०१
विश्वास-प्रस्तुतिः
त्व᳘ष्टा हत᳘पुत्रः॥
(त्रो ऽभि) अभिचरणी᳘यम᳘पेन्द्रᳫँ᳭ सो᳘ममा᳘हरत्तस्ये᳘न्द्रो यज्ञवेशसं᳘ कृत्वा᳘ प्प्रास᳘हा सो᳘ममपिबत्स व्वि᳘ष्व᳘ङ् व्व्यार्च्छत्त᳘स्य मु᳘खात्प्राणे᳘भ्यः श्रीयशसा᳘न्यूर्ध्वान्युदक्रामंस्ता᳘नि[[!!]] पशून्प्रा᳘विशंस्त᳘स्मात्पश᳘वो य᳘शो य᳘शो ह भवति य᳘ ऽएवं᳘ व्विद्वा᳘न्त्सौत्राम᳘ण्या ऽभिषिच्य᳘ते॥
मूलम् - श्रीधरादि
त्व᳘ष्टा हत᳘पुत्रः॥
(त्रो ऽभि) अभिचरणी᳘यम᳘पेन्द्रᳫँ᳭ सो᳘ममा᳘हरत्तस्ये᳘न्द्रो यज्ञवेशसं᳘ कृत्वा᳘ प्प्रास᳘हा सो᳘ममपिबत्स व्वि᳘ष्व᳘ङ् व्व्यार्च्छत्त᳘स्य मु᳘खात्प्राणे᳘भ्यः श्रीयशसा᳘न्यूर्ध्वान्युदक्रामंस्ता᳘नि[[!!]] पशून्प्रा᳘विशंस्त᳘स्मात्पश᳘वो य᳘शो य᳘शो ह भवति य᳘ ऽएवं᳘ व्विद्वा᳘न्त्सौत्राम᳘ण्या ऽभिषिच्य᳘ते॥
मूलम् - Weber
त्व᳘ष्टा हत᳘पुत्रः ॥
अभिचरणी᳘यम᳘पेन्द्रᳫं सो᳘ममा᳘हरत्तस्ये᳘न्द्रो यज्ञवेशसं᳘ कृत्वा᳘ प्रास᳘हा सो᳘ममपिबत्स वि᳘ष्वॗङ् व्यार्छत्त᳘स्य मु᳘खात्प्राणे᳘भ्यः श्रीयशसा᳘न्यूर्ध्वान्यु᳘दक्रामंस्ता᳘नि पशून्प्रा᳘विशंस्त᳘स्मात्पश᳘वो य᳘शो य᳘शो ह भवति य᳘ एवं᳘ विद्वा᳘न्त्सौत्रामॗण्याभिषिच्य᳘ते ॥
मूलम् - विस्वरम्
त्वष्टा हतपुत्रो ऽभिचरणीयमपेन्द्रं सोममाहरत् । तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोममपिबत् । स विष्वङ् व्यार्च्छत् । तस्य मुखात् प्राणेभ्यः श्रीयशसान्यूर्ध्वान्युदक्रामन् । तानि पशून् प्राविशन् । तस्मात्पशवो यशः । यशो ह भवति । य एवं विद्वान् सौत्रामण्या ऽभिषिच्यते ॥ १ ॥
हरिस्वामी
त्वष्टा हतपुत्रः । प्रसन्नप्रायमेव ब्राह्मणम् । वसाहोमः 1 । तच्छेषेणाभिषेकः 2 । अंगालम्भः 3 । अभिषिक्तस्य 4 उद्ग्रहणावतरणे अंगालंभाः । त्रयत्रिंशवसाग्रहग्रहणहोमभक्षाः 5 6 7 । मुखात्प्राणेभ्यश्च इति चशब्दो द्रष्टव्यः । मुखात्तदितरेभ्यश्चेत्यर्थः । श्रीयशसानि इति श्रेयस्यः सुखनीयाः । कायस्य साराः । ताः यशांसि च । लोके अगर्हितानि यशस्वीनि तेजआदीनि यथोक्तानि । ऊर्ध्वानि उत्क्रांतानि सोमेन सह । तानि पशून् सोममिव आत्तप्रभावात् पशुषु प्रविविशुः । तैरेवोपेतास्ते पशवो जायन्त इत्यर्थः । यस्मात्तानि पशून् अजात्सोममिश्रत्वात्प्रतिष्ठानि । तस्मात्ते पशवो यशश्विनः अभ्यर्हिताः लोको यशस्वी एव संबंधनीय इति एवमुपासीत ॥ १-४ ॥
Eggeling
- Tvashṭr̥, seeing his son slain, brought Soma suitable for witchery, and withheld from Indra. Indra, committing a desecration of the sacrifice, by main force drank off his (Tvashṭr̥’s) Soma juice. He went asunder in every direction,–from his mouth and vital airs his excellence and fame passed
away, and entered the cattle, whence cattle are one’s fame: and famous, indeed, is he who, knowing this, is consecrated 8 by the Sautrāmaṇī.
मूलम् - Makoto
त्व᳓ष्टा᳓ हत᳓पुत्रः ।॥
अभिचरणी᳓यम् अ᳓पेन्द्रँ सो᳓मम् आ᳓हरत् त᳓स्ये᳓न्द्रो यज्ञवेशसं᳓ कृत्वा᳓ प्रा᳓स᳓हा᳓ सो᳓मम् अपिबत् स᳓ वि᳓ष्वङ् व्या᳙र्छत् त᳓स्य मु᳓खा᳓त् प्रा᳓णे᳓भ्यः श्रीयशसा᳓न्य् ऊर्ध्वा᳓न्य् उ᳓दक्रा᳓मंस् ता᳓नि पशू᳓न् प्रा᳓विशंस् त᳓स्मा᳓त् पश᳓वो य᳓शो य᳓शो ह भवति य᳓ एवं᳓ विद्वा᳓न्त् सौत्रा᳓मण्या᳙भिषिच्य᳓ते ॥॥
०२
विश्वास-प्रस्तुतिः
त᳘तो ऽस्मा ऽएत᳘मश्वि᳘नौ च स᳘रस्वती च॥
यज्ञᳫँ᳭ स᳘मभरन्त्सौत्रामणीम्भै᳘षज्याय त᳘यैनम᳘भ्यषिञ्चंस्त᳘तो वै स᳘ देवा᳘नाᳫँ᳭ श्रे᳘ष्ठो ऽभवच्छ्रे᳘ष्ठः स्वा᳘नाम्भवति य᳘ ऽएनया ऽभिषिच्य᳘ते॥
मूलम् - श्रीधरादि
त᳘तो ऽस्मा ऽएत᳘मश्वि᳘नौ च स᳘रस्वती च॥
यज्ञᳫँ᳭ स᳘मभरन्त्सौत्रामणीम्भै᳘षज्याय त᳘यैनम᳘भ्यषिञ्चंस्त᳘तो वै स᳘ देवा᳘नाᳫँ᳭ श्रे᳘ष्ठो ऽभवच्छ्रे᳘ष्ठः स्वा᳘नाम्भवति य᳘ ऽएनया ऽभिषिच्य᳘ते॥
मूलम् - Weber
त᳘तोऽस्माऽएत᳘मश्वि᳘नौ च स᳘रस्वती च ॥
यज्ञᳫं स᳘मभरन्त्सौत्रामणीं भै᳘षज्याय त᳘यैनमॗभ्यषिञ्चंस्त᳘तो वै स᳘ देवा᳘नाᳫं श्रे᳘ष्ठोऽभवछ्रे᳘ष्ठः स्वा᳘नां भवति य᳘ एनयाभिषिच्य᳘ते ॥
मूलम् - विस्वरम्
ततो ऽस्मा एतमश्विनौ च सरस्वती च यज्ञं समभरन् सौत्रामणीं भैषज्याय । तयैनमभ्यषिंचन् । ततो वै स देवानां श्रेष्ठो ऽभवत् । श्रेष्ठः स्वानां भवति । य एनया ऽभिषिच्यते ॥ २ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- The two Aśvins and Sarasvatī then prepared for him this sacrifice, the Sautrāmaṇī, for the purpose of healing him, and thereby consecrated him: thereby he became the highest of gods, and so does he who is consecrated by that (offering) become the highest among his own people.
मूलम् - Makoto
त᳓तो ऽस्मा᳓ एत᳓म् अश्वि᳓नौ च स᳓रस्वती च ।॥
यज्ञँ᳓ स᳓मभरन्त् सौत्रा᳓मणीं᳓ भै᳓षज्या᳓य त᳓यैनम् अभ्य᳙षिञ्चंस् त᳓तो वै᳓ स᳓ देवा᳓नाँ᳓ श्रे᳓ष्ठो ऽभवच् छ्रे᳓ष्ठः स्वा᳓नां᳓ भवति य᳓ एनया᳓भिषिच्य᳓ते ॥॥
०३
विश्वास-प्रस्तुतिः
कृष्णाजि᳘ने ऽभि᳘षिञ्चति॥
यज्ञो वै᳘ कृष्णाजिनं᳘ यज्ञ᳘ ऽए᳘वैनमेत᳘दभि᳘षिञ्चति लोमतश्छ᳘न्दाᳫँ᳭सि वै लो᳘मानि च्छ᳘न्दःस्वे᳘वैनमेत᳘दभि᳘षिञ्चति॥
मूलम् - श्रीधरादि
कृष्णाजि᳘ने ऽभि᳘षिञ्चति॥
यज्ञो वै᳘ कृष्णाजिनं᳘ यज्ञ᳘ ऽए᳘वैनमेत᳘दभि᳘षिञ्चति लोमतश्छ᳘न्दाᳫँ᳭सि वै लो᳘मानि च्छ᳘न्दःस्वे᳘वैनमेत᳘दभि᳘षिञ्चति॥
मूलम् - Weber
कृष्णाजिॗनेऽभि᳘षिञ्चति ॥
यज्ञो वै᳘ कृष्णाजिनं᳘ यज्ञ᳘ऽएॗवैनमेत᳘दभि᳘षिञ्चति लोमतश्छ᳘न्दाᳫंसि वै लो᳘मानि छ᳘न्दःस्वेॗवैनमेत᳘दभि᳘षिञ्चति ॥
मूलम् - विस्वरम्
कृष्णाजिने ऽभिषिंचति । यज्ञो वै कृष्णाजिनम् । यज्ञ एवैनमेतदभिषिंचति । लोमतः । छन्दांसि वै लोमानि । छन्दस्स्वेवैनमेतदभिषिंचति ॥ ३ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- He consecrates him on a black antelope skin; for the black antelope skin is the sacrifice 9: it is at the sacrifice he thus consecrates him; on the hairy side (of the skin), for the hair is the metres: it is on the metres (or sacred writ) he thus consecrates him.
मूलम् - Makoto
कृष्णा᳓जिने᳙ ऽभि᳓षिञ्चति ।॥
यज्ञो᳓ वै᳓ कृष्णा᳓जिनं᳓ यज्ञ᳓ एवै᳙नम् एत᳓द् अभि᳓षिञ्चति लोमतश् छ᳓न्दाँ᳓सि वै᳓ लो᳓मा᳓नि छ᳓न्दःस्व् एवै᳙नम् एत᳓द् अभि᳓षिञ्चति ॥॥
०४
विश्वास-प्रस्तुतिः
(त्या) आसन्द्या᳘मभि᳘षिञ्चति॥
(त्या) आसन्दीसद्वै सा᳘म्राज्यᳫँ᳭ सा᳘म्राज्येनै᳘वैनᳫँ᳭ सा᳘म्राज्यङ्गमयति॥
मूलम् - श्रीधरादि
(त्या) आसन्द्या᳘मभि᳘षिञ्चति॥
(त्या) आसन्दीसद्वै सा᳘म्राज्यᳫँ᳭ सा᳘म्राज्येनै᳘वैनᳫँ᳭ सा᳘म्राज्यङ्गमयति॥
मूलम् - Weber
आसन्द्या᳘मभि᳘षिञ्चति ॥
आसन्दीसद्वै सा᳘म्राज्यᳫं सा᳘म्राज्येनैॗवैनᳫं सा᳘म्राज्यं गमयति ॥
मूलम् - विस्वरम्
आसंद्यामभिषिंचति । आसंदीसद्वै साम्राज्यम् । साम्राज्येनैवैनं साम्राज्यं गमयति ॥ ४ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- On a throne-seat he consecrates him, for imperial dignity is seated (established) on a throne-seat: by means of imperial dignity he thus causes him to attain imperial dignity.
