०१

विश्वास-प्रस्तुतिः

प्रजा᳘पतिरश्वमेध᳘मसृजत᳘॥
सोऽस्मात्सृष्टः प᳘राङैत्स दि᳘शोऽनुप्रा᳘विशत्तं᳘ देवाः प्रै᳘षमैछंस्तमि᳘ष्टिभिरनुप्रा᳘युञ्जत तमि᳘ष्टिभिर᳘न्वैछंस्तमि᳘ष्टिभिर᳘न्वविन्दन्यदि᳘ष्टिभिर्य᳘जते᳘ऽश्वमेव तन्मे᳘ध्यं य᳘जमानो᳘ऽन्विछति ॥

मूलम् - श्रीधरादि

प्रजा᳘पतिरश्वमेध᳘मसृजत᳘॥
सोऽस्मात्सृष्टः प᳘राङैत्स दि᳘शोऽनुप्रा᳘विशत्तं᳘ देवाः प्रै᳘षमैछंस्तमि᳘ष्टिभिरनुप्रा᳘युञ्जत तमि᳘ष्टिभिर᳘न्वैछंस्तमि᳘ष्टिभिर᳘न्वविन्दन्यदि᳘ष्टिभिर्य᳘जते᳘ऽश्वमेव तन्मे᳘ध्यं य᳘जमानो᳘ऽन्विछति ॥

मूलम् - Weber

प्रजा᳘पतिरश्वमेध᳘मसृजत᳟᳟॥
सोऽस्मात्सृष्टः प᳘राङैत्स दि᳘शोऽनुप्रा᳘विशत्तं᳘ देवाः प्रै᳘षमैछंस्तमि᳘ष्टिभिरनुप्रा᳘युञ्जत तमि᳘ष्टिभिर᳘न्वैछंस्तमि᳘ष्टिभिर᳘न्वविन्दन्यदि᳘ष्टिभिर्य᳘जते᳘ऽश्वमेव तन्मे᳘ध्यं य᳘जमानो᳘ऽन्विछति ॥

मूलम् - विस्वरम्

प्रजापतिरश्वमेधमसृजत । सो ऽस्मात्सृष्टः पराङैत् । स दिशो ऽनुप्राविशत् । तं देवाः प्रैषमैच्छन् । तमिष्टिभिरनुप्रायुंजत । तमिष्टिभिरन्वैच्छन् । तमिष्टिभिरन्वविन्दन् । यदिष्टिभिर्यजते । अश्वमेव तन्मेध्यं यजमानो ऽन्विच्छति ॥ १ ॥

हरिस्वामी

प्रजापतिरश्वमेधमसृजत । सृष्टः भ्रष्टः । अस्मात्प्रजापतेः । परां पराङ्मुखः । ऐत् गतः । स दिशः अनुप्राविशत् प्रविष्टः । अस्तं गत इत्यर्थः । तं देवास्तदीया ऋत्विजः । प्रैषं द्रष्टुं अन्वेषणे प्रकर्षेण अन्विष्यान्विष्य ऐच्छन् । तं इष्टिभिः सावित्रीभिः । अनु पश्चात् प्रकर्षेणायुंक्त । ताभिः यथा न प्रणश्यति तथा अकुर्वत । तं इष्टिभिरन्वियेषुः । अन्वविन्दंश्च ॥ १ ॥

Eggeling
  1. Prajāpati poured forth the life-sap of the horse (aśva-medha) 1. When poured forth, it went straight away from him and spread itself over the regions. The gods went in quest of it. By means of offerings (ishṭi) they followed it up, by offerings they searched for it, and by offerings they found it. And when he performs ishṭis, the Sacrificer thereby searches for the horse (aśva) meet for sacrifice 2 (medhya).

०२

विश्वास-प्रस्तुतिः

सावि᳘त्र्यो भवन्ति॥
इयं वै᳘ सविता यो वा᳘ऽअस्यां᳘ निल᳘यते᳘ योऽन्यत्रै᳘त्यस्यां वाव तम᳘नुविन्दन्ति न वा᳘ऽइमां क᳘श्चन᳘ तिर्य᳘ङ्नोर्ध्वो᳘ऽत्येतुमर्हति य᳘त्सावि᳘त्र्यो भ᳘वन्त्य᳘श्वस्यैवा᳘नुवित्त्यै ॥

मूलम् - श्रीधरादि

सावि᳘त्र्यो भवन्ति॥
इयं वै᳘ सविता यो वा᳘ऽअस्यां᳘ निल᳘यते᳘ योऽन्यत्रै᳘त्यस्यां वाव तम᳘नुविन्दन्ति न वा᳘ऽइमां क᳘श्चन᳘ तिर्य᳘ङ्नोर्ध्वो᳘ऽत्येतुमर्हति य᳘त्सावि᳘त्र्यो भ᳘वन्त्य᳘श्वस्यैवा᳘नुवित्त्यै ॥

