०१

विश्वास-प्रस्तुतिः

य᳘था वै᳘ हविषो᳘ ऽहुतस्य स्क᳘न्देत्॥
(दे) एव᳘मेत᳘त्पशो᳘ स्कन्दति य᳘न्निक्तम᳘नालब्धमुत्सृज᳘न्ति य᳘त्स्तोकी᳘या जुहो᳘ति सर्व्वहु᳘तमे᳘वैनञ्जुहोत्य᳘स्कन्दाया᳘स्कन्नᳫँ᳭ हि तद्य᳘द्धुत᳘स्य स्क᳘न्दति सह᳘स्रञ्जुहोति सह᳘स्रसम्मितो वै᳘ स्वर्गो᳘ लोकः᳘ स्वर्ग᳘स्य लोक᳘स्याभि᳘जित्यै॥

मूलम् - श्रीधरादि

य᳘था वै᳘ हविषो᳘ ऽहुतस्य स्क᳘न्देत्॥
(दे) एव᳘मेत᳘त्पशो᳘ स्कन्दति य᳘न्निक्तम᳘नालब्धमुत्सृज᳘न्ति य᳘त्स्तोकी᳘या जुहो᳘ति सर्व्वहु᳘तमे᳘वैनञ्जुहोत्य᳘स्कन्दाया᳘स्कन्नᳫँ᳭ हि तद्य᳘द्धुत᳘स्य स्क᳘न्दति सह᳘स्रञ्जुहोति सह᳘स्रसम्मितो वै᳘ स्वर्गो᳘ लोकः᳘ स्वर्ग᳘स्य लोक᳘स्याभि᳘जित्यै॥

मूलम् - Weber

य᳘था वै᳘ हविषो᳘ऽहुतस्य स्क᳘न्देत् ॥
एव᳘मेत᳘त्पशो᳘ स्कन्दति यं᳘ निक्तम᳘नालब्धमुत्सृज᳘न्ति य᳘त्स्तोकी᳘या जुहो᳘ति सर्वहु᳘तमेॗवैनं जुहोत्य᳘स्कन्दाया᳘स्कन्नᳫं हि तद्य᳘द्धुत᳘स्य स्क᳘न्दति सह᳘स्रं जुहोति सह᳘स्रसंमितो वै᳘ स्वर्गो᳘ लोकः᳘ स्वर्ग᳘स्य लोक᳘स्याभि᳘जित्यै ॥

मूलम् - विस्वरम्

यथा वै हविषो ऽहुतस्य स्कन्देत् । एवमेतत्पशोः स्कन्दति । यन्निक्तमनालब्धमुत्सृजन्ति । यत् स्तोकीया जुहोति । सर्वहुतमेवैनं जुहोति, अस्कन्दाय । अस्कन्नं हि तत् । यद्धुतस्य स्कंदति । सहस्रं जुहोति । सहस्रसम्मितो वै स्वर्गो लोकः । स्वर्गस्य लोकस्याभिजित्यै ॥ १ ॥

हरिस्वामी

हविषः अहुतस्य स्कन्देदप्यथ चेत्तत्र चावश्यं प्रतिक्रियते । एवमेतत् । अश्वस्य पशोः स्कन्दति । निक्तं प्रक्षालितम् । अनालब्धं पोषणाय । उत्सृजन्ति । त्वचम् । तत्र कः प्रतीकार इत्यपेक्षिते आह- यत् स्तोकीयाः 1 । स्तोक्मानां प्रस्रवणबिन्दूनां निष्क्रयणतया संबन्धिनीराहुतीर्जुहोति । सर्वहुतमेव एनमश्वं जुहोति अस्कन्दाय हविषः अविप्रणाशाय । (किमेतास्वहुतिषु जुह्वता स नो विन्दते । न वै श्रोतॄन स्वपितु हविषः स्कन्दनेति ?) । अस्कन्नं हि तद्यस्य हुतस्य स्कन्दति । एताभिश्च निष्क्रयणीभिराहुतिभिस्तद्धुतमेव भवतीत्यभिप्रायः । सहस्रं 2 जुहोति । अग्नये स्वाहेत्येताः दशाहुतीः शतकृत्व आवृत्ता जुहोति । तथा जुहोति यथा आवृत्या सहस्रं भवतीत्यर्थः । सहस्रसंमितो वै स्वर्ग्गो लोक इति । गायत्रीरात्रे गोसहस्रं प्रकृत्याह- “यावदस्य सहस्रस्योत्तरा गौर्गतिप्रतिष्ठा भवति । तावत् अस्माल्लोकात् असौ लोक इत्येवं सहस्रसंमितः स्वर्गलोकः” इति ॥ १ ॥

Eggeling
  1. Even as some of the havis (offering-material) may be spilled before it is offered, so also (part) of the victim is here spilled in that they let loose the sprinkled (horse) before it is slain. When he offers the Stokīyās (oblations of drops), he offers that (horse) as a complete offering 3–so as to make good any spilling 4; for unspilled is any (part) of the offered (material) that is spilled. A thousand (oblations of drops) he offers for the obtainment of the heavenly world, for the heavenly world is equal in extent to a thousand.