मूलम् - Makoto
आ᳓सन्द्या᳓म् अभि᳓षिञ्चति ।॥
आ᳓सन्दीस᳓द् वै᳓ सा᳓म्रा᳓ज्यँ सा᳓म्रा᳓ज्येनैवै᳙नँ सा᳓म्रा᳓ज्यं गमयति ॥॥
०५
विश्वास-प्रस्तुतिः
(त्यौ᳘) औ᳘दुम्बरी भवति॥
(त्यू) ऊर्ग्वा᳘ ऽउदुम्ब᳘र ऽऊ᳘र्ज्येवा᳘ध्यभि᳘षिच्यते जा᳘नुसम्मिता भवति जा᳘नुसम्मितो वा᳘ ऽअयं᳘ लो᳘को ऽस्मा᳘ ऽउ वै᳘ लोका᳘य क्षत्रि᳘यो ऽभि᳘षिच्यते क्षत्त्र᳘मु वा᳘ ऽएष᳘ भवति यः᳘ सौत्राम᳘ण्या ऽभिषिच्य᳘ते त᳘स्माज्जा᳘नुसम्मिता᳘ परिमिता तिर᳘श्ची॥
मूलम् - श्रीधरादि
(त्यौ᳘) औ᳘दुम्बरी भवति॥
(त्यू) ऊर्ग्वा᳘ ऽउदुम्ब᳘र ऽऊ᳘र्ज्येवा᳘ध्यभि᳘षिच्यते जा᳘नुसम्मिता भवति जा᳘नुसम्मितो वा᳘ ऽअयं᳘ लो᳘को ऽस्मा᳘ ऽउ वै᳘ लोका᳘य क्षत्रि᳘यो ऽभि᳘षिच्यते क्षत्त्र᳘मु वा᳘ ऽएष᳘ भवति यः᳘ सौत्राम᳘ण्या ऽभिषिच्य᳘ते त᳘स्माज्जा᳘नुसम्मिता᳘ परिमिता तिर᳘श्ची॥
मूलम् - Weber
औ᳘दुम्बरी भवति ॥
ऊर्ग्वा᳘ऽउदुम्ब᳘र ऊॗर्ज्येवा᳘ध्यभि᳘षिच्यते जा᳘नुसंमिता भवति जा᳘नुसंमितो वा᳘ऽअयं᳘ लोॗकोऽस्मा᳘ऽउ वै᳘ लोका᳘य क्षत्रि᳘योऽभि᳘षिच्यते क्षत्र᳘मु वा᳘ऽएष᳘ भवति यः᳘ सौत्रामॗण्याभिषिच्य᳘ते त᳘स्माज्जा᳘नुसंमिता᳘परिमिता तिर᳘श्ची ॥
मूलम् - विस्वरम्
औदुम्बरी भवति । ऊर्ग्वा उदुम्बरः । ऊर्ज्येवाध्यभिषिच्यते । जानुसंमिता भवति । जानुसंमितो वा अयं लोकः । अस्मा उ वै लोकाय क्षत्रियो ऽभिषिच्यते । क्षत्त्रमु वा एष भवति । यः सौत्रामण्या ऽभिषिच्यते । तस्मात् जानुसंमिता । परिमिता तिरश्ची ॥ ५ ॥
हरिस्वामी
सौत्रामण्या अभिषिच्यते । सौत्रामण्या यजत इत्याह- क्षत्त्रमु वा एष भवति । क्षत्रियो वै । (क्षत्रियपदादिति सितान्येषां भवति ?) । ततश्चैश्वर्यं तस्मिन्नेव लोके इत्यभिप्रायः ॥ ५ ॥
Eggeling
- It is made of udumbara wood, for the udumbara (ficus glomerata) is strength: for the sake of strength he thus is consecrated. It is knee-high, for knee-high is this (terrestrial) world, and it is for (the rule of) this world that the Kshatriya is consecrated; and the ruler (kshatra) indeed he becomes who is consecrated by the Sautrāmaṇī: therefore it is knee-high, and of unlimited size horizontally (in width and depth),–
मूलम् - Makoto
औ᳓दुम्बरी भवति ।॥
ऊ᳓र्ग् वा᳓ उदुम्ब᳓र ऊर्ज्य् ए᳙वा᳓ध्यभिषिच्यते जा᳓नुसमिता᳓ भवति जा᳓नुसंमितो वा᳓ अयं᳓ लोको᳙ ऽस्मा᳓ उ वै᳓ लोका᳓य क्षत्रि᳓यो ऽभि᳓षिच्यते क्षत्र᳓म् उ वा᳓ एष᳓ भवति यः᳓ सौत्रा᳓मण्या᳙भिषिच्य᳓ते त᳓स्मा᳓ज् जा᳓नुसंमिता᳓परिमिता᳓ तिर᳓श्ची ॥॥
०६
विश्वास-प्रस्तुतिः
राष्ट्रम्वा᳘ ऽआसन्दी[[!!]]॥
(न्द्य᳘) अ᳘परिमितसमृद्धमु वै᳘ राष्ट्रं मु᳘ञ्जविवयना भवति यज्ञि᳘या हि मु᳘ञ्जा द्वा ऽउ᳘त्तरस्याम्वे᳘द्याम्पा᳘दौ भ᳘वतो द्वौ द᳘क्षिणस्यामयम्वै᳘ लोक ऽउ᳘त्तरा व्वे᳘दिर्द्द᳘क्षिणा पितृलोकस्त᳘देनमुभ᳘योर्ल्लोक᳘योर᳘ध्यभि᳘षिञ्चति॥
मूलम् - श्रीधरादि
राष्ट्रम्वा᳘ ऽआसन्दी[[!!]]॥
(न्द्य᳘) अ᳘परिमितसमृद्धमु वै᳘ राष्ट्रं मु᳘ञ्जविवयना भवति यज्ञि᳘या हि मु᳘ञ्जा द्वा ऽउ᳘त्तरस्याम्वे᳘द्याम्पा᳘दौ भ᳘वतो द्वौ द᳘क्षिणस्यामयम्वै᳘ लोक ऽउ᳘त्तरा व्वे᳘दिर्द्द᳘क्षिणा पितृलोकस्त᳘देनमुभ᳘योर्ल्लोक᳘योर᳘ध्यभि᳘षिञ्चति॥
मूलम् - Weber
रा᳘ष्ट्रं वा᳘ऽआ᳘सन्दी᳟ ॥
अ᳘परिमितसमृद्धमु वै᳘ राष्ट्रं मु᳘ञ्जविवयना भवति यज्ञि᳘या हि मु᳘ञ्जा द्वाऽउ᳘त्तरस्यां वे᳘द्यां पा᳘दौ भ᳘वतो द्वौ द᳘क्षिणस्यामयं वै᳘ लोक उ᳘त्तरा वे᳘दिर्द᳘क्षिणा पितृलोकस्त᳘देनमुभ᳘योर्लोक᳘योर᳘ध्यभि᳘षिञ्चति ॥
मूलम् - विस्वरम्
राष्ट्रं वा आसंदी । अपरिमितसमृद्धमु वै राष्ट्रम् । मुंजविवयना भवति । यज्ञिया हि मुंजाः । द्वा उत्तरस्यां वेद्यां पादौ भवतः । द्वौ दक्षिणस्याम् । अयं वै लोक उत्तरवेदिः । दक्षिणा पितृलोकः । तदेनमुभयोर्लोकयोरध्यभिषिंचति ॥ ६ ॥
हरिस्वामी
‘राष्ट्रं वा आसंदी’ । राष्ट्रं जनपदः । तत् आसंदी उपास्या । ततः किं ? अपरिमितं बहुना अपरिमितेन गृहक्षत्त्रपशुहिरण्यादिना समृद्धं राष्ट्रं भवति । ततो यज्ञे ऽपि राष्ट्रात्मिका दीप्तिरपरिमितैव स्यादिति । विधिवदूह्यते । मुंजानि विवयनानि यस्यामेव मुंजविवयना ॥ ६ ॥
Eggeling
- For the throne-seat means royal dignity, and of unlimited prosperity is royal dignity. It is covered with plaited reed-work, for reed-grass is meet for sacrifice. Two of its feet stand on the
northern, and two on the southern altar-ground 10, for the northern vedi is this (terrestrial) world, and the southern one the world of the Fathers: he thus consecrates him for both worlds.
मूलम् - Makoto
रा᳓ष्ट्रं᳓ वा᳓ आ᳓सन्दी᳓ ।॥
अ᳓परिमितसमृद्धम् उ वै᳓ रा᳓ष्ट्रं᳓ मु᳓ञ्जविवयना᳓ भवति यज्ञि᳓या᳓ हि᳓ मु᳓ञ्जा᳓ द्वा᳓ उ᳓त्तरस्यां᳓ वे᳓द्यां᳓ पा᳓दौ भ᳓वतो द्वौ᳓ द᳓क्षिणस्या᳓म् अयं᳓ वै᳓ लोक᳓ उ᳓त्तरा᳓ वे᳓दिर् द᳓क्षिणा᳓ पितृलोक᳓स् त᳓द् एनम् उभ᳓योर् लोक᳓योर् अ᳓ध्य् अभि᳓षिञ्चति ॥॥
०७
विश्वास-प्रस्तुतिः
(त्ये) एत᳘द्ध स्म वै त᳘द्विद्वा᳘नाह॥
गौ᳘रीवीतिः शाक्त्यः᳘ क्षत्त्र᳘मिवा᳘ह कि᳘ल व्वय᳘ममु᳘ष्मिंल्लोके᳘ भविता᳘स्म ऽइ᳘ति श᳘श्वद्धास्मा ऽऋषभो᳘ याज्ञतुरः प्प्रो᳘वाच श्वि᳘क्नानाᳫँ᳭ रा᳘जा॥
मूलम् - श्रीधरादि
(त्ये) एत᳘द्ध स्म वै त᳘द्विद्वा᳘नाह॥
गौ᳘रीवीतिः शाक्त्यः᳘ क्षत्त्र᳘मिवा᳘ह कि᳘ल व्वय᳘ममु᳘ष्मिंल्लोके᳘ भविता᳘स्म ऽइ᳘ति श᳘श्वद्धास्मा ऽऋषभो᳘ याज्ञतुरः प्प्रो᳘वाच श्वि᳘क्नानाᳫँ᳭ रा᳘जा॥
मूलम् - Weber
एत᳘द्ध स्म वै त᳘द्विद्वा᳘नाह ॥
गौ᳘रीवितिः शाक्त्यः᳘ क्षत्र᳘मिवा᳘ह कि᳘ल वय᳘ममु᳘ष्मिंलोके᳘ भविता᳘ स्म इ᳘ति श᳘श्वद्धास्माऽऋषभो᳘ याज्ञतुरः प्रो᳘वाच श्वि᳘क्नानाᳫं रा᳘जा ॥
मूलम् - विस्वरम्
एतद्ध स्म वै तद्विद्वानाह गोरीवीतिः शाक्तयः । क्षत्त्रमिवाह किल वयममुष्मिन् लोके भवितास्म इति । शश्वद्धास्मा ऋषभो याज्ञतुरः प्रोवाच श्विक्नानां राजा ॥ ७ ॥
हरिस्वामी
एतद्ध स्म । उभयोर्लोकयोरेनमभिषिंचति । क्षत्त्रं वैष भवति यः सौत्रामण्या ऽभिषिच्यते । एतद्विद्वानाह- गोरीवीतस्यापत्यं गोरीवीतिः । शक्तस्यापत्यं शाक्त्यः । सौत्रामणीयाजी राजा आह उक्तवान् । क्षत्त्रं किल वयममुष्मिन् लोके पतिर्भवितास्म इत्येतदुक्तवान् । केभ्यः स्वयं दृष्टे अहकिलशब्दौ अवधारणार्थौ । कुतः ? पुनः शक्यत एव श्रुतत्वात् । मनः क्षत्रियभवनमित्यत आह शश्वच्च बहुकृत्वः । अस्मै ऋषभो यज्ञतुरस्यापत्यम् ॥ ७-१२ ॥
Eggeling
मूलम् - Makoto
एत᳓द् ध स्म वै᳓ त᳓द् विद्वा᳓न् आ᳓ह ।॥
गौ᳓रीवितिः शा᳓क्त्यः᳓ क्षत्र᳓म् इवा᳓ह कि᳓ल वय᳓म् अमु᳓ष्मिं लोके᳓ भविता᳓ स्म इ᳓ति श᳓श्वद् धा᳓स्मा᳓ ऋषभो᳓ या᳓ज्ञतुरः᳓ प्रो᳓वा᳓च श्विक्ना᳓नाँ᳓ रा᳓जा᳓ ॥॥
०८
विश्वास-प्रस्तुतिः
स᳘ ऽआसन्दीमा᳘स्तृणाति॥
क्षत्त्र᳘स्य यो᳘निरसि क्षत्त्र᳘स्य ना᳘भिरसी᳘ति क्षत्त्र᳘स्य वा᳘ ऽएषा यो᳘निः क्षत्त्र᳘स्य ना᳘भिः॥
मूलम् - श्रीधरादि
स᳘ ऽआसन्दीमा᳘स्तृणाति॥
क्षत्त्र᳘स्य यो᳘निरसि क्षत्त्र᳘स्य ना᳘भिरसी᳘ति क्षत्त्र᳘स्य वा᳘ ऽएषा यो᳘निः क्षत्त्र᳘स्य ना᳘भिः॥
मूलम् - Weber
स᳘ आसन्दीमा᳘स्तृणाति ॥
क्षत्र᳘स्य यो᳘निरसि क्षत्र᳘स्य ना᳘भिरसी᳘ति क्षत्र᳘स्य वा᳘ऽएषा यो᳘निः क्षत्र᳘स्य ना᳘भिः ॥
मूलम् - विस्वरम्
स आसंदीमास्तृणाति । “क्षत्त्रस्य योनिरसि क्षत्त्रस्य नाभिरसि”- इति । क्षत्त्रस्य वा एषा योनिः । क्षत्त्रस्य नाभिः ॥ ८ ॥
हरिस्वामी
[व्याख्यानं सप्तमे]
Eggeling
- He places the throne-seat, with (Vāj. S. XX, 1), ‘Thou art the womb of the Kshatra, thou art the navel of the Kshatra!’ for it indeed is the womb and navel of the Kshatra (ruling power).
