०१

विश्वास-प्रस्तुतिः

ब्रह्मौदनम्प᳘चति॥
रे᳘त ऽएव त᳘द्धत्ते यदा᳘ज्यमुच्छिष्य᳘ते ते᳘न रशना᳘मभ्यज्या᳘दत्ते ते᳘जो वा ऽआ᳘ज्यम्प्राजापत्यो᳘ ऽश्वः प्प्रजा᳘पतिमेव ते᳘जसा स᳘मर्द्धयत्य᳘पूतो वा᳘ ऽए᳘षो ऽमेध्यो यद᳘श्वः॥

मूलम् - श्रीधरादि

ब्रह्मौदनम्प᳘चति॥
रे᳘त ऽएव त᳘द्धत्ते यदा᳘ज्यमुच्छिष्य᳘ते ते᳘न रशना᳘मभ्यज्या᳘दत्ते ते᳘जो वा ऽआ᳘ज्यम्प्राजापत्यो᳘ ऽश्वः प्प्रजा᳘पतिमेव ते᳘जसा स᳘मर्द्धयत्य᳘पूतो वा᳘ ऽए᳘षो ऽमेध्यो यद᳘श्वः॥

मूलम् - Weber

ब्रह्मौदनं᳘ पचति॥
रे᳘त एव त᳘द्धत्ते यदा᳘ज्यमुछिष्य᳘ते ते᳘न रशना᳘मभ्यज्या᳘दत्ते ते᳘जो वाऽआ᳘ज्यं प्राजापत्यो᳘ऽश्वः प्रजा᳘पतिमेव ते᳘जसा स᳘मर्धयत्य᳘पूतो वा᳘ऽएॗषोऽमेध्यो यद᳘श्वः॥

मूलम् - विस्वरम्

ब्रह्मौदनं पचति । रेत एव तद्धत्ते । यदाज्यमुच्छिष्यते । तेन रशनामभ्यज्यादत्ते । तेजो वा आज्यम् । प्राजापत्यो ऽश्वः । प्रजापतिमेव तेजसा समर्द्धयति । अपूतो वा एषो ऽमेध्यो यदश्वः ॥ १ ॥

हरिस्वामी

इदानीमश्वमेधस्य यत् अप्रसन्नं तत् दर्शयिष्यामः । तत्राश्वमेधोत्पत्तिः फलं च “प्रजापतिरकामयत सर्वान्कामानाप्नुयाम्” ( श. प. १३ । ४ । १ । १ ) इत्यत्र कंडिकायाम् । अवशिष्टेषु पंचस्वध्यायेषु ४-८ तस्य धर्मविधयः । आध्वर्यवहौत्रौद्गात्रब्रह्मत्वयाजमानविषयाः । तत्र च त्रिभिरध्यायैः सह मन्त्रव्याख्यानेन विशेषधर्मा अनुक्रांताः । पुनरध्यायद्वयेन त एव धर्मान्तरसहिता अनुक्रांताः । अपर्यनुयोज्यत्वाद्वेदस्य । ब्रह्मभ्यो ब्राह्मणेभ्य ऋत्विग्भ्यो देय ओदनो ब्रह्मौदनः । तमध्वर्युः पचति । तस्य कालादीन् विशेषान् वक्ष्यति । “सा याऽसौ फाल्गुनी पौर्णमासी भवति तस्यै पुरस्तात् षडहे वा सप्ताहे वा ऋत्विजः उपसमायंत्यध्वर्युश्च होता च ब्रह्मा चोद्गाता चैतान्वा अन्वन्य ऋत्विजस्तेभ्यो ऽध्वर्युश्चातुष्प्राश्यं ब्रह्मौदनं निर्वपति” इत्यादि (श. प. १३ । ४ । १ । ४-५) । रेत एव तद्धत्त इति । ऋत्विजः किल अन्यं च यजमानस्यात्मानं यज्ञं ऋगादिना संस्कुर्वंति । एतेन ब्रह्मौदनेन ऋगादिप्रयोगसामर्थ्यात्मकं कुर्वंति । रेतो देवतेत्याह - यदाज्यमुच्छिष्यते । यदाज्यं ब्रह्मौदने ऋत्विग्भिर्मुच्यमाने परिशिष्यते । तेनोत्तरेद्युः पौष्ण्या इष्टेरनंतरं अश्वाभिधानिकां रशनां तेनाज्यशेषेणाभ्यज्य 1 देवस्य त्वेत्यादत्ते । तेन च प्राजापत्यो ऽश्वः । तेन रशनाद्वारेण प्रजापतिमेव तेजसा समर्द्धयति । एतस्मादेवाज्योच्छेषणवचनादाज्यमिश्रः स ओदनः ऋत्विग्भ्यो देय इति गम्यते । अपूतश्चामेध्यश्चाश्वो भवति । प्राग्दर्भरशनासंपर्कादिति शेषः ॥ १ ॥

Eggeling
  1. He (the Adhvaryu) cooks the priests’ mess of rice 2: it is seed he thereby produces. Having greased a rope with the ghee which is left over 3, he takes it; for ghee is (a type of) fiery spirit, and the horse is sacred to Prajāpati 4: he thus endows Prajāpati with fiery spirit. Impure, and unfit for sacrifice, indeed, is that (animal), to wit, the horse.