०२

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य्य᳘) य᳘न्मिता᳘ जुहुयात्प᳘रिमितम᳘वरुन्धीतेत्य᳘मिता जुहोत्य᳘परिमितस्यैवा᳘वरुद्ध्या ऽउवा᳘च ह प्प्रजा᳘पति स्तोकी᳘यासु वा᳘ ऽअह᳘मश्वमेधᳫँ᳭ स᳘ᳫँ᳘स्थापयामि ते᳘न स᳘ᳫँ᳘स्थितेनैवा᳘त ऽऊर्ध्व᳘ञ्चरामी᳘ति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य्य᳘) य᳘न्मिता᳘ जुहुयात्प᳘रिमितम᳘वरुन्धीतेत्य᳘मिता जुहोत्य᳘परिमितस्यैवा᳘वरुद्ध्या ऽउवा᳘च ह प्प्रजा᳘पति स्तोकी᳘यासु वा᳘ ऽअह᳘मश्वमेधᳫँ᳭ स᳘ᳫँ᳘स्थापयामि ते᳘न स᳘ᳫँ᳘स्थितेनैवा᳘त ऽऊर्ध्व᳘ञ्चरामी᳘ति॥

मूलम् - Weber

त᳘दाहुः॥
य᳘न्मिता᳘ जुहुयात्प᳘रिमितम᳘वरुन्धीतेत्य᳘मिता जुहोत्य᳘परिमितस्यैवा᳘वरुद्ध्याऽउवा᳘च ह प्रजा᳘पति स्तोकी᳘यासु वा᳘ऽअह᳘मश्वमेधᳫं स᳘ᳫं᳘स्थापयामि ते᳘न स᳘ᳫं᳘स्थितेनैवा᳘त ऊर्ध्वं᳘ चरामी᳘ति ॥

मूलम् - विस्वरम्

तदाहुः- यन्मिता जुहुयात् । परिमितमवरुन्धीत । इत्यमिता जुहोति । अपरिमितस्यैवावरुद्ध्यै । उवाच ह प्रजापतिः । स्तोकीयासु वा अहमश्वमेधं संस्थापयामि । तेन संस्थितेनैवात ऊर्ध्वं चरामीति ॥ २ ॥

हरिस्वामी

अमिता जुहोतीति कल्पान्तरम् । स्तोकीयासु वा अहमिति । सर्वेभ्यः अव आलभ्यत इति तेषां निष्क्रयणीभिराहुतिभिः संस्थापित एवाश्वमेधो भवतीत्यभिप्रायः । अथ सर्वाभ्यो वै देवताभ्यः अश्व आलभ्यते । एतावंतश्च सर्वे देवाः यावतो ऽग्न्यादयः तेभ्यो हुतः संस्थापित एव भवतीति ॥ २ ॥

Eggeling
  1. Concerning this they say, ‘Were he to offer measured (a specified number of oblations), he would gain for himself something limited:’ he offers unspecified (oblations) for the obtainment of the unlimited. And indeed Prajāpati spake, ‘Verily, upon the oblations of drops I establish the Aśvamedha, and by it, when established, I pass upward from hence.’

०३

विश्वास-प्रस्तुतिः

(त्य) अग्न᳘ये स्वाहे᳘ति॥
(त्य) अग्न᳘य ऽए᳘वैनञ्जुहोति सो᳘माय स्वाहे᳘ति सो᳘मायै᳘वैनं जुहोत्यपाम्मो᳘दाय स्वाहे᳘त्यद्भ्य᳘ ऽए᳘वैनं जुहोति सवित्रे स्वाहे᳘ति सवित्र᳘ ऽए᳘वैनञ्जुहोति व्वाय᳘वे स्वाहे᳘ति व्वाय᳘व ऽए᳘वैनञ्जुहोति व्वि᳘ष्णवे स्वाहे᳘ति व्वि᳘ष्णव ऽए᳘वैनञ्जुहोती᳘न्द्राय स्वाहेती᳘न्द्रायै᳘वैनञ्जुहोति बृ᳘हस्प᳘तये स्वाहे᳘ति बृ᳘हस्प᳘तय ऽए᳘वैनञ्जुहोति मित्रा᳘य स्वाहे᳘ति मित्रा᳘यै᳘वैनञ्जुहोति व्व᳘रुणाय स्वाहे᳘ति व्व᳘रुणायै᳘वैनञ्जुहोत्येता᳘वन्तो वै स᳘र्व्वे देवास्ते᳘भ्य ऽए᳘वैनं जुहोति प᳘राचीर्जुहोति प᳘राङिव वै᳘ स्वर्गो᳘ लोकः᳘ स्वर्ग᳘स्य लोक᳘स्याभि᳘जित्यै॥

