०१

विश्वास-प्रस्तुतिः

दुष्ट᳘रीतुर्ह पौᳫँ᳭सायनः᳘[[!!]]॥
(नो᳘) दशपुरुष᳘ᳫँ᳭ राज्याद᳘परुद्ध आस रेवो᳘त्तरसमु ह पाटव᳘ञ्चाक्र᳘ᳫँ᳘ स्थप᳘तिᳫँ᳭ सृ᳘ञ्जया ऽअ᳘परुरुधुः॥

मूलम् - श्रीधरादि

दुष्ट᳘रीतुर्ह पौᳫँ᳭सायनः᳘[[!!]]॥
(नो᳘) दशपुरुष᳘ᳫँ᳭ राज्याद᳘परुद्ध आस रेवो᳘त्तरसमु ह पाटव᳘ञ्चाक्र᳘ᳫँ᳘ स्थप᳘तिᳫँ᳭ सृ᳘ञ्जया ऽअ᳘परुरुधुः॥

मूलम् - Weber

दुष्ट᳘रीतुर्ह पौᳫंसा᳘यनः ॥
दशपुरुष᳘ᳫं᳘राज्याद᳘परुद्ध आस रेवो᳘त्तरसमु ह पाटवं᳘ चाक्र᳘ᳫं᳘ स्थप᳘तिᳫं सृ᳘ञ्जया अ᳘परुरुधुः ॥

मूलम् - विस्वरम्

दुष्टरीतुर्ह पौंसायनो दशपुरुषं राज्यादपरुद्ध आस । रेवोत्तरसम् उ ह पाटवं चाक्रं स्थपतिं सृंजया अपरुरुधुः ॥ १ ॥

हरिस्वामी

दुष्टरीतुर्ह पौंसायनः । दर्शनानि अत्र सौत्रामण्यंगगतानि इतिहासेनोच्यन्ते । त्रिपशोर्दक्षिणोत्तरेण 1 च ऐन्द्रवायोधसयोः 2 3 पशू । दुष्टरीतुर्नाम पुंसो ऽपत्यं पौंसायनः । दशपुरुषम् । पूर्वपुरुषादेव । यस्मिन्नेव काले राज्यादपरुद्धः । अपनीतस्वामित्वः आस बभूव । अथ तस्मिन्नेव काले । रेवोत्तरसं नाम ब्राह्मणम् पटोरपत्यं चाक्रं सृंजया राजानः स्वराष्ट्रात् अपरुरुधुः अपरुद्धवंतः ॥ १ ॥

Eggeling
  1. Now, Dushṭarītu Pauṁsāyana had been expelled from the kingdom which had come down to him through ten generations; and the Sr̥ñjayas also expelled Revottaras Pāṭava Kākra Sthapati.
मूलम् - Makoto

दुष्ट᳓रीतुर् ह पौँसा᳓यनः᳓ ।॥
दशपुरुषँ᳓रा᳓ज्या᳓द् अ᳓परुद्ध आ᳓स रेवो᳓त्तरसम् उ ह पा᳓टवं᳓ चा᳓क्रँ स्थप᳓तिँ सृ᳓ञ्जया᳓ अ᳓परुरुधुः ॥॥

०२

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
दुष्ट᳘रीतुं पौᳫँ᳭सायन᳘ᳫँ᳘ सौत्रामण्या᳘ त्वा याजयानि य᳘दिदᳫँ᳭ सृ᳘ञ्जये᳘षु राष्ट्रन्तत्त्व᳘यि[[!!]] धास्यामी᳘ति तथे᳘ति त᳘यैनमयाजयत्॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
दुष्ट᳘रीतुं पौᳫँ᳭सायन᳘ᳫँ᳘ सौत्रामण्या᳘ त्वा याजयानि य᳘दिदᳫँ᳭ सृ᳘ञ्जये᳘षु राष्ट्रन्तत्त्व᳘यि[[!!]] धास्यामी᳘ति तथे᳘ति त᳘यैनमयाजयत्॥

मूलम् - Weber

स᳘ होवाच ॥
दुष्ट᳘रीतुं पौᳫंसायनᳫं सौत्रामण्या᳘ त्वा याजयानि य᳘दिदᳫं सृ᳘ञ्जयेषु रा᳘ष्ट्रं तत्त्व᳘यि धास्यामी᳘ति तथे᳘ति त᳘यैनमयाजयत् ॥

मूलम् - विस्वरम्

स होवाच दुष्टरीतुं पौंसायनम् । सौत्रामण्या त्वा याजयानि । यदिदं सृंजयेषु राष्ट्रम् । तत् त्वयि धास्यामीति । तथेति । तयैनमयाजयत् ॥ २ ॥

हरिस्वामी

स होवाच । स रेवोत्तराः । दुष्टरीतुं पौंसायनम् । इत्यादि स्पष्टम् ॥ २ ॥

Eggeling
  1. He said to Dushṭarītu Pauṁsāyana, ‘I will perform the Sautrāmaṇī for thee, and will comer upon thee that dominion over the Sr̥ñjayas.’–‘So be it!’ he replied. So he performed it for him.
मूलम् - Makoto

स᳓ होवा᳓च ।॥
दुष्ट᳓रीतुं पौँसा᳓यनँ᳓ सौत्रा᳓मण्या᳓ त्वा᳓ या᳓जया᳓नि य᳓द् इदँ᳓ सृ᳓ञ्जयेषु रा᳓ष्ट्रं᳓ त᳓त् त्व᳓यि धा᳓स्या᳓मी᳓ति त᳓थे᳓ति त᳓यैनम् अया᳓जयत् ॥॥

०३

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘दु ह ब᳘ल्हिकः प्प्रातिपी᳘यः[[!!]] शुश्राव॥
कौरव्यो रा᳘जा यो᳘ ह वा᳘ ऽअय᳘न्दुष्ट᳘रीतुः पौᳫँ᳭सायनो᳘ दशपुरुष᳘ᳫँ᳘ राज्याद᳘परुद्धो᳘ ऽभूत्त᳘मय᳘ञ्चाक्र᳘ स्थप᳘तिः सौत्रामण्या᳘ याजयिष्यति य᳘दिदᳫँ᳭ सृ᳘ञ्जयेषु राष्ट्रन्त᳘द्धास्मिन्धास्यती᳘ति॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘दु ह ब᳘ल्हिकः प्प्रातिपी᳘यः[[!!]] शुश्राव॥
कौरव्यो रा᳘जा यो᳘ ह वा᳘ ऽअय᳘न्दुष्ट᳘रीतुः पौᳫँ᳭सायनो᳘ दशपुरुष᳘ᳫँ᳘ राज्याद᳘परुद्धो᳘ ऽभूत्त᳘मय᳘ञ्चाक्र᳘ स्थप᳘तिः सौत्रामण्या᳘ याजयिष्यति य᳘दिदᳫँ᳭ सृ᳘ञ्जयेषु राष्ट्रन्त᳘द्धास्मिन्धास्यती᳘ति॥

मूलम् - Weber

त᳘दु ह ब᳘ल्हिकः प्रातिपीयः᳘ शुश्राव ॥
कौरव्यो 4 रा᳘जा यो᳘ ह वा᳘ऽअयं᳘ दुष्ट᳘रीतुः पौᳫंसायनो᳘ दशपुरुष᳘ᳫं᳘राज्याद᳘परुद्धो᳘ऽभूत्त᳘मयं᳘ चाक्र᳘ स्थप᳘तिः सौत्रामण्या᳘ याजयिष्यति य᳘दिदᳫं सृ᳘ञ्जयेषु राष्ट्रं त᳘द्धास्मिन्धास्यती᳘ति ॥

मूलम् - विस्वरम्

तदु ह बल्हिकः प्रातिपीयः शुश्राव कौरव्यो राजा । यो ह वा अयं दुष्टरीतुः पौंसायनो दशपुरुषं राज्यादपरुद्धो ऽभूत् । तमयं चाक्रः स्थपतिः सौत्रामण्या याजयिष्यति । यदिदं सृञ्जयेषु राष्ट्रम् । तद्धास्मिन् धास्यतीति ॥ ३ ॥

हरिस्वामी

तदु ह बल्हिकः । तत्तथा वृत्तम् । बल्हिको नाम राजा कुरुवंशजः । शुश्राव श्रुत्वा ऊचे । एभ्य आख्याय ग्रहग्रहणवेलायाम् ॥ ३ ॥ ४॥

Eggeling
  1. Now Balhika Prātipīya, the Kauravya king, heard (people say) this–‘There is that Dushṭarītu Pauṁsāyana who has been expelled from the kingdom which has come down to him through ten generations: for him that Cākra Sthapati wants to perform the Sautrāmaṇī and to confer upon him the dominion over the Sr̥ñjayas.’
मूलम् - Makoto

