०१

विश्वास-प्रस्तुतिः

व्यृद्धमु वा᳘ ऽएत᳘द्यज्ञ᳘स्य॥
य᳘दयजु᳘ष्केण क्रिय᳘त ऽइमा᳘मगृभ्णन्रशना᳘मृतस्ये᳘त्यश्वाभिधा᳘नीमा᳘दत्ते य᳘जुष्कृत्यै यज्ञ᳘स्य स᳘मृद्ध्यै द्वा᳘दशारत्निर्भवति द्वा᳘दश मासाः[[!!]] सम्वत्सरः᳘ सम्वत्सर᳘मेव᳘ यज्ञ᳘माप्नोति॥

मूलम् - श्रीधरादि

व्यृद्धमु वा᳘ ऽएत᳘द्यज्ञ᳘स्य॥
य᳘दयजु᳘ष्केण क्रिय᳘त ऽइमा᳘मगृभ्णन्रशना᳘मृतस्ये᳘त्यश्वाभिधा᳘नीमा᳘दत्ते य᳘जुष्कृत्यै यज्ञ᳘स्य स᳘मृद्ध्यै द्वा᳘दशारत्निर्भवति द्वा᳘दश मासाः[[!!]] सम्वत्सरः᳘ सम्वत्सर᳘मेव᳘ यज्ञ᳘माप्नोति॥

मूलम् - Weber

व्यृद्धमु वा᳘ऽएत᳘द्यज्ञ᳘स्य॥
य᳘दयजु᳘ष्केण क्रिय᳘तऽइमा᳘मगृम्णन्रशना᳘मृतस्ये᳘त्यश्वाभिधा᳘नीमा᳘दत्ते य᳘जुष्कृत्यै यज्ञ᳘स्य स᳘मृद्ध्यै द्वा᳘दशारत्निर्भवति द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सर᳘मेव᳘ यज्ञ᳘माप्नोति॥

मूलम् - विस्वरम्

व्यृद्धमु वा एतद्यज्ञस्य । यदयजुष्केण क्रियते । “इमामगृभ्णन् रशनामृतस्य"- (वा० सं० २२ । २) इत्यश्वाभिधानीमादत्ते । यजुष्कृत्यै, यज्ञस्य समृद्ध्यै । द्वादशारत्निर्भवति । द्वादश मासाः संवत्सरः । संवत्सरमेव यज्ञमाप्नोति ॥ १ ॥

हरिस्वामी

व्यृद्धमु वा इति अत्र ब्राह्मणे रशनादानादिमन्त्रव्याख्यानम् । रशनापरिमाणम् 1 । वचनानुज्ञापनम् । अमुज्ञातं प्रोक्षणम् । शुन उपप्लावनम् । एतदुच्यते ॥ १-८ ॥

Eggeling
  1. Now, unsuccessful in the sacrifice, assuredly, is what is performed without a formula. (With Vāj. S. XXII, 2,) ‘This rope did they take, at the first age of the truth, [the sages, at the rites: it hath been with us at this Soma-sacrifice, declaring the course in the gaining of the truth],’ he takes the halter of the horse in order to supply a formula for the success of the sacrifice. It (the rope) is twelve cubits long,–twelve months make a year: it is the year, the sacrifice 2, he secures.

०२

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्द्वा᳘) द्वा᳘दशारत्नी रशना᳘ कार्य्या३ त्र᳘योदशारत्नी३ रि᳘त्यृषभो वा᳘ ऽएष᳘ ऽऋतूनां य᳘त्सम्वत्सरस्त᳘स्य त्रयोदशो मा᳘सो व्विष्ट᳘पमृषभ᳘ ऽएष᳘ यज्ञा᳘नां य᳘दश्वमेधो य᳘था वा᳘ ऽऋषभ᳘स्य व्विष्ट᳘पमेव᳘मेत᳘स्य व्विष्ट᳘पन्त्रयोदश᳘मरत्नि᳘ᳫँ᳘ रशना᳘यामुपा᳘दध्यात्तद्य᳘थ ऽऋषभ᳘स्य व्विष्ट᳘पᳫँ᳭ सᳫँ᳭स्क्रिय᳘ते तादृक्त᳘त्॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्द्वा᳘) द्वा᳘दशारत्नी रशना᳘ कार्य्या३ त्र᳘योदशारत्नी३ रि᳘त्यृषभो वा᳘ ऽएष᳘ ऽऋतूनां य᳘त्सम्वत्सरस्त᳘स्य त्रयोदशो मा᳘सो व्विष्ट᳘पमृषभ᳘ ऽएष᳘ यज्ञा᳘नां य᳘दश्वमेधो य᳘था वा᳘ ऽऋषभ᳘स्य व्विष्ट᳘पमेव᳘मेत᳘स्य व्विष्ट᳘पन्त्रयोदश᳘मरत्नि᳘ᳫँ᳘ रशना᳘यामुपा᳘दध्यात्तद्य᳘थ ऽऋषभ᳘स्य व्विष्ट᳘पᳫँ᳭ सᳫँ᳭स्क्रिय᳘ते तादृक्त᳘त्॥