मूलम् - Makoto
स᳓ आ᳓सन्दी᳓म् आ᳓स्तृणा᳓ति ।॥
क्षत्र᳓स्य यो᳓निर् असि क्षत्र᳓स्य ना᳓भिर् असी᳓ति क्षत्र᳓स्य वा᳓ एषा᳓ यो᳓निः क्षत्र᳓स्य ना᳓भिः ॥॥
०९
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थैनाङ्कृष्णाजिनेना᳘स्तृणाति॥
मा᳘ त्वा हिᳫँ᳭सीन्मा᳘[[!!]] मा हिᳫँ᳭सीरि᳘ति यज्ञो वै᳘ कृष्णाजिनं᳘ यज्ञ᳘स्य चै᳘वात्म᳘नश्चा᳘हिᳫँ᳭सायै॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थैनाङ्कृष्णाजिनेना᳘स्तृणाति॥
मा᳘ त्वा हिᳫँ᳭सीन्मा᳘[[!!]] मा हिᳫँ᳭सीरि᳘ति यज्ञो वै᳘ कृष्णाजिनं᳘ यज्ञ᳘स्य चै᳘वात्म᳘नश्चा᳘हिᳫँ᳭सायै॥
मूलम् - Weber
अ᳘थैनां कृष्णाजिनेना᳘स्तृणाति ॥
मा᳘ त्वा हि᳘ᳫं᳘सीन्मा᳘ मा हिᳫंसीरि᳘ति यज्ञो वै᳘ कृष्णाजिनं᳘ यज्ञ᳘स्य चैॗवात्म᳘नश्चा᳘हिᳫंसायै ॥
मूलम् - विस्वरम्
अथैनां कृष्णाजिनेनास्तृणाति । “मा त्वा हिंसीन्मा मा हिंसीः”- (वा. सं. २० । १) इति । यज्ञो वै कृष्णाजिनम् । यज्ञस्य चैवात्मनश्चाहिंसायै ॥ ९ ॥
हरिस्वामी
[व्याख्यानं सप्तमे]
Eggeling
- He then spreads the black antelope skin thereon, with, ‘May it not injure thee! do not
injure me!’ for the black antelope skin is the sacrifice: (thus it is spread) for the safety of the sacrifice and his own self.
मूलम् - Makoto
अ᳓थैनां᳓ कृष्णा᳓जिने᳓ना᳓स्तृणा᳓ति ।॥
मा᳓ त्वा᳓ हिँ᳓सीन् मा᳓ मा᳓ हिँसीर् इ᳓ति यज्ञो᳓ वै᳓ कृष्णा᳓जिनं᳓ यज्ञ᳓स्य चैवा᳙त्म᳓नश् चा᳓हिँसा᳓यै ॥॥
१०
विश्वास-प्रस्तुतिः
(या ऽअ) अथा᳘धिरोहति॥
व्वारु᳘ण्यर्च्चा व्व᳘रुणो वै᳘ देवा᳘नाᳫँ᳭ रा᳘जा स्व᳘यै᳘वैनमेत᳘द्देव᳘तया ऽभि᳘षिञ्चति नि᳘षसाद धृत᳘व्व्रतो व्व᳘रुणः प᳘स्त्यास्वा᳘। सा᳘म्म्राज्याय सुक्र᳘तुरिति[[!!]]॥
मूलम् - श्रीधरादि
(या ऽअ) अथा᳘धिरोहति॥
व्वारु᳘ण्यर्च्चा व्व᳘रुणो वै᳘ देवा᳘नाᳫँ᳭ रा᳘जा स्व᳘यै᳘वैनमेत᳘द्देव᳘तया ऽभि᳘षिञ्चति नि᳘षसाद धृत᳘व्व्रतो व्व᳘रुणः प᳘स्त्यास्वा᳘। सा᳘म्म्राज्याय सुक्र᳘तुरिति[[!!]]॥
मूलम् - Weber
अथा᳘धिरोहति ॥
वारुॗण्यर्चा व᳘रुणो वै᳘ देवा᳘नाᳫं रा᳘जा स्व᳘यैॗवैनमेत᳘द्देव᳘तयाभि᳘षिञ्चति नि᳘षसाद धृत᳘व्रतो व᳘रुणः पॗस्त्यास्वा᳟ सा᳘म्राज्याय सुक्र᳘तुरि᳟ति ॥
मूलम् - विस्वरम्
अथाधिरोहति वारुण्यर्चा । वरुणो वै देवानां राजा । स्वयैवैनमेतद्देवतया ऽभिषिंचति । “निषसाद धृतव्रतो वरुणः पस्त्यास्वा । साम्राज्याय सुक्रतुः”- (वा. सं. २० । २) इति ॥ १० ॥
हरिस्वामी
[व्याख्यानं सप्तमे]
Eggeling
- He then mounts it, with a verse to Varuṇa (Vāj. S. XX, 2), for Varuṇa is the king of the gods: by means of his own deity he thus consecrates him 13,–‘He hath sat down, the upholder of the sacred law, Varuṇa, in the home-steads, for supreme rule, he the wise!’
मूलम् - Makoto
अ᳓था᳓धिरोहति ।॥
वा᳓रुण्य᳙र्चा᳓ व᳓रुणो वै᳓ देवा᳓नाँ᳓ रा᳓जा᳓ स्व᳓यैवै᳙नम् एत᳓द् देव᳓तया᳓भि᳓षिञ्चति नि᳓षसा᳓द धृत᳓व्रतो व᳓रुणः पस्त्या᳙स्व् आ᳓ ।॥
सा᳓म्रा᳓ज्या᳓य सुक्र᳓तुर् इ᳓ति ॥॥
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ सुवर्ण्णरजतौ᳘ रुक्मौ᳘ व्यु᳘पास्यति॥
मृत्योः᳘ पाहि व्विद्यो᳘त्पाही᳘ति व्वृ᳘ष्टिर्व्वै᳘ व्विराट्त᳘स्या ऽएते᳘ घोरे᳘ त᳘न्वौ व्विद्यु᳘च्च ह्रादु᳘निश्च त᳘तः सुव᳘र्ण्ण ऽएव᳘ रुक्मो᳘ व्विद्यु᳘तो रूप᳘ᳫँ᳘ रजतो᳘ ह्रादु᳘नेस्ता᳘भ्यामे᳘वास्मै देव᳘ताभ्याᳫँ᳭ श᳘र्म्म यच्छति त᳘स्मात्सौत्राम᳘ण्येजान᳘स्यैता᳘भ्यां देव᳘ताभ्यां न᳘ शङ्का᳘ भवत्य᳘थो य᳘ ऽएव᳘मेतद्वे᳘द॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ सुवर्ण्णरजतौ᳘ रुक्मौ᳘ व्यु᳘पास्यति॥
मृत्योः᳘ पाहि व्विद्यो᳘त्पाही᳘ति व्वृ᳘ष्टिर्व्वै᳘ व्विराट्त᳘स्या ऽएते᳘ घोरे᳘ त᳘न्वौ व्विद्यु᳘च्च ह्रादु᳘निश्च त᳘तः सुव᳘र्ण्ण ऽएव᳘ रुक्मो᳘ व्विद्यु᳘तो रूप᳘ᳫँ᳘ रजतो᳘ ह्रादु᳘नेस्ता᳘भ्यामे᳘वास्मै देव᳘ताभ्याᳫँ᳭ श᳘र्म्म यच्छति त᳘स्मात्सौत्राम᳘ण्येजान᳘स्यैता᳘भ्यां देव᳘ताभ्यां न᳘ शङ्का᳘ भवत्य᳘थो य᳘ ऽएव᳘मेतद्वे᳘द॥
मूलम् - Weber
अ᳘थ सुवर्णरजतौ᳘ रुक्मौ᳘ व्यु᳘पास्यति ॥
मृत्योः᳘ पाहि विद्यो᳘त्पाही᳘ति वृ᳘ष्टिर्वै᳘ विराट् त᳘स्या एते᳘ घोरे᳘ तॗन्वौ विद्यु᳘च्च ह्रादु᳘निश्च त᳘तः सुव᳘र्ण एव᳘ रुक्मो᳘ विद्यु᳘तो रूप᳘ᳫं᳘ रजतो᳘ ह्रादु᳘नेस्ता᳘भ्यामेॗवास्मै देव᳘ताभ्याᳫं श᳘र्म यछति त᳘स्मात्सौत्रामॗण्येजान᳘स्यैता᳘भ्यां देव᳘ताभ्यां न᳘ शङ्का᳘ भवत्य᳘थो य᳘ एव᳘मेतद्वे᳘द ॥
मूलम् - विस्वरम्
अथ सुवर्णरजतौ रुक्मौ व्युपास्यति । “मृत्योः पाहि विद्योत्पाहि”- (वा. सं २० । २) इति । वृष्टिर्वै विराट् । तस्या एते घोरे तन्वौ । विद्युच्च- हादुनिश्च । ततः सुवर्ण एव रुक्मो विद्युतो रूपम् । रजतो हादुनेः । ताभ्यामेवास्मै देवताभ्यां शर्म यच्छति । तस्मात् सौत्रामण्येजानस्यैताभ्यां देवताभ्यां न शंका भवति । अथो य एवमेतद्वेद ॥ ११ ॥
हरिस्वामी
[व्याख्यानं सप्तमे]
Eggeling
- He then throws down a gold and a silver plate (beneath his feet, the silver one beneath the left foot) with, ‘Protect (me) from death!’ (the gold one beneath the right foot 14 with,) ‘Protect (me) from lightning!’ The Virāj, doubtless, is the rain, and of this there are these two terrible forms, lightning and hail; of these the gold plate is of the form of lightning, and the silver one of that of hail: against these two deities he affords protection to him, whence he who has performed the Sautrāmaṇī has no fear of these two deities, as he also who thus knows this.
मूलम् - Makoto
अ᳓थ सुवर्णरजतौ᳓ रुक्मौ᳓ व्यु᳓पा᳓स्यति ।॥
मृत्योः᳓ पा᳓हि विद्यो᳓त् पा᳓ही᳓ति वृ᳓ष्टिर् वै᳓ विरा᳓ट् त᳓स्या᳓ एते᳓ घोरे᳓ तन्वौ᳙ विद्यु᳓च् च ह्रा᳓दु᳓निश् च त᳓तः सुव᳓र्ण एव᳓ रुक्मो᳓ विद्यु᳓तो रूपँ᳓ रजतो᳓ ह्रा᳓दु᳓नेस् ता᳓भ्या᳓म् एवा᳙स्मै देव᳓ता᳓भ्याँ᳓ श᳓र्म यछति त᳓स्मा᳓त् सौत्रा᳓मण्ये᳙जा᳓न᳓स्यैता᳓भ्यां᳓ देव᳓ता᳓भ्यां᳓ न᳓ शङ्का᳓ भवत्य् अ᳓थो य᳓ एव᳓म् एत᳓द् वे᳓द ॥॥
१२
विश्वास-प्रस्तुतिः
पशूनाम्व᳘सया ऽभि᳘षिञ्चति॥
श्रीर्व्वै᳘ पशूनाम्व᳘सा श्रि᳘यै᳘वैनमेत᳘त्पशूनाᳫँ᳭ र᳘सेनाभि᳘षिञ्चत्य᳘थो परमम्वा᳘ ऽएत᳘दन्ना᳘द्यं यद्व᳘सा परमे᳘णै᳘वैनमेत᳘दन्ना᳘द्येनाभि᳘षिञ्चति॥
मूलम् - श्रीधरादि
पशूनाम्व᳘सया ऽभि᳘षिञ्चति॥
श्रीर्व्वै᳘ पशूनाम्व᳘सा श्रि᳘यै᳘वैनमेत᳘त्पशूनाᳫँ᳭ र᳘सेनाभि᳘षिञ्चत्य᳘थो परमम्वा᳘ ऽएत᳘दन्ना᳘द्यं यद्व᳘सा परमे᳘णै᳘वैनमेत᳘दन्ना᳘द्येनाभि᳘षिञ्चति॥
मूलम् - Weber
पशूनां व᳘सयाभि᳘षिञ्चति ॥
श्रीर्वै᳘ पशूनां व᳘सा श्रिॗयैॗवैनमेत᳘त्पशूनाᳫं र᳘सेनाभि᳘षिञ्चत्य᳘थो परमं वा᳘ऽएत᳘दन्ना᳘द्यं यद्व᳘सा परमे᳘णैॗवैनमेत᳘दन्ना᳘द्येनाभि᳘षिञ्चति ॥
मूलम् - विस्वरम्
पशूनां वसया ऽभिषिंचति । श्रीर्वै पशूनां वसा । श्रियैवैनमेतत् पशूनां रसेनाभिषिंचति । अथो परमं वा एतदन्नाद्यम् । यद्वसा । परमेणैवैनमेतदन्नाद्येनाभिषिंचति ॥ १२ ॥
हरिस्वामी
[व्याख्यानं सप्तमे]
Eggeling
- He consecrates him by sprinkling him with the fat gravy of the sacrificial animals, for the gravy of the animals means excellence: with that excellence, the essence of cattle, he thus sprinkles him. But that gravy is also the highest kind of food: with the highest kind of food he thus sprinkles him.
