०१

विश्वास-प्रस्तुतिः

एत᳘स्माद्वै᳘ यज्ञात्पु᳘रुषो जायते॥
स य᳘द्ध वा᳘ ऽअस्मिं᳘ल्लोके पु᳘रुषो᳘ ऽन्नम᳘त्ति त᳘देनममु᳘ष्मिंल्लोके प्प्र᳘त्यत्ति स वा᳘ ऽएष᳘ परिस्रु᳘तो यज्ञ᳘स्तायते ऽन्नाद्या वै᳘ ब्राह्मणे᳘न परिस्रुत्स᳘ ऽएत᳘स्मादन्नाद्या᳘ज्जायते त᳘ᳫँ᳘ हामु᳘ष्मिंल्लोके᳘ ऽन्नं न प्र᳘त्यत्ति त᳘स्मादेष᳘ ब्राह्मणयज्ञ᳘ ऽएव य᳘त्सौत्रामणी[[!!]]॥

मूलम् - श्रीधरादि

एत᳘स्माद्वै᳘ यज्ञात्पु᳘रुषो जायते॥
स य᳘द्ध वा᳘ ऽअस्मिं᳘ल्लोके पु᳘रुषो᳘ ऽन्नम᳘त्ति त᳘देनममु᳘ष्मिंल्लोके प्प्र᳘त्यत्ति स वा᳘ ऽएष᳘ परिस्रु᳘तो यज्ञ᳘स्तायते ऽन्नाद्या वै᳘ ब्राह्मणे᳘न परिस्रुत्स᳘ ऽएत᳘स्मादन्नाद्या᳘ज्जायते त᳘ᳫँ᳘ हामु᳘ष्मिंल्लोके᳘ ऽन्नं न प्र᳘त्यत्ति त᳘स्मादेष᳘ ब्राह्मणयज्ञ᳘ ऽएव य᳘त्सौत्रामणी[[!!]]॥

मूलम् - Weber

एत᳘स्माद्वै᳘ यज्ञात्पु᳘रुषो जायते ॥
स य᳘द्ध वा᳘ऽअस्मिं᳘लोके पु᳘रुषो᳘ऽन्नम᳘त्ति त᳘देनममु᳘ष्मिंलोके प्र᳘त्यत्ति स वा᳘ऽएष᳘ परिस्रु᳘तो यज्ञ᳘स्तायतेऽनाद्या वै᳘ ब्राह्मणे᳘न परिस्रुत्स᳘ एत᳘स्मादनाद्या᳘ज्जायते त᳘ᳫं᳘ हामु᳘ष्मिंलोके᳘ऽन्नं न प्र᳘त्यत्ति त᳘स्मादेष᳘ ब्राह्मणयज्ञ᳘ एव य᳘त्सौत्रामणी᳟ ॥

मूलम् - विस्वरम्

अथ सौत्रामणीयज्ञात्पुरुषोत्पत्तिः ।

एतस्मात् वै यज्ञात् पुरुषो जायते । स यत् ह वा अस्मिन् लोके पुरुषो ऽन्नमत्ति । तदेनममुष्मिन् लोके प्रत्यत्ति । स वा एष परिस्रुतो यज्ञस्तायते । अन्नाद्या वै ब्राह्मणेन परिस्रुत् । स एतस्मादन्नाद्यात् जायते । तं हामुष्मिन्लोके ऽन्नं न प्रत्यत्ति । तस्मादेव ब्राह्मणयज्ञ एव । यत्सौत्रामणी ॥ १ ॥

हरिस्वामी

‘एतस्माद्वा’ । प्रकृतात्सौत्रामणीयज्ञात् पुरुषो यजमानो जायत इत्युपन्यासः । स वा एष परिस्रुतो यज्ञस्तायते । स 1 वा एष ब्राह्मणस्यैव क्रतुर्यज्ञो यत्सौत्रामणीति कर्तुर्नियमः “दुष्टरीतुर्ह पासायनो 2 दशपुरुषं राज्यादपरुद्ध आस स हि एतेन यजेत" (श. प. १२ । ९ । ३ । १) इत्यनेन वक्ष्यमाणेन इतिहासेन अपरुद्धस्य राज्ञो ऽयं भविष्यति । सोमयाजिनां त्रयाणामपि वर्णानां भविष्यति । ब्राह्मणस्य नियमेन । काम्ये तु योगानुबंधात् । निधनविशेषस्य प्रयोगे ऽपि दर्शनात् ॥ १ ॥

Eggeling
  1. Verily, from this sacrifice the man 3 is born

and whatever food a man consumes in this world, that (food), in return, consumes him in yonder world. Now this sacrifice is performed by means of spirituous liquor, and spirituous liquor (parisrut) is not to be consumed by a Brāhmaṇa: he thus is born from that which is not (to be) consumed, and the food does not, in return, consume him in yonder world. Therefore this (sacrifice), the Sautrāmaṇī, is a Brāhmaṇa’s sacrifice 4.

मूलम् - Makoto

एत᳓स्मा᳓द् वै᳓ यज्ञा᳓त् पु᳓रुषो जा᳓यते ।॥
स᳓ य᳓द् ध वा᳓ अस्मिं᳓ लोके᳓ पु᳓रुषो᳓ ऽन्नम् अ᳓त्ति त᳓द् एनम् अमु᳓ष्मिं लोके᳓ प्र᳓त्यत्ति स᳓ वा᳓ एष᳓ परिस्रु᳓तो यज्ञ᳓स् ता᳓यते ऽना᳓द्या᳓ वै᳓ ब्रा᳓ह्मणे᳓न परिस्रु᳓त् स᳓ एत᳓स्मा᳓द् अना᳓द्या᳓ज् जा᳓यते तँ᳓ हा᳓मु᳓ष्मिं लोके᳓ ऽन्नं न᳓ प्र᳓त्यत्ति त᳓स्मा᳓द् एष᳓ ब्रा᳓ह्मणयज्ञ᳓ एव᳓ य᳓त् सौत्रा᳓मणी᳓ ॥॥

०२

विश्वास-प्रस्तुतिः

त᳘स्य लो᳘मान्येव श᳘ष्पाणि॥
त्वक्तो᳘क्मानि माᳫँ᳭सं᳘ लाजा ऽअ᳘स्थि कारोतरो᳘ मज्जा मा᳘सरᳫँ᳭ र᳘सः परिस्रु᳘न्नग्न᳘हुर्ल्लो᳘हितᳫँ᳭ रे᳘तः प᳘यो मू᳘त्रᳫँ᳭ सुरो᳘वध्यं ब᳘ल्कसम्॥

मूलम् - श्रीधरादि

त᳘स्य लो᳘मान्येव श᳘ष्पाणि॥
त्वक्तो᳘क्मानि माᳫँ᳭सं᳘ लाजा ऽअ᳘स्थि कारोतरो᳘ मज्जा मा᳘सरᳫँ᳭ र᳘सः परिस्रु᳘न्नग्न᳘हुर्ल्लो᳘हितᳫँ᳭ रे᳘तः प᳘यो मू᳘त्रᳫँ᳭ सुरो᳘वध्यं ब᳘ल्कसम्॥

मूलम् - Weber

त᳘स्य लो᳘मान्येव श᳘ष्पाणि ॥
त्वक्तो᳘क्मानि माᳫंसं᳘ लाजा अ᳘स्थि कारोतरो᳘ मज्जा मा᳘सरᳫं र᳘सः परिस्रुन्नग्न᳘हुर्लो᳘हितᳫं रे᳘तः प᳘यो मू᳘त्रᳫं सुरो᳘वध्यं ब᳘ल्कसम् ॥

मूलम् - विस्वरम्

तस्य लोमान्येव शष्पाणि । त्वक् तोक्मानि । मांसं लाजाः । अस्थि कारोतरः । मज्जा मासरम् । रसः परिस्रुत् । नग्नहुर्लोहितम् । रेतः पयः । मूत्रं सुरा । ऊवध्यं बल्कसम् ॥ २ ॥

हरिस्वामी

तस्य 1 लोमान्येव शष्पाणि । आत्मकलासु यज्ञकलान्यासः । कारोतरः सच्छिद्रं पात्रम् । परिस्रुतः सुरायाः पात्रमेकम् । व्रीहिश्यामाकौदनयोः पृथगाचामौ निषिच्य चूर्णैः संसृज्य निदधाति तन्मासरम् । यस्तु श्लेष्मणो रसः । स परिस्रुत् । ऊवध्यं भक्षितमपरिणतमामाशयस्थमन्नम् । हृदयं सुषिरावंसमीपम् । यकृत् कालेयम् । क्लोमा लोहितावारः । मतस्ने वृक्कौ वर्तुलौ । पित्तं नैयग्रोधं पात्रम् । प्लाशिः प्राधारके उपस्थादिकम् । शतातृण्णा च । तस्यां छिद्रकं सुण्यावनम् ॥ २-४ ॥

Eggeling
  1. The malted rice is the same as his (the man’s) hair, the malted barley his skin, the fried rice his flesh, the filtering-cloth his bones, the mash his marrow, the raw liquor (parisrut) his life-sap (serum), the seasoning (and fermentative substances) his blood, the milk his seed, the mature liquor (surā) his urine, and the impure matter the contents of the stomach.
मूलम् - Makoto