मूलम् - श्रीधरादि

(त्य) अग्न᳘ये स्वाहे᳘ति॥
(त्य) अग्न᳘य ऽए᳘वैनञ्जुहोति सो᳘माय स्वाहे᳘ति सो᳘मायै᳘वैनं जुहोत्यपाम्मो᳘दाय स्वाहे᳘त्यद्भ्य᳘ ऽए᳘वैनं जुहोति सवित्रे स्वाहे᳘ति सवित्र᳘ ऽए᳘वैनञ्जुहोति व्वाय᳘वे स्वाहे᳘ति व्वाय᳘व ऽए᳘वैनञ्जुहोति व्वि᳘ष्णवे स्वाहे᳘ति व्वि᳘ष्णव ऽए᳘वैनञ्जुहोती᳘न्द्राय स्वाहेती᳘न्द्रायै᳘वैनञ्जुहोति बृ᳘हस्प᳘तये स्वाहे᳘ति बृ᳘हस्प᳘तय ऽए᳘वैनञ्जुहोति मित्रा᳘य स्वाहे᳘ति मित्रा᳘यै᳘वैनञ्जुहोति व्व᳘रुणाय स्वाहे᳘ति व्व᳘रुणायै᳘वैनञ्जुहोत्येता᳘वन्तो वै स᳘र्व्वे देवास्ते᳘भ्य ऽए᳘वैनं जुहोति प᳘राचीर्जुहोति प᳘राङिव वै᳘ स्वर्गो᳘ लोकः᳘ स्वर्ग᳘स्य लोक᳘स्याभि᳘जित्यै॥

मूलम् - Weber

अग्न᳘ये स्वाहे᳘ति ॥
अग्न᳘यऽएॗवैनं जुहोति सो᳘माय स्वाहे᳘ति सो᳘मायैॗवैनं जुहोत्यपां मो᳘दाय स्वाहे᳘त्यद्भ्य᳘ एॗवैनं जुहोति सवित्रे स्वाहे᳘ति सवित्र᳘ऽएॗवैनं जुहोति वाय᳘वे स्वाहे᳘ति वाय᳘वऽएॗवैनं जुहोति वि᳘ष्णवे स्वाहे᳘ति वि᳘ष्णवऽएॗवैनं जुहोती᳘न्द्राय स्वाहेती᳘न्द्रायैॗवैनं जुहोति बृ᳘हस्प᳘तये स्वाहे᳘ति बृ᳘हस्प᳘तयऽएॗवैनं जुहोति मित्रा᳘य स्वाहे᳘ति मित्रा᳘यैॗवैनं जुहोति व᳘रुणाय स्वाहे᳘ति व᳘रुणायैॗवैनं जुहोत्येता᳘वन्तो वै स᳘र्वे देवास्ते᳘भ्य एॗवैनं जुहोति प᳘राचीर्जुहोति प᳘राङिव वै᳘ स्वर्गो᳘ लोकः᳘ स्वर्ग᳘स्य लोक᳘स्याभि᳘जित्यै ॥

मूलम् - विस्वरम्

“अग्नये स्वाहा”- इति । अग्नय एवैनं जुहोति । “सोमाय स्वाहा”- इति । सोमायैवैनं जुहोति । “अपां मोदाय स्वाहा”- इति । अद्भ्य एवैनं जुहोति । “सवित्रे स्वाहा"- इति । सवित्र एवैनं जुहोति । “वायवे स्वाहा”- इति । वायव एवैनं जुहोति । “विष्णवे स्वाहा"- इति । विष्णव एवैनं जुहोति । “इंद्राय स्वाहा”- इति । इंद्रायैवैनं जुहोति । “बृहस्पतये स्वाहा”- इति । बृहस्पतय एवैनं जुहोतिं । “मित्राय स्वाहा”- इति । मित्रायैवैनं जुहोति । “वरुणाय स्वाहा”- (वा. सं. २२ । ६) इति । वरुणायैवैनं । जुहोति । एतावन्तो वै सर्वे देवाः । तेभ्य एवैनं जुहोति । पराचीर्जुहोति । पराङिव वै स्वर्गो लोकः । स्वर्गस्य लोकस्याभिजित्यै ॥ ३ ॥

हरिस्वामी

अग्नय एवैनमिति । नाग्नये एनमेवाश्वं जुहोति न केवलमाज्यमिति । एवं सोमायैवैनमश्वं जुहोतीत्यावृत्त्या पराचीरनावृत्ताः सकृदेव दशैता आहुतीरिति कल्पान्तरम् । पराङ् स्वर्गो लोक इति परतः श्रेय इत्यभिप्रायः ॥ ३ ॥

Eggeling
  1. [He offers, with Vāj. S. XXII, 6,] ‘To Agni, hail!’–to Agni he thus offers it (the horse 5);–’to Soma, hail!’–to Soma he thus offers it;–’to the joy of the waters, hail!’–to the waters he thus offers it;–’to Savitr̥, hail!’–to Savitr̥

he thus offers it;–’to Vāyu, hail!’–to Vāyu (the wind) he thus offers it;–’to Vishṇu, hail!’–to Vishṇu he thus offers it to;–‘Indra, hail!’–to Indra he thus offers it;–’to Br̥haspati, hail!’–to Br̥haspati he thus offers it;–’to Mitra, hail!’–to Mitra he thus offers it;–’to Varuṇa, hail!’–to Varuṇa he thus offers it:–so many, doubtless, are all the gods: it is to them he offers it. He offers them straight away 6 for the obtainment of the heavenly world, for straight away, as it were, is the heavenly world.