त᳓द् उ ह ब᳓ल्हिकः प्रा᳓तिपीयः᳓ शुश्रा᳓व ।॥
कौरव्यो᳓ रा᳓जा᳓ यो᳓ ह वा᳓ अयं᳓ दुष्ट᳓रीतुः पौँसा᳓यनो᳓ दशपुरुषँ᳓रा᳓ज्या᳓द् अ᳓परुद्धो᳓ ऽभूत् त᳓म् अयं᳓ चा᳓क्र स्थप᳓तिः सौत्रा᳓मण्या᳓ या᳓जयिष्यति य᳓द् इदँ᳓ सृ᳓ञ्जयेषु रा᳓ष्ट्रं᳓ त᳓द् धा᳓स्मिन् धा᳓स्यती᳓ति ॥॥

०४

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
तन्न्वा᳘ ऽअहन्तं᳘ व्वेदिष्यामि य᳘दि स त᳘स्मिन्राष्ट्र᳘न्धास्य᳘ति बहिर्द्धा᳘ वैनᳫँ᳭ राष्ट्रा᳘द्धास्यती᳘ति स ऽआ᳘जगाम य᳘स्याम्वे᳘लायां ग्ग्र᳘हा गृह्य᳘न्ते॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
तन्न्वा᳘ ऽअहन्तं᳘ व्वेदिष्यामि य᳘दि स त᳘स्मिन्राष्ट्र᳘न्धास्य᳘ति बहिर्द्धा᳘ वैनᳫँ᳭ राष्ट्रा᳘द्धास्यती᳘ति स ऽआ᳘जगाम य᳘स्याम्वे᳘लायां ग्ग्र᳘हा गृह्य᳘न्ते॥

मूलम् - Weber

स᳘ होवाच ॥
तन्न्वा᳘ऽअहं तं᳘ वेदिष्यामि य᳘दि स त᳘स्मिन्राष्ट्रं᳘ धास्य᳘ति बहिर्धा᳘ वैनᳫं राष्ट्रा᳘द्धास्यती᳘ति स आ᳘जगाम य᳘स्यां वे᳘लायां ग्र᳘हा गृह्य᳘न्ते ॥

मूलम् - विस्वरम्

स होवाच । तन्न्वा अहं तं वेदिष्यामि । यदि स तस्मिन् राष्ट्रं धास्यति । बहिर्धा वैनं राष्ट्रात् धास्यतीति । स आजगाम । यस्यां वेलायां ग्रहा गृह्यन्ते ॥ ४ ॥

हरिस्वामी

[व्याख्यानं तृतीये]

Eggeling
  1. He said, ‘I will just tell him that if he wants to confer dominion upon him, he will indeed exclude him from dominion.’ He came to him at that particular time (of the sacrifice) when the cups (of milk and liquor) are drawn.
मूलम् - Makoto

स᳓ होवा᳓च ।॥
त᳓न् न्वा᳓ अहं᳓ तं᳓ वेदिष्या᳓मि य᳓दि स᳓ त᳓स्मिन् रा᳓ष्ट्रं᳓ धा᳓स्य᳓ति बहिर्धा᳓ वैनँ रा᳓ष्ट्रा᳓द् धा᳓स्यती᳓ति स᳓ आ᳓जगा᳓म य᳓स्यां᳓ वे᳓ला᳓यां᳓ ग्र᳓हा᳓ गृह्य᳓न्ते ॥॥

०५

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
स्थ᳘पते चाक्र᳘ नाहवनी᳘ये सु᳘रा होतव्ये᳘त्याहु᳘र्न्नान्य᳘त्राहवनी᳘याद्य᳘द्याहवनी᳘ये सु᳘राᳫँ᳭ होष्य᳘सि पापवस्यस᳘ङ्करिष्यसि जामि᳘ यज्ञ᳘स्य य᳘द्यन्य᳘त्राहवनी᳘याद्बहि᳘र्द्धैनᳫँ᳭ राष्ट्रा᳘द्धास्यसि᳘ नैनᳫँ᳭ राष्ट्रे᳘ धास्यसि᳘ नास्मिन्राष्ट्र᳘न्धास्यसी᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
स्थ᳘पते चाक्र᳘ नाहवनी᳘ये सु᳘रा होतव्ये᳘त्याहु᳘र्न्नान्य᳘त्राहवनी᳘याद्य᳘द्याहवनी᳘ये सु᳘राᳫँ᳭ होष्य᳘सि पापवस्यस᳘ङ्करिष्यसि जामि᳘ यज्ञ᳘स्य य᳘द्यन्य᳘त्राहवनी᳘याद्बहि᳘र्द्धैनᳫँ᳭ राष्ट्रा᳘द्धास्यसि᳘ नैनᳫँ᳭ राष्ट्रे᳘ धास्यसि᳘ नास्मिन्राष्ट्र᳘न्धास्यसी᳘ति॥

मूलम् - Weber

स᳘ होवाच ॥
स्थ᳘पते चाक्रॗ नाहवनी᳘ये सु᳘रा होतव्ये᳘त्याहुॗर्नान्य᳘त्राहवनी᳘याद्य᳘द्याहवनी᳘ये सु᳘राᳫं होष्य᳘सि पापवस्यसं᳘ करिष्यसि जामि᳘ यज्ञ᳘स्य य᳘द्यन्य᳘त्राहवनी᳘याद्बहिॗर्धैनᳫं राष्ट्रा᳘द्धास्यसिॗ नैनᳫं राष्ट्रे᳘ धास्यसिॗ नास्मिन्राष्ट्रं᳘ धास्यसी᳘ति ॥

मूलम् - विस्वरम्

स होवाच । स्थपते चाक्र नाहवनीये सुरा होतव्येत्याहुः । नान्यत्राहवनीयात् । यद्याहवनीये सुरां होष्यसि । पापवस्यसं करिष्यसि । जामि यज्ञस्य । यद्यन्यत्राहवनीयात् । बहिर्धैनं राष्ट्रात् धास्यसि । नैनं राष्ट्रे धास्यसि । नास्मिन् राष्ट्रं धास्यसीति ॥ ५ ॥

हरिस्वामी

ततो यज्ञगृहमागत्य स्थपतिः सुराहोमस्याग्निप्रतिपर्यंतं उक्तवान् । आहवनीये तस्याहोमे दोषदर्शनम् । स्थपतिरपि उभयदोषपरिहारं प्रतिज्ञाय कथं करिष्यसीत्यनुयुक्तः सन्नसुरेषु सौत्रामणीयज्ञः आसीत्स देवान् उपागच्छत् देवाः पर्यग्निकृता अपाघ्नन्नित्याख्याय ॥ ५-९ ॥

Eggeling
  1. He said, ‘Sthapati Cākra, they say, Surā-liquor must not be offered in the Āhavanīya-fire, nor anywhere else than in the Āhavanīya: if thou offerest

Surā-liquor in the Āhavanīya thou wilt cause social confusion and a repetition in the sacrifice 5, and if anywhere else than in the Āhavanīya thou wilt exclude him (the king) from dominion, and wilt neither place him in dominion, nor confer dominion upon him.’

मूलम् - Makoto

स᳓ होवा᳓च ।॥
स्थ᳓पते चा᳓क्र ना᳙हवनी᳓ये सु᳓रा᳓ होतव्ये᳓त्य् आ᳓हुर् ना᳙न्य᳓त्रा᳓हवनी᳓या᳓द् य᳓द्य् आ᳓हवनी᳓ये सु᳓राँ᳓ होष्य᳓सि पा᳓पवस्यसं᳓ करिष्यसि जा᳓मि᳓ यज्ञ᳓स्य य᳓द्य् अन्य᳓त्रा᳓हवनी᳓या᳓द् बहिर्धै᳙नँ रा᳓ष्ट्रा᳓द् धा᳓स्यसि नै᳙नँ रा᳓ष्ट्रे᳓ धा᳓स्यसि ना᳙स्मिन् रा᳓ष्ट्र᳓ धा᳓स्यसी᳓ति ॥॥

०६

विश्वास-प्रस्तुतिः

स᳘ होवाच᳘॥
नाहवनी᳘ये सु᳘राᳫँ᳭ होष्या᳘मि᳘ नान्य᳘त्राहवनी᳘यान्न᳘ पापवस्यस᳘ङ्करिष्यामि न᳘ जामि᳘ यज्ञ᳘स्य᳘ नैनं बहिर्द्धा᳘ राष्ट्रा᳘द्धास्यामि राष्ट्र᳘ ऽएनन्धास्यामि राष्ट्र᳘मस्मिन्धास्यामी᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच᳘॥
नाहवनी᳘ये सु᳘राᳫँ᳭ होष्या᳘मि᳘ नान्य᳘त्राहवनी᳘यान्न᳘ पापवस्यस᳘ङ्करिष्यामि न᳘ जामि᳘ यज्ञ᳘स्य᳘ नैनं बहिर्द्धा᳘ राष्ट्रा᳘द्धास्यामि राष्ट्र᳘ ऽएनन्धास्यामि राष्ट्र᳘मस्मिन्धास्यामी᳘ति॥