मूलम् - Makoto
पशूनां᳓ व᳓सया᳓भि᳓षिञ्चति ।॥
श्री᳓र् वै᳓ पशूनां᳓ व᳓सा᳓ श्रियै᳙वै᳙नम् एत᳓त् पशूनाँ᳓ र᳓सेना᳓भि᳓षिञ्चत्य् अ᳓थो परमं᳓ वा᳓ एत᳓द् अन्ना᳓द्यं य᳓द् व᳓सा᳓ परमे᳓णैवै᳙नम् एत᳓द् अन्ना᳓द्येना᳓भि᳓षिञ्चति ॥॥
१३
विश्वास-प्रस्तुतिः
शफग्ग्रहा᳘ भवन्ति॥
शफैर्व्वै᳘ पश᳘वः प्र᳘तितिष्ठन्ति प्प्रतिष्ठा᳘मे᳘वैनङ्गमयति त्र᳘यस्त्रिᳫँ᳭शद्ग्र᳘हा भवन्ति त्र᳘यस्त्रिᳫँ᳭शद्वै स᳘र्व्वा देव᳘ताः स᳘र्व्वाभिरे᳘वैनमेत᳘द्देव᳘ताभिरभि᳘षिञ्चति ज᳘गतीभिर्ज्जुहोति जा᳘गता वै᳘ पश᳘वो ज᳘गत्यै᳘वास्मै पशू᳘नवरुन्द्धे षोडश᳘भिर्ऋग्भि᳘र्ज्जुहोति षो᳘डशकला वै᳘ पश᳘वो ऽनुकल᳘मे᳘वास्मिञ्छ्रि᳘यन्दधाति॥
मूलम् - श्रीधरादि
शफग्ग्रहा᳘ भवन्ति॥
शफैर्व्वै᳘ पश᳘वः प्र᳘तितिष्ठन्ति प्प्रतिष्ठा᳘मे᳘वैनङ्गमयति त्र᳘यस्त्रिᳫँ᳭शद्ग्र᳘हा भवन्ति त्र᳘यस्त्रिᳫँ᳭शद्वै स᳘र्व्वा देव᳘ताः स᳘र्व्वाभिरे᳘वैनमेत᳘द्देव᳘ताभिरभि᳘षिञ्चति ज᳘गतीभिर्ज्जुहोति जा᳘गता वै᳘ पश᳘वो ज᳘गत्यै᳘वास्मै पशू᳘नवरुन्द्धे षोडश᳘भिर्ऋग्भि᳘र्ज्जुहोति षो᳘डशकला वै᳘ पश᳘वो ऽनुकल᳘मे᳘वास्मिञ्छ्रि᳘यन्दधाति॥
मूलम् - Weber
शफग्रहा᳘ भवन्ति ॥
शफैर्वै᳘ पश᳘वः प्र᳘तितिष्ठन्ति प्रतिष्ठा᳘मेॗवैनं गमयति त्र᳘यस्त्रिᳫंशद्ग्र᳘हा भवन्ति त्र᳘यस्त्रिᳫंशद्वै स᳘र्वा देव᳘ताः स᳘र्वाभिरेॗवैनमेत᳘द्देव᳘ताभिरभि᳘षिञ्चति ज᳘गतीभिर्जुहोति जा᳘गता वै᳘ पश᳘वो ज᳘गत्यैॗवास्मै पशू᳘नवरुन्द्धे षोडश᳘भिर्ऋग्भि᳘र्जुहोति षोडशकला वै᳘ पश᳘वोऽनुकल᳘मेॗवास्मिञ्छ्रि᳘यं दधति ॥
मूलम् - विस्वरम्
शफग्रहा भवंति । शफैर्वै पशवः प्रतितिष्ठंति । प्रतिष्ठामेवैनं गमयति । त्रयस्त्रिंशत् ग्रहा भवंति । त्रयस्त्रिंशद्वै सर्वा देवताः । सर्वाभिरेवैनमेतद्देवताभिरभिषिंचति । जगतीभिर्जुहोति । जागता वै पशवः । जगत्यैवास्मै पशूनवरुंधे । षोडशभिर्ऋग्भिर्जुहोति । षोडशकला वै पशवः । अनुकलमेवास्मिन् श्रियं दधाति ॥ १३ ॥
हरिस्वामी
शफैर्वसाग्रहा गृह्यंते । प्रत्यर्चं द्वौ द्वौ हुत्वा । तेच्छेषान्वैतसे सते पात्रे समवनीय । तैस्तैः संस्रवैः सः संहितो यजमानो ऽभिषिच्यत इत्येतत् अतः परमुच्यते- त्रयस्त्रिंशद्ग्रहा इति । यः अभिषेकोत्तरकालं सस्तोत्रशस्नो वसाग्रहो गृह्यते स त्रयस्त्रिंशः ॥ १३ ॥
Eggeling
- There are hoof-cups (of gravy), for on hoofs cattle support themselves: he thus causes him to obtain a support. There are thirty-three (such)
cupfuls, for thirty-three in number are all the deities: by means of all the deities he thus consecrates him. He offers them with jagatī verses, for animals are of jāgata (movable) nature: by means of the Jagatī he thus secures cattle for him. With sixteen verses (Vāj. S. XIX, 80-94) he offers, for animals are of sixteen parts: he thus bestows excellence (or prosperity) on him part by part.
मूलम् - Makoto
शफग्रहा᳓ भवन्ति ।॥
शफै᳓र् वै᳓ पश᳓वः प्र᳓तितिष्ठन्ति प्रतिष्ठा᳓म् एवै᳙नं गमयति त्र᳓यस्त्रिँशद् ग्र᳓हा᳓ भवन्ति त्र᳓यस्त्रिँशद् वै᳓ स᳓र्वा᳓ देव᳓ताः᳓ स᳓र्वा᳓भिर् एवै᳙नम् एत᳓द् देव᳓ता᳓भिर् अभि᳓षिञ्चति ज᳓गतीभिर् जुहोति जा᳓गता᳓ वै᳓ पश᳓वो ज᳓गत्यैवा᳙स्मै पशू᳓न् अ᳓वरुन्द्धे षोडश᳓भिर् ऋग्भि᳓र् जुहोति षोडशकला᳓ वै᳓ पश᳓वो ऽनुकल᳓म् एवा᳙स्मिन् छ्रि᳓यं दधति ॥॥
१४
विश्वास-प्रस्तुतिः
सी᳘सेन त᳘न्त्रम्म᳘नसा मनीषि᳘ण ऽइ᳘ति॥
द्वौ᳘ द्वौ समा᳘सᳫँ᳭ हुत्वा स᳘ते सᳫँ᳭स्रवा᳘न्त्सम᳘वनयत्यहोरात्रा᳘ण्ये᳘वैत᳘दर्द्धमासान्मा᳘सानृतू᳘न्त्सम्वत्सरे प्प्र᳘तिष्ठापयति ता᳘नीमा᳘न्यहोरात्रा᳘ण्यर्द्धमासा मा᳘सा ऽऋत᳘वः सम्वत्सरे प्प्र᳘तिष्ठिताः॥
मूलम् - श्रीधरादि
सी᳘सेन त᳘न्त्रम्म᳘नसा मनीषि᳘ण ऽइ᳘ति॥
द्वौ᳘ द्वौ समा᳘सᳫँ᳭ हुत्वा स᳘ते सᳫँ᳭स्रवा᳘न्त्सम᳘वनयत्यहोरात्रा᳘ण्ये᳘वैत᳘दर्द्धमासान्मा᳘सानृतू᳘न्त्सम्वत्सरे प्प्र᳘तिष्ठापयति ता᳘नीमा᳘न्यहोरात्रा᳘ण्यर्द्धमासा मा᳘सा ऽऋत᳘वः सम्वत्सरे प्प्र᳘तिष्ठिताः॥
मूलम् - Weber
सी᳘सेन त᳘न्त्रं म᳘नसा मनीषि᳘ण इ᳘ति ॥
द्वौ᳘-द्वौ समा᳘सᳫं हुत्वा स᳘ते सᳫंस्रवा᳘न्त्सम᳘वनयत्यहोरात्रा᳘ण्येॗवैत᳘दर्धमासान्मा᳘सानृतू᳘न्त्संवत्सरे प्र᳘तिष्ठापयति ता᳘नीमा᳘न्यहोरात्रा᳘ण्यर्धमासा मा᳘सा ऋत᳘वः संवत्सरे प्र᳘तिष्ठिताः ॥
मूलम् - विस्वरम्
“सीसेन तंत्रं मनसा मनीषिणः”- (वा. सं. १९ । ८०) इति द्वौ द्वौ समासं हुत्वा । सते संस्रवान् समवनयति । अहोरात्राण्येवैतदर्धमासान् मासान् ऋतून् संवत्सरे प्रतिष्ठापयति । तानीमान्यहोरात्राण्यर्द्धमासा मासा ऋतवः संवत्सरे प्रतिष्ठिताः ॥ १४ ॥
हरिस्वामी
समस्य समस्य समासम् । अहोरात्राण्येवैतदर्धमासान् । अहोरात्राभ्यामहोरात्रं चतुर्विंशत्यर्द्धमासान् । तेषामेव द्वादशभिर्युगलैर्मासान् । षड्भिर्मासयुगलैः षड्ऋतूनित्यभिप्रायः ॥ १४ ॥ १५ ॥
Eggeling
- ‘With lead the wise, with wool and thread 15 the sages weave the web, the sacrifice: the Aśvins, Savitr̥, Sarasvatī, and Varuṇa healed the form of Indra 16.’ Each time he has offered two (cupfuls) together, he pours the residue into a bowl (sata): he thereby establishes the days and nights, the half-months, the months, and the seasons in the year, and hence these days and nights, half-months, months, and seasons are established (contained) in the year.
मूलम् - Makoto
सी᳓सेन त᳓न्त्रं म᳓नसा᳓ मनीषि᳓ण इ᳓ति ।॥
द्वौ᳓द्वौ समा᳓सँ हुत्वा᳓ स᳓ते सँस्रवा᳓न्त् सम᳓वनयत्य् अहोरा᳓त्रा᳓ण्य् एवै᳙त᳓द् अर्धमा᳓सा᳓न् मा᳓सा᳓न् ऋतू᳓न्त् संवत्सरे᳓ प्र᳓तिष्ठा᳓पयति ता᳓नीमा᳓न्य् अहोरा᳓त्रा᳓ण्य् अर्धमा᳓सा᳓ मा᳓सा᳓ ऋत᳓वः संवत्सरे᳓ प्र᳓तिष्ठिताः᳓ ॥॥
१५
विश्वास-प्रस्तुतिः
(०) व्वैतसः स᳘तो भवति॥
(त्य) अप्सु᳘योनिर्व्वै᳘ व्वेतस ऽआ᳘पो वै स᳘र्व्वा देव᳘ताः स᳘र्व्वाभिरे᳘वैनमेत᳘द्देव᳘ताभिरभि᳘षिञ्चति॥
मूलम् - श्रीधरादि
(०) व्वैतसः स᳘तो भवति॥
(त्य) अप्सु᳘योनिर्व्वै᳘ व्वेतस ऽआ᳘पो वै स᳘र्व्वा देव᳘ताः स᳘र्व्वाभिरे᳘वैनमेत᳘द्देव᳘ताभिरभि᳘षिञ्चति॥
मूलम् - Weber
वैतसः स᳘तो 17 भवति ॥
अप्सु᳘योनिर्वै᳘ वेतस आ᳘पो वै स᳘र्वा देव᳘ताः स᳘र्वाभिरेॗवैनमेत᳘द्देव᳘ताभिरभि᳘षिञ्चति ॥
मूलम् - विस्वरम्
वैतसः सतो भवति । अप्सुयोनिर्वै वेतसः । आपो वै सर्वा देवताः । सर्वाभिरेवैनमेतद्देवताभिरभिषिंचति ॥ १५ ॥
हरिस्वामी
[व्याख्यानं चतुर्दशे]
Eggeling
- The bowl is made of reed, for the reed has its birth-place in the waters, and the waters are all the deities: by means of all the deities he thus consecrates him.
मूलम् - Makoto
वैतसः᳓ स᳓तो भवति ।॥
अप्सु᳓योनिर् वै᳓ वेतस᳓ आ᳓पो वै᳓ स᳓र्वा᳓ देव᳓ताः᳓ स᳓र्वा᳓भिर् एवै᳙नम् एत᳓द् देव᳓ता᳓भिर् अभि᳓षिञ्चति ॥॥
१६
विश्वास-प्रस्तुतिः
सर्व्वसुर᳘भ्युन्म᳘र्द्दनम्भवति॥
परमो वा᳘ ऽएष᳘ गन्धो य᳘त्सर्व्वसुर᳘भ्युन्म᳘र्द्दनङ्गन्धे᳘नै᳘वैनमेत᳘दभिषिञ्चति[[!!]]॥
मूलम् - श्रीधरादि
सर्व्वसुर᳘भ्युन्म᳘र्द्दनम्भवति॥
परमो वा᳘ ऽएष᳘ गन्धो य᳘त्सर्व्वसुर᳘भ्युन्म᳘र्द्दनङ्गन्धे᳘नै᳘वैनमेत᳘दभिषिञ्चति[[!!]]॥
मूलम् - Weber
सर्वसुरॗभ्युन्म᳘र्दनं भवति ॥
परमो वा᳘ऽएष᳘ गन्धो य᳘त्सर्वसुरॗभ्युन्म᳘र्दनं गन्धे᳘नैॗवैनमेत᳘दभि᳘षिञ्चति ॥
मूलम् - विस्वरम्
सर्वसुरभ्युन्मर्द्दनं भवति । परमो वा एष गंधः । यत्सर्वसुरभ्युन्मर्द्दनम् । गंधेनैवैनमेतदभिषिंचति ॥ १६ ॥
हरिस्वामी
सर्वसुरभि चंदनादि उन्मर्द्दनं उद्वर्तनं यजमानस्य भवति । तेनोन्मृदितसर्वगात्रो ऽभिषेक्तव्य इत्यभिप्रायः ॥ १६ ॥
Eggeling
- A rubbing down (of the Sacrificer) with all manner of sweet-smelling substances takes place (before sprinkling him with fat), for such a rubbing down with all manner of sweet-smelling substances means supreme fragrance: with fragrance he thus consecrates (anoints) him.