०४

विश्वास-प्रस्तुतिः

(त्या ऽई) ईश्वरो वा᳘ ऽएषः[[!!]]॥
(ष) प᳘राङ्प्रद᳘घोर्य्यः प᳘राचीरा᳘हुतीर्जुहो᳘ति पु᳘नरा᳘वर्त्तते ऽस्मि᳘न्नेव᳘ लोके प्प्र᳘तितिष्ठत्येता᳘ᳫँ᳘ ह वाव स᳘ यज्ञ᳘स्य स᳘ᳫँ᳘स्थितिमुवाचा᳘स्कन्दाया᳘स्कन्नᳫँ᳭ हि तद्य᳘द्धुत᳘स्य स्क᳘न्दति॥

मूलम् - श्रीधरादि

(त्या ऽई) ईश्वरो वा᳘ ऽएषः[[!!]]॥
(ष) प᳘राङ्प्रद᳘घोर्य्यः प᳘राचीरा᳘हुतीर्जुहो᳘ति पु᳘नरा᳘वर्त्तते ऽस्मि᳘न्नेव᳘ लोके प्प्र᳘तितिष्ठत्येता᳘ᳫँ᳘ ह वाव स᳘ यज्ञ᳘स्य स᳘ᳫँ᳘स्थितिमुवाचा᳘स्कन्दाया᳘स्कन्नᳫँ᳭ हि तद्य᳘द्धुत᳘स्य स्क᳘न्दति॥

मूलम् - Weber

ईश्वरो वा᳘ऽएषः᳟ ॥
प᳘राङ् प्रद᳘घोर्यः प᳘राचीरा᳘हुतीर्जुहो᳘ति पु᳘नरा᳘वर्ततेऽस्मि᳘न्नेव᳘ लोके प्र᳘तितिष्ठत्येता᳘ᳫं᳘ ह वाव स᳘ यज्ञ᳘स्य स᳘ᳫं᳘स्थितिमुवाचा᳘स्कन्दाया᳘स्कन्न᳘ᳫं᳘ हि तद्य᳘द्धुत᳘स्य स्क᳘न्दति ॥

मूलम् - विस्वरम्

ईश्वरो वा एष पराङ्प्रदघोः । यः पराचीराहुतीर्जुहोति । पुनरावर्तते । अस्मिन्नेव लोके प्रतितिष्ठति । एतां ह वाव स यज्ञस्य संस्थितिमुवाचास्कंदाय । अस्कन्नं हि तत् । यद्धुतस्य स्कन्दति ॥ ४ ॥

हरिस्वामी

प्रदग्धोरिति प्राप्ते तोसुन आदिलोपः । हकारस्य धत्वम् । पराचीराहुतीर्जुहोतीत्यावृत्तिपक्षस्य निन्दा । पुनरावर्तत इत्यावृत्तिपक्षस्योपसंहारः । तेन च पुनरावर्तनेन अस्मिन्नेव लोके प्रतितिष्ठति । न पराङेव प्रैतीत्यर्थः । एतां ह वाव । एतामेव च स प्रजापतिः आवृतिमत्तां यज्ञस्य संस्थितिं स्तोकीयास्वाह ताः पराचीः ॥ ४ ॥

Eggeling
  1. But, verily, he who offers the oblations straight away, would be liable to fall (pass) right away 7: he turns back again 8, and establishes himself in this (terrestrial) world. And this 9 indeed he (Prajāpati) has declared to be the perfection of the sacrifice, so as to prevent falling away (spilling), for unspilled is what is spilled of the offered (material).

०५

विश्वास-प्रस्तुतिः

य᳘था वै᳘ हविषो᳘ ऽहुतस्य स्क᳘न्देत्॥
(दे) एव᳘मेत᳘त्पशो᳘ स्कन्दति यम्प्रो᳘क्षितम᳘नालब्धमुत्सृज᳘न्ति य᳘द्रूपा᳘णि जुहो᳘ति सर्व्वहु᳘तमे᳘वैनञ्जुहोत्य᳘स्कन्दाया᳘स्कन्नᳫँ᳭ हि तद्य᳘द्धुत᳘स्य स्क᳘न्दति हिङ्कारा᳘य स्वा᳘हा हि᳘ङ्कृताय स्वाहे᳘त्येता᳘नि वा अ᳘श्वस्य रूपा᳘णि ता᳘न्येवा᳘वरुन्द्धे॥