मूलम् - Weber

स᳘ होवाच᳟᳟ ॥
नाहवनी᳘ये सु᳘राᳫं होष्या᳘मिॗ नान्य᳘त्राहवनी᳘यान्न᳘ पापवस्यसं᳘ करिष्यामि न᳘ जामि᳘ यज्ञ᳘स्यॗ नैनं बहिर्धा᳘ राष्ट्रा᳘द्धास्यामि राष्ट्र᳘ऽएनं धास्यामि राष्ट्र᳘मस्मिन्धास्यामी᳘ति ॥

मूलम् - विस्वरम्

स होवाच । नाहवनीये सुरां होष्यामि । नान्यत्राहवनीयात् । न पापवस्यसं करिष्यामि । न जामि यज्ञस्य । नैनं बहिर्द्धा राष्ट्रात् धास्यामि । राष्ट्र एनं धास्यामि । राष्ट्रमस्मिन् धारस्यामीति ॥ ६ ॥

हरिस्वामी

[व्याख्यानं पञ्चमे]

Eggeling
  1. He replied, ‘I shall not offer Surā-liquor in the Āhavanīya nor anywhere else than in the Āhavanīya thus I shall not cause social confusion nor a repetition in the sacrifice, and shall not exclude him from dominion; I shall place him in dominion, and shall confer dominion upon him.’
मूलम् - Makoto

स᳓ होवा᳓च ।॥
ना᳙हवनी᳓ये सु᳓राँ᳓ होष्या᳓मि ना᳙न्य᳓त्रा᳓हवनी᳓या᳓न् न᳓ पा᳓पवस्यसं᳓ करिष्या᳓मि न᳓ जा᳓मि᳓ यज्ञ᳓स्य नै᳙नं बहिर्धा᳓ रा᳓ष्ट्रा᳓द् धा᳓स्या᳓मि रा᳓ष्ट्र᳓ एनं धा᳓स्या᳓मि रा᳓ष्ट्र᳓म् अस्मिन् धा᳓स्या᳓मी᳓ति ॥॥

०७

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
कथᳫँ᳭ हि᳘ करिष्यसी३ ऽइ᳘ति स᳘ हैत᳘दुवाचा᳘सुरेषु वा᳘ ऽएषो᳘ ऽग्ग्रे यज्ञ᳘ ऽआसीत्सौत्रामणी स᳘ देवा᳘नुपप्प्रै᳘त्सो ऽप ऽआ᳘गच्छत्तमा᳘पः प्प्र᳘त्यनन्दंस्त᳘स्मादु श्रे᳘याᳫँ᳭समा᳘गतम्प्र᳘त्येव᳘ नन्दन्ति त᳘ᳫँ᳘ होचुरे᳘ह्येव᳘ भगव ऽइ᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
कथᳫँ᳭ हि᳘ करिष्यसी३ ऽइ᳘ति स᳘ हैत᳘दुवाचा᳘सुरेषु वा᳘ ऽएषो᳘ ऽग्ग्रे यज्ञ᳘ ऽआसीत्सौत्रामणी स᳘ देवा᳘नुपप्प्रै᳘त्सो ऽप ऽआ᳘गच्छत्तमा᳘पः प्प्र᳘त्यनन्दंस्त᳘स्मादु श्रे᳘याᳫँ᳭समा᳘गतम्प्र᳘त्येव᳘ नन्दन्ति त᳘ᳫँ᳘ होचुरे᳘ह्येव᳘ भगव ऽइ᳘ति॥

मूलम् - Weber

स᳘ होवाच ॥
कथᳫं हि᳘ करिष्यसी३ इ᳘ति स᳘ हैत᳘दुवाचा᳘सुरेषु वा᳘ऽएषो᳘ऽग्रे यज्ञ᳘ आसीत्सौत्रामणी स᳘ देवा᳘नुपप्रैॗत्सोऽप आ᳘गछत्तमा᳘पः प्र᳘त्यनन्दंस्त᳘स्मादु श्रे᳘याᳫंसमा᳘गतं प्र᳘त्येव᳘ नन्दन्ति त᳘ᳫं᳘ होचुरे᳘ह्येव᳘ भगव इ᳘ति ॥

मूलम् - विस्वरम्

स होवाच । कथं हि करिष्यसी ३ इति । स हैतदुवाच । असुरेषु वा एषो ऽग्रे यज्ञ आसीत् सौत्रामणी । स देवानुपप्रैत् । सो ऽप आगच्छत् । तमापः प्रत्यनंदन् । तस्मात् उ श्रेयांसमागतं प्रत्येव नंदंति । तं होचुः । एह्येव भगव इति ॥ ७ ॥

हरिस्वामी

[व्याख्यानं पञ्चमे]

Eggeling
  1. He said, ‘How, then, wilt thou do it?’ He then told him this:–At first, indeed, that Yajña (sacrifice, m.), the Sautrāmaṇī, was with the Asuras. He went forth towards the gods. He came to the waters, and the waters welcomed him, whence people welcome a better man when he comes to them. They said to him, ‘We pray thee, come, reverend sir!’
मूलम् - Makoto

स᳓ होवा᳓च ।॥
कथँ᳓ हि᳓ करिष्य᳓सी᳓३ इ᳓ति स᳓ हैत᳓द् उवा᳓चा᳓सुरेषु वा᳓ एषो᳓ ऽग्रे यज्ञ᳓ आ᳓सीत् सौत्रा᳓मणी᳓ स᳓ देवा᳓न् उप᳓प्रै᳓त् सो᳙ ऽप᳓ आ᳓गछत् त᳓म् आ᳓पः प्र᳓त्यनन्दंस् त᳓स्मा᳓द् उ श्रे᳓याँ᳓सम् आ᳓गतं प्र᳓त्य् एव᳓ नन्दन्ति तँ᳓ होचुर् ए᳓ह्य् एव᳓ भगव इ᳓ति ॥॥

०८

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
बिभे᳘मि वै प्प्र᳘णयत मे᳘ति क᳘स्माद्भगवो बिभेषीत्य᳘सुरेभ्य ऽइ᳘ति तथे᳘ति तमा᳘पः प्प्रा᳘णयंस्त᳘स्माद्यो᳘ व्वधत्रो भ᳘वति स बि᳘भ्यतं प्प्र᳘णयति यदा᳘पः प्प्रा᳘णयंस्त᳘स्मादा᳘पः प्प्र᳘णीतास्तत्प्र᳘णीतानाम्प्रणीतात्वं प्प्र᳘ति ह तिष्ठति य᳘ ऽएव᳘मेतत्प्र᳘णीतानाम्प्रणीतात्वम्वे᳘द॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
बिभे᳘मि वै प्प्र᳘णयत मे᳘ति क᳘स्माद्भगवो बिभेषीत्य᳘सुरेभ्य ऽइ᳘ति तथे᳘ति तमा᳘पः प्प्रा᳘णयंस्त᳘स्माद्यो᳘ व्वधत्रो भ᳘वति स बि᳘भ्यतं प्प्र᳘णयति यदा᳘पः प्प्रा᳘णयंस्त᳘स्मादा᳘पः प्प्र᳘णीतास्तत्प्र᳘णीतानाम्प्रणीतात्वं प्प्र᳘ति ह तिष्ठति य᳘ ऽएव᳘मेतत्प्र᳘णीतानाम्प्रणीतात्वम्वे᳘द॥

मूलम् - Weber

स᳘ होवाच ॥
बिभे᳘मि वै प्र᳘णयत मे᳘ति क᳘स्माद्भगवो बिभेषीत्य᳘सुरेभ्य इ᳘ति तथे᳘ति तमा᳘पः प्रा᳘णयंस्त᳘स्माद्यो᳘ वधत्रो भ᳘वति स बि᳘भ्यतं प्र᳘णयति यदा᳘पः प्रा᳘णयंस्त᳘स्मादा᳘पः प्र᳘णीतास्तत्प्र᳘णीतानां प्रणीतात्वं प्र᳘ति ह तिष्ठति य᳘ एव᳘मेतत्प्र᳘णीतानां प्रणीतात्वं वे᳘द ॥