मूलम् - Weber

त᳘दाहुः॥
द्वा᳘दशारत्नी रशना᳘ कार्या३ त्र᳘योदशारत्नी३रि᳘त्यृषभो वा᳘ऽएष᳘ ऋतूनां य᳘त्संवत्सरस्त᳘स्य त्रयोदशो मा᳘सो विष्ट᳘पमृषभ᳘ एष᳘ यज्ञा᳘नां य᳘दश्वमेधो य᳘था वा᳘ऽऋषभ᳘स्य विष्ट᳘पमेव᳘मेत᳘स्य विष्ट᳘पं त्रयोदश᳘मरत्नि᳘ᳫं᳘ रशना᳘यामुपा᳘दध्यात्तद्य᳘थऽऋषभ᳘स्य विष्ट᳘पᳫं सᳫंस्त्रिय᳘ते तादृक्त᳘त् ॥

मूलम् - विस्वरम्

तदाहुः- द्वादशारत्नी रशना कार्या३ त्रयोदशारत्नी३रिति । ऋषभो वा एष ऋतूनां यत्संवत्सरः । तस्य त्रयोदशो मासो विष्टपम् । ऋषभ एष यज्ञानां यदश्वमेधः । यथा वा ऋषभस्य विष्टपम् । एवमेतस्य विष्टपम्, त्रयोदशमरत्निं रशनायामुपादध्यात् । तद्यथा ऋषभस्य विष्टपं संस्क्रियते । तादृक् तत् ॥ २ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. Concerning this they say, ‘Is the rope to be made twelve cubits long, or thirteen cubits long?’ Well, that year is the bull among the seasons, and the thirteenth (or intercalary) month is an excrescence of the year; and this Aśvamedha is the bull among sacrifices; and inasmuch as the bull has an excrescence (hump), one may add on a thirteenth cubit to the rope as an excrescence to this (Aśvamedha): even as the bull’s hump is attached 3 (to his back), suchlike would this be.

०३

विश्वास-प्रस्तुतिः

(द) अभिधा᳘ ऽअसी᳘ति॥
त᳘स्मादश्वमेधयाजी स᳘र्व्वा दि᳘शो ऽभि᳘जयति भु᳘वनमसी᳘ति भु᳘वनन्त᳘ज्जयति य᳘न्ता ऽसि धर्त्ते᳘ति यन्ता᳘रमे᳘वैनं धर्त्ता᳘रङ्करोति स त्व᳘मग्निं᳘ वैश्वानरमि᳘त्यग्नि᳘मेवैनं[[!!]] व्वैश्वानर᳘ङ्गमयति स᳘प्प्रथसं गच्छे᳘ति प्प्रज᳘यै᳘वैनम्पशु᳘भिः प्प्रथयति स्वा᳘हाकृत ऽइ᳘ति व्वषट्कार᳘ ऽए᳘वास्यैष᳘ स्वगा᳘ त्वा देवे᳘भ्य ऽइ᳘ति देवे᳘भ्य ऽए᳘वैनᳫँ᳭ स्वगा᳘ करोति प्प्रजा᳘पतय ऽइ᳘ति प्राजापत्यो᳘ ऽश्वः स्व᳘यै᳘वैनन्देव᳘तया स᳘मर्द्धयति॥

मूलम् - श्रीधरादि

(द) अभिधा᳘ ऽअसी᳘ति॥
त᳘स्मादश्वमेधयाजी स᳘र्व्वा दि᳘शो ऽभि᳘जयति भु᳘वनमसी᳘ति भु᳘वनन्त᳘ज्जयति य᳘न्ता ऽसि धर्त्ते᳘ति यन्ता᳘रमे᳘वैनं धर्त्ता᳘रङ्करोति स त्व᳘मग्निं᳘ वैश्वानरमि᳘त्यग्नि᳘मेवैनं[[!!]] व्वैश्वानर᳘ङ्गमयति स᳘प्प्रथसं गच्छे᳘ति प्प्रज᳘यै᳘वैनम्पशु᳘भिः प्प्रथयति स्वा᳘हाकृत ऽइ᳘ति व्वषट्कार᳘ ऽए᳘वास्यैष᳘ स्वगा᳘ त्वा देवे᳘भ्य ऽइ᳘ति देवे᳘भ्य ऽए᳘वैनᳫँ᳭ स्वगा᳘ करोति प्प्रजा᳘पतय ऽइ᳘ति प्राजापत्यो᳘ ऽश्वः स्व᳘यै᳘वैनन्देव᳘तया स᳘मर्द्धयति॥