त᳓स्य लो᳓मा᳓न्य् एव᳓ श᳓ष्पा᳓णि ।॥
त्व᳓क् तो᳓क्मा᳓नि माँ᳓सं᳓ ला᳓जा᳓ अ᳓स्थि का᳓रोतरो᳓ मज्जा᳓ मा᳓सरँ र᳓सः परिस्रु᳓न् नग्न᳓हुर् लो᳓हितँ रे᳓तः प᳓यो मू᳓त्रँ सुरो᳓वध्यं ब᳓ल्कसम् ॥॥

०३

विश्वास-प्रस्तुतिः

(ᳫँ᳭) हृ᳘दयमे᳘वास्यैन्द्रः᳘ पुरोडा᳘शः॥
(शो) य᳘कृत्सावित्रः᳘ क्लोमा᳘ व्वारुणो म᳘तस्ने ऽए᳘वास्या᳘श्वत्थञ्च पा᳘त्रमौ᳘दुम्बरञ्च पित्तन्नै᳘य्यग्रोधमान्त्रा᳘णि स्था᳘ल्यो गु᳘दा ऽउपशया᳘नि श्येनपत्रे᳘ प्ली᳘हा ऽऽसन्दी ना᳘भिः कुम्भो᳘ व्वनिष्ठुः᳘ प्लाशिः᳘ शता᳘तृण्णा तद्यत्सा᳘ बहुधा व्वि᳘तृण्णा भ᳘वति त᳘स्मात्प्लाशि᳘र्बहुधा व्वि᳘कृतो मु᳘खᳫँ᳭ स᳘तं जिह्वा᳘ पवि᳘त्रञ्च᳘प्पम्पायु᳘र्बस्तिर्व्वालः॥

मूलम् - श्रीधरादि

(ᳫँ᳭) हृ᳘दयमे᳘वास्यैन्द्रः᳘ पुरोडा᳘शः॥
(शो) य᳘कृत्सावित्रः᳘ क्लोमा᳘ व्वारुणो म᳘तस्ने ऽए᳘वास्या᳘श्वत्थञ्च पा᳘त्रमौ᳘दुम्बरञ्च पित्तन्नै᳘य्यग्रोधमान्त्रा᳘णि स्था᳘ल्यो गु᳘दा ऽउपशया᳘नि श्येनपत्रे᳘ प्ली᳘हा ऽऽसन्दी ना᳘भिः कुम्भो᳘ व्वनिष्ठुः᳘ प्लाशिः᳘ शता᳘तृण्णा तद्यत्सा᳘ बहुधा व्वि᳘तृण्णा भ᳘वति त᳘स्मात्प्लाशि᳘र्बहुधा व्वि᳘कृतो मु᳘खᳫँ᳭ स᳘तं जिह्वा᳘ पवि᳘त्रञ्च᳘प्पम्पायु᳘र्बस्तिर्व्वालः॥

मूलम् - Weber

हृ᳘दयमेॗवास्यैन्द्रः᳘ पुरोडा᳘शः ॥
य᳘कृत्सावित्रः᳘ क्लोमा᳘ वारुणो म᳘तस्नेऽएॗवास्या᳘श्वत्थं च पा᳘त्रमौ᳘दुम्बरं च पित्तं नै᳘यग्रोधमान्त्रा᳘णि स्था᳘ल्यो गु᳘दा उपशया᳘नि श्येनपत्त्रे᳘ प्लीॗहासन्दी ना᳘भिः कुम्भो᳘ वनिष्ठुः᳘ प्लाशिः᳘ शता᳘तृष्णा तद्यत्सा᳘ बहुधा वि᳘तृष्णा भ᳘वति त᳘स्मात्प्लाशि᳘र्बहुधा वि᳘कृत्तो मु᳘खᳫं स᳘तं जिह्वा᳘ पवि᳘त्रं च᳘प्यं पायु᳘र्वस्तिर्वा᳟लः ॥

मूलम् - विस्वरम्

हृदयमेवास्यैन्द्रः पुरोडाशः । यकृत् सावित्रः । क्लोमा वारुणः । मतस्ने एवास्याश्वत्थं च पात्रमौदुम्बरं च । पित्तं नैयग्रोधम् । आंत्राणि स्थाल्यः । गुदा उपशयानि । श्येनपत्रे प्लीहा । आसन्दी नाभिः । कुंभो वनिष्ठुः । प्लाशिः शतातृण्णा । तद्यत् सा बहुधा वितृण्णा भवति । तस्मात् प्लाशिर्बहुधा विकृता उ । मुखं सतम् । जिह्वा पवित्रम् । चप्पं पायुः । बस्तिर्वालः ॥ ३ ॥

हरिस्वामी

[व्याख्यानं द्वितीये]

Eggeling
  1. Indra’s cake is his heart, that of Savitr̥ his liver, that of Varuṇa his lung, the aśvattha and udumbara vessels his kidneys, the nyagrodha one his bile, the pan (sthālī) his intestines 5, the supernumerary (vessels) his bowels 5, the two eagle feathers 6 the milt, the throne-seat his navel, the pot his rectum, the (pan) perforated with a hundred holes, the male organ,–and inasmuch as that (pan) is much perforated, therefore that organ is much divided,–the bowl (sata) is his mouth, the strainer

his tongue, the dish (capya) his anus, the tail (whisk) his bladder,

मूलम् - Makoto

हृ᳓दयम् एवा᳙स्यैन्द्रः᳓ पुरोडा᳓शः ।॥
य᳓कृत् सा᳓वित्रः᳓ क्लोमा᳓ वा᳓रुणो᳓ म᳓तस्ने एवा᳙स्या᳓श्वत्थं च पा᳓त्रम् औ᳓दुम्बरं च पित्तं᳓ नै᳓यग्रोधम् आ᳓न्त्रा᳓णि स्था᳓ल्यो गु᳓दा᳓ उपशया᳓नि श्येनपत्त्रे᳓ प्लीहा᳙सन्दी᳓ ना᳓भिः कुम्भो᳓ वनिष्टुः᳓ प्ला᳓शिः᳓ शता᳓तृण्णा᳓ त᳓द् य᳓त् सा᳓ बहुधा᳓ वि᳓तृण्णा᳓ भ᳓वति त᳓स्मा᳓त् प्ला᳓शिर् बहुधा᳓ वि᳓कृत्तो मु᳓खँ स᳓तं जिह्वा᳓ पवि᳓त्रं च᳓प्यं पा᳓यु᳓र् वस्ति᳓र् वा᳓लः ॥॥

०४

विश्वास-प्रस्तुतिः

(लो᳘ ऽङ्गा) अ᳘ङ्गान्ये᳘वास्याश्विनः᳘ पशुः᳘॥
(रा) आत्मा᳘ सारस्वतो᳘ रूप᳘मैन्द्र᳘ ऽऋषभस्त᳘स्मादाहुर्ग्गा᳘वः पु᳘रुषस्य रूपमित्या᳘युर्हि᳘रण्यन्त᳘च्छत᳘मानम्भवति त᳘स्माच्छता᳘युः पु᳘रुषः॥

मूलम् - श्रीधरादि

(लो᳘ ऽङ्गा) अ᳘ङ्गान्ये᳘वास्याश्विनः᳘ पशुः᳘॥
(रा) आत्मा᳘ सारस्वतो᳘ रूप᳘मैन्द्र᳘ ऽऋषभस्त᳘स्मादाहुर्ग्गा᳘वः पु᳘रुषस्य रूपमित्या᳘युर्हि᳘रण्यन्त᳘च्छत᳘मानम्भवति त᳘स्माच्छता᳘युः पु᳘रुषः॥

मूलम् - Weber

अ᳘ङ्गान्येॗवास्याश्विनः᳘ पशुः᳟ ॥
आत्मा᳘ सारस्वतो᳘ रूप᳘मैन्द्र᳘ ऋषभस्त᳘स्मादाहुर्गा᳘वः पु᳘रुषस्य रूपमित्या᳘युर्हि᳘रण्यं त᳘छत᳘मानं भवति त᳘स्माछता᳘युः पु᳘रुषः ॥

मूलम् - विस्वरम्

अंगान्येवास्याश्विनः पशुः । आत्मा सारस्वतः । रूपमैन्द्र ऋषभः । तस्मादाहुर्गावः पुरुषस्य रूपमिति । आयुर्हिरण्यम् । तत् शतमानं भवति । तस्मात् शतायुः पुरुषः ॥ ४ ॥

हरिस्वामी

[व्याख्यानं द्वितीये]

Eggeling
  1. And the sacrificial animal of the Aśvins is his limbs, that of Sarasvatī his trunk, Indra’s bull his form,–whence they say that man’s form (wealth) is kine,–the gold (plate) is his vital strength; it is of the weight of a hundred (grains), whence mark has a life of a hundred (years).
मूलम् - Makoto

अ᳓ङ्गा᳓न्य् एवा᳙स्या᳓श्विनः᳓ पशुः᳓ ।॥
आ᳓त्मा᳓ सा᳓रस्वती᳓ रूप᳓म् ऐन्द्र᳓ ऋषभ᳓स् त᳓स्मा᳓द् आ᳓हुर् गा᳓वः पु᳓रुषस्य रूपम् इ᳓त्य् आ᳓युर् हि᳓रण्यं त᳓च् छत᳓मा᳓नं भवति त᳓स्मा᳓च् छता᳓युः पु᳓रुषः ॥॥