मूलम् - विस्वरम्

स होवाच । बिभेमि वै । प्रणयत मेति । कस्मात् भगवो बिभेषीति । असुरेभ्य इति । तथेति । तमापः प्राणयन् । तस्मात् यो वधत्रो भवति । स बिभ्यतं प्रणयति । यदापः प्राणयन् । तस्मादापः प्रणीताः । तत् प्रणीतानां प्रणीतात्वम् । प्रति ह तिष्ठति । य एवमेतत् प्रणीतानां प्रणीतात्वं वेद ॥ ८ ॥

हरिस्वामी

[व्याख्यानं पञ्चमे]

Eggeling
  1. He said, ‘Nay, I am afraid: lead ye me forward!’–‘Whereof art thou afraid, reverend sir?’ they asked.–‘Of the Asuras,’ he said.–‘Be it, then!’ they said. The waters led him forward, whence he who is the protector leads forward him who is afraid; and inasmuch as the waters led him forward (pra-ṇī) therefore the waters (themselves) are ’led forward:’ this is the reason why they are (called) Praṇītāḥ 6; and, verily, firmly established is he who thus knows that nature of the Praṇītāḥ.
मूलम् - Makoto

स᳓ होवा᳓च ।॥
बिभे᳓मि वै᳓ प्र᳓णयत मे᳓ति क᳓स्मा᳓द् भगवो बिभेषी᳓त्य् अ᳓सुरेभ्य इ᳓ति त᳓थे᳓ति त᳓म् आ᳓पः प्रा᳓णयंस् त᳓स्मा᳓द् यो᳓ वधत्रो᳓ भ᳓वति स᳓ बि᳓भ्यतं प्र᳓णयति य᳓द् आ᳓पः प्रा᳓णयंस् त᳓स्मा᳓द् आ᳓पः प्र᳓णीता᳓स् त᳓त् प्र᳓णीता᳓नां᳓ प्रणीता᳓त्वं᳓ प्र᳓ति ह तिष्ठति य᳓ एव᳓म् एत᳓त् प्र᳓णीता᳓नां᳓ प्रणीता᳓त्वं᳓ वे᳓द ॥॥

०९

विश्वास-प्रस्तुतिः

त᳘दिष्टाः᳘ प्प्रयाजा᳘ ऽआसुः॥
(र᳘) अ᳘पर्य्यग्निकृतमथा᳘सुरा ऽअन्वा᳘जग्मुस्ते᳘ देवाः प᳘र्य्यग्निनैवा᳘सुरा᳘न्त्सप᳘त्नान्भ्रा᳘तृव्यान्यज्ञा᳘दन्त᳘रायंस्त᳘थो ऽए᳘वैष᳘ ऽएतत्प᳘र्य्यग्निनैव᳘ द्विष᳘न्तं भ्रा᳘तृव्यं यज्ञा᳘दन्त᳘रेति॥

मूलम् - श्रीधरादि

त᳘दिष्टाः᳘ प्प्रयाजा᳘ ऽआसुः॥
(र᳘) अ᳘पर्य्यग्निकृतमथा᳘सुरा ऽअन्वा᳘जग्मुस्ते᳘ देवाः प᳘र्य्यग्निनैवा᳘सुरा᳘न्त्सप᳘त्नान्भ्रा᳘तृव्यान्यज्ञा᳘दन्त᳘रायंस्त᳘थो ऽए᳘वैष᳘ ऽएतत्प᳘र्य्यग्निनैव᳘ द्विष᳘न्तं भ्रा᳘तृव्यं यज्ञा᳘दन्त᳘रेति॥

मूलम् - Weber

त᳘दिष्टाः᳘ प्रयाजा᳘ आसुः ॥
अ᳘पर्यग्निकृतमथा᳘सुरा अन्वा᳘जग्मुस्ते᳘ देवाः प᳘र्यग्निनैवा᳘सुरा᳘न्त्सप᳘त्नान्भ्रा᳘तृव्यान्यज्ञा᳘दन्त᳘रायंस्त᳘थोऽएॗवैष᳘ एतत्प᳘र्यग्निनैव᳘ द्विष᳘न्तं भ्रा᳘तृव्यं यज्ञा᳘दन्त᳘रेति ॥

मूलम् - विस्वरम्

तदिष्टाः प्रयाजा आसुः । अपर्यग्निकृतम् । अथासुरा अन्वाजग्मुः । ते देवाः पर्यग्निनैवासुरान् सपत्नान् भ्रातृव्यान् यज्ञादंतरायन् । तथो एवैष एतत् पर्यग्निनैव द्विषन्तं भ्रातृव्यं यज्ञादंतरेति ॥ ९ ॥

हरिस्वामी

[व्याख्यानं पञ्चमे]

Eggeling
  1. Now, the fore-offerings had been performed, but the fire had not been carried round 7 (the oblations), when the Asuras came after him. By means of the circumambient fire the gods shut out their hostile rivals, the Asuras, from Yajña (the sacrifice); and in like manner does this one now, by means of the circumambient fire, shut out his spiteful enemy from the sacrifice.
मूलम् - Makoto

त᳓द् इष्टाः᳓ प्रया᳓जा᳓ आ᳓सुः ।॥
अ᳓पर्यग्निकृतम् अ᳓था᳓सुरा᳓ अन्वा᳓जग्मुस् ते᳓ देवाः᳓ प᳓र्यग्निनैवा᳓सुरा᳓न्त् सप᳓त्ना᳓न् भ्रा᳓तृव्या᳓न् यज्ञा᳓द् अन्त᳓रा᳓यंस् त᳓थो एवै᳙प᳓ एत᳓त् प᳓र्यग्निनैव᳓ द्विष᳓न्तं भ्रा᳓तृव्यं यज्ञा᳓द् अन्त᳓रेति ॥॥

१०

विश्वास-प्रस्तुतिः

देवयोनिर्व्वा᳘ ऽएष य᳘दाहवनी᳘यः॥
(स्त᳘) त᳘स्यैता᳘वमृतपक्षौ या᳘वेता᳘वभि᳘तो ऽग्नी तद्य᳘दाहवनी᳘ये यज्ञ᳘न्तन्व᳘ते देवयोना᳘वे᳘वैत᳘द्देवे᳘भ्यो यज्ञ᳘न्तन्वत ऽउ᳘प हैनम्पुनर्य्यज्ञो᳘ नमति᳘ नास्माद्यज्ञो व्व्य᳘वच्छिद्यते य᳘ ऽएव᳘मेतद्वे᳘द य᳘स्य वैवं᳘ विदुष ऽएतत्क᳘र्म्म[[!!]] क्रिय᳘ते॥

मूलम् - श्रीधरादि

देवयोनिर्व्वा᳘ ऽएष य᳘दाहवनी᳘यः॥
(स्त᳘) त᳘स्यैता᳘वमृतपक्षौ या᳘वेता᳘वभि᳘तो ऽग्नी तद्य᳘दाहवनी᳘ये यज्ञ᳘न्तन्व᳘ते देवयोना᳘वे᳘वैत᳘द्देवे᳘भ्यो यज्ञ᳘न्तन्वत ऽउ᳘प हैनम्पुनर्य्यज्ञो᳘ नमति᳘ नास्माद्यज्ञो व्व्य᳘वच्छिद्यते य᳘ ऽएव᳘मेतद्वे᳘द य᳘स्य वैवं᳘ विदुष ऽएतत्क᳘र्म्म[[!!]] क्रिय᳘ते॥

मूलम् - Weber

देवयोनिर्वा᳘ऽएष य᳘दाहवनी᳘यः ॥
त᳘स्यैता᳘वमृतपक्षौ या᳘वेता᳘वभि᳘तोऽग्नी तद्य᳘दाहवनी᳘ये यज्ञं᳘ तन्व᳘ते देवयोना᳘वेॗवैत᳘द्देवे᳘भ्यो यज्ञं᳘ तन्वतऽउ᳘प हैनं पुनर्यज्ञो᳘ नमतिॗ नास्माद्यज्ञो व्य᳘वछिद्यते य᳘ एव᳘मेतद्वे᳘द य᳘स्य वैवं᳘ विदु᳘ष एतत्क᳘र्म क्रिय᳘ते ॥

मूलम् - विस्वरम्

देवयोनिर्वा एषः । यदाहवनीयः । तस्यैतावमृतपक्षौ । यावेतावभितो ऽग्नी । तत् यदाहवनीये यज्ञं तन्वते । देवयोनावेवैतद्देवेभ्यो यज्ञं तन्वते । उप हैनं पुनर्यज्ञो नमति । नास्मात् यज्ञो व्यवच्छिद्यते । य एवमेतद्वेद । यस्य वैवं विदुष एतत् कर्म क्रियते ॥ १० ॥