मूलम् - श्रीधरादि

य᳘था वै᳘ हविषो᳘ ऽहुतस्य स्क᳘न्देत्॥
(दे) एव᳘मेत᳘त्पशो᳘ स्कन्दति यम्प्रो᳘क्षितम᳘नालब्धमुत्सृज᳘न्ति य᳘द्रूपा᳘णि जुहो᳘ति सर्व्वहु᳘तमे᳘वैनञ्जुहोत्य᳘स्कन्दाया᳘स्कन्नᳫँ᳭ हि तद्य᳘द्धुत᳘स्य स्क᳘न्दति हिङ्कारा᳘य स्वा᳘हा हि᳘ङ्कृताय स्वाहे᳘त्येता᳘नि वा अ᳘श्वस्य रूपा᳘णि ता᳘न्येवा᳘वरुन्द्धे॥

मूलम् - Weber

य᳘था वै᳘ हविषो᳘ऽहुतस्य स्क᳘न्देत् ॥
एव᳘मेत᳘त्पशो᳘ स्कन्दति यं प्रो᳘क्षितम᳘नालब्धमुत्सृज᳘न्ति य᳘द्रूपा᳘णि जुहो᳘ति सर्वहु᳘तमेॗवैनं जुहोत्य᳘स्कन्दाया᳘स्कन्न᳘ᳫं᳘ हि तद्य᳘द्धुत᳘स्य स्क᳘न्दति हिङ्कारा᳘य स्वा᳘हा हि᳘ङ्कृताय स्वाहे᳘त्येता᳘नि वाऽअ᳘श्वस्य रूपा᳘णि ता᳘न्येवा᳘वरुन्द्धे ॥

मूलम् - विस्वरम्

यथा वै हविषो ऽहुतस्य स्कन्देत् । एवमेतत्पशोः स्कन्दति । यं प्रोक्षितमनालब्धमुत्सृजन्ति । यद्रूपाणि जुहोति । सर्वहुतमेवैनं जुहोत्यस्कन्दाय । अस्कन्नं हि तत् । यद्धुतस्य स्कन्दति । “हिंकाराय स्वाहा हिंकृताय स्वाहा”- (वा. सं. २२ । ७) इति । एतानि वा अश्वस्य रूपाणि । तान्येवावरुन्धे ॥ ५ ॥

हरिस्वामी

यथा वै हविषः इति । चतसृभिरेताभिः कंडिकाभिः अश्वरूपाणां हिंकारादीनां निष्क्रयणात्मिका रूपाख्या आहुतय उच्यन्ते । ता एवात्र प्रक्रम्या इति वक्ष्यंते । यस्यास्यानायतने आहुतीर्जुहोतीति । किं पुनस्तदायतनम् । अत आह- अन्यत्राग्नेरिति । अन्वाहार्यपचने वा अश्वपदे वा परिलिखिते । वक्ष्यमाणकल्पांतरनिन्दा ॥ ५ ॥ ६ ॥

Eggeling
  1. And even as some of the offering-material may be spilled before it is offered, so also (part) of the

victim is here spilled in that they let loose the sprinkled (horse) before it is slaughtered. When he offers (the oblations relating to) the Forms 10 (rūpa), he offers that (horse) as one that is wholly offered, so as to make good any spilling; for unspilled is what is spilled of the offered (material). With (Vāj. S. XXII, 7-8 11),‘To the Hiṅ-call, hail! to the (horse) consecrated by Hiṅ, hail! . . .’

(he offers them); for these are the forms (qualities) of the horse: it is them he now obtains.

०६

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र᳘) अ᳘नाहुतिर्व्वै᳘ रूपा᳘णि᳘ नैता᳘ होत᳘व्या ऽइ᳘त्य᳘थो ख᳘ल्वाहुर᳘त्र वा᳘ ऽअश्वमेधः स᳘न्तिष्ठते य᳘द्रूपा᳘णि जुहो᳘ति होत᳘व्या ऽएवे᳘ति बहिर्द्धा वा᳘ ऽएत᳘माय᳘तनात्करोति भ्रा᳘तृव्व्यमस्मै जनयति यस्या᳘नायतने ऽन्य᳘त्राग्नेरा᳘हुतीर्ज्जुहो᳘ति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र᳘) अ᳘नाहुतिर्व्वै᳘ रूपा᳘णि᳘ नैता᳘ होत᳘व्या ऽइ᳘त्य᳘थो ख᳘ल्वाहुर᳘त्र वा᳘ ऽअश्वमेधः स᳘न्तिष्ठते य᳘द्रूपा᳘णि जुहो᳘ति होत᳘व्या ऽएवे᳘ति बहिर्द्धा वा᳘ ऽएत᳘माय᳘तनात्करोति भ्रा᳘तृव्व्यमस्मै जनयति यस्या᳘नायतने ऽन्य᳘त्राग्नेरा᳘हुतीर्ज्जुहो᳘ति॥