मूलम् - Weber

अभिधा᳘ असी᳘ति॥
त᳘स्मादश्वमेधयाजी स᳘र्वा दिॗशोऽभि᳘जयति भु᳘वनमसी᳘ति भु᳘वनं त᳘ज्जयति यॗन्तासि धर्ते᳘ति यन्ता᳘रमेॗवैनं धर्ता᳘रं करोति स त्व᳘मग्निं᳘ वैश्वानरमि᳘त्यग्नि᳘मेॗवैनं वैश्वानरं᳘ गमयति स᳘प्रथसं गछे᳘ति प्रज᳘यैॗवैनं पशु᳘भिः प्रथयति स्वा᳘हाकृत इ᳘ति वषट्कार᳘ एॗवास्यैष᳘ स्वगा᳘ त्वा देवे᳘भ्य इ᳘ति देवे᳘भ्य एॗवैनᳫं स्वगा᳘ करोति प्रजा᳘पतयऽइ᳘ति प्राजापत्यो᳘ऽश्वः स्व᳘यैॗवैनं देव᳘तया स᳘मर्धयति॥

मूलम् - विस्वरम्

“अभिधा असि”- इति । तस्मादश्वमेधयाजी सर्वा दिशो ऽभिजयति । “भुवनमसि”- इति । भुवनं तज्जयति । “यन्ता ऽसि धर्ता”- इति । यन्तारमेवैनं धर्तारं करोति । “स त्वमग्निं वैश्वानरम्”- इति । अग्निमेवैनं वैश्वानरं गमयति । “सप्रथसं गच्छ”- इति । प्रजयैवैनं पशुभिः प्रथयति । “स्वाहाकृतः”- (वा. सं. २२ । ३) इति । वषट्कार एवास्यैषः । “स्वगा त्वा देवेभ्यः”- इति । देवेभ्य एवैनं स्वगा करोति । “प्रजापतये”- (वा. सं. २२ । ४) इति । प्राजापत्यो ऽश्वः । स्वयैवैनं देवतया समर्द्धयति ॥ ३ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. [He puts the halter on the horse, with Vāj. S. XXII, 3, 4,] ‘Encompassing 4 thou art,’–

therefore the offerer of the Aśvamedha conquers all the quarters 5;–’the world thou art,’–the world he thus conquers;–‘a ruler thou art, an upholder,’–he thus makes him a ruler and upholder;–‘go thou unto Agni Vaiśvānara,’–he thus makes him go to Agni Vaiśvānara (the friend of all men);–‘of wide extent,’–he thus causes him to extend in offspring and cattle;–‘consecrated by Svāhā (hail!),’–this is the Vashaṭ-call 6 for it;–‘good speed (to) thee for the gods!’–he thus makes it of good speed for the gods;–‘for Prajāpati,’–the horse is sacred to Prajāpati: he thus supplies 7 it with his own deity.

०४

विश्वास-प्रस्तुतिः

(ती) ईश्वरो वा᳘ ऽएषः[[!!]]॥
(ऽ) आ᳘र्त्तिमा᳘र्त्तोर्यो᳘ ब्रह्म᳘णे देवेभ्यो᳘ ऽप्प्रतिप्प्रोच्या᳘श्वं बध्ना᳘ति ब्र᳘ह्मन्न᳘श्वम्भन्त्स्या᳘मि देवे᳘भ्यः प्प्रजा᳘पतये ते᳘न राध्यासमि᳘ति ब्रह्मा᳘णमा᳘मन्त्रयते ब्रह्म᳘ण ऽए᳘वैनं प्प्रतिप्प्रो᳘च्य बध्नाति ना᳘र्त्तिमा᳘र्च्छति त᳘म्बधान देवे᳘भ्यः प्प्रजा᳘पतये ते᳘न राध्नुही᳘ति ब्रह्मा प्प्र᳘सौति स्व᳘यै᳘वैनन्देव᳘तया स᳘मर्द्धयत्य᳘थ प्प्रो᳘क्षत्यसा᳘वेव[[!!]] ब᳘न्धुः[[!!]]॥