०५

विश्वास-प्रस्तुतिः

(श्च᳘) च᳘क्षुषी ऽए᳘वास्याश्विनौ ग्ग्र᳘हौ॥
प᳘क्ष्माणि गोधूमसक्त᳘वश्च कुवलसक्त᳘वश्च ना᳘सिके ऽए᳘वास्य सारस्वतौ ग्ग्र᳘हाव᳘थ या᳘नि ना᳘सिकयोर्ल्लोमानि ता᳘न्युपवाकसक्त᳘वश्च बदरसक्त᳘वश्च श्रो᳘त्रे ऽए᳘वास्यैन्द्रौ ग्ग्र᳘हाव᳘थ या᳘नि क᳘र्ण्णयोर्ल्लोमानि या᳘नि च भ्भ्रुवोस्ता᳘नि यवसक्त᳘वश्च कर्क्कन्धुसक्त᳘वश्च॥

मूलम् - श्रीधरादि

(श्च᳘) च᳘क्षुषी ऽए᳘वास्याश्विनौ ग्ग्र᳘हौ॥
प᳘क्ष्माणि गोधूमसक्त᳘वश्च कुवलसक्त᳘वश्च ना᳘सिके ऽए᳘वास्य सारस्वतौ ग्ग्र᳘हाव᳘थ या᳘नि ना᳘सिकयोर्ल्लोमानि ता᳘न्युपवाकसक्त᳘वश्च बदरसक्त᳘वश्च श्रो᳘त्रे ऽए᳘वास्यैन्द्रौ ग्ग्र᳘हाव᳘थ या᳘नि क᳘र्ण्णयोर्ल्लोमानि या᳘नि च भ्भ्रुवोस्ता᳘नि यवसक्त᳘वश्च कर्क्कन्धुसक्त᳘वश्च॥

मूलम् - Weber

च᳘क्षुषीऽएॗवास्याश्विनौ ग्र᳘हौ ॥
प᳘क्ष्माणि गोधूमसक्त᳘वश्च कुवलसक्त᳘वश्च ना᳘सिकेऽएॗवास्य सारस्वतौ ग्र᳘हाव᳘थ या᳘नि ना᳘सिकयोर्लो᳘मानि ता᳘न्युपवाकसक्त᳘वश्च बदरसक्त᳘वश्च श्रो᳘त्रेऽएॗवास्यैन्द्रौ ग्र᳘हाव᳘थ या᳘नि क᳘र्णयोर्लो᳘मानि या᳘नि च भ्रु᳘वोस्ता᳘नि यवसक्त᳘वश्च कर्कन्धुसक्त᳘वश्च ॥

मूलम् - विस्वरम्

चक्षुषी एवास्याश्विनौ ग्रहौ । पक्ष्माणि गोधूमसक्तवश्च कुवलसक्तवश्च । नासिके एवास्य सारस्वतौ ग्रहौ । अथ यानि नासिकयोर्लोमानि तान्युपवाकसक्तवश्च बदरसक्तवश्च । श्रोत्रे एवास्यैन्द्रौ ग्रहौ । अथ यानि कर्णयोर्लोमानि । यानि च भ्रुवोः । तानि यवसक्तवश्च कर्कन्धुसक्तवश्च ॥ ५ ॥

हरिस्वामी

पक्ष्माणि अक्षिलोमानि ॥ ५-१० ॥

Eggeling
  1. The two cups of the Aśvins are his eyes, and the ground wheat and kuvala (jujubes) his eyelashes; the two cups of Sarasvatī are his nostrils, and the ground Indra-grain and badara (jujubes) the hair in his nostrils; the two cups of Indra are his ears, and the ground barley and karkandhu (jujubes) the hair of his ears and his eyebrows.
मूलम् - Makoto

च᳓क्षुषी एवा᳙स्या᳓श्विनौ᳓ ग्र᳓हौ ।॥
प᳓क्ष्मा᳓णि गोधूमसक्त᳓वश् च कुवलसक्त᳓वश् च ना᳓सिके एवा᳙स्य सा᳓रस्वतौ᳓ ग्र᳓हा᳓व् अ᳓थ या᳓नि ना᳓सिकयोर् लो᳓मा᳓नि ता᳓न्य् उपवा᳓कसक्त᳓वश् च बदरसक्त᳓वश् च श्रो᳓त्रे एवा᳙स्यैन्द्रौ᳓ ग्र᳓हा᳓व् अ᳓थ या᳓नि क᳓र्णयोर् लो᳓मा᳓नि या᳓नि च भ्रु᳓वोस् ता᳓नि यवसक्त᳓वश् च कर्कन्धुसक्त᳓वश् च ॥॥

०६

विश्वास-प्रस्तुतिः

(श्चा᳘थ) अ᳘थ या᳘न्युप᳘स्थे लो᳘मानि॥
या᳘नि चाध᳘स्तात्ता᳘नि वृकलोमान्य᳘थ यान्यु᳘रसि लो᳘मानि या᳘नि च निकक्ष᳘योस्ता᳘नि व्व्याघ्रलोमा᳘नि के᳘शाश्च श्म᳘श्रूणि च सिᳫँ᳭हलोमा᳘नि॥

मूलम् - श्रीधरादि

(श्चा᳘थ) अ᳘थ या᳘न्युप᳘स्थे लो᳘मानि॥
या᳘नि चाध᳘स्तात्ता᳘नि वृकलोमान्य᳘थ यान्यु᳘रसि लो᳘मानि या᳘नि च निकक्ष᳘योस्ता᳘नि व्व्याघ्रलोमा᳘नि के᳘शाश्च श्म᳘श्रूणि च सिᳫँ᳭हलोमा᳘नि॥

मूलम् - Weber

अ᳘थ या᳘न्युप᳘स्थे लो᳘मानि ॥
या᳘नि चाध᳘स्तात्ता᳘नि वृकलोमान्य᳘थ यान्यु᳘रसि लो᳘मानि या᳘नि च निकक्ष᳘योस्ता᳘नि व्याघ्रलोमा᳘नि के᳘शाश्च श्म᳘श्रूणि च सिᳫंहलोमा᳘नि ॥

मूलम् - विस्वरम्

अथ यान्युपस्थे लोमानि । यानि चाधस्तात् । तानि वृकलोमानि । अथ यान्युरसि लोमानि । यानि च निकक्षयोः । तानि व्याघ्रलोमानि । केशाश्च श्मश्रूणि च सिंहलोमानि ॥ ६ ॥

हरिस्वामी

[व्याख्यानं पञ्चमे]

Eggeling
  1. And the hairs of wolf are the hair on his abdomen and that below; and the hairs of tiger are the hair on his chest and that of his armpits; and the hairs of lion are the hair of his head and his beard.
मूलम् - Makoto

अ᳓थ या᳓न्य् उप᳓स्थे लो᳓मा᳓नि ।॥
या᳓नि चा᳓ध᳓स्ता᳓त् ता᳓नि वृकलोमा᳓न्य् अ᳓थ या᳓न्य् उ᳓रसि लो᳓मा᳓नि या᳓नि च निकक्ष᳓योस् ता᳓नि व्या᳓घ्रलोमा᳓नि के᳓शा᳓श् च श्म᳓श्रूणि च सिँहलोमा᳓नि ॥॥

०७

विश्वास-प्रस्तुतिः

त्र᳘यः पश᳘वो भवन्ति॥
त्रेधाविहितो वा᳘ ऽअयम्पु᳘रुषस्या᳘त्मा ऽऽत्मा᳘नमे᳘वास्य तै᳘ स्पृणोति यद᳘वाङ्ना᳘भेस्त᳘दाश्विने᳘न य᳘दूर्ध्वन्ना᳘भेरवाची᳘नᳫँ᳭ शीर्ष्णस्त᳘त्सारस्वते᳘न शि᳘र ऽऐन्द्रे᳘ण यथारूप᳘मेव᳘ यथादेवत᳘मात्मा᳘नम्मृत्यो᳘ स्पृ᳘त्वा ऽमृ᳘तङ्कुरुते॥

मूलम् - श्रीधरादि

त्र᳘यः पश᳘वो भवन्ति॥
त्रेधाविहितो वा᳘ ऽअयम्पु᳘रुषस्या᳘त्मा ऽऽत्मा᳘नमे᳘वास्य तै᳘ स्पृणोति यद᳘वाङ्ना᳘भेस्त᳘दाश्विने᳘न य᳘दूर्ध्वन्ना᳘भेरवाची᳘नᳫँ᳭ शीर्ष्णस्त᳘त्सारस्वते᳘न शि᳘र ऽऐन्द्रे᳘ण यथारूप᳘मेव᳘ यथादेवत᳘मात्मा᳘नम्मृत्यो᳘ स्पृ᳘त्वा ऽमृ᳘तङ्कुरुते॥

मूलम् - Weber

त्र᳘यः पश᳘वो भवन्ति ॥
त्रेधाविहितो वा᳘ऽअयं पु᳘रुषस्याॗत्मात्मा᳘नमेॗवास्य तै᳘ स्पृणोति यद᳘वाङ्ना᳘भेस्त᳘दाश्विने᳘न य᳘दूर्ध्वं ना᳘भेरवाची᳘नᳫं शीर्ष्णस्त᳘त्सारस्वते᳘न शि᳘र ऐन्द्रे᳘ण यथारूप᳘मेव᳘ यथादेवत᳘मात्मा᳘नं मृत्यो᳘ स्पृॗत्वामृ᳘तं कुरुते ॥

मूलम् - विस्वरम्

त्रयः पशवो भवन्ति । त्रेधाविहितो वा अयं पुरुषस्यात्मा । आत्मानमेवास्य तैः स्पृणोति । यदवाङ् नाभेः । तदाश्विनेन । यदूर्ध्वं नाभेः । अवाचीनं शीर्ष्णः । तत्सारस्वतेन । शिर ऐन्द्रेण । यथारूपमेव यथादेवतमात्मानं मृत्योः स्पृत्वा, अमृतं कुरुते ॥ ७ ॥