मूलम् - Weber

त᳘दाहुः॥
अ᳘नाहुतिर्वै᳘ रूपा᳘णिॗ नैता᳘ होत᳘व्या इत्य᳘थो ख᳘ल्वाहुर᳘त्र वा᳘ऽअश्वमेधः सं᳘तिष्ठते य᳘द्रूपा᳘णि जुहो᳘ति होत᳘व्या एवे᳘ति बहिर्धा वा᳘ऽएत᳘माय᳘तनात्करोति भ्रा᳘तृव्यमस्मै जनयति यस्या᳘नायतनेऽन्य᳘त्राग्नेरा᳘हुतीर्जुहो᳘ति ॥

मूलम् - विस्वरम्

तदाहुः- अनाहुतिर्वै रूपाणि । नैता होतव्या इति । अथो खल्वाहुः । अत्र वा अश्वमेधः संतिष्ठते । यद्रूपाणि जुहोति । होतव्या एवेति । बहिर्द्धा वा एतमायतनात्करोति । भ्रातृव्यमस्मै जनयति । यस्यानायतने ऽन्यत्राग्नेराहुतीर्जुहोति ॥ ६ ॥

हरिस्वामी

[व्याख्यानं पञ्चमे]

Eggeling
  1. Concerning this they say, ‘The Forms are no offering: they should not be offered.’ But, indeed, they also say, ‘Therein assuredly the horse-sacrifice becomes complete that he performs (the oblations relating to) the Forms: they should certainly be offered.’ And, indeed, one puts that (Sacrificer) out of his resting-place, and raises a rival for him when one offers for him oblations elsewhere than in the fire 12, where there is no resting-place.

०७

विश्वास-प्रस्तुतिः

सावित्र्या᳘ ऽएवे᳘ष्टेः॥
पुर᳘स्तादनुद्रु᳘त्य सकृ᳘देव᳘ रूपा᳘ण्याहवनी᳘ये जुहोत्याय᳘तन ऽएवा᳘हुतीर्ज्जुहो᳘ति᳘ नास्मै भ्रा᳘तृव्व्यञ्जनयति यज्ञमुखे᳘ यज्ञमुखे जुहोति यज्ञ᳘स्य स᳘न्तत्या ऽअ᳘व्यवच्छेदाय॥

मूलम् - श्रीधरादि

सावित्र्या᳘ ऽएवे᳘ष्टेः॥
पुर᳘स्तादनुद्रु᳘त्य सकृ᳘देव᳘ रूपा᳘ण्याहवनी᳘ये जुहोत्याय᳘तन ऽएवा᳘हुतीर्ज्जुहो᳘ति᳘ नास्मै भ्रा᳘तृव्व्यञ्जनयति यज्ञमुखे᳘ यज्ञमुखे जुहोति यज्ञ᳘स्य स᳘न्तत्या ऽअ᳘व्यवच्छेदाय॥

मूलम् - Weber

सावित्र्या᳘ एवे᳘ष्टेः ॥
पुर᳘स्तादनुद्रु᳘त्य सकृ᳘देव᳘ रूपा᳘ण्याहवनी᳘ये जुहोत्याय᳘तनऽएवा᳘हुतीर्जुहो᳘तिॗ नास्मै भ्रा᳘तृव्यं जनयति यज्ञमुखे᳘-यज्ञमुखे जुहोति यज्ञ᳘स्य सं᳘तत्याऽअ᳘व्यवछेदाय ॥

मूलम् - विस्वरम्

सावित्र्या एवेष्टेः पुरस्तादनुद्रुत्य सकृदेव रूपाण्याहवनीये जुहोति । आयतन एवाहुतीर्जुहोति । नास्मै भ्रातृव्यं जनयति । यज्ञमुखे यज्ञमुखे जुहोति । यज्ञस्य संतत्या अव्यवच्छेदाय ॥ ७ ॥

हरिस्वामी

सावित्र्या एवेष्टेः पुरस्तात् । स्तोकीयानंतरमेवेत्यर्थः । ननु च- यागदेववत् तत्स्थानं प्राप्नोति । किं ? तदर्थवचनेन । नैष दोषः कल्पांतरं हि वक्ष्यते । सावित्रीष्टिषु संस्थितासु प्रयुंक्ते ऽश्वे पारिप्लव आख्याते वीणागाथिनः संप्रेष्य अध्वर्युः प्रक्रमान् जुहोति, अन्वाहार्यपचने वा अश्वस्य पदं वा परिलिख्येति । तस्य वाचनिकस्य क्रमस्य बाधनार्थं पुरस्तादित्याह । सूत्रकारेण तु स एव कल्पः सूत्रितः । नायम् । अनुद्रुत्य आनुपूर्व्येणोच्चार्य “हिंकाराय स्वाहा” इत्यादिकं आज्येनैव जुहुयादित्यभिप्रायः । सकृदेवेति न स्तोकीयावदावर्तयेदित्यर्थः । आहवनीये इति । न पदे अन्वाहार्यपचने वेत्यर्थः । यज्ञमुखे यज्ञमुख इति । दीक्षणीया प्रायणीया आतिथ्या प्रवर्ग्य उपसदः अग्नीषोमीयाः सुत्या अवभृथ उदयनीया अनूबंध्या उदवसानीया इत्येतेषु एकरूपमष्टाचत्वारिंशतम् । अतिरिक्तं जुहोति । तस्मादेकः प्रजासु अर्द्धुकः साधु समृद्धो भवति । अनेन तु तमनुवर्तते ॥ ७ ॥ ८ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशकाण्डे प्रथमे ऽध्याये तृतीयं ब्राह्मणम् ॥ १३ । १ । ३ ॥