मूलम् - Makoto
सर्वसुरभ्य् उ᳙न्म᳓र्दनं भवति ।॥
परमो᳓ वा᳓ एष᳓ गन्धो᳓ य᳓त् सर्वसुरभ्य् उ᳙न्म᳓र्दनं गन्धे᳓नैवै᳙नम् एत᳓द् अभि᳓षिञ्चति ॥॥
१७
विश्वास-प्रस्तुतिः
पुर᳘स्तात्प्रत्य᳘ङ्ङभि᳘षिञ्चति॥
पुर᳘स्ताद्धि᳘ प्रत्यग᳘न्नमद्य᳘ते शीर्षतः᳘ शीर्षतो ह्य᳘न्नमद्य᳘त ऽआ मु᳘खादन्व᳘वस्रावयति मु᳘खेन ह्य᳘न्नमद्य᳘ते सर्व्व᳘तः परिक्रा᳘मᳫँ᳭ स᳘र्व्वाभ्य ऽए᳘वास्मिन्नेत᳘द्दि᳘ग्भ्यो ऽन्ना᳘द्यन्दधाति त᳘स्मात्सौत्राम᳘ण्येजान᳘स्य स᳘र्व्वासु दि᳘क्ष्वन्ना᳘द्यम᳘वरुद्धम्भवत्य᳘थो य᳘ ऽएव᳘मेतद्वे᳘द॥
मूलम् - श्रीधरादि
पुर᳘स्तात्प्रत्य᳘ङ्ङभि᳘षिञ्चति॥
पुर᳘स्ताद्धि᳘ प्रत्यग᳘न्नमद्य᳘ते शीर्षतः᳘ शीर्षतो ह्य᳘न्नमद्य᳘त ऽआ मु᳘खादन्व᳘वस्रावयति मु᳘खेन ह्य᳘न्नमद्य᳘ते सर्व्व᳘तः परिक्रा᳘मᳫँ᳭ स᳘र्व्वाभ्य ऽए᳘वास्मिन्नेत᳘द्दि᳘ग्भ्यो ऽन्ना᳘द्यन्दधाति त᳘स्मात्सौत्राम᳘ण्येजान᳘स्य स᳘र्व्वासु दि᳘क्ष्वन्ना᳘द्यम᳘वरुद्धम्भवत्य᳘थो य᳘ ऽएव᳘मेतद्वे᳘द॥
मूलम् - Weber
पुर᳘स्तात्प्रत्य᳘ङ्ङभि᳘षिञ्चति ॥
पुर᳘स्ताद्धि᳘ प्रत्यग᳘न्नमद्य᳘ते शीर्षतः᳘ शीर्षतो ह्य᳘न्नमद्य᳘तऽआ मु᳘खादन्व᳘वस्रावयति मु᳘खेन ह्य᳘न्नमद्य᳘ते सर्व᳘तः परिक्रा᳘मᳫं स᳘र्वाभ्य एॗवास्मिन्नेत᳘द्दिॗग्भ्योऽन्ना᳘द्यं दधाति त᳘स्मात्सौत्रामॗण्येजान᳘स्य स᳘र्वासु दिॗक्ष्वन्ना᳘द्यमवरुद्धं भवत्य᳘थो य᳘ एव᳘मेतद्वे᳘द ॥
मूलम् - विस्वरम्
पुरस्तात्प्रत्यङ्ङभिषिंचति । पुरस्ताद्धि प्रत्यगन्नमद्यते शीर्षतः । शीर्षतो ह्यन्नमद्यते । आ मुखादन्ववस्रावयति । मुखेन ह्यन्नमद्यते । सर्वतः परिक्रामम् । सर्वाभ्य एवास्मिन्नेतद्दिग्भ्यो ऽन्नाद्यं दधाति । तस्मात्सौत्रामण्येजानस्य सर्वासु दिक्ष्वन्नाद्यमवरुद्धं भवति । अथो य एवमेतद्वेद ॥ १७ ॥
हरिस्वामी
‘पुरस्तात्प्रत्यङ्’ । यजमानस्य पुरस्तात् । उदङ्मुखः सन्नध्वर्युः यजमानमभिषिंचति । तैः पुरस्ताद्धि अग्रतः अवस्थितमन्नं प्रत्यक् समीपमद्यते । अभिषेकस्यापि यज्ञे अन्नादनादित्यभिप्रायः । ‘शीर्षतः’ । शिरसि अभिषिंचति । शिरसा हि मुखेनान्नमद्यते ॥ १७ ॥
Eggeling
- He sprinkles him (with the fat gravy) in front while (himself) looking towards the back (west), for
from the front food is visibly eaten. On. every side (he sprinkles him) whilst moving round: he thus bestows food on him from all quarters, whence food is secured from all quarters by him who has performed the Sautrāmaṇī, or even by him who thus knows this.
मूलम् - Makoto
पुर᳓स्ता᳓द् प्रत्य᳓ङ्ङ् अभि᳓षिञ्चति ।॥
पुर᳓स्ता᳓द् धि᳓ प्रत्य᳓ग् अ᳓न्नम् अद्य᳓ते शीर्षतः᳓ शीर्षतो᳓ ह्य् अ᳓न्नम् अद्य᳓त आ᳓ मु᳓खा᳓द् अन्व᳓वस्रा᳓वयति मु᳓खेन ह्य् अ᳓न्नम् अद्य᳓ते सर्व᳓तः परिक्रा᳓मँ स᳓र्वा᳓भ्य एवा᳙स्मिन्न् एत᳓द् दिग्भ्यो᳙ ऽन्ना᳓द्यं दधा᳓ति त᳓स्मा᳓त् सौत्रमण्ये᳙जा᳓न᳓स्य स᳓र्वा᳓सु दिक्ष्व् अ᳙न्ना᳓द्यम् अ᳓वरुद्धं भवत्य् अ᳓थो य᳓ एव᳓म् एत᳓द् वे᳓द ॥॥
१८
विश्वास-प्रस्तुतिः
(दा) आश्विने᳘न प्प्रथमे᳘न य᳘जुषा ऽभि᳘षिञ्चति॥
(त्य᳘) अ᳘थ सा᳘रस्वतेना᳘थैन्द्रे᳘णैता᳘भिरे᳘वैनमेत᳘द्देव᳘ताभिरभि᳘षिञ्चति तᳫँ᳭ है᳘क ऽएता᳘भिश्च देव᳘ताभिरभिषिञ्च᳘न्ति भूर्भ्भु᳘वः᳘ स्वरि᳘त्येता᳘भिरु च व्व्या᳘हृतिभिरेता वै व्व्या᳘हृतय ऽइदᳫँ᳭ स᳘र्व्वं त᳘देनमने᳘न स᳘र्व्वेणाभि᳘षिञ्चाम ऽइ᳘ति न त᳘था कुर्य्यादेता᳘भिरे᳘वैनन्देव᳘ताभिरभि᳘षिञ्चेदेता᳘ ऽउ᳘ ह्येव᳘ देव᳘ता ऽइदᳫँ᳭ स᳘र्व्वम्॥
मूलम् - श्रीधरादि
(दा) आश्विने᳘न प्प्रथमे᳘न य᳘जुषा ऽभि᳘षिञ्चति॥
(त्य᳘) अ᳘थ सा᳘रस्वतेना᳘थैन्द्रे᳘णैता᳘भिरे᳘वैनमेत᳘द्देव᳘ताभिरभि᳘षिञ्चति तᳫँ᳭ है᳘क ऽएता᳘भिश्च देव᳘ताभिरभिषिञ्च᳘न्ति भूर्भ्भु᳘वः᳘ स्वरि᳘त्येता᳘भिरु च व्व्या᳘हृतिभिरेता वै व्व्या᳘हृतय ऽइदᳫँ᳭ स᳘र्व्वं त᳘देनमने᳘न स᳘र्व्वेणाभि᳘षिञ्चाम ऽइ᳘ति न त᳘था कुर्य्यादेता᳘भिरे᳘वैनन्देव᳘ताभिरभि᳘षिञ्चेदेता᳘ ऽउ᳘ ह्येव᳘ देव᳘ता ऽइदᳫँ᳭ स᳘र्व्वम्॥
मूलम् - Weber
आश्विने᳘न प्रथमे᳘न य᳘जुषाभि᳘षिञ्चति ॥
अ᳘थ सा᳘रस्वतेना᳘थैन्द्रे᳘णैता᳘भिरेॗवैनम्त᳘द्देव᳘ताभिरभि᳘षिञ्चति तᳫं है᳘कऽएता᳘भिश्च देव᳘ताभिरभिषिञ्च᳘न्ति भूर्भु᳘वःॗ स्वरि᳘त्येता᳘भिरु च व्या᳘हृतिभिरेता वै व्या᳘हृतय इदᳫं स᳘र्वं त᳘देनमने᳘न स᳘र्वेणाभि᳘षिञ्चाम इ᳘ति न त᳘था कुर्यादेता᳘भिरेॗवैनं देव᳘ताभिरभि᳘षिञ्चेदेता᳘ उॗ ह्येव᳘ देव᳘ता इदᳫं स᳘र्वम् ॥
मूलम् - विस्वरम्
आश्विनेन प्रथमेन यजुषा ऽभिषिंचति । अथ सारस्वतेन । अथैन्द्रेण एताभिरेवैनमेतद्देवताभिरभिषिंचति । तं हैके- एताभिश्च देवताभिरभिषिंचन्ति । भूर्भुवः स्वरित्येताभिरु च व्याहृतिभिः । एता वै व्याहृतय इदं सर्वम् । तदेनमनेन सर्वेणाभिषिंचाम इति । न तथा कुर्यात् । एताभिरेवैनं देवताभिरभिषिंचेत् । एता उ ह्येव देवता इदं सर्वम् ॥ १८ ॥
हरिस्वामी
आश्विनेन “अश्विनोर्भैषज्येन” (वा. सं. २० । ३) इत्यनेन । अथ सारस्वतेन । “सरस्वत्यै भैषज्येन” (वा. सं. २० । ३) इति । ऐन्द्रेण । “इंद्रियस्येन्द्रियेण” (वा. सं. २० । ३) इति । एताभिरेवैनमेतद्देवताभिरिति । यत्तदश्विनोः सरस्वत्या भैषज्यम् । यच्च तदिन्द्रस्येन्द्रियम् । एताभ्यो देवताभ्यः अन्यत् व्यतिरिक्तमात्मा वै देवस्य देवतेत्यभिप्रायः । ‘इदं सर्वं’ त्रैलोक्यं (कविवादभिप्रानसव्यविविधेयगर्भत्वादित्यभिप्रायः ?) ॥ १८ ॥
Eggeling
- With a formula to the Aśvins he sprinkles him first 18, then with one to Sarasvatī, then with one to Indra: it is by means of these deities he thus consecrates him. Now, some consecrate him by means both of these deities and those utterances, ‘bhūḥ bhuvaḥ, svar,’ ‘for,’ say they, ’these utterances (“earth, air, heaven”) mean all this (universe) it is by means of all this (universe) we thus consecrate him.’ Let him, however, not do so, but let him only consecrate him by means of those deities, for those deities, indeed, are all this (universe).