हरिस्वामी

[व्याख्यानं पञ्चमे]

Eggeling
  1. There are three sacrificial animals, for this body of man consists of three parts: it is the body he thereby wins (in heaven) for him;–what is below the navel (he wins) by that of the Aśvins, what is above the navel and below the head by that of Sarasvatī, and the head itself by that of Indra: both as to its (bodily) form and as to its deities he thus delivers his own self from death, and makes it immortal.
मूलम् - Makoto

त्र᳓यः पश᳓वो भवन्ति ।॥
त्रेधा᳓विहितो᳓ वा᳓ अयं᳓ पु᳓रुषस्या᳓त्मा᳙त्मा᳓नम् एवा᳙स्य तै᳓ स्पृणोति य᳓द् अ᳓वा᳓ङ् ना᳓भेस् त᳓द् आ᳓श्विने᳓न य᳓द् ऊर्ध्वं᳓ ना᳓भेर् अवा᳓ची᳓नँ शीर्ष्ण᳓स् त᳓त् सा᳓रस्वते᳓न शि᳓र ऐन्द्रे᳓ण यथा᳓रूप᳓म् एव᳓ यथा᳓देवत᳓म् आ᳓त्मा᳓नं मृत्यो᳓ स्पृत्वा᳙मृ᳓तं कुरुते ॥॥

०८

विश्वास-प्रस्तुतिः

त्र᳘यः पुरोडा᳘शा भवन्ति॥
त्रेधाविहितम्वा᳘ ऽइदम्पु᳘रुषस्य व्व᳘यो व्व᳘य ऽए᳘वास्य तै᳘ स्पृणोति पूर्व्ववयस᳘मे᳘वैन्द्रे᳘ण मध्यमवयस᳘ᳫँ᳘ सावित्रे᳘णोत्तमवयस᳘म्वारुणे᳘न यथारूप᳘मेव᳘ यथादेवतम्व᳘यो मृत्यो᳘ स्पृ᳘त्वा ऽमृ᳘तङ्कुरुते॥

मूलम् - श्रीधरादि

त्र᳘यः पुरोडा᳘शा भवन्ति॥
त्रेधाविहितम्वा᳘ ऽइदम्पु᳘रुषस्य व्व᳘यो व्व᳘य ऽए᳘वास्य तै᳘ स्पृणोति पूर्व्ववयस᳘मे᳘वैन्द्रे᳘ण मध्यमवयस᳘ᳫँ᳘ सावित्रे᳘णोत्तमवयस᳘म्वारुणे᳘न यथारूप᳘मेव᳘ यथादेवतम्व᳘यो मृत्यो᳘ स्पृ᳘त्वा ऽमृ᳘तङ्कुरुते॥

मूलम् - Weber

त्र᳘यः पुरोडा᳘शा भवन्ति ॥
त्रेधाविहितं वा᳘ऽइदं पु᳘रुषस्य व᳘यो व᳘य एॗवास्य तै᳘ स्पृणोति पूर्ववयस᳘मेॗवैन्द्रे᳘ण मध्यमवयस᳘ᳫं᳘ सावित्रे᳘णोत्तमवयसं᳘ वारुणे᳘न यथारूप᳘मेव᳘ यथादेवतं व᳘यो मृत्यो᳘ स्पृॗत्वामृ᳘तं कुरुते ॥

मूलम् - विस्वरम्

त्रयः पुरोडाशा भवन्ति । त्रेधाविहितं वा इदं पुरुषस्य वयः । वय एवास्य तैः स्पृणोति । पूर्ववयसमैन्द्रेण । मध्यमवयसं सावित्रेण । उत्तमवयसं वारुणेन । यथारूपमेव यथादेवतं वयो मृत्योः स्पृत्वा, अमृतं कुरुते ॥ ८ ॥

हरिस्वामी

[व्याख्यानं पञ्चमे]

Eggeling
  1. There are three sacrificial cakes, for this life of man consists of three parts: it is life he thereby wins for him;–the early life (he wins) by that of Indra, the middle (part of) life by that of Savitr̥, and the last (part of) life by that of Varuṇa: both as to its (bodily) form and as to its deities he thus delivers his life from death, and makes it immortal.
मूलम् - Makoto

त्र᳓यः पुरोडा᳓शा᳓ भवन्ति ।॥
त्रेदःविहितं᳓ वा᳓ इदं᳓ पु᳓रुषस्य व᳓यो व᳓य एवा᳙स्य तै᳓ स्पृणोति पूर्ववयस᳓म् एवै᳙न्द्रे᳓ण मध्यवयसँ᳓ सा᳓वित्रे᳓णोत्तमवयसं᳓ वा᳓रुणे᳓न यथा᳓रूप᳓म् एव᳓ यथा᳓देवतं᳓ व᳓यो मृत्यो᳓ स्पृत्वा᳙मृ᳓तं कुरुते ॥॥

०९

विश्वास-प्रस्तुतिः

षड्ग्र᳘हा भवन्ति॥
षड्वा᳘ ऽइमे᳘ शीर्ष᳘न्प्राणाः᳘ प्प्राणा᳘ने᳘वास्य तै᳘ स्पृणोति च᳘क्षुषी ऽए᳘वाश्विना᳘भ्यान्ना᳘सिके सारस्वता᳘भ्याᳫँ᳭ श्रो᳘त्रे ऽऐन्द्रा᳘भ्यां यथारूप᳘मेव᳘ यथादेवतं᳘ प्प्राणा᳘न्मृत्यो᳘ स्पृ᳘त्वा ऽमृ᳘तान्कुरुते॥

मूलम् - श्रीधरादि

षड्ग्र᳘हा भवन्ति॥
षड्वा᳘ ऽइमे᳘ शीर्ष᳘न्प्राणाः᳘ प्प्राणा᳘ने᳘वास्य तै᳘ स्पृणोति च᳘क्षुषी ऽए᳘वाश्विना᳘भ्यान्ना᳘सिके सारस्वता᳘भ्याᳫँ᳭ श्रो᳘त्रे ऽऐन्द्रा᳘भ्यां यथारूप᳘मेव᳘ यथादेवतं᳘ प्प्राणा᳘न्मृत्यो᳘ स्पृ᳘त्वा ऽमृ᳘तान्कुरुते॥

मूलम् - Weber

षड्ग्र᳘हा भवन्ति ॥
षड्वा᳘ऽइमे᳘ शीर्ष᳘न्प्राणाः᳘ प्राणा᳘नेॗवास्य तै᳘ स्पृणोति च᳘क्षुषीऽएॗवाश्विना᳘भ्यां ना᳘सिके सारस्वता᳘भ्याᳫं श्रो᳘त्रेऽऐन्द्रा᳘भ्यां यथारूप᳘मेव᳘ यथादेवत᳘मात्मा᳘नं मृत्यो᳘ स्पृॗत्वामृ᳘तं कुरुते ॥

मूलम् - विस्वरम्

षड् ग्रहा भवंति । षड् वा इमे शीर्षन्प्राणाः । प्राणानेवास्य तैः स्पृणोति । चक्षुषी एवाश्विनाभ्याम् । नासिके सारस्वताभ्याम् । श्रोत्रे ऐन्द्राभ्याम् । यथारूपमेव यथादेवतं प्राणान् मृत्योः स्पृत्वा, अमृतान् कुरुते ॥ ९ ॥

हरिस्वामी

[व्याख्यानं पञ्चमे]

Eggeling
  1. There are six cups (of milk and liquor), for there are these six (channels of) vital airs in the head: it is the vital airs he thereby wins for him;–his eyes (he wins) by the two (cups) of the Aśvins, his nostrils by those of Sarasvatī, and his ears by those of Indra: both as to its (bodily) form and as to its deities he thus delivers his own self from death, and makes it immortal.
मूलम् - Makoto

ष᳓ड् ग्र᳓हा᳓ भवन्ति ।॥
ष᳓ड् वा᳓ इमे᳓ शीर्ष᳓न् प्रा᳓णाः᳓ प्रा᳓णा᳓न् एवा᳙स्य तै᳓ स्पृणोति च᳓क्षुषी एवा᳙श्विना᳓भ्यां᳓ ना᳓सिके सा᳓रस्वता᳓भ्याँ᳓ श्रो᳓त्रे ऐन्द्रा᳓भ्यां᳓ यथा᳓रूप᳓म् एव᳓ यथा᳓देवत᳓म् आ᳓त्मा᳓नं मृत्यो᳓ स्पृत्वा᳙मृ᳓तं कुरुते ॥॥

१०

विश्वास-प्रस्तुतिः

स᳘न्तता याज्यापुरो ऽनुवा᳘क्या भवन्ति॥
समानदेव᳘त्याः प्प्राणा᳘नाᳫँ᳭ स᳘न्तत्या ऽअ᳘व्यवच्छेदाय स᳘र्व्वाः पुरो ऽनुवा᳘क्या भ᳘वन्ति स᳘र्व्वा या᳘ज्यास्त᳘स्मात्प्राणाः स᳘र्व्वे प᳘राञ्चः स᳘र्व्वे प्प्रत्य᳘ञ्चः स᳘र्व्वाः प्प्रथमा भ᳘वन्ति स᳘र्व्वा मध्यमाः स᳘र्व्वा ऽउत्तमास्त᳘स्मात्प्राणाः स᳘र्व्वे प्प्रथमाः स᳘र्व्वे मध्यमाः स᳘र्व्व ऽउत्तमाः स᳘र्व्वेषाङ्ग्र᳘हाणान्द्वे᳘ याज्यापुरो ऽनुवा᳘क्ये भवतः प्प्राणोदान᳘योस्त᳘द्रूप᳘म्प्राणोदाना᳘वेवा᳘वरुन्द्धे त᳘स्मात्स᳘र्व्वे प्प्राणाः᳘ प्प्राणोदान᳘योरेव प्प्र᳘तिष्ठिताः॥