Eggeling
  1. Prior to the (first) oblation to Savitr̥ 13, he (the Adhvaryu) offers, once only, (the oblations relating to) the Forms 14 in the Āhavanīya, whilst going rapidly over (the formulas): he thus offers the oblations at his (the Sacrificer’s) resting-place, and raises no rival for him. He offers at each opening of sacrifice 15, for the continuity and uninterrupted performance of the sacrifice.

०८

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य्य᳘) य᳘द्यज्ञमुखेयज्ञमुखे जुहुया᳘त्पशु᳘भि᳘र्व्यृध्येत पा᳘पोयान्त्स्यात्सकृ᳘देव᳘ होत᳘व्या न᳘ पशु᳘भि᳘र्व्यृध्यते न पा᳘पीयान्भवत्यष्टा᳘चत्वारिᳫँ᳭शतञ्जुहोत्यष्टा᳘चत्वारिᳫँ᳭शदक्षरा ज᳘गती जा᳘गताः पश᳘वो जगत्यै᳘वास्मै[[!!]] पशून᳘वरुन्द्ध ऽए᳘कम᳘तिरिक्तञ्जुहोति त᳘स्मादे᳘कः प्प्रजास्व᳘र्द्धुकः॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य्य᳘) य᳘द्यज्ञमुखेयज्ञमुखे जुहुया᳘त्पशु᳘भि᳘र्व्यृध्येत पा᳘पोयान्त्स्यात्सकृ᳘देव᳘ होत᳘व्या न᳘ पशु᳘भि᳘र्व्यृध्यते न पा᳘पीयान्भवत्यष्टा᳘चत्वारिᳫँ᳭शतञ्जुहोत्यष्टा᳘चत्वारिᳫँ᳭शदक्षरा ज᳘गती जा᳘गताः पश᳘वो जगत्यै᳘वास्मै[[!!]] पशून᳘वरुन्द्ध ऽए᳘कम᳘तिरिक्तञ्जुहोति त᳘स्मादे᳘कः प्प्रजास्व᳘र्द्धुकः॥

मूलम् - Weber

तदाहुः॥
य᳘द्यज्ञमुखे-यज्ञमुखे जुहुयात्पशु᳘भिॗर्व्यृध्येत पा᳘पोयान्त्स्यात्सकृ᳘देव᳘ होत᳘व्या न᳘ पशु᳘भिॗर्व्यृध्यते न पा᳘पीयान्भवत्यष्टा᳘चत्वारिᳫंशतं जुहोत्यष्टा᳘चत्वारिᳫंशदक्षरा ज᳘गती जा᳘गताः पश᳘वो ज᳘गत्यैॗवास्मै पशून᳘वरुन्द्धऽए᳘कम᳘तिरिक्तं जुहोति त᳘स्मादे᳘कः प्रजास्व᳘र्धुकः ॥ ३ ॥

मूलम् - विस्वरम्

तदाहुः- यद्यज्ञमुखे यज्ञमुखे जुहुयात् । पशुभिर्व्यृध्येत । पापीयान् स्यात् । सकृदेव होतव्याः । न पशुभिर्व्यृध्यते । न पापीयान् भवति । अष्टाचत्वारिंशतं जुहोति । अष्टाचत्वारिंशदक्षरा जगती । जागताः पशवः । जगत्यैवास्मै पशूनवरुन्धे । एकमतिरिक्तं जुहोति । तस्मादेकः प्रजास्वर्द्धुकः ॥ ८ ॥

हरिस्वामी

[व्याख्यानं सप्तमे]

Eggeling
  1. Concerning this they say, ‘Were he to offer

at each opening of sacrifice, he would be deprived of his cattle, and would become poorer.’ They should be performed once only: thus he is not deprived of his cattle, and does not become poorer. Forty-eight (oblations) he offers;–the Jagatī consists of forty-eight syllables, and cattle are of Jāgata (movable) nature: by means of the Jagatī he (the Adhvaryu) thus wins cattle for him (the Sacrificer). One additional (oblation) he offers, whence one man is apt to thrive amongst (many) creatures (or subjects).