मूलम् - Weber

साविॗत्र्यो भवन्ति॥
इयं वै᳘ सविता यो 3 वा᳘ऽअस्यां᳘ निल᳘यतेॗ योऽन्यत्रै᳘त्यस्यां वाव तम᳘नुविन्दन्ति न वा᳘ऽइमां क᳘श्चन᳘ तिर्यॗङ्नोर्ध्वो᳘ऽत्येतुमर्हति य᳘त्साविॗत्र्यो भ᳘वन्त्य᳘श्वस्यैवा᳘नुवित्त्यै ॥

मूलम् - विस्वरम्

सावित्र्यो भवन्ति । इयं वै सविता । यो वा अस्यां निलयते । यो ऽन्यत्रैति । अस्यां वाव तमनुविन्दन्ति । न वा इमां कश्चन तिर्यङ् नोर्ध्वो ऽत्येतुमर्हति । यत्सावित्र्यो भवन्ति । अश्वस्यैवानुवित्त्यै ॥ २ ॥

हरिस्वामी

इयं वै सविता अनुज्ञाता । कथं ? यो वै अस्यां पृथिव्यां निलयते गृहाद्बहिर्भूमिं गच्छति । पश्चादंतरिक्षं गच्छति । अस्यामेव च तमनुविन्दति लभंते । न च इमां कश्चिदपि तिर्यगूर्ध्वं च अतिवर्तते ॥ २ ॥

Eggeling
  1. They (the ishṭis 4) belong to Savitr̥; for Savitr̥ is this (earth): if any one hides himself thereon, if any one goes elsewhere 5, it is on this

(earth) that they find him; for no one (creature), whether walking erect or horizontally (like an animal), is able to go beyond it. Their belonging to Savitr̥ thus is in order to find the horse.

०३

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
प्र वा᳘ऽएतद᳘श्वो मीयते यत्प᳘राङे᳘ति न᳘ ह्येनं प्रत्यावर्त᳘यन्ती᳘ति य᳘त्सायं धृती᳘र्जुहो᳘ति क्षे᳘मो वै धृ᳘तिः क्षे᳘मो रा᳘त्रिः क्षे᳘मेणै᳘वैनं दाधार त᳘स्मात्सायं᳘ मनु᳘ष्याश्च पश᳘वश्च क्षेम्या᳘ भवन्त्य᳘थ य᳘त्प्रातरि᳘ष्टिभिर्य᳘जतऽइछ᳘त्ये᳘वैनं तत्त᳘स्माद्दि᳘वा नष्टैष᳘ एति य᳘द्वेव᳘ सायं धृ᳘तीर्जुहो᳘ति प्रातरि᳘ष्टिभिर्य᳘जते योगक्षेम᳘मेव तद्य᳘जमानः कल्पयते त᳘स्माद्य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते कॢप्तः᳘ प्रजा᳘नां योगक्षेमो᳘ भवति ॥ ब्राह्मणम् ॥ ४ ॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
प्र वा᳘ऽएतद᳘श्वो मीयते यत्प᳘राङे᳘ति न᳘ ह्येनं प्रत्यावर्त᳘यन्ती᳘ति य᳘त्सायं धृती᳘र्जुहो᳘ति क्षे᳘मो वै धृ᳘तिः क्षे᳘मो रा᳘त्रिः क्षे᳘मेणै᳘वैनं दाधार त᳘स्मात्सायं᳘ मनु᳘ष्याश्च पश᳘वश्च क्षेम्या᳘ भवन्त्य᳘थ य᳘त्प्रातरि᳘ष्टिभिर्य᳘जतऽइछ᳘त्ये᳘वैनं तत्त᳘स्माद्दि᳘वा नष्टैष᳘ एति य᳘द्वेव᳘ सायं धृ᳘तीर्जुहो᳘ति प्रातरि᳘ष्टिभिर्य᳘जते योगक्षेम᳘मेव तद्य᳘जमानः कल्पयते त᳘स्माद्य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते कॢप्तः᳘ प्रजा᳘नां योगक्षेमो᳘ भवति ॥ ब्राह्मणम् ॥ ४ ॥

मूलम् - Weber

त᳘दाहुः॥
प्र वा᳘ऽएतद᳘श्वो मीयते यत्प᳘राङे᳘ति नॗ ह्येनं प्रत्यावर्त᳘यन्ती᳘ति य᳘त्सायं धृती᳘र्जुहो᳘ति क्षे᳘मो वै धृ᳘तिः क्षे᳘मो रा᳘त्रिः क्षे᳘मेणैॗवैनं दाधार त᳘स्मात्सायं᳘ मनुॗष्याश्च पश᳘वश्च क्षेम्या᳘ भवन्त्य᳘थ य᳘त्प्रातरि᳘ष्टिभिर्य᳘जतऽइछ᳘त्येॗवैनं तत्त᳘स्माद्दि᳘वा नष्टैष᳘ एति य᳘द्वेव᳘ सायं धृ᳘तीर्जुहो᳘ति प्रातरि᳘ष्टिभिर्य᳘जते योगक्षेम᳘मेव तद्य᳘जमानः कल्पयते त᳘स्माद्य᳘त्रैते᳘न यज्ञे᳘न य᳘जन्ते कॢप्तः᳘ प्रजा᳘नां योगक्षेमो᳘ भवति ॥ ४ ॥