मूलम् - श्रीधरादि

स᳘न्तता याज्यापुरो ऽनुवा᳘क्या भवन्ति॥
समानदेव᳘त्याः प्प्राणा᳘नाᳫँ᳭ स᳘न्तत्या ऽअ᳘व्यवच्छेदाय स᳘र्व्वाः पुरो ऽनुवा᳘क्या भ᳘वन्ति स᳘र्व्वा या᳘ज्यास्त᳘स्मात्प्राणाः स᳘र्व्वे प᳘राञ्चः स᳘र्व्वे प्प्रत्य᳘ञ्चः स᳘र्व्वाः प्प्रथमा भ᳘वन्ति स᳘र्व्वा मध्यमाः स᳘र्व्वा ऽउत्तमास्त᳘स्मात्प्राणाः स᳘र्व्वे प्प्रथमाः स᳘र्व्वे मध्यमाः स᳘र्व्व ऽउत्तमाः स᳘र्व्वेषाङ्ग्र᳘हाणान्द्वे᳘ याज्यापुरो ऽनुवा᳘क्ये भवतः प्प्राणोदान᳘योस्त᳘द्रूप᳘म्प्राणोदाना᳘वेवा᳘वरुन्द्धे त᳘स्मात्स᳘र्व्वे प्प्राणाः᳘ प्प्राणोदान᳘योरेव प्प्र᳘तिष्ठिताः॥

मूलम् - Weber

सं᳘तता याज्यापुरोऽनुवाॗक्या भवन्ति ॥
समानदेव᳘त्याः प्राणा᳘नाᳫं सं᳘तत्याऽअ᳘व्यवछेदाय 7 स᳘र्वाः पुरोऽनुवाॗक्या भ᳘वन्ति स᳘र्वा याॗज्यास्त᳘स्मात्प्राणाः स᳘र्वे प᳘राञ्चः स᳘र्वे प्रत्य᳘ञ्चः स᳘र्वाः प्रथमा भ᳘वन्ति स᳘र्वा मध्यमाः स᳘र्वा उत्तमास्त᳘स्मात्प्राणाः स᳘र्वे प्रथमाः स᳘र्वे मध्यमाः स᳘र्वऽउत्तमाः स᳘र्वेषां ग्र᳘हाणां द्वे᳘ याज्यापुरोऽनुवाॗक्ये भवतः प्राणोदान᳘योस्त᳘द्रूपं᳘ प्राणोदाना᳘वेवा᳘वरुन्द्धे त᳘स्मात्स᳘र्वे प्राणाः᳘ प्राणोदान᳘योरेव प्र᳘तिष्ठिताः ॥

मूलम् - विस्वरम्

संतता याज्यापुरो ऽनुवाक्या भवंति । समानदेवत्याः । प्राणानां संतत्या अव्यवच्छेदाय । सर्वाः पुरो ऽनुवाक्या भवंति । सर्वा याज्याः । तस्मात् प्राणाः सर्वे परांचः सर्वे प्रत्यंचः । सर्वाः प्रथमा भवंति । सर्वा मध्यमाः । सर्वा उत्तमाः । तस्मात् प्राणाः सर्वे प्रथमाः । सर्वे मध्यमाः । सर्व उत्तमाः । सर्वेषां ग्रहाणां द्वे याज्यापुरो ऽनुवाक्ये भवतः । प्राणोदानयोस्तद्रूपम् । प्राणोदानावेवावरुंधे । तस्मात् सर्वे प्राणाः प्राणोदानयोरेव प्रतिष्ठिताः ॥ १० ॥

हरिस्वामी

[व्याख्यानं पञ्चमे]

Eggeling
  1. The invitatory and offering-formulas are made continuous 8, and relate to the same deities–for the continuity and uninterruptedness of the vital airs. They are all of them invitatory formulas and all offering-formulas, whence all the vital airs pass onwards and all of them backwards. All (the formulas) are first, all of them intermediate, and all of them last, whence all the vital airs are first, all of them intermediate, and all of them last. All the cups have two (formulas, an) invitatory and (an) offering-formula,–this is of the form of the in (and out)-breathing and the up-breathing: it is the in-breathing and the up-breathing he thus secures for himself, and therefore all the vital airs are established on the in-breathing and the up-breathing.
मूलम् - Makoto

सं᳓तता᳓ या᳓ज्या᳓पुरोऽनुवा᳓क्या᳙ भवन्ति ।॥
समा᳓नदेव᳓त्याः᳓ प्रा᳓णा᳓नाँ᳓ सं᳓तत्या᳓ अ᳓व्यवछेदा᳓य स᳓र्वाः᳓ पुरोऽनुवा᳓या᳙ भ᳓वन्ति स᳓र्वा᳓ या᳓ज्या᳙स् त᳓स्मा᳓त् प्रा᳓णाः᳓ स᳓र्वे प᳓रा᳓ञ्चः स᳓र्वे प्रत्य᳓ञ्चः स᳓र्वाः᳓ प्रथमा᳓ भ᳓वन्ति स᳓र्वा᳓ मध्यमाः᳓ स᳓र्वा᳓ उत्तमा᳓स् त᳓स्मा᳓त् प्रा᳓णाः᳓ स᳓र्वे प्रथमाः᳓ स᳓र्वे मध्यमाः᳓ स᳓र्व उत्तमाः᳓ स᳓र्वेषां᳓ ग्र᳓हा᳓णां᳓ द्वे᳓ या᳓ज्या᳓पुरोऽनुवा᳓क्ये᳙ भवतः प्रा᳓णोदा᳓न᳓योस् त᳓द् रूपं᳓ प्रा᳓णोदा᳓ना᳓व् एवा᳓वरुन्द्धे त᳓स्मा᳓त् स᳓र्वे प्रा᳓णाः᳓ प्रा᳓णोदा᳓न᳓योर् एव᳓ प्र᳓तिष्ठिताः᳓ ॥॥

११

विश्वास-प्रस्तुतिः

स वा᳘ ऽएष᳘ ऽआ᳘त्मैव य᳘त्सौत्रामणी[[!!]]॥
म᳘न ऽएव᳘ प्प्रत्य᳘क्षाद्वाग्य᳘जमानस्त᳘स्या᳘त्मैव व्वे᳘दिः प्प्र᳘जोत्तरवेदिः᳘ पश᳘वो बर्हिर᳘ङ्गान्यृत्विजो᳘ ऽस्थीनीध्म ऽआ᳘ज्यम्मज्जा मु᳘खमग्निर᳘न्नमा᳘हुतिर्व्व᳘यः सᳫँ᳭स्था त᳘स्मात्सौत्राम᳘ण्येजानो व्व᳘य ऽउ᳘पगच्छति॥

मूलम् - श्रीधरादि

स वा᳘ ऽएष᳘ ऽआ᳘त्मैव य᳘त्सौत्रामणी[[!!]]॥
म᳘न ऽएव᳘ प्प्रत्य᳘क्षाद्वाग्य᳘जमानस्त᳘स्या᳘त्मैव व्वे᳘दिः प्प्र᳘जोत्तरवेदिः᳘ पश᳘वो बर्हिर᳘ङ्गान्यृत्विजो᳘ ऽस्थीनीध्म ऽआ᳘ज्यम्मज्जा मु᳘खमग्निर᳘न्नमा᳘हुतिर्व्व᳘यः सᳫँ᳭स्था त᳘स्मात्सौत्राम᳘ण्येजानो व्व᳘य ऽउ᳘पगच्छति॥

मूलम् - Weber

स वा᳘ऽएष᳘ आॗत्मैव य᳘त्सौत्रामणी᳟ ॥
म᳘न एव᳘ प्रत्य᳘क्षाद्वाग्य᳘जमानस्त᳘स्याॗत्मेव वे᳘दिः प्रॗजोत्तरवेदिः᳘ पश᳘वो बर्हिर᳘ङ्गान्यृत्विजो᳘ऽस्थीनीध्म आ᳘ज्यं मज्जा मु᳘खमग्निर᳘न्नमा᳘हुतिर्व᳘यः सᳫंस्था त᳘स्मात्सौत्रामॗण्येजानो व᳘य उ᳘पगछति ॥

मूलम् - विस्वरम्

स वा एष आत्मैव । यत्सौत्रामणी । मन एव प्रत्यक्षात् । वाक् यजमानः । तस्यात्मैव वेदिः । प्रजोत्तरवेदिः । पशवो बर्हिः । अंगानि ऋत्विजः । अस्थीनीध्मः । आज्यं मज्जा । मुखमग्निः । अन्नमाहुतिः । वयः संस्था । तस्मात् सौत्रामण्येजानो वय उपगच्छति ॥ ११ ॥