  1. अग्निसमीपमानीयाग्नये स्वाहेति जुहोत्यनुवाकेन प्रतिमन्त्रम् । का. श्रौ. सू. २० । ४२ । ↩︎

  2. सहस्रं वा ऽऽवर्तम् । आ ऽश्वस्रवणविरमणाद्वा । (इति तु शाखान्तरादिति देवयाज्ञिकः ।) क. श्रौ. सू. २० । ४३ । ४४ । ↩︎

  3. 280:1 Cf. I, 2, 4, 3; 3, 3, 16 seqq.; IV, 2, 5, 1 seqq. ↩︎

  4. 280:2 Lit., for non-spilling, i.e. to neutralise any spilling that may have taken place. ↩︎

  5. 280:3 Harisvāmin seems rather to lay the stress on the direct object:–agnaye param evāśvaṁ juhoti na kevalam ājyam. The context, however, does not admit of this interpretation. ↩︎

  6. 281:1 According to Kāty. XX, 2, 3-5, he offers either a thousand oblations, or as many as he can offer till the dripping of the water from the horse has ceased. For every ten oblations he uses the formulas here given, after which he begins again from the beginning. The ‘straight on’ apparently means that he is neither to break the order of the deities, nor to offer more than one oblation at a time to the same deity. ↩︎

  7. 281:2 That is, he would die; ‘praitīty arthaḥ,’ Comm. The St. Petersburg Dict., on the other hand, takes ‘īśvaraḥ pradaghaḥ’ in the sense of ’liable to fall down headlong’ (abstürzen). ↩︎

  8. 281:3 That is, by commencing the ten oblations again from the beginning. ↩︎

  9. 281:4 Viz. repetition of performance,–etām eva ca sa prajāpatir āvr̥ttimattāṁ yajñasya saṁsthitim (uvāca). On repetitions in the chanting of stotras, see III, 2, 5, 8; cf. also XII, 2, 3, 13. ↩︎

  10. 282:1 These forty-nine oblations performed after the letting loose of the horse, are called Prakramas (i.e. steps, or movements); cf. XIII, 4, 3, 4; Kāty. XX, 3, 3.–Harisvāmin remarks, aśvarūpāṇāṁ hiṅkārādīnāṁ nishkramaṇātmikā (!) rūpākhyā āhutaya ucyante, tā evātra prakramā iti vakshyante. ↩︎

  11. 282:2 These (rather pedantic) formulas, all of them ending in ‘svāhā,’ occupy two Kaṇḍikās of the Saṁhitā, consisting of 24 and 25 formulas respectively:–1. To the hiṅkāra, svāhā! 2. To the one consecrated by ‘hiṅ,’ hail! 3. To the whinnying one, hail! 4. To the neighing, hail! 5. To the snorting one, hail! 6. To the snort, hail! 7. To smell, hail! 8. To the (thing) smelled, hail! 9. To the stabled one, hail! 10. To the resting one, hail! 11. To the clipped one, hail! 12. To the prancing one, hail! 13. To the seated one, hail! 14. To the lying one, hail! 15. To the sleeping one, hail! 16. To the waking one, hail! 17, To the groaning one, hail! 18, To the awakened one, hail! 19. To the yawning one, hail! 20. To the untethered one, hail! 21. To the upstarting one, hail! 22. To the standing one, hail! 23. To the starting one, hail! 24. To the advancing one, hail!-25. To the trotting one, hail! 26. To the running one, hail! 27. To the bolting one, hail! 28. To the flighty one, hail! 29. To the geeho, hail! 30. To the one urged on by geeho, hail! 31. To the prostrate one, hail! 32. To the risen one, hail! 33. To the swift one, hail! 34. To the strong one, hail! 35. To the turning one, hail! 36. To the turned one, hail! 37. To the shaking one, hail! 38. To the shaken one, hail! 39. To the obedient one, hail! 40. To the listening one, hail! 41. To the looking one, hail! 42. To the one looked at, hail! 43. To the out-looking one, hail! 44. To the winking one, hail! 45. To what it eats; hail! 46. To what it drinks, hail! 47. To the water it makes, hail! 48. To the working one, hail! 49. To the wrought one, hail! ↩︎

  12. 283:1 According to Kāty. XX, 3, 3, the Prakramas are to be offered in the Dakshiṇāgni; but our Brāhmaṇa, whilst mentioning, at XIII, 4, 3, 4, both that fire, and the horse’s footprint as optional places of offering, there as well as here decides in favour of the Āhavanīya; whence Harisvāmin remarks:–anyatrāgner iti anvāhāryapacane vāśvapade vā parilikhite vakshyamāṇakalpāntaranindā. ↩︎

  13. 283:2 See XIII, 1, 4, 2. ↩︎

  14. 283:3 That is to say, without repeating them, when he has come to the end, as he did in the case of the ‘oblations of drops.’ Nor are they to be repeated day after day throughout the year, as some of the other offerings and rites are. ↩︎

  15. 283:4 Viz., according to Harisvāmin, at (the beginning of) the dīkshaṇīyā, prāyaṇīyā, ātithyā, pravargya; the upasads, agnīshomīya, sutyā, avabhr̥tha, udayanīyā, and udavasānīyā offerings (ishṭi). This view is, however, rejected by the author. ↩︎