०२

विश्वास-प्रस्तुतिः

(श्वो) दर्भ्भम᳘यी रशना᳘ भवति॥
पवि᳘त्रम्वै᳘ दर्भ्भाः᳘ पुना᳘त्ये᳘वैनम्पूत᳘मे᳘वैनम्मे᳘ध्यमा᳘लभते॥

मूलम् - श्रीधरादि

(श्वो) दर्भ्भम᳘यी रशना᳘ भवति॥
पवि᳘त्रम्वै᳘ दर्भ्भाः᳘ पुना᳘त्ये᳘वैनम्पूत᳘मे᳘वैनम्मे᳘ध्यमा᳘लभते॥

मूलम् - Weber

दर्भम᳘यी रशना᳘ भवति ॥
पवि᳘त्रं वै᳘ दर्भाः᳘ पुना᳘त्येॗवैनं पूत᳘मेॗवैनं मे᳘ध्यमा᳘लभते ॥

मूलम् - विस्वरम्

दर्भमयी रशना भवति । पवित्रं वै दर्भाः । पुनात्येवैनम् । पूतमेवैनं मेध्यमालभते ॥ २ ॥

हरिस्वामी

तस्य मेध्यतायै दर्भमयी रशना भवतीति संबंध: ॥ २ ॥

Eggeling
  1. The rope consists of darbha grass (poa cynosuroides);–for darbha stalks 5 are a means of purification: he thus purifies that (horse), and immolates it as one purified and meet for sacrifice.

०३

विश्वास-प्रस्तुतिः

(ते᳘ ऽश्व) अ᳘श्वस्य वा ऽआ᳘लब्धस्य रे᳘त ऽउ᳘दक्रामत्॥ (त्त᳘) तत्सुव᳘र्ण्णᳫँ᳭ हि᳘रण्यमभवद्य᳘त्सुव᳘र्ण्णᳫँ᳭ हि᳘रण्यं द᳘दात्य᳘श्वमेव रे᳘तसा स᳘मर्द्धयति॥ (शतम् ६४००)॥

मूलम् - श्रीधरादि

(ते᳘ ऽश्व) अ᳘श्वस्य वा ऽआ᳘लब्धस्य रे᳘त ऽउ᳘दक्रामत्॥ (त्त᳘) तत्सुव᳘र्ण्णᳫँ᳭ हि᳘रण्यमभवद्य᳘त्सुव᳘र्ण्णᳫँ᳭ हि᳘रण्यं द᳘दात्य᳘श्वमेव रे᳘तसा स᳘मर्द्धयति॥ (शतम् ६४००)॥

मूलम् - Weber

अ᳘श्वस्य वाऽआ᳘लब्धस्य ॥
रे᳘त उ᳘दक्रामत्त᳘त्सुव᳘र्णᳫं हि᳘रण्यमभवद्य᳘त्सुव᳘र्णᳫं हि᳘रण्यं द᳘दात्य᳘श्वमेव रे᳘तसा स᳘मर्धयति ॥ शतम् ६४०० ॥

मूलम् - विस्वरम्

अश्वस्य वा आलब्धस्य रेत उदक्रामत् । तत्सुवर्णं हिरण्यमभवत् । यत्सुवर्णं हिरण्यं ददाति । अश्वमेव रेतसा समर्द्धयति ॥ ३ ॥

हरिस्वामी

यत्सुवर्णं हिरण्यं ब्रह्मौदनेन तमात्मानमेकैकस्मै महर्त्विजे ददातीति वचनांतरेभ्यः ॥ ३ ॥

Eggeling
  1. Now, when the horse 6 was immolated, its

seed went from it and became gold 7: thus, when he gives gold (to the priests) he supplies the horse with seed.