मूलम् - विस्वरम्

तदाहुः- प्र वा एतदश्वो मीयते । यत्पराङेति । न ह्येनं प्रत्यावर्तयन्तीति । यत्सायं धृतीर्जुहोति । क्षेमो वै धृतिः । क्षेमो रात्रिः । क्षेमेणैवैनं दाधार । तस्मात्सायं मनुष्याश्च पशवश्च क्षेम्या भवन्ति । अथ यत्प्रातरिष्टिभिर्यजते । इच्छत्येवैनं तत् । तस्माद्दिवा नष्टैष एति । यद्वेव सायं धृतीर्जुहोति । प्रातरिष्टिभिर्यजते । योगक्षेममेव तद्यजमानः कल्पयते । तस्माद्यत्रैतेन यज्ञेन यजन्ते । क्लृप्तः प्रजानां योगक्षेमो भवति ॥ ३ ॥

हरिस्वामी

तदाहुः । धृतयो विधीयंते । प्रमीयते हिंस्यते । “मीञ् हिंसायाम्” (धा. पा. क्र्या. आ. ४) हिंसने न हि तमश्वं हिंस्रेभ्यो ऽपि प्रत्यावर्तयतीति यत्सायं धृतीः । यदवधारणार्थः । “इह रतिरिह रमताम्” इत्येता आहुतीर्जुहोतीति तत्क्षणेनैव रात्रिलक्षणेन एनमश्वं दाधार धारयत्यध्वर्युः । तस्मात् सायं मनुष्याश्च पशवश्चक्षेम्याः क्षेमसंबद्धा भवंति । कथं ? पुनः क्षेमेण एनं धारयतीत्यत आह- क्षेमो वै धृतिर्धारणम् । गृहेषु यदिह धृतिरस्तु प्रार्थ्यते । क्षेमो रात्रिः । तत्र हि गृहे स्थितानां सर्वतो भयं न भवति । ततश्च तस्यां धृतीराहुतीर्जुहोति । जुह्वतः प्रकर्षो ऽर्थः । इच्छत्येवेति । अन्विच्छति । गवेषत इत्यर्थः । तस्मात्तदनुकारेण दिवा नष्टैष एति गच्छति । नष्टमन्विच्छति गवेषयति इति नष्टैषः । योगक्षेमं योगसहितं क्षेमम् । इष्टिभिः सावित्रीभिः योगम् । धृतिभिः क्षेमम् । यजमानं प्रजाभ्यः कल्पयते ॥ ३ ॥

इति श्रीमदाचार्य हरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशकाण्डे प्रथमे ऽध्याये चतुर्थं ब्राह्मणम् ॥ १३ ॥ १ ॥ ४ ॥

Eggeling
  1. Concerning this they say, ‘Surely the horse disappears when it goes straight away; for they do not turn (drive) it back 6.’ Now when he performs the Dhr̥ti offerings 7 in the evening–dhr̥ti (keeping) meaning peaceful dwelling, and the night also meaning peaceful dwelling–it is by means of peaceful dwelling that he keeps it; whence both men and beasts rest peacefully at night. And when he performs offerings in the morning, he seeks that (horse); whence it is in daytime that one goes to seek for what is lost. And again when he offers the Dhr̥tis in the evening, and the (Savitr̥) ishṭis in the morning, it is security of possession the Sacrificer thereby brings about, whence security of possession is brought about for the subjects where this sacrifice is performed.

  1. 284:1 Or, as it might also be translated. Prajāpati produced (created) the Aśvamedha. ↩︎

  2. 284:2 Or, for the horse full of life-sap; or, simply, the sacrificial horse. ↩︎

  3. सविता यो AP. ↩︎

  4. 284:3 Viz. three oblations of cakes on twelve kapālas to Savitr̥ Prasavitr̥, Savitr̥ Āsavitr̥; and Savitr̥ Satyaprasava respectively. For particulars see XIII, 4, 2, 6 seqq. ↩︎

  5. 284:4 Harisvāmin seems to take this in the sense of ‘who moves about elsewhere (in another sphere),’ and mentions, as an instance, a bird which flies in (? up into) the air–pakshyādir antarikshe gacchati–but is ultimately caught on earth. ↩︎

  6. 285:1 See XIII, 4, 2, 16. ↩︎

  7. 285:2 The four Dhr̥tis are performed on the Āhavanīya after sunset on the first day; cf. XIII, 4, 3, 5. For the four formulas used with these oblations (‘here is joy,’ &c.), see XIII, 1, 6, 2. ↩︎