night–is a form of the nobility, and spiritual lustre takes no delight in the nobility.’ The Brāhmaṇa sings by day 3, and the Rājanya at night 4; and thus, indeed, his distinction comes to be guarded on either side by the priesthood and the nobility 5.
०६
विश्वास-प्रस्तुतिः
अयजते᳘त्यददादि᳘ति ब्राह्मणो᳘ गायतीष्टापूर्तं वै᳘ ब्राह्मण᳘स्येष्टापूर्ते᳘नै᳘वैनं स स᳘मर्धयती᳘त्ययुध्यते᳘त्यमुं᳘ संग्राम᳘मजयदि᳘ति राज᳘न्यो युद्धं वै᳘ राजन्य᳘स्य वीर्यं᳘ वी᳘र्येणै᳘वैनं स स᳘मर्धयति तिस्रोऽन्यो गा᳘था गा᳘यति तिस्रोऽन्यः षट् स᳘म्पद्यन्ते ष᳘डृत᳘वः संवत्सर᳘ ऋतु᳘ष्वेव᳘ संवत्सरे प्र᳘तितिष्ठति ता᳘भ्यां शतं᳘ ददाति शता᳘युर्वै पु᳘रुषः शते᳘न्द्रिय आ᳘युरे᳘वेन्द्रियं᳘ वीर्य᳘मात्म᳘न्धत्ते॥
मूलम् - श्रीधरादि
अयजते᳘त्यददादि᳘ति ब्राह्मणो᳘ गायतीष्टापूर्तं वै᳘ ब्राह्मण᳘स्येष्टापूर्ते᳘नै᳘वैनं स स᳘मर्धयती᳘त्ययुध्यते᳘त्यमुं᳘ संग्राम᳘मजयदि᳘ति राज᳘न्यो युद्धं वै᳘ राजन्य᳘स्य वीर्यं᳘ वी᳘र्येणै᳘वैनं स स᳘मर्धयति तिस्रोऽन्यो गा᳘था गा᳘यति तिस्रोऽन्यः षट् 1 स᳘म्पद्यन्ते ष᳘डृत᳘वः संवत्सर᳘ ऋतु᳘ष्वेव᳘ संवत्सरे प्र᳘तितिष्ठति ता᳘भ्यां शतं᳘ ददाति शता᳘युर्वै पु᳘रुषः शते᳘न्द्रिय आ᳘युरे᳘वेन्द्रियं᳘ वीर्य᳘मात्म᳘न्धत्ते॥
मूलम् - Weber
अयजते᳘त्यददादि᳘ति ब्राह्मणो᳘ गायतीष्टापूर्तं वै᳘ ब्राह्मण᳘स्येष्टापूर्ते᳘नैॗवैनᳫं स स᳘मर्धयती᳘त्ययुध्यते᳘त्यमु᳘ᳫं᳘ संग्राम᳘मजयदि᳘ति राजॗन्यो युद्धं वै᳘ राजन्य᳘स्य वीर्यं᳘ वीॗर्येणैॗवैनᳫं स स᳘मर्धयति तिस्रोऽन्यो गा᳘था गा᳘यति तिस्रोऽन्यः षट् स᳘म्पद्यन्ते ष᳘डृत᳘वः संवत्सर᳘ ऋतु᳘ष्वेव᳘ संवत्सरे प्र᳘तितिष्ठति ता᳘भ्यां शतं᳘ ददाति शता᳘युर्वै पु᳘रुषः शते᳘न्द्रिय आ᳘युरेॗवेन्द्रियं᳘ वीर्य᳘मात्म᳘न्धत्ते॥
मूलम् - विस्वरम्
अयजतेत्यददादिति ब्राह्मणो गायति । इष्टापूर्तं वै ब्राह्मणस्य । इष्टापूर्तेनैवैनं समर्द्धयति । इत्ययुध्यतेत्यमुं संग्राममजयदिति राजन्यः । युद्धं वै राजन्यस्य वीर्यम् । वीर्येणैवैनं समर्द्धयति । तिस्रो ऽन्यो गाथा गायति । तिस्रो ऽन्यः । षट् संपद्यन्ते । षट् ऋतवः संवत्सरः । ऋतुष्वेव संवत्सरे प्रतितिष्ठति । ताभ्यां शतं ददाति । शतायुर्वै पुरुषः । शतेन्द्रियः । आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते ॥ ६ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- ‘Such sacrifices he offered,–such gifts he gave!’ such (are the topics about which) the
Brāhmaṇa sings 6; for to the Brāhmaṇa belongs the fulfilment of wishes 7: it is with the fulfilment of wishes he (the Brāhmaṇa) thus endows him (the Sacrificer). ‘Such war he waged,–such battle he won!’ such (are the topics about which) the Rājanya sings; for the battle is the Rājanya’s strength: it is with strength he thus endows him. Three stanzas the one sings, and three stanzas the other, they amount to six,–six seasons make up a year: he thus establishes (the Sacrificer) in the seasons, in the year. To both of them he presents a hundred; for man has a life of a hundred (years), and a hundred energies: it is vitality and energy, vital power, he confers upon him.
-
वीणागाथिभ्यां पृथक् शतं ददाति । का. श्रौ. सू. २० । ६८ ॥ ↩︎ ↩︎
-
The last इति belongs to the beginning word of the next कण्डिका, which is accordingly left unaccented: see ४,२,८. ३,५. ↩︎
-
286:1 Viz. at the fore-offerings of the three cake-offerings (ishṭis) to Savitr̥; whilst staying in the south part of the sacrificial ground. ↩︎
-
286:2 Viz. during the performance of the Dhr̥tis after sunset. ↩︎
-
286:3 The ‘iti’ at the end belongs to the following paragraph. ↩︎
-
287:1 Cf. XIII, 4, 2, 8. ↩︎
-
The author apparently takes ’ ishśṭāpūrta ’ in the sense of either ‘sacrifice and fulfilment,’ or ‘the fulfilment of (the objects of) sacrifice.’ Cf. Weber, Ind. Stud. IX, p- 319; X, p. 96. ↩︎