मूलम् - Makoto
आ᳓श्विने᳓न प्रथमे᳓न य᳓जुषा᳓भि᳓षिञ्चति ।॥
अ᳓थ सा᳓रस्वतेना᳓थैन्द्रे᳓णैता᳓भिर् एवै᳙नम् एत᳓द् देव᳓ता᳓भिर् अभि᳓षिञ्चति तँ᳓ है᳓क एता᳓भिश् च देव᳓ता᳓भिर् अभिषिञ्च᳓न्ति भू᳓र् भु᳓वः स्व᳙र् इ᳓त्य् एता᳓भिर् उ च व्या᳓हृतिभिर् एता᳓ वै᳓ व्या᳓हृतय इदँ᳓ स᳓र्वं त᳓द् एनम् अने᳓न स᳓र्वेणा᳓भि᳓षिञ्चा᳓म इ᳓ति न᳓ त᳓था᳓ कुर्या᳓द् एता᳓भिर् एवै᳙नं देव᳓ता᳓भिर् अभि᳓षिञ्चेद् एता᳓ उ ह्य् ए᳙व᳓ देव᳓ता᳓ इदँ᳓ स᳓र्वम् ॥॥
१९
विश्वास-प्रस्तुतिः
(म्पु) पुर᳘स्तात्स्विष्टकृ᳘तो ऽभि᳘षिञ्चति॥
क्षत्त्रम्वै᳘ स्विष्टकृ᳘त्क्षत्त्रे᳘णै᳘वैनमेत᳘दभि᳘षिञ्चत्यन्तरा व्व᳘नस्प᳘तिञ्च स्विष्टकृ᳘तञ्चाभि᳘षिञ्चति सो᳘मो वै व्व᳘नस्प᳘तिरग्निः᳘ स्विष्टकृ᳘दग्नीषो᳘माभ्यामे᳘वैनमेत᳘त्परिगृ᳘ह्याभि᳘षिञ्चति त᳘स्माद्ये᳘ चैत᳘द्विदुर्य्ये᳘ च न त᳘ ऽआहुः क्षत्रि᳘यो वाव᳘ क्षत्रि᳘यस्याभिषेक्तेति[[!!]]॥
मूलम् - श्रीधरादि
(म्पु) पुर᳘स्तात्स्विष्टकृ᳘तो ऽभि᳘षिञ्चति॥
क्षत्त्रम्वै᳘ स्विष्टकृ᳘त्क्षत्त्रे᳘णै᳘वैनमेत᳘दभि᳘षिञ्चत्यन्तरा व्व᳘नस्प᳘तिञ्च स्विष्टकृ᳘तञ्चाभि᳘षिञ्चति सो᳘मो वै व्व᳘नस्प᳘तिरग्निः᳘ स्विष्टकृ᳘दग्नीषो᳘माभ्यामे᳘वैनमेत᳘त्परिगृ᳘ह्याभि᳘षिञ्चति त᳘स्माद्ये᳘ चैत᳘द्विदुर्य्ये᳘ च न त᳘ ऽआहुः क्षत्रि᳘यो वाव᳘ क्षत्रि᳘यस्याभिषेक्तेति[[!!]]॥
मूलम् - Weber
पुर᳘स्तात्स्विष्टकृ᳘तोऽभि᳘षिञ्चति ॥
क्षत्रं वै᳘ स्विष्टकृ᳘त्क्षत्रे᳘णैॗवैनमेत᳘दभि᳘षिञ्चत्यन्तरा व᳘नस्प᳘तिं च स्विष्टकृ᳘तं चाभि᳘षिञ्चति सो᳘मो वै व᳘नस्प᳘तिरग्निः᳘ स्विष्टकृ᳘दग्नीषो᳘माभ्यामेॗवैनमेत᳘त्परिगृ᳘ह्याभि᳘षिञ्चति त᳘स्माद्ये᳘ चैत᳘द्विदुर्ये᳘ च न त᳘ऽआहुः क्षत्रि᳘यो वाव᳘ क्षत्रि᳘यस्याभिषेक्ते᳘ति ॥
मूलम् - विस्वरम्
पुरस्तात् स्विष्टकृतो ऽभिषिंचति । क्षत्त्रं वै स्विष्टकृत् । क्षत्त्रेणैवैनमेतदभिषिंचति । अंतरा वनस्पतिं च स्विष्टकृतं चाभिषिंचति । सोमो वै वनस्पतिः । अग्निः स्विष्टकृत् । अग्नीषोमाभ्यामेवैनमेतत्परिगृह्याभिषिंचति । तस्मात् ये चैतद्विदुः । ये च न । त आहुः । क्षत्रियो वाव क्षत्रियस्याभिषेक्तेति ॥ १९ ॥
हरिस्वामी
‘पुरस्तात्स्विष्टकृतः’ । ‘क्षत्त्रं वै स्विष्टकृत्’ । आयतनाद्योत्तरत उपेत्याद इति हि वीर्येण स्विष्टकृतो भागः कल्पित इति क्षत्त्रमित्युच्यते । क्षत्रियेण राज्ञा अभिषिक्तो भवति । पूर्वो हि राजैव वृद्धः कुमारं चाभिषिंचतीत्यर्थः ॥ १९-२२ ॥
Eggeling
- He consecrates him prior to the Svishṭakr̥t (offering), for the Svishṭakr̥t is the Kshatra: he thus consecrates him by means of the Kshatra (or, by a Kshatriya). And he consecrates him between (the oblation to) the Lord of the Forest 19 and the
Svishṭakr̥t, for the lord of the forest (or the tree) is Soma, and the Svishṭakr̥t (maker of good offering) is Agni: he thus consecrates him after encompassing him by Agni and Soma; whence both those who know, and those who do not, say, ‘A Kshatriya is the consecrator of a Kshatriya 20.’
मूलम् - Makoto
पुर᳓स्ता᳓त् स्विष्टकृ᳓तो ऽभि᳓षिञ्चति ।॥
क्षत्रं᳓ वै᳓ स्विष्टकृ᳓त् क्षत्रे᳓णैवै᳙नम् एत᳓द् अभि᳓षिञ्चत्य् अन्तरा᳓ व᳓नस्प᳓तिं च स्विष्टकृ᳓तं चा᳓भि᳓षिञ्चति सो᳓मो वै᳓ व᳓नस्प᳓तिर् अग्निः᳓ स्विष्टकृ᳓द् अग्नीषो᳓मा᳓भ्या᳓म् एवै᳙नम् एत᳓त् परिगृ᳓ह्या᳓भि᳓षिञ्चति त᳓स्मा᳓द् ये᳓ चैत᳓द् विदु᳓र् ये᳓ च न᳓ त᳓ आ᳓हुः क्षत्रि᳓यो वा᳓व᳓ क्षत्रि᳓यस्या᳓भिषेक्ते᳓ति ॥॥
२०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनञ्जानुमात्रे᳘ धारयन्ति॥
(न्त्य᳘) अ᳘थ नाभिमात्रे᳘ ऽथ मुखमात्र᳘ ऽए᳘ष्वे᳘वास्मा ऽएत᳘ल्लोके᳘ष्वाय᳘तनानि कल्पयत्यभिषेको वा᳘ ऽएष᳘ य᳘द्वाजपे᳘यमभिषेकः᳘ सौत्रामणी तद्य᳘थै᳘वादो᳘ व्वाजपे᳘ये यू᳘पᳫँ᳭ रो᳘हति त᳘दे᳘वैत᳘द्रूप᳘ङ्क्रियते॥ (अर्द्धः प्रपाठकः ॥कं.५६॥)
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनञ्जानुमात्रे᳘ धारयन्ति॥
(न्त्य᳘) अ᳘थ नाभिमात्रे᳘ ऽथ मुखमात्र᳘ ऽए᳘ष्वे᳘वास्मा ऽएत᳘ल्लोके᳘ष्वाय᳘तनानि कल्पयत्यभिषेको वा᳘ ऽएष᳘ य᳘द्वाजपे᳘यमभिषेकः᳘ सौत्रामणी तद्य᳘थै᳘वादो᳘ व्वाजपे᳘ये यू᳘पᳫँ᳭ रो᳘हति त᳘दे᳘वैत᳘द्रूप᳘ङ्क्रियते॥ (अर्द्धः प्रपाठकः ॥कं.५६॥)
मूलम् - Weber
अ᳘थैनं जानुमात्रे᳘ धारयन्ति ॥
अ᳘थ नाभिमात्रे᳘ऽथ मुखमात्र᳘ऽएॗष्वेॗवास्माऽएत᳘ल्लोके᳘ष्वाय᳘तनानि कल्पयत्यभिषेको वा᳘ऽएष᳘ य᳘द्वाजपे᳘यमभिषेकः᳘ सौत्रामणी तद्य᳘थैॗवादो᳘ वाजपे᳘ये यू᳘पᳫं रो᳘हति त᳘देॗवैत᳘द्रूपं᳘ क्रियते ॥
मूलम् - विस्वरम्
अथैनं जानुमात्रे धारयंति । अथ नाभिमात्रे । अथ मुखमात्रे । एष्वेवास्मा एतल्लोकेष्वायतनानि कल्पयति । अभिषेको वा एषः । यत् वाजपेयम् । अभिषेकः सौत्रामणी । तद्यथैवादो वाजपेये यूपं रोहति । तदेवैतत् रूपं क्रियते ॥ २० ॥
हरिस्वामी
[व्याख्यानं नवदशे]
Eggeling
मूलम् - Makoto
अ᳓थैनं जा᳓नुमा᳓त्रे᳓ धा᳓रयन्ति ।॥
अ᳓थ ना᳓भिमा᳓त्रे᳓ ऽथ मुखमा᳓त्र᳓ एष्व् ए᳙वा᳙स्मा᳓ एत᳓ल् लोके᳓ष्व् आ᳓य᳓तना᳓नि कल्पयत्य् अभिषेको᳓ वा᳓ एष᳓ य᳓द् वा᳓जपे᳓यम् अभिषेकः᳓ सौत्रा᳓मणी᳓ त᳓द् य᳓थैवा᳙दो᳓ वा᳓जपे᳓ये यू᳓पँ रो᳓हति त᳓द् एवै᳙त᳓द् रूपं᳓ क्रियते ॥॥
२१
विश्वास-प्रस्तुतिः
त᳘दाहुः᳘॥ प्प्रेव वा᳘ ऽए᳘षो ऽस्मा᳘ल्लोका᳘च्च्यवते यः᳘ सौत्राम᳘ण्या ऽभिषिच्य᳘त ऽइ᳘ति कृष्णाजिने᳘ प्प्रत्य᳘वरोहति यज्ञो वै᳘ कृष्णाजिनं᳘ यज्ञ᳘ ऽए᳘वान्ततः प्प्र᳘तितिष्ठति॥
मूलम् - श्रीधरादि
त᳘दाहुः᳘॥ प्प्रेव वा᳘ ऽए᳘षो ऽस्मा᳘ल्लोका᳘च्च्यवते यः᳘ सौत्राम᳘ण्या ऽभिषिच्य᳘त ऽइ᳘ति कृष्णाजिने᳘ प्प्रत्य᳘वरोहति यज्ञो वै᳘ कृष्णाजिनं᳘ यज्ञ᳘ ऽए᳘वान्ततः प्प्र᳘तितिष्ठति॥
मूलम् - Weber
त᳘दाहुः᳟᳟ ॥ प्रेव वा᳘ऽएॗषोऽस्मा᳘ल्लोका᳘च्च्यवते यः᳘ सौत्रामॗण्याभिषिच्य᳘तऽइ᳘ति कृष्णाजिने᳘ प्रत्य᳘वरोहति यज्ञो वै᳘ कृष्णाजिनं᳘ यज्ञ᳘ऽएॗवान्ततः प्र᳘तितिष्ठति ॥
मूलम् - विस्वरम्
तदाहुः- प्रेव वा एषो ऽस्माल्लोकाच्च्यवते । यः सौत्रामण्या ऽभिषिच्यत इति । कृष्णाजिने प्रत्यवरोहति । यज्ञो वै कृष्णाजिनम् । यज्ञ एवांततः प्रतितिष्ठति ॥ २१ ॥
हरिस्वामी
[व्याख्यानं नवदशे]
Eggeling
- As to this they say, ‘But, surely, he who is consecrated by the Sautrāmaṇī moves away from this world.’ Well, he descends again upon the black antelope skin, and, the black antelope skin being the sacrifice, he thus finally establishes himself on the sacrifice.
मूलम् - Makoto
त᳓द् आ᳓हुः ।॥
प्रे᳙व वा᳓ एषो᳙ ऽस्मा᳓ल् लोका᳓च् च्यवते यः᳓ सौत्रा᳓मण्या᳙भिषिच्य᳓त इ᳓ति कृष्णा᳓जिने᳓ प्रत्य᳓वरोहति यज्ञो᳓ वै᳓ कृष्णा᳓जिनं᳓ यज्ञ᳓ एवा᳙न्ततः᳓ प्र᳓तितिष्ठति ॥॥
२२
विश्वास-प्रस्तुतिः
प्प्र᳘ति क्षत्त्रे प्प्र᳘तितिष्ठामि राष्ट्र ऽइ᳘ति॥
क्षत्त्र᳘ ऽएव᳘ राष्ट्रे प्प्र᳘तितिष्ठति क्षत्त्रा᳘द्राष्ट्राद᳘प्रभ्रᳫँ᳭शाय प्प्रत्य᳘श्वेषु प्प्र᳘तितिष्ठामि गोष्वि᳘ति गो ऽश्व᳘ ऽएव प्प्र᳘तितिष्ठति गो ऽश्वाद᳘प्रभ्रᳫँ᳭शाय प्प्रत्य᳘ङ्गेषु प्प्र᳘तितिष्ठाम्यात्मन्नित्य᳘ङ्गेष्वे᳘वात्मन्प्र᳘तितिष्ठत्य᳘ङ्गेभ्य ऽआत्मनो᳘ ऽप्रभ्रᳫँ᳭शाय प्प्र᳘ति प्प्राणे᳘षु प्प्र᳘तितिष्ठामि पुष्ट ऽइ᳘ति प्प्राणे᳘ष्वेव᳘ पुष्टे प्प्र᳘तितिष्ठति प्प्राणे᳘भ्यः पुष्टादप्रभ्रᳫँ᳭शाय प्प्र᳘ति द्या᳘वापृथिव्योः प्प्र᳘तितिष्ठामि यज्ञ ऽइ᳘ति त᳘दन᳘योर्द्या᳘वापृथिव्योः प्प्र᳘तितिष्ठति य᳘योरिदᳫँ᳭ स᳘र्व्वमधि[[!!]]॥
मूलम् - श्रीधरादि
प्प्र᳘ति क्षत्त्रे प्प्र᳘तितिष्ठामि राष्ट्र ऽइ᳘ति॥
क्षत्त्र᳘ ऽएव᳘ राष्ट्रे प्प्र᳘तितिष्ठति क्षत्त्रा᳘द्राष्ट्राद᳘प्रभ्रᳫँ᳭शाय प्प्रत्य᳘श्वेषु प्प्र᳘तितिष्ठामि गोष्वि᳘ति गो ऽश्व᳘ ऽएव प्प्र᳘तितिष्ठति गो ऽश्वाद᳘प्रभ्रᳫँ᳭शाय प्प्रत्य᳘ङ्गेषु प्प्र᳘तितिष्ठाम्यात्मन्नित्य᳘ङ्गेष्वे᳘वात्मन्प्र᳘तितिष्ठत्य᳘ङ्गेभ्य ऽआत्मनो᳘ ऽप्रभ्रᳫँ᳭शाय प्प्र᳘ति प्प्राणे᳘षु प्प्र᳘तितिष्ठामि पुष्ट ऽइ᳘ति प्प्राणे᳘ष्वेव᳘ पुष्टे प्प्र᳘तितिष्ठति प्प्राणे᳘भ्यः पुष्टादप्रभ्रᳫँ᳭शाय प्प्र᳘ति द्या᳘वापृथिव्योः प्प्र᳘तितिष्ठामि यज्ञ ऽइ᳘ति त᳘दन᳘योर्द्या᳘वापृथिव्योः प्प्र᳘तितिष्ठति य᳘योरिदᳫँ᳭ स᳘र्व्वमधि[[!!]]॥
मूलम् - Weber
प्र᳘ति क्षत्रे प्र᳘ति तिष्ठामि राष्ट्रऽइ᳘ति ॥
क्षत्र᳘ऽएव᳘ राष्ट्रे प्र᳘तितिष्ठति क्षत्रा᳘द्राष्ट्राद᳘प्रभ्रᳫंशाय प्रत्य᳘श्वेषु प्र᳘ति तिष्ठामि गोष्वि᳘ति गोऽश्व᳘ऽएव प्र᳘तितिष्ठति गोऽश्वाद᳘प्रभ्रᳫंशाय प्रत्य᳘ङ्गेषु प्र᳘ति तिष्ठाम्यात्मन्नित्य᳘ङ्गेष्वेॗवात्मन्प्र᳘तितिष्ठत्य᳘ङ्गेभ्य आत्मनो᳘ऽप्रभ्रᳫंशाय प्र᳘ति प्राणे᳘षु प्र᳘तितिष्ठामि पुष्टऽइ᳘ति प्राणे᳘ष्वेव᳘ पुष्टे प्र᳘तितिष्ठति प्राणे᳘भ्यः पुष्टादप्रभ्रᳫंशाय प्र᳘ति द्या᳘वापृथिव्योः प्र᳘तितिष्ठामि यज्ञऽइ᳘ति त᳘दन᳘योर्द्या᳘वापृथिव्योः प्र᳘तितिष्ठति य᳘योरिदᳫं स᳘र्वम᳘धि ॥
मूलम् - विस्वरम्
“प्रति क्षत्त्रे प्रतितिष्ठामि राष्ट्रे”- इति । क्षत्त्र एव राष्ट्रे प्रतितिष्ठति । क्षत्त्रात् राष्ट्रादप्रभ्रंशाय । “प्रत्यश्वेषु प्रतितिष्ठामि गोषु”- इति । गो ऽश्व एव प्रतितिष्ठति । गो ऽश्वादप्रभ्रंशाय । “प्रत्यंगेषु प्रतितिष्ठाम्यात्मन्”- इति । अङ्गेष्वेवात्मन्प्रतितिष्ठति । अंगेभ्य आत्मनो ऽप्रभ्रंशाय । “प्रति प्राणेषु प्रतितिष्ठामि पुष्टे”- इति । प्राणेष्वेव पुष्टे प्रतितिष्ठति । प्राणेभ्यः पुष्टादप्रभ्रंशाय । “प्रति द्यावापृथिव्योः प्रतितिष्ठामि यज्ञे”- (वा. सं. २० । १०) इति । तदनयोर्द्यावापृथिव्योः प्रतितिष्ठति । ययोरिदं सर्वमधि ॥ २२ ॥
हरिस्वामी
[व्याख्यानं नवदशे]
Eggeling
- [He descends 23, with Vāj. S. XX, 10,] ‘Firmly 24 I establish myself in the Kshatra (lordship), in royal sway,’–in lordship and royal sway he thus establishes himself so as not to lose lordship and royal sway;–‘firmly in horses I establish
myself, and in kine,’–in the midst of horses and kine he thus establishes himself so as not to lose horses and kine;–‘firmly in the limbs I establish myself, and in the body,’–in the limbs and in the body he thus establishes himself so as not to lose his limbs and his body;–‘firmly in the vital airs I establish myself, and in prosperity,’–in the vital airs and in prosperity he thus establishes himself so as not to lose the vital airs and prosperity;–‘firmly in heaven and on earth I establish myself, and in the sacrifice,’–he thus establishes himself in these two, heaven and earth, within which is all this (universe).