हरिस्वामी

देवानां योनिः स्थानं आहवनीयः । तत्र यदन्यो यज्ञस्तायते । देवस्थान एवं नाशृते । सौत्रामणी तु आह- वनीयाच्चोपादृताग्न्योरुत्तरदक्षिणयोस्तायते । तौ तु आहवनीयायतनौ द्वौ तेनाभिन्नाविति दक्षिणाग्नौ सुरायां हूयमानायां उभावपि दोषो न भविष्यत इत्युवाच ॥ १०-१२ ॥

Eggeling
  1. Verily, that Āhavanīya is the womb (seat) of the gods, and those two fires 8 on either side thereof are its immortal wings: thus, when they perform the sacrifice on the Āhavanīya, they indeed perform the sacrifice for the gods in the womb of the gods; and, verily, the continued sacrifice inclines to him, and the sacrifice is not cut off from him who thus knows this, or for whom, knowing this, this sacrificial rite is performed.
मूलम् - Makoto

देवयोनि᳓र् वा᳓ एष᳓ य᳓द् आ᳓हवनी᳓यः ।॥
त᳓स्यैता᳓व् अमृतपक्षौ᳓ या᳓व् एता᳓व् अभि᳓तो ऽग्नी᳓ त᳓द् य᳓द् आ᳓हवनी᳓ये यज्ञं᳓ तन्व᳓ते देवयोना᳓व् एवै᳙त᳓द् देवे᳓भ्यो यज्ञं᳓ तन्वत उ᳓प हैनं पुनर्यज्ञो᳓ नमति ना᳙स्मा᳓द् यज्ञो᳓ व्य᳓वछिद्यते य᳓ एव᳓म् एत᳓द् वे᳓द य᳓स्य वैवं᳓ विदु᳓ष एत᳓त् क᳓र्म क्रिय᳓ते ॥॥

११

विश्वास-प्रस्तुतिः

(त ऽउ᳘) उ᳘त्तरे ऽग्नौ᳘ पयोग्रहा᳘ञ्जुह्वति॥
(त्यु᳘) उ᳘त्तरे ऽग्नौ᳘ पशू᳘ञ्छ्रपयन्ति पशू᳘नेव[[!!]] तन्म᳘र्त्यान्त्स᳘तो ऽमृतयोनौ᳘ दधाति म᳘र्त्यान्त्स᳘तो ऽमृतयोनेः प्प्र᳘जनयत्य᳘प ह वै᳘ पशूना᳘म्पुनर्म्मृत्यु᳘ञ्जयति᳘ नास्माद्यज्ञो व्व्य᳘वच्छिद्यते य᳘ ऽएव᳘मेतद्वे᳘द य᳘स्य वैव᳘म्विदु᳘ष ऽएतत्क᳘र्म्म क्रिय᳘ते॥

मूलम् - श्रीधरादि

(त ऽउ᳘) उ᳘त्तरे ऽग्नौ᳘ पयोग्रहा᳘ञ्जुह्वति॥
(त्यु᳘) उ᳘त्तरे ऽग्नौ᳘ पशू᳘ञ्छ्रपयन्ति पशू᳘नेव[[!!]] तन्म᳘र्त्यान्त्स᳘तो ऽमृतयोनौ᳘ दधाति म᳘र्त्यान्त्स᳘तो ऽमृतयोनेः प्प्र᳘जनयत्य᳘प ह वै᳘ पशूना᳘म्पुनर्म्मृत्यु᳘ञ्जयति᳘ नास्माद्यज्ञो व्व्य᳘वच्छिद्यते य᳘ ऽएव᳘मेतद्वे᳘द य᳘स्य वैव᳘म्विदु᳘ष ऽएतत्क᳘र्म्म क्रिय᳘ते॥

मूलम् - Weber

उ᳘त्तरेऽग्नौ᳘ पयोग्रहा᳘न्जुह्वति ॥
उ᳘त्तरेऽग्नौ᳘ पशू᳘ञ्छ्रपयन्ति पशू᳘नेव᳘ तन्म᳘र्त्यान्त्सॗतोऽमृतयोनौ᳘ दधाति म᳘र्त्यान्त्सॗतोऽमृतयोनेः प्र᳘जनयत्य᳘प ह वै᳘ पशूनां᳘ पुनर्मृत्युं᳘ जयतिॗ नास्माद्यज्ञो व्य᳘वछिद्यते य᳘ एव᳘मेतद्वे᳘द य᳘स्य वैवं᳘ विदु᳘ष एतत्क᳘र्म क्रिय᳘ते ॥

मूलम् - विस्वरम्

उत्तरे ऽग्नौ पयोग्रहान् जुह्वति । उत्तरे ऽग्नौ पशून् श्रपयंति । पशूनेव तन्मर्त्यान् सतो ऽमृतयोनौ दधाति । मर्त्यान् सतो ऽमृतयोनेः प्रजनयति । अप ह वै पशूनां पुनर्मृत्युं जयति । नास्मात् यज्ञो व्यवच्छिद्यते । य एवमेतद्वेद । यस्य वैवं विदुष एतत् कर्म क्रियते ॥ ११ ॥

हरिस्वामी

[व्याख्यानं दशमे]

Eggeling
  1. On the northern fire they offer (libations from) the cups of milk, on the northern fire they cook the sacrificial animals: the sacrificial animals, whilst being mortal, he thus places in the immortal womb, and them that are mortal he causes to be born (again) from out of the immortal womb; and, verily, whosoever thus knows this, or he for whom, knowing this, this sacrificial rite is performed, wards off the recurring death of his cattle, and the sacrifice is not cut off from him.
मूलम् - Makoto

उ᳓त्तरे ऽग्नौ᳓ पयोग्रहा᳓न् जुह्वति ।॥
उ᳓त्तरे ऽग्नौ᳓ पशू᳓ञ् छ्रपयन्ति पशू᳓न् एव᳓ त᳓न् म᳓र्त्या᳓न्त् सतो᳙ ऽमृतयोनौ᳓ दधा᳓ति म᳓र्त्या᳓न्त् सतो᳙ ऽमृतयोनेः᳓ प्र᳓जनयत्य् अ᳓प ह वै᳓ पशूनां᳓ पुनर्मृत्युं᳓ जयति ना᳙स्मा᳓द् यज्ञो᳓ व्य᳓वछिद्यते य᳓ एव᳓म् एत᳓द् वे᳓द य᳓स्य वैवं᳓ विदु᳓ष एत᳓त् क᳓र्म क्रिय᳓ते ॥॥

१२

विश्वास-प्रस्तुतिः

द᳘क्षिणे ऽग्नौ᳘ सुराग्ग्रहा᳘ञ्जुह्वति॥
द᳘क्षिणे ऽग्नौ᳘ पावयन्ति पवि᳘त्राभिस्त्रिषंयुक्ता᳘भिः पितॄ᳘नेव[[!!]] तन्म᳘र्त्यान्त्स᳘तो ऽमृतयोनौ᳘ दधाति म᳘र्त्यान्त्स᳘तो ऽमृतयोनेः प्प्र᳘जनयत्य᳘प ह वै᳘ पितॄणा᳘म्पुनर्मृत्यु᳘ञ्जयति᳘ नास्माद्यज्ञो व्व्य᳘वच्छिद्यते य᳘ ऽएव᳘मेतद्वे᳘द य᳘स्य वैव᳘म्विदु᳘ष ऽएतत्क᳘र्म्म क्रिय᳘ते॥

मूलम् - श्रीधरादि

द᳘क्षिणे ऽग्नौ᳘ सुराग्ग्रहा᳘ञ्जुह्वति॥
द᳘क्षिणे ऽग्नौ᳘ पावयन्ति पवि᳘त्राभिस्त्रिषंयुक्ता᳘भिः पितॄ᳘नेव[[!!]] तन्म᳘र्त्यान्त्स᳘तो ऽमृतयोनौ᳘ दधाति म᳘र्त्यान्त्स᳘तो ऽमृतयोनेः प्प्र᳘जनयत्य᳘प ह वै᳘ पितॄणा᳘म्पुनर्मृत्यु᳘ञ्जयति᳘ नास्माद्यज्ञो व्व्य᳘वच्छिद्यते य᳘ ऽएव᳘मेतद्वे᳘द य᳘स्य वैव᳘म्विदु᳘ष ऽएतत्क᳘र्म्म क्रिय᳘ते॥

मूलम् - Weber

द᳘क्षिणेऽग्नौ᳘ सुराग्रहा᳘न्जुह्वति ॥
द᳘क्षिणेऽग्नौ᳘ पावयन्ति पवि᳘त्राभिस्त्रिषंयुक्ता᳘भिः पितॄ᳘नेव᳘ तन्म᳘र्त्यान्त्सॗतोऽमृतयोनौ᳘ दधाति म᳘र्त्यान्त्सॗतोऽमृतयोनेः प्र᳘जनयत्य᳘प ह वै᳘ पितॄणां᳘ पुनर्मृत्युं᳘ जयतिॗ नास्माद्यज्ञो व्यवछिद्यते य᳘ एव᳘मेतद्वे᳘द य᳘स्य वैवं᳘ विदु᳘ष एतत्क᳘र्म क्रिय᳘ते ॥