मूलम् - श्रीधरादि

(ती) ईश्वरो वा᳘ ऽएषः[[!!]]॥
(ऽ) आ᳘र्त्तिमा᳘र्त्तोर्यो᳘ ब्रह्म᳘णे देवेभ्यो᳘ ऽप्प्रतिप्प्रोच्या᳘श्वं बध्ना᳘ति ब्र᳘ह्मन्न᳘श्वम्भन्त्स्या᳘मि देवे᳘भ्यः प्प्रजा᳘पतये ते᳘न राध्यासमि᳘ति ब्रह्मा᳘णमा᳘मन्त्रयते ब्रह्म᳘ण ऽए᳘वैनं प्प्रतिप्प्रो᳘च्य बध्नाति ना᳘र्त्तिमा᳘र्च्छति त᳘म्बधान देवे᳘भ्यः प्प्रजा᳘पतये ते᳘न राध्नुही᳘ति ब्रह्मा प्प्र᳘सौति स्व᳘यै᳘वैनन्देव᳘तया स᳘मर्द्धयत्य᳘थ प्प्रो᳘क्षत्यसा᳘वेव[[!!]] ब᳘न्धुः[[!!]]॥

मूलम् - Weber

ईश्वरो वा᳘ऽएषः᳟ ॥
आ᳘र्तिमा᳘र्तोर्यो᳘ ब्रह्म᳘णे देवेभ्यो᳘ऽप्रतिप्रोच्या᳘श्वं बध्ना᳘ति ब्र᳘ह्मन्न᳘श्वं भन्त्स्या᳘मि देवे᳘भ्यः प्रजा᳘पतये ते᳘न राध्यासमि᳘ति ब्रह्मा᳘णमा᳘मन्त्रयते ब्रह्म᳘णऽएॗवैनं प्रतिप्रो᳘च्य बध्नाति ना᳘र्तिमा᳘र्छति तं᳘ बधान देवे᳘भ्यः प्रजा᳘पतये ते᳘न राध्नुही᳘ति ब्रह्मा प्र᳘सौति स्व᳘यैॗवैनं देव᳘तया स᳘मर्धयत्य᳘थ प्रो᳘क्षत्यसा᳘वेव᳘ बन्धुः᳟ ॥

मूलम् - विस्वरम्

ईश्वरो वा एष आर्तिमार्तोः । यो ब्रह्मणे देवेभ्यो ऽप्रतिप्रोच्याश्वं बध्नाति । “ब्रह्मन्नश्वं 8 भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासम्”- इति ब्रह्माणमामंत्रयते । ब्रह्मण एवैनं प्रतिप्रोच्य बध्नाति । नार्तिमार्च्छति । “तं बंधान 8 देवेभ्यः प्रजापतये तेन राध्नुहि”- (वा. सं. २२ । ४) इति ब्रह्मा प्रसौति । स्वयैवैनं देवतया समर्द्धयति । अथ प्रोक्षति । असावेव बन्धुः ॥ ४ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. But, verily, he who fetters the horse without announcing it to the Brahman and the gods is liable to incur injury. He addresses the Brahman (the superintending priest) by saying, ‘O Brahman, I will fetter the horse for the gods, for Prajāpati: may I prosper therewith!’ and having made the announcement

to the Brahman, he ties up the horse, and thus incurs no injury. ‘Fetter it for the gods, for Prajāpati: prosper thou therewith!’ thus the Brahman urges him, and supplies it (the horse) with its own deity. He then sprinkles it (with water): the (symbolic) meaning of this is the same as before 9.

०५

विश्वास-प्रस्तुतिः

स प्प्रो᳘क्षति॥
प्प्रजा᳘पतये त्वा जु᳘ष्टम्प्रो᳘क्षामी᳘ति प्प्रजा᳘पतिर्व्वै᳘ देवा᳘नाम्वीर्य्यवत्तमो व्वी᳘र्य्यमे᳘वास्मिन्दधाति त᳘स्मादश्वः[[!!]] पशूना᳘म्वी᳘र्य्यवत्तमः॥

मूलम् - श्रीधरादि

स प्प्रो᳘क्षति॥
प्प्रजा᳘पतये त्वा जु᳘ष्टम्प्रो᳘क्षामी᳘ति प्प्रजा᳘पतिर्व्वै᳘ देवा᳘नाम्वीर्य्यवत्तमो व्वी᳘र्य्यमे᳘वास्मिन्दधाति त᳘स्मादश्वः[[!!]] पशूना᳘म्वी᳘र्य्यवत्तमः॥