मूलम् - Makoto
प्र᳓ति क्षत्रे᳓ प्र᳓ति तिष्ठा᳓मि रा᳓ष्ट्र᳓ इ᳓ति ।॥
क्षत्र᳓ एव᳓ रा᳓ष्ट्रे᳓ प्र᳓तितिष्ठति क्षत्रा᳓द् रा᳓ष्ट्रा᳓द् अ᳓प्रभ्रँशा᳓य प्र᳓त्य् अ᳓श्वेषु प्र᳓ति तिष्ठा᳓मि गो᳓ष्व् इ᳓ति गोऽश्व᳓ एव᳓ प्र᳓तितिष्ठैत् गोऽश्वा᳓द् अ᳓प्रभ्रँशा᳓य प्र᳓त्य् अ᳓ङ्गेषु प्र᳓ति तिष्ठा᳓म्य् आ᳓त्म᳓न्न् इ᳓त्य् अ᳓ङ्गेष्व् एवा᳙त्म᳓न् प्र᳓तितिष्ठत्य् अ᳓ङ्गेभ्य आ᳓त्म᳓नो᳓ ऽप्रभ्रँशा᳓य प्र᳓ति प्रा᳓णे᳓षु प्र᳓तितिष्ठा᳓मि पुष्ट᳓ इ᳓ति प्रा᳓णे᳓ष्व् एव᳓ पुष्टे᳓ प्र᳓तितिष्ठति प्रा᳓णे᳓भ्यः पुष्टा᳓द् अ᳓प्रभ्रँशा᳓य प्र᳓ति द्या᳓वा᳓पृथिव्योः᳓ प्र᳓तितिष्ठा᳓मि यज्ञ᳓ इ᳓ति त᳓द् अन᳓योर् द्या᳓वा᳓पृथिव्योः᳓ प्र᳓तितिष्ठति य᳓योर् इदँ᳓ स᳓र्वम् अ᳓धि ॥॥
२३
विश्वास-प्रस्तुतिः
(द्ध्य᳘) अ᳘थ सा᳘म गायति॥
क्षत्त्रम्वै सा᳘म क्षत्त्रे᳘णै᳘वैनमेत᳘दभि᳘षिञ्चत्य᳘थो सा᳘म्म्राज्यम्वै सा᳘म सा᳘म्म्राज्येनै᳘वैनᳫँ᳭ सा᳘म्म्राज्यङ्गमयति स᳘र्व्वेषाम्वा᳘ ऽएष व्वे᳘दानाᳫँ᳭ र᳘सो यत्सा᳘म स᳘र्व्वेषामे᳘वैनमेतद्वे᳘दानाᳫँ᳭ र᳘सेनाभि᳘षिञ्चति॥
मूलम् - श्रीधरादि
(द्ध्य᳘) अ᳘थ सा᳘म गायति॥
क्षत्त्रम्वै सा᳘म क्षत्त्रे᳘णै᳘वैनमेत᳘दभि᳘षिञ्चत्य᳘थो सा᳘म्म्राज्यम्वै सा᳘म सा᳘म्म्राज्येनै᳘वैनᳫँ᳭ सा᳘म्म्राज्यङ्गमयति स᳘र्व्वेषाम्वा᳘ ऽएष व्वे᳘दानाᳫँ᳭ र᳘सो यत्सा᳘म स᳘र्व्वेषामे᳘वैनमेतद्वे᳘दानाᳫँ᳭ र᳘सेनाभि᳘षिञ्चति॥
मूलम् - Weber
अ᳘थ सा᳘म गायति ॥
क्षत्रं वै सा᳘म क्षत्रे᳘णैॗवैनमेत᳘दभि᳘षिञ्चत्य᳘थो सा᳘म्राज्यं वै सा᳘म सा᳘म्राज्येनैॗवैनᳫं सा᳘म्राज्यं गमयति स᳘र्वेषां वा᳘ऽएष वे᳘दानाᳫं र᳘सो यत्सा᳘म स᳘र्वेषामेॗवैनमेतद्वे᳘दानाᳫं र᳘सेनाभि᳘षिञ्चति ॥
मूलम् - विस्वरम्
अथ साम गायति । क्षत्त्रं वै साम । क्षत्त्रेणैवैनमेतदभिषिंचति । अथो साम्राज्यं वै साम । साम्राज्येनैवैनं साम्राज्यं गमयति । सर्वेषां वा एष वेदानां रसः । यत्साम । सर्वेषामेवैनमेतद् वेदानां रसेनाभिषिंचति ॥ २३ ॥
हरिस्वामी
त्रयस्त्रिंशत् वसाग्रहा भवंतीत्युक्तम् । तेषां द्वात्रिंशत् ग्रहाः खुरगृहीताः । “सीसेन तंत्रम्” (वा. सं. १९ । ८०-९०) इत्येताभिश्च षोडशभिर्ऋग्भिर्द्वौ हुताः । तच्छेषेण च यजमानो ऽभिषिक्तः । त्रयस्त्रिंशस्य तु “या देवा एकादश” (वा. सं. २० । ११) इत्येष होममंत्रो वक्ष्यते । “लोमानि प्रयतिः” (वा. सं. २० । १३) इति भक्षमंत्रः । ततश्च लिंगक्रमाभ्यां सोत्रामणौ समाख्याभावाच्च “यो भूतानाम्” (वा. सं. २० । ३२) इत्ययमपि तस्यैव ग्रहणमंत्रः । ततश्च क्रमादिदमपि सामगानं च तस्यैव ग्रहस्येति गम्यते । क्षत्त्रं वै सामेति । “सुक्षत्त्रं तस्मादु ह एतद्यः सर्वः कृत्स्नो मन्यते गायति वैव गीतेय रमते” इति वचनात् । अथो साम्राज्यं एकैश्वर्यरूपम् । सम्राडेव हि कृत्स्नमात्मानं मन्यते । न तस्य परतंत्रं राज्यमित्यभिप्रायः । सर्वेषां वेदानां रस इति प्रगीत इति प्रथमस्य प्रीत्यभिप्रायहेतुत्वात् । एतानि च संशानाख्यानि चत्वारि सामानि भिन्ननिधनानि दर्शयिष्यंते । ततश्च सामेत्येकवचनं ऋच एकत्वात् द्रष्टव्यम् ॥ २३ ॥
Eggeling
- He 25 then sings a Sāman (hymn-tune), for the Sāman means lordship (kshatra): with lordship he thus consecrates him; or the Sāman means imperial sway: by means of imperial sway he thus causes him to attain imperial sway. And, indeed, the Sāman is the essence of all the Vedas: he thus consecrates him with the essence of all the Vedas.
मूलम् - Makoto
अ᳓थ सा᳓म गा᳓यति ।॥
क्षत्रं᳓ वै᳓ सा᳓म क्षत्रे᳓णैवै᳙नम् एत᳓द् अभि᳓षिञ्चत्य् अ᳓थो सा᳓म्रा᳓ज्यं वै᳓ सा᳓म सा᳓म्रा᳓ज्येनैवै᳙नँ सा᳓म्रा᳓ज्यं गमयति स᳓र्वेषां᳓ वा᳓ एष᳓ वे᳓दा᳓नाँ᳓ र᳓सो य᳓त् सा᳓म स᳓र्वेषा᳓म् एवै᳙नम् एत᳓द् वे᳓दा᳓नाँ᳓ र᳓सेना᳓भि᳓षिञ्चति ॥॥
२४
विश्वास-प्रस्तुतिः
बृहत्या᳘ङ्गायति॥
बृहत्याम्वा᳘ ऽअसा᳘वादित्यः᳘ श्रिया᳘म्प्रतिष्ठा᳘याम्प्र᳘तिष्ठितस्तपति बृहत्या᳘मे᳘वैनमेत᳘च्छ्रिया᳘म्प्रतिष्ठा᳘यां प्र᳘तिष्ठापयति॥
मूलम् - श्रीधरादि
बृहत्या᳘ङ्गायति॥
बृहत्याम्वा᳘ ऽअसा᳘वादित्यः᳘ श्रिया᳘म्प्रतिष्ठा᳘याम्प्र᳘तिष्ठितस्तपति बृहत्या᳘मे᳘वैनमेत᳘च्छ्रिया᳘म्प्रतिष्ठा᳘यां प्र᳘तिष्ठापयति॥
मूलम् - Weber
बृहत्यां᳘ गायति ॥
बृहत्यां वा᳘ऽअसा᳘वादित्यः᳘ श्रियां᳘ प्रतिष्ठा᳘यां प्र᳘तिष्ठितस्तपति बृहत्या᳘मेॗवैनमेत᳘छ्रियां᳘ प्रतिष्ठा᳘यां प्र᳘तिष्ठापयति ॥
मूलम् - विस्वरम्
बृहत्यां गायति । बृहत्यां वा असावादित्यः श्रियां प्रतिष्ठायां प्रतिष्ठितस्तपति । बृहत्यामेवैनमेतच्छ्रियां प्रतिष्ठायां प्रतिष्ठापयति ॥ २४ ॥
हरिस्वामी
बृहत्यां गायति । बृहत्यां वा असावादित्य इति । द्वादश मासाश्चतुर्विंशतिरर्द्धमासा इति अस्या बृहत्या एवोपजीवित्वाच्छ्रीः । एषैव भूतानां प्रतिष्ठा ॥ २४ ॥
Eggeling
- He sings it on a br̥hatī verse 26, for established on the Br̥hatī, as his excellence and foundation,
that sun shines 27: he thus establishes him on the Br̥hatī, as his excellence and foundation.