०४

विश्वास-प्रस्तुतिः

प्प्रजा᳘पतिर्य्यज्ञ᳘मसृजत॥
त᳘स्य महिमा᳘ ऽपाक्रमत्स᳘ महर्त्वि᳘जः प्प्रा᳘विशत्त᳘म्महत्त्वि᳘र्ग्भिर᳘न्वैच्छत्त᳘म्महर्त्वि᳘ग्भिर᳘न्वविन्दद्य᳘न्महर्त्वि᳘जो ब्रह्मौदन᳘म्प्राश्न᳘न्ति महिमा᳘नमेव त᳘द्यज्ञ᳘स्य य᳘जमानो᳘ ऽवरुन्धे ब्रह्मौदने᳘ सुव᳘र्ण्णᳫँ᳭ हि᳘रण्यन्ददाति रे᳘तो वा᳘ ऽओदनो रे᳘तो वा हि᳘रण्यᳫँ᳭ रे᳘तसै᳘वास्मिंस्तद्रे᳘तो दधाति शत᳘मानम्भवति शता᳘युर्व्वै पु᳘रुषः शते᳘न्द्रिय ऽआ᳘युरे᳘वेन्द्रियं᳘ व्वी᳘र्य्यमात्म᳘न्द्धत्ते[[!!]] च᳘तुष्टयीरपो᳘ वसतीव᳘रीर्मध्यमाया᳘ह्ने गृह्णाति ता᳘ दिग्भ्यः᳘ समा᳘हृता भवन्ति दिक्षु वा ऽअ᳘न्नम᳘न्नमापो᳘ ऽन्नेनै᳘वास्मा ऽअ᳘न्नम᳘वरुन्द्धे[[!!]]॥

मूलम् - श्रीधरादि

प्प्रजा᳘पतिर्य्यज्ञ᳘मसृजत॥
त᳘स्य महिमा᳘ ऽपाक्रमत्स᳘ महर्त्वि᳘जः प्प्रा᳘विशत्त᳘म्महत्त्वि᳘र्ग्भिर᳘न्वैच्छत्त᳘म्महर्त्वि᳘ग्भिर᳘न्वविन्दद्य᳘न्महर्त्वि᳘जो ब्रह्मौदन᳘म्प्राश्न᳘न्ति महिमा᳘नमेव त᳘द्यज्ञ᳘स्य य᳘जमानो᳘ ऽवरुन्धे ब्रह्मौदने᳘ सुव᳘र्ण्णᳫँ᳭ हि᳘रण्यन्ददाति रे᳘तो वा᳘ ऽओदनो रे᳘तो वा हि᳘रण्यᳫँ᳭ रे᳘तसै᳘वास्मिंस्तद्रे᳘तो दधाति शत᳘मानम्भवति शता᳘युर्व्वै पु᳘रुषः शते᳘न्द्रिय ऽआ᳘युरे᳘वेन्द्रियं᳘ व्वी᳘र्य्यमात्म᳘न्द्धत्ते[[!!]] च᳘तुष्टयीरपो᳘ वसतीव᳘रीर्मध्यमाया᳘ह्ने गृह्णाति ता᳘ दिग्भ्यः᳘ समा᳘हृता भवन्ति दिक्षु वा ऽअ᳘न्नम᳘न्नमापो᳘ ऽन्नेनै᳘वास्मा ऽअ᳘न्नम᳘वरुन्द्धे[[!!]]॥

मूलम् - Weber

प्रजा᳘पतिर्यज्ञ᳘मसृजत॥
त᳘स्य महिमा᳘पाक्रामत्स᳘ महर्त्वि᳘जः प्रा᳘विशत्तं᳘ महर्त्वि᳘ग्भिर᳘न्वैछत्तं᳘ महर्त्वि᳘ग्भिर᳘न्वविन्दद्य᳘न्महर्त्वि᳘जो ब्रह्मौदनं᳘ प्राश्न᳘न्ति महिमा᳘नमेव त᳘द्यज्ञ᳘स्य य᳘जमानो᳘ऽवरुन्द्धे ब्रह्मौदने᳘ सुव᳘र्णᳫं हि᳘रण्यं ददाति रे᳘तो वा᳘ऽओदनो रे᳘तो हि᳘रण्यᳫं रे᳘तसैॗवास्मिंस्तद्रे᳘तो दधाति शत᳘मानं भवति शता᳘युर्वै पु᳘रुषः शते᳘न्द्रिय आ᳘युरेॗवेन्द्रियं᳘ वीर्यॗमात्म᳘न्धत्ते च᳘तुष्टयीरपो᳘ वसतीव᳘रीर्मध्यमाया᳘ह्ने गृह्णाति ता᳘ दिग्भ्यः᳘ समा᳘हृता भवन्ति दिक्षु वाऽअ᳘न्नम᳘न्नमापो᳘ऽन्नेनैॗवास्माऽअ᳘न्नम᳘वरुन्द्धे᳟᳟ ॥