मूलम् - विस्वरम्

दक्षिणे ऽग्नौ सुराग्रहान् जुह्वति । दक्षिणे ऽग्नौ पावयंति पवित्राभिस्त्रिषंयुक्ताभिः । पितॄनेव तन्मर्त्यान् सतो ऽमृतयोनौ दधाति । मर्त्यान् सतो ऽमृतयोनेः प्रजनयति । अप ह वै पितॄणां पुनर्मृत्युं जयति । नास्मात् यज्ञो व्यवच्छिद्यते । य एवमेतद्वेद । यस्य वैवं विदुष एतत् कर्म क्रियते ॥ १२ ॥

हरिस्वामी

[व्याख्यानं दशमे]

Eggeling
  1. On the southern fire they offer (libations from) the cups of Surā-liquor, near the southern fire

they purify (the liquor) with triple strainers: the Fathers, whilst being mortal, he thus places in the immortal womb, and them that are mortal he causes to be born (again) from out of the immortal womb; and, verily, whosoever thus knows this, or he for whom, knowing this, this sacrificial rite is performed, wards off the recurring death of the Fathers, and the sacrifice is not cut off from him.

मूलम् - Makoto

द᳓क्षिणे ऽग्नौ᳓ सुरा᳓ग्रहा᳓न् जुह्वति ।॥
द᳓क्षिणे ऽग्नौ᳓ पा᳓वयन्ति पवि᳓त्रा᳓भिस् त्रिषंयुक्ता᳓भिः पित्क़्;न् एव᳓ त᳓न् म᳓र्त्या᳓न्त् सतो᳙ ऽमृतयोनौ᳓ दधा᳓ति म᳓र्त्या᳓न्त् सतो᳙ ऽमृतयोनेः᳓ प्र᳓जनयत्य् अ᳓प ह वै᳓ पित्क़्णां᳓ पुनर्मृत्युं᳓ जयति ना᳙स्मा᳓द् यज्ञो᳓ व्य᳓वछिद्यते य᳓ एव᳓म् एत᳓द् वे᳓द य᳓स्य वैवं᳓ विदु᳓ष एत᳓त् क᳓र्म क्रिय᳓ते ॥॥

१३

विश्वास-प्रस्तुतिः

तद्य᳘देता᳘वग्नी᳘ ऽआहवनी᳘याद्विह्रिये᳘ते॥
ते᳘नाहवनी᳘याव᳘थ य᳘दाहवनी᳘यम्पु᳘न᳘र्म्माश्नुवा᳘ते तेना᳘नाहवनीयौ ते᳘नोभौ हो᳘मा ऽउ᳘पाप्नोति य᳘श्चाहवनी᳘ये यश्चा᳘नाहवनीये य᳘च्च हुतं यच्चा᳘हुतम्पु᳘नर्हाय᳘मि᳘त्त्वोवाच न त᳘दस्ति यत्सृ᳘ञ्जयानाᳫँ᳭ राष्ट्रं᳘ दुष्ट᳘रीतोस्त᳘दद्य त᳘था ऽय᳘ञ्चाक्र᳘ स्थप᳘तिर्य्य᳘ज्ञे ऽकरिति[[!!]]॥

मूलम् - श्रीधरादि

तद्य᳘देता᳘वग्नी᳘ ऽआहवनी᳘याद्विह्रिये᳘ते॥
ते᳘नाहवनी᳘याव᳘थ य᳘दाहवनी᳘यम्पु᳘न᳘र्म्माश्नुवा᳘ते तेना᳘नाहवनीयौ ते᳘नोभौ हो᳘मा ऽउ᳘पाप्नोति य᳘श्चाहवनी᳘ये यश्चा᳘नाहवनीये य᳘च्च हुतं यच्चा᳘हुतम्पु᳘नर्हाय᳘मि᳘त्त्वोवाच न त᳘दस्ति यत्सृ᳘ञ्जयानाᳫँ᳭ राष्ट्रं᳘ दुष्ट᳘रीतोस्त᳘दद्य त᳘था ऽय᳘ञ्चाक्र᳘ स्थप᳘तिर्य्य᳘ज्ञे ऽकरिति[[!!]]॥

मूलम् - Weber

तद्य᳘देता᳘वग्नी᳘ऽआहवनी᳘याद्विह्रिये᳘ते ॥
ते᳘नाहवनी᳘याव᳘थ य᳘दाहवनी᳘यं पु᳘नॗर्नाश्नुवा᳘ते तेना᳘नाहवनीयौ ते᳘नोभौ हो᳘माऽउ᳘पाप्नोति य᳘श्चाहवनी᳘ये यश्चा᳘नाहवनीये य᳘च्च हुतं यच्चा᳘हुतम् पु᳘नर्हाय᳘मिॗत्वोवाच न त᳘दस्ति यत्सृ᳘ञ्जयानाᳫं राष्ट्रं᳘ दुष्ट᳘रीतोस्त᳘दद्य त᳘थायं᳘ चाक्र᳘ स्थप᳘तिर्यॗज्ञेऽकरि᳟ति ॥

मूलम् - विस्वरम्

तद्यदेतावग्नी आहवनीयात् विह्रियेते । तेनाहवनीयौ । अथ यदाहवनीयं पुनर्नाश्नुवाते । तेनानाहवनीयौ । तेनोभौ होमा उपाप्नोति । यश्चाहवनीये । यश्चानाहवनीये । यच्च हुतम् । यच्चाहुतम् । पुनर्हायमित्वोवाच । न तदस्ति यत् सृंजयानां राष्ट्रम् । दुष्टरीतोस्तत् । अद्य तथा ऽयं चाक्रस्थपतिर्यज्ञे ऽकरिति ॥ १३॥

हरिस्वामी

पुनर्हायमित्वोवाचेति । बह्लिकः चाक्रस्थपतिवृत्तांतमाचष्टे- बल्हिकः स्वगृहमागत्योवाच । न तदस्ति यदस्माभिः समीहितम् । सृंजयानां राज्यमिति शेषः । कथं प्रसन्ना अस्ति । अत आह यत् सृंजयानां राष्ट्रमिति । दुष्टरीतोस्तत् कथं दुष्टरीतोर्जातम् । इत्यत आह- अद्य तथा अयं चाक्रः स्थपतिर्यज्ञं कृतवान् । (आहवनीयप्रयभयोग्नौ सौत्रामणीनां तद्द्वितीत्यभिप्रायः ?) ॥ १३ ॥ १४ ॥

Eggeling
  1. Now, inasmuch as these two fires are taken from the Āhavanīya, they are Āhavanīyas (offering-fires), and inasmuch as they do not again reach the Āhavanīya, they are not Āhavanīyas: he thereby obtains both kinds of oblations, that -which is (offered) on the Āhavanīya, and that which is (offered) on what is not an Āhavanīya–both what is offered and what is not offered.

He (Balhika Prātipīya) then went home, and said, ‘It is not so (as we had thought): that kingdom of the Sr̥ñjayas now belongs to Dushṭarītu;–in. such and such a manner has that Cākra Sthapati this day performed at the sacrifice.’

मूलम् - Makoto

त᳓द् य᳓द् एता᳓व् अग्नी᳓ आ᳓हवनी᳓या᳓द् विह्रिये᳓ते ।॥
ते᳓ना᳓हवनी᳓या᳓व् अ᳓थ य᳓द् आ᳓हवनी᳓यं पु᳓नर् ना᳙श्नुवा᳓ते ते᳓ना᳓ना᳓हवनीयौ ते᳓नोभौ᳓ हो᳓मा᳓ उ᳓पा᳓प्नोति य᳓श् चा᳓हवनी᳓ये य᳓श्चा᳓ना᳓हवनीये य᳓च् च हुतं᳓ य᳓च् चा᳓हुतम् पु᳓नर् हा᳓य᳓म् इत्वो᳙वा᳓च न᳓ त᳓द् अस्मि य᳓त् सृ᳓ञ्जया᳓नाँ᳓ रा᳓ष्ट्रं᳓ दुष्ट᳓रीतोस् त᳓द् अद्य᳓ त᳓था᳓यं᳓ चा᳓क्र᳓ स्थप᳓तिर् यज्ञे᳙ ऽकर् इ᳓ति ॥॥

१४

विश्वास-प्रस्तुतिः

(त्यु᳘) उ᳘त्तरे ऽग्नौ᳘ पशु᳘भिः पुरोडा᳘शैः पयोग्ग्रहैरि᳘ति चरन्ति॥
य᳘दु चान्यत्ते᳘न देवा᳘नेव त᳘द्देवलोके᳘ प्प्रीणाति त᳘ ऽएनम्प्रीताः᳘ प्प्रीणन्त्य᳘थो देवलोक᳘मेव᳘ जयति॥