मूलम् - Weber

स प्रो᳘क्षति॥
प्रजा᳘पतये त्वा जु᳘ष्टं प्रो᳘क्षामी᳘ति प्रजा᳘पतिर्वै᳘ देवा᳘नां वीर्यॗवत्तमो वीॗर्य᳘मेॗवास्मिन्दधाति त᳘स्माद᳘श्वः पशूनां᳘ वीॗर्य᳘वत्तमः॥

मूलम् - विस्वरम्

स प्रोक्षति । “प्रजापतये 8 त्वा जुष्टं प्रोक्षामि”- इति । प्रजापतिर्वै देवानां वीर्यवत्तमः । वीर्यमेवास्मिन् दधाति । तस्मादश्वः पशूनां वीर्यवत्तमः ॥ ५ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. He sprinkles 10 it, with (Vāj. S. XXII, 5), ‘I sprinkle thee (so as to be) acceptable to Prajāpati,’–for Prajāpati is the most vigorous of the gods: it is vigour he bestows on it, whence the horse is the most vigorous of animals.

०६

विश्वास-प्रस्तुतिः

(ऽ) इन्द्राग्नि᳘भ्यां त्वा जु᳘ष्टम्प्रो᳘क्षामी᳘ति॥
(ती) इन्द्राग्नी वै᳘ देवा᳘नामोजस्वि᳘तमा ऽओ᳘ज ऽए᳘वास्मिन्दधाति त᳘स्माद᳘श्वः पशूना᳘मोजस्वि᳘तमः॥

मूलम् - श्रीधरादि

(ऽ) इन्द्राग्नि᳘भ्यां त्वा जु᳘ष्टम्प्रो᳘क्षामी᳘ति॥
(ती) इन्द्राग्नी वै᳘ देवा᳘नामोजस्वि᳘तमा ऽओ᳘ज ऽए᳘वास्मिन्दधाति त᳘स्माद᳘श्वः पशूना᳘मोजस्वि᳘तमः॥

मूलम् - Weber

इन्द्राग्नि᳘भ्यां त्वा जु᳘ष्टं प्रो᳘क्षामी᳘ति॥
इन्द्राग्नी वै᳘ देवा᳘नामोजस्वि᳘तमाऽओ᳘ज एॗवास्मिन्दधाति त᳘स्माद᳘श्वः पशूना᳘मोजस्वि᳘तमः ॥

मूलम् - विस्वरम्

“इन्द्राग्निभ्यां त्वा जुष्टं प्रोक्षामि”- इति । इन्द्राग्नी वै देवानामोजस्वितमौ । ओज एवास्मिन् दधाति । तस्मादश्वः पशूनामोजस्वितमः ॥ ६ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. ‘I sprinkle thee, acceptable to Indra and Agni,’–for Indra and Agni are the most powerful of the gods: it is power he bestows on it, whence the horse is the most powerful of animals.

०७

विश्वास-प्रस्तुतिः

(मो) व्वाय᳘वे त्वा जु᳘ष्टम्प्रो᳘क्षामी᳘ति॥
व्वायुर्व्वै᳘ देवा᳘नामा᳘शिष्ठो जव᳘मे᳘वास्मिन्दधाति त᳘स्माद᳘श्वः पशूनामा᳘शिष्ठः॥

मूलम् - श्रीधरादि

(मो) व्वाय᳘वे त्वा जु᳘ष्टम्प्रो᳘क्षामी᳘ति॥
व्वायुर्व्वै᳘ देवा᳘नामा᳘शिष्ठो जव᳘मे᳘वास्मिन्दधाति त᳘स्माद᳘श्वः पशूनामा᳘शिष्ठः॥

मूलम् - Weber

वाय᳘वे त्वा जु᳘ष्टं प्रो᳘क्षामी᳘ति॥
वायुर्वै᳘ देवा᳘नामा᳘शिष्ठो जव᳘मेॗवास्मिन्दधाति त᳘स्माद᳘श्वः पशूनामा᳘शिष्ठः ॥

मूलम् - विस्वरम्

“वायवे त्वा जुष्टं प्रोक्षामि”- इति । वायुर्वै देवानामाशिष्ठः । जवमेवास्मिन् दधाति । तस्मादश्वः पशूनामाशिष्ठः ॥ ७ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. ‘I sprinkle thee, acceptable to Vāyu,’–for Vāyu is the swiftest of gods: it is speed he bestows on it, whence the horse is the swiftest of animals.