हरिस्वामी

स वा एष आत्मैव यत्सौत्रामणी । निदर्शनांतरोपन्यासः । मन एव प्रत्यक्षाद्वाग्यजमानः स हि यज्ञे वागात्मापि मनोभिगंतृ इत्यभिप्रायः । वाक्पतिरिति शेषात् गम्यत इति न पठितम् । सा हि स्त्री । वाक् कारिणीति । तस्यात्मैव शरीरं वेदिः । वयः स्थाविरं संस्था ॥ ११ ॥

Eggeling
  1. Verily the Sautrāmaṇī is this body (of man): the Sacrificer is the mind, (that is) speech manifestly; the vedi (altar-ground) is the trunk, the uttara-vedi (high-altar) offspring, the barhis (grass-covering) cattle, the officiating priests the limbs, the fuel the hones, the ghee the marrow, the fire the mouth, the oblation is food, and the concluding rite is life, whence he who has performed the Sautrāmaṇī attains life.
मूलम् - Makoto

स᳓ वा᳓ एष᳓ आ᳓त्मै᳙व᳓ य᳓त् सौत्रा᳓मणी᳓ ।॥
म᳓न एव᳓ प्रत्य᳓क्षा᳓द् वा᳓ग् य᳓जमा᳓नस् त᳓स्या᳓त्मे᳙व वे᳓दिः प्रजो᳙त्तरवेदिः᳓ पश᳓वो बर्हि᳓र् अ᳓ङ्गा᳓न्य् ऋत्वि᳓जो᳓ ऽस्थीनीध्म᳓ आ᳓ज्यं मज्जा᳓ मु᳓खम् अग्नि᳓र् अ᳓न्नम् आ᳓हुतिर् व᳓यः सँस्था᳓ त᳓स्मा᳓त् सौत्रा᳓मण्ये᳙जा᳓नो᳓ व᳓य उ᳓पगछति ॥॥

१२

विश्वास-प्रस्तुतिः

तद्यौ᳘ ह वा᳘ ऽइमौ पु᳘रुषाविवाक्ष्योः᳘॥
(रे) एता᳘वे᳘वाश्विनाव᳘थ[[!!]] य᳘त्कृष्णं त᳘त्सारस्वतं य᳘च्छुक्लन्त᳘दैन्द्रन्तद्य᳘दाश्विने᳘ पशौ᳘ सत्य᳘थैता᳘ देव᳘ताः सह य᳘जत्येता᳘न्ये᳘वैत᳘त्सार्द्ध᳘ङ्कृ᳘त्वा ऽऽत्म᳘न्द्धत्ते॥

मूलम् - श्रीधरादि

तद्यौ᳘ ह वा᳘ ऽइमौ पु᳘रुषाविवाक्ष्योः᳘॥
(रे) एता᳘वे᳘वाश्विनाव᳘थ[[!!]] य᳘त्कृष्णं त᳘त्सारस्वतं य᳘च्छुक्लन्त᳘दैन्द्रन्तद्य᳘दाश्विने᳘ पशौ᳘ सत्य᳘थैता᳘ देव᳘ताः सह य᳘जत्येता᳘न्ये᳘वैत᳘त्सार्द्ध᳘ङ्कृ᳘त्वा ऽऽत्म᳘न्द्धत्ते॥

मूलम् - Weber

तद्यौ᳘ ह वा᳘ऽइमौ पु᳘रुषाविवाक्ष्योः᳘ ॥
एता᳘वेॗवाश्वि᳘नाव᳘थ य᳘त्कृष्णं त᳘त्सारस्वतं य᳘छुक्लं त᳘दैन्द्रं तद्य᳘दाश्विने᳘ पशौ᳘ सत्य᳘थैता᳘ देव᳘ताः सह य᳘जत्येता᳘न्येॗवैत᳘त्सार्धं᳘ कृॗत्वात्म᳘न्धत्ते ॥

मूलम् - विस्वरम्

तद्यौ ह वा इमौ पुरुषाविवाक्ष्योः । एतावेवाश्विनौ । अथ यत् कृष्णम् । तत्सारस्वतम् । यच्छुक्लम् । तदैन्द्रम् । तद्यदाश्विने पशौ सति, अथैता देवताः सह यजति । एतान्येवैतत् सार्द्धं कृत्वा ऽऽत्मन् धत्ते ॥ १२ ॥

हरिस्वामी

तद्यौ ह वा इमाविति । पशुदेवतानां संसृष्टानां संसृष्टान्येव आध्यात्मिकानि त्रीणि रूपाणि ॥ १२-१४ ॥

Eggeling
  1. And, verily, these two men that seem to be in the eyes, they belong to the Aśvins, and the black (in the eye) belongs to Sarasvatī, and the white to Indra; and in that, when the victim of the Aśvins is being (offered), he makes offering to these deities in common, thereby he puts those (parts of the body) together and takes them to himself.
मूलम् - Makoto

त᳓द् यौ᳓ ह वा᳓ इमौ᳓ पु᳓रुषा᳓व् इवा᳓क्ष्योः᳓ ।॥
एता᳓व् एवा᳙श्वि᳓ना᳓व् अ᳓थ य᳓त् कृष्णं᳓ त᳓त् सा᳓रस्वतं᳓ य᳓च् छुक्लं᳓ त᳓द् ऐन्द्रं᳓ त᳓द् य᳓द् आ᳓श्विने᳓ पशौ᳓ सत्य᳓थैता᳓ देव᳓ताः᳓ सह᳓ य᳓जत्य् एता᳓न्य् एवै᳙त᳓त् सा᳓र्धं᳓ कृत्वा᳙त्म᳓न् धत्ते ॥॥

१३

विश्वास-प्रस्तुतिः

म᳘न ऽएवे᳘न्द्रः॥
(न्द्रो) व्वाक्स᳘रस्वती श्रो᳘त्रे ऽअश्वि᳘नौ यद्वै म᳘नसा ध्या᳘यति त᳘द्वाचा᳘ व्वदति य᳘द्वाचा व्व᳘दति तत्क᳘र्ण्णाभ्याᳫँ᳭ शृणोति तद्य᳘त्सारस्वते᳘ पशौ सत्य᳘थैता᳘ देव᳘ताः सह य᳘जत्येता᳘न्ये᳘वैत᳘त्सार्द्ध᳘ङ्कृ᳘त्वा ऽऽत्म᳘न्द्धत्ते॥

मूलम् - श्रीधरादि

म᳘न ऽएवे᳘न्द्रः॥
(न्द्रो) व्वाक्स᳘रस्वती श्रो᳘त्रे ऽअश्वि᳘नौ यद्वै म᳘नसा ध्या᳘यति त᳘द्वाचा᳘ व्वदति य᳘द्वाचा व्व᳘दति तत्क᳘र्ण्णाभ्याᳫँ᳭ शृणोति तद्य᳘त्सारस्वते᳘ पशौ सत्य᳘थैता᳘ देव᳘ताः सह य᳘जत्येता᳘न्ये᳘वैत᳘त्सार्द्ध᳘ङ्कृ᳘त्वा ऽऽत्म᳘न्द्धत्ते॥

मूलम् - Weber

म᳘न एवे᳘न्द्रः ॥
वाक्स᳘रस्वती श्रो᳘त्रेऽअश्वि᳘नौ यद्वै म᳘नसा ध्या᳘यति त᳘द्वाचा᳘ वदति य᳘द्वाचा व᳘दति तत्क᳘र्णाभ्याᳫं शृणोति तद्य᳘त्सारस्वते᳘ पशौ सत्य᳘थैता देव᳘ताः सह य᳘जत्येता᳘न्येॗवैत᳘त्सार्धं᳘ कृॗत्वात्म᳘न्धत्ते ॥

मूलम् - विस्वरम्

मन एवेन्द्रः । वाक् सरस्वती । श्रोत्रे अश्विनौ । यद् वै मनसा ध्यायति । तद्वाचा वदति । यद्वाचा वदति । तत् कर्णाभ्यां शृणोति । तद् यत् सारस्वते पशौ सति, अथैता देवताः सह यजति । एतान्येवैतत् सार्धं कृत्वा ऽऽत्मन् धत्ते ॥ १३ ॥

हरिस्वामी

[व्याख्यानं द्वादशे]

Eggeling
  1. Indra, assuredly, is the mind, Sarasvatī speech, and the two Aśvins are the ears. Now, whatever one thinks in his mind of that he speaks with his speech, and what he speaks with his speech that one hears with one’s ears: thus, in that, when the victim of Sarasvatī is being (offered), he makes offering to these deities together, thereby he puts these (parts of the body) together and takes them to himself.
मूलम् - Makoto

म᳓न एवे᳓न्द्रः ।॥
वा᳓क् स᳓रस्वती श्रो᳓त्रे अश्वि᳓नौ य᳓द् वै᳓ म᳓नसा᳓ ध्या᳓यति त᳓द् वा᳓चा᳓ वदति य᳓द् वा᳓चा᳓ व᳓दति त᳓त् क᳓र्णा᳓भ्याँ᳓ शृणोति त᳓द् य᳓त् सा᳓रस्वते᳓ पशौ᳓ स᳓त्य᳓थैता᳓ देव᳓ताः᳓ सह य᳓जत्य् एता᳓न्य् एवै᳙त᳓त् सा᳓र्धं᳓ कृत्वा᳙त्म᳓न् धत्ते ॥॥