मूलम् - श्रीधरादि

(त्यु᳘) उ᳘त्तरे ऽग्नौ᳘ पशु᳘भिः पुरोडा᳘शैः पयोग्ग्रहैरि᳘ति चरन्ति॥
य᳘दु चान्यत्ते᳘न देवा᳘नेव त᳘द्देवलोके᳘ प्प्रीणाति त᳘ ऽएनम्प्रीताः᳘ प्प्रीणन्त्य᳘थो देवलोक᳘मेव᳘ जयति॥

मूलम् - Weber

उ᳘त्तरेऽग्नौ᳘ पशु᳘भिः पुरोडा᳘शैः पयोग्रहैरि᳘ति चरन्ति ॥
य᳘दु चान्यत्ते᳘न देवा᳘नेव त᳘द्देवलोके᳘ प्रीणाति त᳘ऽएनं प्रीताः᳘ प्रीणन्त्य᳘थो देवलोक᳘मेव᳘ जयति ॥

मूलम् - विस्वरम्

उत्तरे ऽग्नौ पशुभिः पुरोडाशैः पयोग्रहैरिति चरन्ति । यदु चान्यत् । तेन देवानेव तद्देवलोके प्रीणाति । त एनं प्रीताः प्रीणन्ति । अथो देवलोकमेव जयति ॥ १४ ॥

हरिस्वामी

[व्याख्यानं त्रयोदशे]

Eggeling
  1. On the northern fire they thus perform the rites of the sacrificial animals, the (animal) cakes, and ṭḥe cups of milk, and what other (rite) there is: it is the gods, in the world of the gods, he thereby gratifies, and, thus gratified, they gratify him, and he wins the world of the gods.
मूलम् - Makoto

उ᳓त्तरे ऽग्नौ᳓ पशु᳓भिः पुरोडा᳓शैः पयोग्रहै᳓र् इ᳓ति चरन्ति ।॥
य᳓द् उ चा᳓न्य᳓त् ते᳓न देवा᳓न् एव᳓ त᳓द् देवलोके᳓ प्रीणा᳓ति त᳓ एनं प्रीताः᳓ प्रीणत्य् अ᳓थो देवलोक᳓म् एव᳓ जयति ॥॥

१५

विश्वास-प्रस्तुतिः

द᳘क्षिणे ऽग्ग्नौ᳘ सुराग्ग्रहा᳘ञ्जुह्वति॥
द᳘क्षिणे ऽग्ग्नौ᳘ पावयन्ति पवि᳘त्राभिस्त्रिषंयुक्ता᳘भिः पितॄ᳘नेव त᳘त्पितृलोके᳘ प्प्रीणाति त᳘ ऽएनम्प्रीताः᳘ प्प्रीणन्त्य᳘थो पितृलोक᳘मेव᳘ जयति॥

मूलम् - श्रीधरादि

द᳘क्षिणे ऽग्ग्नौ᳘ सुराग्ग्रहा᳘ञ्जुह्वति॥
द᳘क्षिणे ऽग्ग्नौ᳘ पावयन्ति पवि᳘त्राभिस्त्रिषंयुक्ता᳘भिः पितॄ᳘नेव त᳘त्पितृलोके᳘ प्प्रीणाति त᳘ ऽएनम्प्रीताः᳘ प्प्रीणन्त्य᳘थो पितृलोक᳘मेव᳘ जयति॥

मूलम् - Weber

द᳘क्षिणेऽग्नौ᳘ सुराग्रहा᳘न्जुह्वति ॥
द᳘क्षिणेऽग्नौ᳘ पावयन्ति पवि᳘त्राभिस्त्रिषंयुक्ता᳘भिः पितॄ᳘नेव त᳘त्पितृलोके᳘ प्रीणाति त᳘ऽएनं प्रीताः᳘ प्रीणन्त्य᳘थो पितृलोक᳘मेव᳘ जयति ॥

मूलम् - विस्वरम्

दक्षिणे ऽग्नौ सुराग्रहान् जुह्वति । दक्षिणे ऽग्नौ पावयन्ति पवित्राभिस्त्रिषंयुक्ताभिः । पितॄनेव तत्पितृलोके प्रीणाति । त एनं प्रीताः प्रीणन्ति । अथो पितृलोकमेव जयति ॥ १५ ॥

हरिस्वामी

दक्षिणे ऽग्नौ यावंति सुरानुकारेण यजमानपवित्राणि । तिस्रस्तिस्रः संयुक्तास्तिस्रः ऋचः ताभिः पावयंति ॥ १५ ॥

Eggeling
  1. In the southern fire they offer (libations from) the cups of Surā-liquor, near the southern fire they purify (the liquor) with triple strainers: it is the Fathers, in the world of the Fathers, he thereby gratifies, and, thus gratified, they gratify him, and he wins the world of the Fathers.
मूलम् - Makoto

द᳓क्षिणे ऽग्नौ᳓ सुरा᳓ग्रहा᳓न् जुह्वति ।॥
द᳓क्षिणे ऽग्नौ᳓ पा᳓वयन्ति पवि᳓त्रा᳓भिस् त्रिषंयुक्ता᳓भिः पित्क़्;न् एव᳓ त᳓त् पितृलोके᳓ प्रीणा᳓ति त᳓ एनं प्रीताः᳓ प्रीणन्त्य् अ᳓थो पितृलोक᳓म् एव᳓ जयति ॥॥

१६

विश्वास-प्रस्तुतिः

स वा᳘ ऽएष᳘ ऽआ᳘त्मैव य᳘त्सौत्रामणी[[!!]]॥
त᳘स्मात्सा नि᳘रुक्ता नि᳘रुक्तो᳘ ह्यात्मा᳘ लोको᳘ व्वयोधास्त᳘स्मात्सो᳘ ऽनिरुक्तो᳘ ऽनिरुक्तो हि᳘ लोक᳘ ऽआत्मा वै᳘ यज्ञ᳘स्य सौत्रामणी᳘ बाहू᳘ ऽऐन्द्र᳘श्च व्वयोधा᳘श्च तद्य᳘देता᳘वभि᳘तः पशू᳘ भ᳘वतस्त᳘स्मादिमा᳘वात्मा᳘नमभि᳘तो बाहू[[!!]] य᳘थो वै᳘ पशु᳘रेवं[[!!]] यू᳘पस्तद्य᳘देतᳫँ᳭ सौ᳘त्रामणिकं यू᳘पमेतौ यू᳘पावभि᳘तो भ᳘वतस्त᳘स्माद्विमा᳘वात्मा᳘नमभि᳘तो बाहू[[!!]]॥

मूलम् - श्रीधरादि

स वा᳘ ऽएष᳘ ऽआ᳘त्मैव य᳘त्सौत्रामणी[[!!]]॥
त᳘स्मात्सा नि᳘रुक्ता नि᳘रुक्तो᳘ ह्यात्मा᳘ लोको᳘ व्वयोधास्त᳘स्मात्सो᳘ ऽनिरुक्तो᳘ ऽनिरुक्तो हि᳘ लोक᳘ ऽआत्मा वै᳘ यज्ञ᳘स्य सौत्रामणी᳘ बाहू᳘ ऽऐन्द्र᳘श्च व्वयोधा᳘श्च तद्य᳘देता᳘वभि᳘तः पशू᳘ भ᳘वतस्त᳘स्मादिमा᳘वात्मा᳘नमभि᳘तो बाहू[[!!]] य᳘थो वै᳘ पशु᳘रेवं[[!!]] यू᳘पस्तद्य᳘देतᳫँ᳭ सौ᳘त्रामणिकं यू᳘पमेतौ यू᳘पावभि᳘तो भ᳘वतस्त᳘स्माद्विमा᳘वात्मा᳘नमभि᳘तो बाहू[[!!]]॥