०८

विश्वास-प्रस्तुतिः

(ष्ठो) व्वि᳘श्वेभ्यस्त्वा देवे᳘भ्यो जु᳘ष्टम्प्रो᳘क्षामी᳘ति॥
व्वि᳘श्वे वै᳘ देवा᳘ देवा᳘नां यशस्वि᳘तमा य᳘श ऽए᳘वास्मिन्दधाति त᳘स्माद᳘श्वः पशूनां᳘ यशस्वि᳘तमः स᳘र्व्वेभ्यस्त्वा देवे᳘भ्यो जु᳘ष्टम्प्रो᳘क्षामी᳘ति॥

मूलम् - श्रीधरादि

(ष्ठो) व्वि᳘श्वेभ्यस्त्वा देवे᳘भ्यो जु᳘ष्टम्प्रो᳘क्षामी᳘ति॥
व्वि᳘श्वे वै᳘ देवा᳘ देवा᳘नां यशस्वि᳘तमा य᳘श ऽए᳘वास्मिन्दधाति त᳘स्माद᳘श्वः पशूनां᳘ यशस्वि᳘तमः स᳘र्व्वेभ्यस्त्वा देवे᳘भ्यो जु᳘ष्टम्प्रो᳘क्षामी᳘ति॥

मूलम् - Weber

विश्वेभ्यस्त्वा देवे᳘भ्यो जु᳘ष्टं प्रो᳘क्षामी᳘ति॥
वि᳘श्वे वै᳘ देवा᳘ देवा᳘नां यशस्वि᳘तमा य᳘श एवास्मिन्दधाति त᳘स्माद᳘श्वः पशूनां᳘ यशस्वि᳘तमः स᳘र्वेभ्यस्त्वा देवे᳘भ्यो जुष्टं प्रो᳘क्षामी᳘ति॥

मूलम् - विस्वरम्

“विश्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामि”- इति । विश्वे वै देवा देवानां यशस्वितमाः । यश एवास्मिन् दधाति । तस्मादश्वः पशूनां यशस्वितमः । “सर्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामि”- (वा. सं. २२ । ५) इति ॥ ८ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. ‘I sprinkle thee, acceptable to the All-gods,’–for the All-gods are the most famous of gods: it is fame he bestows on it, whence the horse is the most famous of animals,—‘I sprinkle thee, acceptable to all the gods.’

०९

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य्य᳘) य᳘त्प्राजापत्यो ऽश्वो᳘ ऽथ कथा᳘ ऽप्यन्या᳘भ्यो देव᳘ताभ्यः प्प्रो᳘क्षती᳘ति स᳘र्व्वा वै᳘ देव᳘ता ऽअश्वमे᳘धे ऽन्वा᳘यत्ता यदा᳘ह स᳘र्व्वेभ्यस्त्वा देवे᳘भ्यो जु᳘ष्टम्प्रो᳘क्षामी᳘ति स᳘र्व्वा ऽए᳘वास्मिन्देव᳘ता ऽअन्वा᳘यातयति त᳘स्मादश्वमेधे स᳘र्व्वा देव᳘ता ऽअन्वा᳘यत्ताः पाप्मा वा᳘ ऽएतम्भ्रा᳘तृव्व्य ऽईप्स᳘ति᳘ यो ऽश्वमेधे᳘न य᳘जेत व्वज्रो᳘ ऽश्वः परो म᳘र्त्तः परः श्वे᳘ति श्वा᳘नं चतुरक्ष᳘ᳫँ᳘ ह᳘त्वा ऽधस्पदम᳘श्वस्यो᳘पप्लावयति व्व᳘ज्रेणै᳘वैनम᳘वक्रामति᳘ नैनम्पाप्मा भ्रा᳘तृव्व्य ऽआप्नोति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य्य᳘) य᳘त्प्राजापत्यो ऽश्वो᳘ ऽथ कथा᳘ ऽप्यन्या᳘भ्यो देव᳘ताभ्यः प्प्रो᳘क्षती᳘ति स᳘र्व्वा वै᳘ देव᳘ता ऽअश्वमे᳘धे ऽन्वा᳘यत्ता यदा᳘ह स᳘र्व्वेभ्यस्त्वा देवे᳘भ्यो जु᳘ष्टम्प्रो᳘क्षामी᳘ति स᳘र्व्वा ऽए᳘वास्मिन्देव᳘ता ऽअन्वा᳘यातयति त᳘स्मादश्वमेधे स᳘र्व्वा देव᳘ता ऽअन्वा᳘यत्ताः पाप्मा वा᳘ ऽएतम्भ्रा᳘तृव्व्य ऽईप्स᳘ति᳘ यो ऽश्वमेधे᳘न य᳘जेत व्वज्रो᳘ ऽश्वः परो म᳘र्त्तः परः श्वे᳘ति श्वा᳘नं चतुरक्ष᳘ᳫँ᳘ ह᳘त्वा ऽधस्पदम᳘श्वस्यो᳘पप्लावयति व्व᳘ज्रेणै᳘वैनम᳘वक्रामति᳘ नैनम्पाप्मा भ्रा᳘तृव्व्य ऽआप्नोति॥