१४

विश्वास-प्रस्तुतिः

प्प्राण᳘ ऽएवे᳘न्द्रः॥
(न्द्रो) जिह्वा स᳘रस्वती ना᳘सिके ऽअश्वि᳘नौ यद्वै᳘ प्प्राणेना᳘न्नमात्म᳘न्प्रण᳘यते त᳘त्प्राण᳘स्य प्प्राणत्वं᳘ जिह्व᳘या वा ऽअ᳘न्नस्य र᳘सम्वि᳘जानाति ना᳘सिके ऽउ वै᳘ प्प्राण᳘स्य प᳘न्थास्तद्यैदन्द्रे᳘ पशौ᳘ सत्य᳘थैता᳘ देव᳘ताः सह य᳘जत्येता᳘न्ये᳘वैत᳘त्सार्द्धङ्कृ᳘त्वा ऽऽत्म᳘न्द्धत्ते॥

मूलम् - श्रीधरादि

प्प्राण᳘ ऽएवे᳘न्द्रः॥
(न्द्रो) जिह्वा स᳘रस्वती ना᳘सिके ऽअश्वि᳘नौ यद्वै᳘ प्प्राणेना᳘न्नमात्म᳘न्प्रण᳘यते त᳘त्प्राण᳘स्य प्प्राणत्वं᳘ जिह्व᳘या वा ऽअ᳘न्नस्य र᳘सम्वि᳘जानाति ना᳘सिके ऽउ वै᳘ प्प्राण᳘स्य प᳘न्थास्तद्यैदन्द्रे᳘ पशौ᳘ सत्य᳘थैता᳘ देव᳘ताः सह य᳘जत्येता᳘न्ये᳘वैत᳘त्सार्द्धङ्कृ᳘त्वा ऽऽत्म᳘न्द्धत्ते॥

मूलम् - Weber

प्राण᳘ एवे᳘न्द्रः ॥
जिह्वा स᳘रस्वती ना᳘सिकेऽअश्वि᳘नौ यद्वै᳘ प्राणेना᳘न्नमात्म᳘न्प्रण᳘यते त᳘त्प्राण᳘स्य प्राणत्वं᳘ जिह्व᳘या वाऽअ᳘न्नस्य र᳘सं वि᳘जानाति ना᳘सिकेऽउ वै᳘ प्राण᳘स्य प᳘न्थास्तद्य᳘दैन्द्रे᳘ पशौ᳘ सत्य᳘थैता᳘ देव᳘ताः सह य᳘जत्येता᳘न्येॗवैत᳘त्सार्धं᳘ कृॗत्वात्म᳘न्धत्ते ॥

मूलम् - विस्वरम्

प्राण एवेन्द्रः । जिह्वा सरस्वती । नासिके अश्विनौ । यद्वै प्राणेनान्नमात्मन् प्रणयते । तत् प्राणस्य प्राणत्वम् । जिह्वया वा अन्नस्य रसं विजानाति । नासिके उ वै प्राणस्य पंथाः । तद्यदैन्द्रै पशौ सति, अथैता देवताः सह यजति । एतान्येवैतत्सार्द्धं कृत्वा ऽऽत्मन् धत्ते ॥ १४ ॥

हरिस्वामी

[व्याख्यानं द्वादशे]

Eggeling
  1. Indra, assuredly, is the breath, Sarasvatī the tongue, and the two Aśvins the nostrils; and inasmuch as through (the channel of) the breath (prāṇa) one introduces (prā-ṇī) food into himself that is the reason of its being (called) ‘prāṇa.’ By means of the tongue one distinguishes the essence (taste) of food, and the nostrils, indeed, are the path of the breath; and in that, when the victim of Indra. is being (offered), he makes offering to these deities in common, thereby he puts those (parts of the body) together and takes them to himself.
मूलम् - Makoto

प्रा᳓ण᳓ एवे᳓न्द्रः ।॥
जिह्वा᳓ स᳓रस्वती ना᳓सिके अश्वि᳓नौ य᳓द् वै᳓ प्रा᳓णे᳓ना᳓न्नम् आ᳓त्म᳓न् प्रण᳓यते त᳓त् प्रा᳓ण᳓स्य प्रा᳓णत्वं᳓ जिह्व᳓या᳓ वा᳓ अ᳓न्नस्य र᳓सं वि᳓जा᳓ना᳓ति ना᳓सिके उ वै᳓ प्रा᳓ण᳓स्य प᳓न्था᳓स् त᳓द् य᳓द् ऐन्द्रे᳓ पशौ᳓ सत्य᳓थैता᳓ देव᳓ताः᳓ सह᳓ य᳓जत्य् एता᳓न्य् एवै᳙त᳓त् सा᳓र्धं᳓ कृत्वा᳙त्म᳓न् धत्ते ॥॥

१५

विश्वास-प्रस्तुतिः

हृ᳘दयमे᳘वेन्द्रः[[!!]]॥
(न्द्रो) य᳘कृत्सविता᳘ क्लोमा व्व᳘रुणस्तद्य᳘दैन्द्रे᳘ पुरोडा᳘शे सत्य᳘थैता᳘ देव᳘ताः सह य᳘जत्येता᳘न्ये᳘वैत᳘त्सार्द्धङ्कृ᳘त्वा ऽऽत्म᳘न्द्धत्ते॥

मूलम् - श्रीधरादि

हृ᳘दयमे᳘वेन्द्रः[[!!]]॥
(न्द्रो) य᳘कृत्सविता᳘ क्लोमा व्व᳘रुणस्तद्य᳘दैन्द्रे᳘ पुरोडा᳘शे सत्य᳘थैता᳘ देव᳘ताः सह य᳘जत्येता᳘न्ये᳘वैत᳘त्सार्द्धङ्कृ᳘त्वा ऽऽत्म᳘न्द्धत्ते॥

मूलम् - Weber

हृ᳘दयमेॗवेन्द्रः᳟ ॥
य᳘कृत्सविता᳘ क्लोमा व᳘रुणस्तद्य᳘दैन्द्रे᳘ पुरोडा᳘शे सत्य᳘थैता᳘ देव᳘ताः सह य᳘जत्येता᳘न्येॗवैत᳘त्सार्धं᳘ कृॗत्वात्म᳘न्धत्ते ॥

मूलम् - विस्वरम्

हृदयमेवेन्द्रः । यकृत् सविता । क्लोमा वरुणः । तद्यदैन्द्रे पुरोडाशे सति, अथैता दैवताः सह यजति । एतान्येवैतत्सार्द्धं कृत्वा ऽऽत्मन् धत्ते ॥ १५ ॥

हरिस्वामी

हृदयमेवेन्द्र इति । पुरोडाशदेवतानाम् ॥ १५-१७ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकांडे नवमे ऽध्याये प्रथमं ब्राह्मणम् ॥ १२ ॥ ९ ॥ १ ॥

Eggeling
  1. Indra, assuredly, is the heart, Savitr̥ the liver, and Varuṇa the lung; and in that, when Indra’s cake is being (offered), he makes offering to these deities in common, thereby he puts those (parts of the body) together and takes them to himself.
मूलम् - Makoto

हृ᳓दयम् एवे᳙न्द्रः᳓ ।॥
य᳓कृत् सविता᳓ क्लोमा᳓ व᳓रुणस् त᳓द् य᳓द् ऐन्द्रे᳓ पुरोडा᳓शे सत्य᳓थैता᳓ देव᳓ताः᳓ सह᳓ य᳓जत्य् एता᳓न्य् एवै᳙त᳓त् सा᳓र्धं᳓ कृत्वा᳙त्म᳓न् धत्ते ॥॥

१६

विश्वास-प्रस्तुतिः

प्प्राण᳘ ऽएव᳘ सविता᳘॥
व्व्यानो व्व᳘रुणः शिश्नमि᳘न्द्रो[[!!]] यद्वै᳘ प्प्राणेना᳘न्नम᳘त्ति त᳘द्व्याने᳘न᳘ व्यनिति शिश्ने᳘न वा ऽअ᳘न्नस्य र᳘सᳫँ᳭ रे᳘तः सिञ्चति तद्य᳘त्सावित्रे᳘ पुरोडा᳘शे सत्य᳘थैता᳘ देव᳘ताः सह य᳘जत्येता᳘न्ये᳘वैत᳘त्सार्द्ध᳘ङ्कृ᳘त्वा ऽऽत्म᳘न्द्धत्ते॥

मूलम् - श्रीधरादि

प्प्राण᳘ ऽएव᳘ सविता᳘॥
व्व्यानो व्व᳘रुणः शिश्नमि᳘न्द्रो[[!!]] यद्वै᳘ प्प्राणेना᳘न्नम᳘त्ति त᳘द्व्याने᳘न᳘ व्यनिति शिश्ने᳘न वा ऽअ᳘न्नस्य र᳘सᳫँ᳭ रे᳘तः सिञ्चति तद्य᳘त्सावित्रे᳘ पुरोडा᳘शे सत्य᳘थैता᳘ देव᳘ताः सह य᳘जत्येता᳘न्ये᳘वैत᳘त्सार्द्ध᳘ङ्कृ᳘त्वा ऽऽत्म᳘न्द्धत्ते॥

मूलम् - Weber

प्राण᳘ एव᳘ सविता᳘ ॥
व्यानो व᳘रुणः शिश्न᳘मि᳘न्द्रो यद्वै᳘ प्राणेना᳘न्नम᳘त्ति त᳘द्व्याने᳘नॗ व्यनिति शिश्ने᳘न वाऽअ᳘न्नस्य र᳘सᳫं रे᳘तः सिञ्चति तद्य᳘त्सावित्रे᳘ पुरोडा᳘शे सत्य᳘थैता᳘ देव᳘ताः सह य᳘जत्येता᳘न्येॗवैत᳘त्सार्धं᳘ कृॗत्वात्म᳘न्धत्ते ॥

मूलम् - विस्वरम्

प्राण एव सविता । व्यानो वरुणः । शिश्नमिन्द्रः । यत् वै प्राणेनान्नमत्ति । तत् व्यानेन व्यनिति । शिश्नेन वा अन्नस्य रसं रेतः सिंचति । तद्यत् सावित्रे पुरोडाशे सति, अथैता देवताः सह यजति । एतान्येवैतत् सार्द्धं कृत्वा ऽऽत्मन् धत्ते ॥ १६ ॥

हरिस्वामी

[व्याख्यानं पञ्चदशे]

Eggeling
  1. Savitr̥, assuredly, is the breath, Varuṇa the

through-breathing, and Indra the generative organ; and whatever food one eats by means of (the channel of) the breath through that he breathes with his through-breathing, and by means of the generative organ he sheds the essence of food as seed; and in that, when Savitr̥’s cake is being (offered), he makes offering to these deities in common, thereby he puts those (parts of the body) together and takes them to himself.