मूलम् - Weber

स वा᳘ऽएष᳘ आॗत्मैव य᳘त्सौत्रामणी᳟ ॥
त᳘स्मात्सा नि᳘रुक्ता नि᳘रुक्तोॗ ह्यात्मा᳘ लोको᳘ वयोधास्त᳘स्मात्सो᳘ऽनिरुक्तो᳘ऽनिरुक्तो हि᳘ लोक᳘ आत्मा वै᳘ यज्ञ᳘स्य सौत्रामणी᳘ बाहू᳘ऽऐन्द्र᳘श्च वयोधा᳘श्च तद्य᳘देता᳘वभि᳘तः पशू᳘ भ᳘वतस्त᳘स्मादिमा᳘वात्मा᳘नमभि᳘तो बा᳘हू य᳘थो वै᳘ पशु᳘रेवं᳘ यू᳘पस्तद्य᳘देतᳫं सौ᳘त्रामणिकं यू᳘पमेतौ यू᳘पावभि᳘तो भ᳘वतस्त᳘स्माद्विमा᳘वात्मा᳘नमभि᳘तो बाहू᳘ ॥ ५ [९.३.] ॥ चतुर्थः प्रपाठकः ॥ कण्डिकासंख्या ११२ ॥ नवमोऽध्यायः [८३.] ॥ ॥ अस्मिन्काण्डे कण्डिकासंख्या ४५९ ॥ ॥
इति माध्यन्दिनीये शतपथब्राह्मणे मध्यमनाम द्वादशं काण्डᳫं समाप्तम् ॥ १२ ॥

मूलम् - विस्वरम्

स वा एष आत्मैव । यत्सौत्रामणी । तस्मात् सा निरुक्ता । निरुक्तो ह्यात्मा । लोको वयोधाः । तस्मात् सो ऽनिरुक्तः । अनिरुक्तो हि लोकः । आत्मा 9 वै यज्ञस्य यत्सौत्रामणी । बाहू ऐन्द्रश्च वयोधाश्च । तद्यदेतावभितः पशू भवतः । तस्मादिमावात्मानमभितो बाहू । यथा उ वै पशुः । एवं यूपः । तद्यदेतं 10 सौत्रामणिकं यूपमेतौ यूपावभितो भवतः । तस्मादिमावात्मानमभितो बाहू ॥ १६ ॥

हरिस्वामी

‘स वै’ । आत्मा यजमान एव । या सौत्रामणी त्रिपशुः । तस्मात्सा ऽनिरुक्ता उच्चैर्धार्मिका । निरुक्तो हि स्पष्टप्रकाशो यजमानः । (प्रामियकर्महिते वयोधा वायोधीयो पशुः । तस्माल्लोकवायोदनघासः ?) । अनिरुक्तः उपांशुधर्मकः । अनिरुक्तो हि स्वर्लोकः । किंच । (लागनगमाः ?) । आत्मा शरीरं वै यज्ञस्य सौत्रामणी । (विपस्वः ?) । बाहू ऐंद्रश्च पशुवयोधाश्च (स्वौति तद्धितलोपः ?) । एष एव ऐंद्रवायोधसयोर्वितद्यदेतौ पशुसौत्रामणी सुहितः कालतो देशतश्च भवतः । तस्मादिमौ शरीरमभितो बाहू । यथा च पशुस्तथैव एतौ भवतः ॥ १६ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकांडे नवमे ऽध्याये तृतीयं ब्राह्मणम् ॥ (१२ । ९ । ३) ॥

नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन्हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥ १ ॥

श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥ २ ॥

भूभर्त्रा विक्रमार्केण क्लृप्तां कनकवेदिकाम् । दानायाध्यास्य कृतवान् श्रुत्यर्थविवृतिं हरिः ॥ ३ ॥

इति श्रीसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीनां श्रीहरिस्वामिनां कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे नवमो ऽध्यायः समाप्तः ॥ १२-९ ॥

**इति शतपथब्राह्मणस्य परिशेषाख्ये भागे सौत्रामण्यपरनामकं मध्यमं नाम द्वादशं काण्डं समाप्तम् ॥ १२ ॥

Eggeling
  1. Verily, the Sautrāmaṇī is the same as the

body, whence it is (clearly) defined, for defined is the body. And (Indra) Vayodhas (the bestower of strength), is the world, whence he is undefined 11, for undefined is the world. The Sautrāmaṇī is the body (trunk), and the Aindra (victim) and (the one to) Vayodhas 12 are the two arms; and inasmuch as there are those two animal offerings on both sides (of the Sautrāmaṇī), therefore these two arms are on both sides of the body. And as the sacrificial animal, so the sacrificial stake; and inasmuch as there are those two stakes on both sides of the stake of the Sautrāmaṇī (bull of Indra), therefore these two arms are on both sides of the body 13.

मूलम् - Makoto

स᳓ वा᳓ एष᳓ आ᳓त्मै᳙व᳓ य᳓त् सौत्रा᳓मणी᳓ ।॥
त᳓स्मा᳓त् सा᳓ नि᳓रुक्ता᳓ नि᳓रुक्तो ह्य् आ᳙त्मा᳓ लोको᳓ वयोधा᳓स् त᳓स्मा᳓त् सो᳓ ऽनिरुक्तो᳓ ऽनिरुक्तो हि᳓ लोक᳓ आ᳓त्मा᳓ वै᳓ यज्ञ᳓स्य सौत्रा᳓मणी᳓ बा᳓हू᳓ ऐन्द्र᳓श् च वयोधा᳓श् च त᳓द् य᳓द् एता᳓व् अभि᳓तः पशू᳓ भ᳓वतस् त᳓स्मा᳓द् इमा᳓व् आ᳓त्मा᳓नम् अभि᳓तो बा᳓हू᳓ य᳓थो वै᳓ पशु᳓र् एवं᳓ यू᳓पस् त᳓द् य᳓द् एतँ᳓ सौ᳓त्रा᳓मणिकं यू᳓पम् एतौ᳓ यू᳓पा᳓व् अभि᳓तो भ᳓वतस् त᳓स्मा᳓द् व् इमा᳓व् आ᳓त्मा᳓नम् अभि᳓तो बा᳓हू᳓ ॥॥


  1. मध्ये यूपः दक्षिणोत्तरावैन्द्रवायोधसयोः । का. श्रौ. सू. १९ । ५९ । ↩︎

  2. ऐन्द्रः पशुः । चरुपश्वोर्विपर्यासमेके । (चरुरादित्यः) का. श्रौ. सू. १९ । १६-१७ । ↩︎

  3. तदन्त पशुरिन्द्राय वयोधसे । (तच्छब्देन पयस्यायाः परामर्शः) का. श्रौ. सू. १९ । १३० । ↩︎

  4. कोरव्यो A. ↩︎

  5. 270:1 Probably inasmuch as the cups of milk are offered there previously. ↩︎

  6. 270:2 For this jarful of consecrated water, used at the sacrifice, see part i, pp. 9, note; 265. ↩︎

  7. 271:1 On the ceremony called ‘paryagnikaraṇam,’ see part i, p. 145, note; part ii, p. 187, note. ↩︎

  8. 271:2 See p. 225, note 1. Properly speaking, the two fires of the two special Vedis are in front (or, rather, north-east and south-east) of the Āhavanīya. ↩︎

  9. सौत्रामणीति कर्मनामधेयम् । तच्च त्रिपशोरेव । नेन्द्रवायोधसपश्वोः प्रयोजनम् । त्रिपशोरेवांतराये प्रयोक्तृत्वमिति कर्कः या तु उभय वै सौत्रामणीष्टिश्च पशुबन्धश्चेति लिंगश्रुतिः । सा इतरेषामंगत्वे ऽपि संभवत्येव । यद्वा पयोग्रहसुराग्रहसंबंधेनोभयरूपा सौत्रामणीति कर्कः । यत्तु- सौत्रामण्यामिष्टिपशवो भिन्नतन्त्राः कालभेदादित्याचार्यप्रस्थानं तत्तु प्रकरणांतरोपलक्षणार्थमिति कर्कः । का. श्रौ. सू. १९ । १ । इत्यत्र भाष्ये । ↩︎

  10. आश्विनो ऽजो धूम्रः सारस्वतो मेष ऐन्द्र ऋषभः मध्ये यूपो दक्षिणोत्तरावैन्द्रवायोधसयोः । का. श्रौ. सू. १९ । ५९ । ↩︎

  11. 273:1 The term ‘vayodhas’ is said to be undefined inasmuch as, though it is meant to apply to Indra, the name of this god is not mentioned along with it in the formulas. ↩︎

  12. 273:2 During the performance of the Sautrāmaṇī proper (on the fourth day) three victims are immolated, a he-goat to the Aśvins, a ram to Sarasvatī, and another bull to Indra. But at the beginning of the whole performance–either before or after the first pap to Aditi (cf. XII, 9, 2, 11)–a bull is sacrificed to Indra; and at the end–after the second pap to Aditi and the dish of curds to Mitra and Varuṇa (see p. 252, note 4 )–another animal sacrifice is performed to Indra Vayodhas. The sacrificial stakes for the first and last of the three victims sacred to Indra, are to be placed north and south of that of Indra’s second bull, the one sacrificed as part of the Sautrāmaṇī proper. ↩︎

  13. 273:3 The object of identifying different ceremonial acts and features with certain parts of the body is of course to impress upon the mind of the Sacrificer the efficacy of the Sautrāmaṇī in securing to him a new, complete body for the other life. ↩︎