मूलम् - Weber

त᳘दाहुः॥
य᳘त्प्राजापत्योऽश्वो᳘ऽथ कथा᳘प्यन्या᳘भ्यो देव᳘ताभ्यः प्रो᳘क्षती᳘ति स᳘र्वा वै᳘ देव᳘ता अश्वमेॗधेऽन्वा᳘यत्ता यदा᳘ह स᳘र्वेभ्यस्त्वा देवे᳘भ्यः प्रो᳘क्षामी᳘ति स᳘र्वा एॗवास्मिन्देव᳘ता अन्वा᳘यातयति त᳘स्मादश्वमेधे स᳘र्वा देव᳘ता अन्वा᳘यत्ताः पाप्मा वा᳘ऽएतं भ्रातृव्य ईप्सतिॗ योऽश्वमेधे᳘न य᳘जेत वज्रो᳘ऽश्वः परो म᳘र्तः परः श्वे᳘ति श्वा᳘नं चतुरक्ष᳘ᳫं᳘ हॗत्वाधस्पदम᳘श्वस्यो᳘पप्लावयति व᳘ज्रेणैॗवैनम᳘वक्रामतिॗ नैनं पाप्मा भ्रा᳘तृव्य आप्नोति ॥ २ ॥

मूलम् - विस्वरम्

तदाहुः- यत्प्राजापत्यो ऽश्वः । अथ कथा ऽप्यन्याभ्यो देवताभ्यः प्रोक्षतीति । सर्वा वै देवता अश्वमेधे ऽन्वायत्ताः । यदाह । “सर्वेभ्यस्त्वादेवेभ्योजुष्टं प्रोक्षामि”- इति । सर्वा एवास्मिन् देवता अन्वायातयति । तस्मादश्वमेधे सर्वा देवता अन्वायत्ताः । पाप्मा वा एतं भ्रातृव्य ईप्सति यो ऽश्वमेधेन यजते । वज्रो ऽश्वः । “परो मर्तः परः श्वा”- (वा. सं. २२ । ५) इति श्वानं चतुरक्षं हत्वा, अधस्पदमश्वस्योपप्लावयति । वज्रेणैवैनमवक्रामति । नैनं पाप्मा भ्रातृव्य आप्नोति ॥ ९ ॥

हरिस्वामी

यस्याक्षिसमीपे द्वे पौण्ड्रे अक्षिरूपवद्दिक्कोणके स चतुरक्षः श्वा । अधस्पदमश्वस्येति 11 पादानामधस्तात् अधस्पदम् । न च पादानामधस्ताच्छक्येत आप्लावयितुम् । इत्यधस्पदमित्यनेनात्र पादांतरालं लक्ष्यते ॥ ९ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोशकाण्डे प्रथमाध्याये द्वितीयं ब्राह्मणम् ॥ १३ । १ । २ ॥

Eggeling
  1. Concerning this they say, ‘Seeing that the horse is sacred to Prajāpati, wherefore (does he say), “I sprinkle thee” for other deities also?’ Well, all the gods are concerned in the horse-sacrifice;

when he says, ‘I sprinkle thee for all the gods,’ he makes all the gods take a concern in the horse-sacrifice; whence all the gods are concerned in the horse-sacrifice. But his wicked enemy seeks to lay hold of him who performs the horse-sacrifice, and the horse is a thunderbolt;–having killed the four-eyed dog, he–with ‘Undone 12 is the man! undone is the dog!’–plunges 13 it under the horse’s feet: it is by means of the thunderbolt

he thus stamps him down; and the wicked enemy does not lay hold of him.