मूलम् - Makoto

प्रा᳓ण᳓ एव᳓ सविता᳓ ।॥
व्या᳓नो᳓ व᳓रुणः शिश्न᳓म् इ᳓न्द्रो य᳓द् वै᳓ प्रा᳓णे᳓ना᳓न्नम् अ᳓त्ति त᳓द् व्या᳓ने᳓न व्य᳙निति शिश्ने᳓न वा᳓ अ᳓न्नस्य र᳓सँ रे᳓तः सिञ्चति त᳓द् य᳓त् सा᳓वित्रे᳓ पुरोडा᳓शे सत्य᳓थैता᳓ देव᳓ताः᳓ सह᳓ य᳓जत्य् एता᳓न्य् एवै᳙त᳓त् सा᳓र्धं᳓ कृत्वा᳙त्म᳓न् धत्ते ॥॥

१७

विश्वास-प्रस्तुतिः

यो᳘निरेव[[!!]] व्व᳘रुणः॥
(णो) रे᳘त ऽइ᳘न्द्रः सवि᳘तैव रे᳘तसः प्प्रजनयिता तद्य᳘द्वारुणे᳘ पुरोडा᳘शे सत्य᳘थैता᳘ देव᳘ताः सह य᳘जत्येता᳘न्ये᳘वैत᳘त्सार्द्धङ्कृ᳘त्वा ऽऽत्म᳘न्द्धत्ते स य᳘ ऽएव᳘मेतद्वे᳘दैता᳘ ऽएव᳘ देव᳘ता ऽअनुस᳘म्भवत्येता᳘ देव᳘ता अ᳘नुप्प्र᳘जायत ऽआ᳘ प्प्रज᳘या पशु᳘भिः प्यायते प्प्र᳘त्यस्मिं᳘ल्लोके᳘ तिष्ठत्यभि᳘ स्वर्ग्गं᳘ लोक᳘ञ्जयति य᳘ ऽएवं᳘ व्विद्वा᳘न्त्सौत्रामण्या य᳘जते यो᳘ वैत᳘देवं᳘ व्वे᳘द॥

मूलम् - श्रीधरादि

यो᳘निरेव[[!!]] व्व᳘रुणः॥
(णो) रे᳘त ऽइ᳘न्द्रः सवि᳘तैव रे᳘तसः प्प्रजनयिता तद्य᳘द्वारुणे᳘ पुरोडा᳘शे सत्य᳘थैता᳘ देव᳘ताः सह य᳘जत्येता᳘न्ये᳘वैत᳘त्सार्द्धङ्कृ᳘त्वा ऽऽत्म᳘न्द्धत्ते स य᳘ ऽएव᳘मेतद्वे᳘दैता᳘ ऽएव᳘ देव᳘ता ऽअनुस᳘म्भवत्येता᳘ देव᳘ता अ᳘नुप्प्र᳘जायत ऽआ᳘ प्प्रज᳘या पशु᳘भिः प्यायते प्प्र᳘त्यस्मिं᳘ल्लोके᳘ तिष्ठत्यभि᳘ स्वर्ग्गं᳘ लोक᳘ञ्जयति य᳘ ऽएवं᳘ व्विद्वा᳘न्त्सौत्रामण्या य᳘जते यो᳘ वैत᳘देवं᳘ व्वे᳘द॥

मूलम् - Weber

यो᳘निरेव᳘ व᳘रुणः ॥
रे᳘त इ᳘न्द्रः सविॗतैव रे᳘तसः प्रजनयिता तद्य᳘द्वारुणे᳘ पुरोडा᳘शे सत्य᳘थैता᳘ देव᳘ताः सह य᳘जत्येता᳘न्येॗवैत᳘त्सार्धं᳘ कृॗत्वात्म᳘न्धत्ते स य᳘ एव᳘मेतद्वे᳘दैता᳘ एव᳘ देव᳘ता अनुस᳘म्भवत्येता᳘ देव᳘ता अ᳘नु प्र᳘जायतऽआ᳘ प्रज᳘या पशु᳘भिः प्यायते प्र᳘त्यस्मिं᳘लोके᳘ तिष्ठत्यभि᳘ स्वर्गं᳘ लोकं᳘ जयति य᳘ एवं᳘ विद्वा᳘न्त्सौत्रामण्या य᳘जते यो᳘ वैत᳘देवं᳘ वे᳘द ॥ ३ [९.१.] ॥ ॥

मूलम् - विस्वरम्

योनिरेव वरुणः । रेत इन्द्रः । सवितैव रेतसः प्रजनयिता । तद्यत् वारुणे पुरोडाशे सति, अथैता देवताः सह यजति । एतान्येवैतत् सार्द्धं कृत्वा ऽऽत्मन् धत्ते । स य एवमेतत् वेद । एता एव देवता अनुसंभवति । एता देवता अनुप्रजायते । आ प्रजया पशुभिः प्यायते । प्रत्यस्मिन् लोके तिष्ठति । अभि स्वर्गं लोकं जयति । य एवं विद्वान् सौत्रामण्या यजते । यो वैतदेवं वेद ॥ १७ ॥

हरिस्वामी

[व्याख्यानं पञ्चदशे]

Eggeling
  1. Varuṇa, assuredly, is the womb, Indra the seed, and Savitr̥ the generator of the seed; and in that, when Varuṇa’s cake is being (offered), he makes offering to these deities in common, thereby he puts those (parts of the body) together and takes them to himself. And whosoever thus knows this comes into being along with these deities, and is born again (so as to be) along with these deities; he increases in offspring and cattle; he becomes firmly established in this world, and wins the heavenly world, whosoever, knowing this, performs the Sautrāmaṇī, or whosoever thus knows this.
मूलम् - Makoto

यो᳓निर् एव᳓ व᳓रुणः ।॥
रे᳓त इ᳓न्द्रः सवितै᳙व᳓ रे᳓तसः प्रजनयिता᳓ त᳓द् य᳓द् वा᳓रुणे᳓ पुरोडा᳓शे सत्य᳓थैता᳓ देव᳓ताः᳓ सह᳓ य᳓जत्य् एता᳓न्य् एवै᳙त᳓त् सा᳓र्धं᳓ कृत्वा᳙त्म᳓न् धत्ते स᳓ य᳓ एव᳓म् एत᳓द् वे᳓दैता᳓ एव᳓ देव᳓ता᳓ अनुस᳓म्भवत्य् एता᳓ देव᳓ता᳓ अ᳓नु प्र᳓जा᳓यत आ᳓ प्रज᳓या᳓ पशु᳓भिः प्या᳓यते प्र᳓त्य् अस्मिं᳓ लोके᳓ तिष्ठत्य् अभि᳓ स्वर्गं᳓ लोकं᳓ जयति य᳓ एवं᳓ विद्वा᳓न्त् सौत्रा᳓मण्या᳓ य᳓जते यो᳓ वैत᳓द् एवं᳓ वे᳓द ॥॥


  1. ब्राह्मणयज्ञः सौत्रामण्यृद्धिकामस्य । (ऋद्धिकामस्येति शाखांतरादिति कर्कः । सा ऽपि ऋद्धिकामस्य ब्राह्मणस्यैव । नेतरयोर्वर्णयोरिति च कर्कः ।) का. श्रौ. सू. १९ । १ । ↩︎ ↩︎

  2. निधनविशेषस्तु संजित्यै, विजित्यै, सत्यजित्यै, जित्यै, इति क्षत्रियस्य । संपुष्ट्यै, विपुष्ट्यै, सत्यपुष्ट्यै, पुष्ट्यै इति वैश्यस्येति, अयं निधनविशेषः अग्न्यंगभूतसौत्रामणीविषयः क्षत्रियवैश्ययोः । इति । का. श्रौ. सू. १९ । ११३ । ↩︎

  3. 259:5 That is, the Purusha, Agni-Prajāpati; and the Sacrificer. ↩︎

  4. 260:1 That is, because to a man of another caste the spirituous liquor would not be ‘anādyā,’ but consumable, and hence it would consume him in the other world. ↩︎

  5. 260:2 The two terms ‘āntrāṇi’ and gudāḥ’ are usually taken as synonymous; the latter term probably means the lower or larger intestines; cf. Vāj. S. XIX, 86. ↩︎ ↩︎

  6. 260:3 See XII, 7, 3, 22. ↩︎

  7. अ᳘व्यवत्सेदाय A. ↩︎

  8. 262:1 See p. 244, note 1. ↩︎