मूलम् - विस्वरम्

प्रजापतिर्यज्ञमसृजत । तस्य महिमा ऽपाक्रमत् । स महर्त्विजः प्राविशत् । तं महर्त्विग्भिरन्वैच्छत् । तं महर्त्विग्भिरन्वविंदत् । यन्महर्त्विजो ब्रह्मौदनं प्राश्नंति । महिमानमेव तद्यज्ञस्य यजमानो ऽवरुन्धे । ब्रह्मौदने सुवर्णं हिरण्यं ददाति । रेतो वा ओदनः । रेतो हिरण्यम् । रेतसैवास्मिंस्तद्रेतो दधाति । शतमानं भवति । शतायुर्वै पुरुषः शतेन्द्रियः । आयुरेवेन्द्रियं वीर्यमात्मन् धत्ते । चतुष्टयीरपो वसतीवरीर्मध्यमायाह्ने गृह्णाति । ता दिग्भ्यः समाहृता भवन्ति । दिक्षु वा अन्नम् । अन्नमापः । अन्नेनैवास्मा अन्नमवरुंधे ॥ ४ ॥

हरिस्वामी

महिमा महत्त्वस्य कारणं वाक् ऋगादिलक्षणा । तथा चोक्तम् “कदा ऽस्य तेन प्राणा” इति । ब्रह्मौदने अंगिनि सुवर्णं हिरण्यं ददाति । “न रूपशतमानं भवत्येकैकस्मै चत्वारि सुवर्णानि शतमानानि” इति वचनात् । शतायुर्वर्षशतायुः । शतेन्द्रियः अवस्थाभेदात् प्रतिवर्षमिन्द्रीयते इत्यभिप्रायः । चतुष्टयीश्चतुरवयवाः 8 ॥ ४ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये त्रयोदशकाण्डे प्रथमे ऽध्याये प्रथमं ब्राह्मणम् ॥ (१३ । १ । १) ॥

Eggeling
  1. Prajāpati produced the sacrifice 9. His greatness departed from him, and entered the great sacrificial priests 10. Together with the great priests he went in search of it, and together with the great priests he found it: when the great priests eat the priests’ mess of rice, the Sacrificer thereby secures for himself the greatness of the sacrifice. Along with the priests’ mess of rice he presents gold (to the priests); for the mess of rice is seed, and gold is seed: by means of seed he thus lays seed into that (horse, and Sacrificer). It (the gold 11) weighs a hundred (grains); for man has a life of a hundred (years), and a hundred energies: it is life, and energy, vigour, he lays into his own self. At midday he takes Vasatīvarī 12 water of four kinds; it is brought together from the (four) quarters, for food is in (all) the (four) quarters, and water is food: by means of food he thus secures food for him.

  1. अक्तवा ऽऽज्यशेषेण रशनाम् । आदानं काले वा ऽञ्जनम् । (वाशब्दः पक्षव्यादृतौ । पौष्णीष्टेरनन्तरं रशना ऽऽदानकालः, अतस्तदर्थं आज्यशेषरक्षणम् ।) का. श्रौ. सू. २० । ७ । ८ । ↩︎

  2. 274:2 For further particulars regarding this opening ceremony of the sacrifice see XIII, 4, 1, 1 seqq. ↩︎

  3. 274:3 Viz. from the ghee used for greasing the four dishes of cooked rice. ↩︎

  4. 274:4 Or, the horse is of the nature of Prajāpati. ↩︎

  5. 274:5 See above, p. 195, note 1. ↩︎

  6. 274:6 That is, as would seem, Prajāpati in the form of a horse, see part iv, introd., p. xiv seqq. ↩︎

  7. 275:1 Prajāpati is Agni, and gold is Agni’s seed, cf. II, 1, 1, 5; III, 3, 1, 3 &c. ↩︎

  8. वसतीवरीर्गृहीत्वा प्रतिदिश समासिच्यं परिहरति । का. श्रौ. सू. २० । ११२ । ↩︎

  9. 275:2 That is, the Aśvamedha sacrifice, and thus the immolation (or emptying out) of his own self, so to speak. ↩︎

  10. 275:3 That is, the four principal officiating priests, Brahman, Hotr̥, Adhvaryu, and Udgātr̥. Cf. VIII, 4, 3, 1 seqq., where it is the vital airs that, in their capacity as R̥shis, assist Prajāpati in the first sacrifice. ↩︎

  11. 275:4 That is to say, each piece of gold weighs as much. According to Kāty. XX, 1, 6 he is to give to the priests 4000 cows and as many Śatamāna coins. ↩︎

  12. 275:5 For this water used for the Soma-sacrifice where, however, it is taken from a cistern, or some course of flowing water, see part ii, p. 222 seqq. ↩︎