  1. रशनां द्वादशारत्निं त्रयोदशारत्निं वा निदधाति । का. श्रौ. सू. २० । ७ । ↩︎

  2. 276:1 Or, possibly, it is for the space of a year that he secures the sacrifice, but see part iv, introduction, p. xxiii. ↩︎

  3. 276:2 Lit., spread out. ↩︎

  4. 276:3 Some such meaning as this (or perhaps ’encompassed, encircled’) seems to be assigned by the author to ‘abhidhāḥ,’ with evident reference to ‘abhidhānī,’ halter,’ from ‘abhi-dhā,’ ’to fasten, enclose.’ The St. Petersburg Dict., on the other hand, takes it in the sense of ’naming, denoting’ (? inasmuch as the horse gives the name to the horse-sacrifice); whilst Mahīdhara explains it by ’that which is named or praised.’ ↩︎

  5. 277:1 In epic times the Aśvamedha is commonly performed by kings who have been successful in the ‘digvijaya,’ or conquest in all quarters. ↩︎

  6. 277:2 ‘Vashaṭ’ is the sacrificial call uttered by the Hotr̥ at the end of the ‘yājyā,’ or offering-verse of a regular oblation (āhuti) as distinguished from minor libations, such as homas and āghāras, which require no ‘yājyā’ and for which the sacrificial call–marking the pouring out of the libation into the fire–is ‘svāhā!’ The meaning of ‘vashaṭ’ is doubtful; but it would seem to be connected either with the root ‘vaksh,’ to grow, to wax, or with ‘vah,’ to bear; and would thus mean either ‘may it prosper!’ or ‘may he (Agni) bear it (to the gods)!’ By the mention of the Svāhā in our formula the horse is, as it were, marked as dedicated to the gods. ↩︎

  7. 277:3 Or, perhaps, he causes it to succeed by means, or with the help, of its own deity. ↩︎

  8. देवस्य त्वेति रशनामादाय ब्रह्मन्नश्वं भन्त्स्यामीत्याह । का. श्रौ. सू. २० । २६ । ↩︎ ↩︎ ↩︎

  9. 278:1 For the sprinkling of (the material for) oblations see I, 1, 3, 6 seq.; and an animal victim in particular, III, 7, 4, 3. ↩︎

  10. 278:2 According to Kāty. XX, 1, 37, he goes with the horse to stagnant water, and there sprinkles it. It would seem that the horse stands in the water during this ceremony. ↩︎

  11. आयोगवमाह श्वानं चतुरक्षमभिहन्यस्वेति । पुंश्चलूमेके । सिध्रकमुसलेनैनँ हंति । वेतसकटेनाधो ऽश्वं प्लावयति परो मर्त्त इति । का. श्रौ. सू. २० । ३७, ३९, ४१ । ↩︎

  12. 279:1 Mahīdhara explains ‘paraḥ’ by ‘parābhūtaḥ, adhaspadaṁ nītaḥ,’ i.e. defeated, laid low. Perhaps it may mean, ‘Away is the man, away the dog!’ As given in the Vāj. Saṁh., this is only the last part of the formula, pronounced by the Sacrificer; whilst during the killing of the dog, he is made to say, ‘Whosoever seeketh to slay the steed, him Varuṇa besetteth.’–According to Kāty. XX, 1, 38 seqq., the priest says to an Āyogava (the offspring of a Śūdra father and a Vaiśya mother)–or, to a lewd man, according to others–‘Kill the four-eyed dog!’ whereupon the man kills a dog by means of a club of Sidhraka wood; and (the priest?), by means of a rattan hoop (? or mat, kaṭa, comm. kaṭaka), makes the dead dog float beneath the horse. According to the comment. on Kāty. XX, 1, 38, in case a four-eyed dog–i.e. a (two-faced) one ‘yasya dve mukhe’ and hence looking in the four (intermediate) directions (vidiś), Sāy.–is not available (!), a dog with marks about the eyes should be used. The mention of the ‘four-footed’ dog in the formula is, however, doubtless meant merely symbolically, as representing evil threatening the Sacrificer from every quarter. ↩︎

  13. 279:2 Harisvāmin seems to connect this with the sprinkling of the horse itself–prokshaṇaṁ śuna upaplāvanam ucyate–perhaps in the sense that the water flowing down from the sprinkled horse would soak the dog, in which case the horse would apparently be supposed to stand on the dry ground. See, however, comm. on Kāty. XX, 2, 2, ‘Śvānam aśvasyādhaḥpradeśe jalamadhye plāvayati tārayati.’ The ‘offerings of drops’ to be performed immediately after this ceremony might seem to be offered with reference to the drops of water flowing from the horse, and as it were falling outside the sacrifice; but see paragraph 5. ↩︎