मूलम् - Makoto
बृहत्यां᳓ गा᳓यति ।॥
बृहत्यां᳓ वा᳓ असा᳓व् आ᳓दित्यः᳓ श्रियां᳓ प्रतिष्ठा᳓यां᳓ प्र᳓तिष्ठितस् तपति बृहत्या᳓म् एवै᳙नम् एत᳓च् छ्रियां᳓ प्रतिष्ठा᳓यां᳓ प्र᳓तिष्ठा᳓पयति ॥॥
२५
विश्वास-प्रस्तुतिः
(त्यै) ऐन्द्र्या᳘म्बृहत्या᳘ङ्गायति॥
(त्यै) ऐन्द्रो वा᳘ ऽएष᳘ यज्ञो य᳘त्सौत्रामणी᳘न्द्रायतन ऽएष᳘ ऽएत᳘र्हि यो य᳘जते स्व᳘ ऽए᳘वैनमेत᳘दाय᳘तने ऽभि᳘षिञ्चति॥
मूलम् - श्रीधरादि
(त्यै) ऐन्द्र्या᳘म्बृहत्या᳘ङ्गायति॥
(त्यै) ऐन्द्रो वा᳘ ऽएष᳘ यज्ञो य᳘त्सौत्रामणी᳘न्द्रायतन ऽएष᳘ ऽएत᳘र्हि यो य᳘जते स्व᳘ ऽए᳘वैनमेत᳘दाय᳘तने ऽभि᳘षिञ्चति॥
मूलम् - Weber
ऐन्द्र्यां᳘ बृहत्यां᳘ गायति ॥
ऐन्द्रो वा᳘ऽएष᳘ यज्ञो य᳘त्सौत्रामणी᳘न्द्रायतन एष᳘ एत᳘र्हि यो य᳘जते स्व᳘ऽएॗवैनमेत᳘दाय᳘तनेऽभि᳘षिञ्चति ॥
मूलम् - विस्वरम्
ऐंद्र्यां बृहत्यां गायति । ऐंद्रो वा एष यज्ञः । यत्सौत्रामणी । इंद्रायतन एष एतर्हि । यो यजते । स्व एवैनमेतदायतने ऽभिषिंचति ॥ २५ ॥
हरिस्वामी
‘ऐंद्र्यां बृहत्याम्’ । “बृहद्रिंद्राय गायत” (वा. सं. २० । ३० ।) इत्येतस्याम् ॥ २५ ॥
Eggeling
- He sings it on a br̥hatī verse relating to Indra, for this sacrifice, the Sautrāmaṇī, belongs to Indra, and even now he who sacrifices has Indra for his support: he thus consecrates him on his own support (or resting-place).
मूलम् - Makoto
ऐन्द्र्यां᳓ बृहत्यां᳓ गा᳓यति ।॥
ऐन्द्रो᳓ वा᳓ एष᳓ यज्ञो᳓ य᳓त् सौत्रा᳓मणी᳓न्द्रा᳓यतन एष᳓ एत᳓र्हि यो᳓ य᳓जते स्व᳓ एवै᳙नम् एत᳓द् आ᳓य᳓तने ऽभि᳓षिञ्चति ॥॥
२६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘स्मात्सᳫँ᳭शा᳘नानि ना᳘म॥
(मै) एतैर्व्वै[[!!]] सा᳘मभिर्द्देवा ऽइ᳘न्द्रमिन्द्रिया᳘य व्वी᳘र्य्याय स᳘मश्यंस्त᳘थो ऽए᳘वैत᳘मृत्वि᳘जो य᳘जमानमेतै᳘रेव सा᳘मभिरिन्द्रिया᳘य व्वी᳘र्य्याय स᳘ᳫँ᳘श्यन्ति सᳫँ᳭श्र᳘वसे व्विश्र᳘वसे सत्य᳘श्रवसे श्र᳘वस ऽइ᳘ति सा᳘मानि भवन्त्ये᳘ष्वे᳘वैनमेत᳘ल्लोके᳘षु श्रावयन्ति च᳘तुर्न्निधनम्भवति च᳘तस्रो वै दि᳘शः सर्व्वास्वे᳘वैनमेत᳘द्दिक्षु प्प्र᳘तिष्ठापयन्ति स᳘र्व्वे निध᳘नमुपा᳘वयन्ति सम्विदाना᳘ ऽए᳘वास्मिंञ्छ्रि᳘यन्दधति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘स्मात्सᳫँ᳭शा᳘नानि ना᳘म॥
(मै) एतैर्व्वै[[!!]] सा᳘मभिर्द्देवा ऽइ᳘न्द्रमिन्द्रिया᳘य व्वी᳘र्य्याय स᳘मश्यंस्त᳘थो ऽए᳘वैत᳘मृत्वि᳘जो य᳘जमानमेतै᳘रेव सा᳘मभिरिन्द्रिया᳘य व्वी᳘र्य्याय स᳘ᳫँ᳘श्यन्ति सᳫँ᳭श्र᳘वसे व्विश्र᳘वसे सत्य᳘श्रवसे श्र᳘वस ऽइ᳘ति सा᳘मानि भवन्त्ये᳘ष्वे᳘वैनमेत᳘ल्लोके᳘षु श्रावयन्ति च᳘तुर्न्निधनम्भवति च᳘तस्रो वै दि᳘शः सर्व्वास्वे᳘वैनमेत᳘द्दिक्षु प्प्र᳘तिष्ठापयन्ति स᳘र्व्वे निध᳘नमुपा᳘वयन्ति सम्विदाना᳘ ऽए᳘वास्मिंञ्छ्रि᳘यन्दधति॥
मूलम् - Weber
अ᳘थ य᳘स्मात्सᳫंशा᳘नानि ना᳘म ॥
एतैर्वै᳘ सा᳘मभिर्देवा इ᳘न्द्रमिन्द्रिया᳘य वीॗर्याय स᳘मश्यंस्त᳘थोऽएॗवैत᳘मृत्वि᳘जो य᳘जमानमेतै᳘रेव सा᳘मभिरिन्द्रिया᳘य वीॗर्याय स᳘ᳫं᳘श्यन्ति सᳫंश्र᳘वसे विश्र᳘वसे सत्य᳘श्रवसे श्र᳘वसऽइ᳘ति सा᳘मानि भवन्त्येॗष्वेॗवैनमेत᳘ल्लोके᳘षु श्रावयन्ति च᳘तुर्निधनं भवति च᳘तस्रो वै दि᳘शः सर्वा᳘स्वेॗवैनमेत᳘द्दिक्षु प्र᳘तिष्ठापयन्ति स᳘र्वे निध᳘नमुपा᳘वयन्ति संविदाना᳘ एॗवास्मिञ्छ्रि᳘यं दधति ॥
मूलम् - विस्वरम्
अथ यस्मात् संशानानि नाम । एतैर्वै सामभिर्देवा इंद्रमिंद्रियाय वीर्याय समश्यन् । तथो एवैतमृत्विजो यजमानमेतैरेव सामभिरिंद्रियाय वीर्याय संश्यंति । संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति सामानि भवति । एष्वेवैनमेतल्लोकेषु श्रावयंति । चतुर्निधनं भवति । चतस्रो वै दिशः । सर्वास्वेवैनमेतद्दिक्षु प्रतिष्ठापयंति । सर्वे निधनमुपावयंति । संविदाना एवास्मिन् श्रियं दधति ॥ २६ ॥
हरिस्वामी
अथ यस्मात् एतैः सामभिः इन्द्रं संशितवन्त इति संशानानि । संश्रवसे विश्रवसे सत्यश्रवसे श्रवसे इत्यभिप्रायः ॥ २६ ॥ २७ ॥
Eggeling
- And as to why (these hymns) are called ‘bracers 28;’ it is because by means of these Sāmans the gods braced Indra up to energy, or vital power: in like manner do the officiating priests, by means of these Sāmans, brace the Sacrificer up to energy, or vital power. ‘Saṁśravase, viśravase, satyaśravase, śravase 29’–these are the Sāmans: they proclaim
him in these worlds. There are four fiṇaleś, for there are four quarters: they thus establish him in all the quarters. All (the priests) join in the fiṇale: with one mind they thus bestow excellence upon him.
मूलम् - Makoto
अ᳓थ य᳓स्मा᳓त् सँशा᳓ना᳓नि ना᳓म ।॥
एतै᳓र् वै᳓ सा᳓मभिर् देवा᳓ इ᳓न्द्रम् इन्द्रिया᳓य वीर्या᳙य स᳓मश्यंस् त᳓थो एवै᳙त᳓म् ऋत्वि᳓जो य᳓जमा᳓नम् एतै᳓र् एव᳓ सा᳓मभिर् इन्द्रिया᳓य वीर्या᳙य सँ᳓श्यन्ति सँश्र᳓वसे विश्र᳓वसे स्तय᳓श्रवसे श्र᳓वस् इ᳓ति सा᳓मा᳓नि भवन्त्य् एष्व् ए᳙वै᳙नम् एत᳓ल् लोके᳓षु श्रा᳓वयन्ति च᳓तुर्निधनं भवति च᳓तस्रो वै᳓ दि᳓शः सर्वा᳓स्व् एवै᳙नम् एत᳓द् दिक्षु᳓ प्र᳓तिष्ठा᳓पयन्ति स᳓र्वे निध᳓नम् उपा᳓वयन्ति संविदा᳓ना᳓ एवा᳙स्मिञ् छ्रि᳓यं दधति ॥॥
२७
विश्वास-प्रस्तुतिः
त᳘दाहुः॥ (र्य्य᳘) य᳘देतत्सा᳘म गीयते᳘ ऽथ᳘ क्वैत᳘स्य सा᳘म्न ऽउक्थङ्का᳘ प्प्रतिष्ठा᳘ व्व्यृद्धᳫँ᳭ हि तद्य᳘त्स्तुतम᳘ननुशस्तमि᳘ति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥ (र्य्य᳘) य᳘देतत्सा᳘म गीयते᳘ ऽथ᳘ क्वैत᳘स्य सा᳘म्न ऽउक्थङ्का᳘ प्प्रतिष्ठा᳘ व्व्यृद्धᳫँ᳭ हि तद्य᳘त्स्तुतम᳘ननुशस्तमि᳘ति॥
मूलम् - Weber
त᳘दाहुः ॥ य᳘देतत्सा᳘म गीयते᳘ऽथॗ क्वैत᳘स्य सा᳘म्न उक्थं 30 का᳘ प्रतिष्ठाॗ व्यृद्धᳫं हि तद्य᳘त्स्तुतम᳘ननुशस्तमि᳘ति ॥
मूलम् - विस्वरम्
तदाहुः- यदेतत् साम गीयते । अथ क्वैतस्य साम्न उक्थम् । का प्रतिष्ठा । व्यृद्धं हि तत् । यत् स्तुतम् अननुशस्तम् इति ॥ २७ ॥
हरिस्वामी
[व्याख्यानं षड्विंशतितमे]
Eggeling
- As to this they say, ‘Seeing that this Sāman is sung, wherein then does the recitation (uktha) of this Sāman consist, and what is its foundation; for unsuccessful is what is chanted unless it be followed by a recitation?’
मूलम् - Makoto
त᳓द् आ᳓हुः ।॥
य᳓द् एत᳓त् सा᳓म गीय᳓ते᳓ ऽथ क्वै᳙त᳓स्य सा᳓मन् उक्थं᳓ का᳓ प्रतिष्ठा᳓ व्यृ᳙द्धँ हि᳓ त᳓द् य᳓त् स्तुत᳓म् अ᳓ननुशस्तम् इ᳓ति ॥॥
२८
विश्वास-प्रस्तुतिः
त्रया᳘ देवा ऽए᳘कादशे᳘ति॥
(त्ये) एतद्वा᳘ ऽएत᳘स्य सा᳘म्न ऽउक्थ᳘मेषा᳘ प्प्रतिष्ठा[[!!]]॥
मूलम् - श्रीधरादि
त्रया᳘ देवा ऽए᳘कादशे᳘ति॥
(त्ये) एतद्वा᳘ ऽएत᳘स्य सा᳘म्न ऽउक्थ᳘मेषा᳘ प्प्रतिष्ठा[[!!]]॥
मूलम् - Weber
त्रया᳘ देवा ए᳘कादशे᳘ति ॥
एतद्वा᳘ऽएत᳘स्य सा᳘म्न उक्थ᳘मेष᳘ 31 प्रतिष्ठा᳟ ॥
मूलम् - विस्वरम्
त्रया देवा एकादशेति । एतद्वा एतस्य साम्न उक्थम् । एषा प्रतिष्ठा ॥ २८ ॥
हरिस्वामी
त्रया देवाः । “अश्विना तेजसा” (वा. सं. २० । ८०-९०) इत्यनुवाकं शंसति । वचनांतरातत्तु । “त्रया देवा एकादश” इत्येषा निविद्भिर्वचनांतरादेवमारभते । तां प्रकृत्याह- एतद्वा एतस्य साम्नः उक्थं शस्त्रम् । एषा च प्रतिष्ठेति ॥ २८ ॥
Eggeling
- ‘Thrice eleven are the gods;’ this, indeed, is the recitation 32 belonging to that Sāman, this its foundation.
मूलम् - Makoto
त्रया᳓ देवा᳓ ए᳓का᳓दशे᳓ति ।॥
एत᳓द् वा᳓ एत᳓स्य सा᳓म्न उक्थ᳓म् एष᳓ प्रतिष्ठा᳓ ॥॥
२९
विश्वास-प्रस्तुतिः
(ष्ठा᳘ ऽथो) अ᳘थो त्रया᳘ देवा ऽए᳘कादशे᳘ति॥ त्रयस्त्रिᳫँ᳭शङ्ग्र᳘हञ्जुहोति त्रया हि᳘ देवा ऽए᳘कादश त्रयस्त्रिᳫँ᳭शाः᳘ सुरा᳘धस ऽइ᳘ति त्रयस्त्रिᳫँ᳭शद्धि᳘ देवा बृ᳘हस्प᳘तिपुरोहिता ऽइ᳘ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्मपुरोहिता ऽइ᳘त्ये᳘वैत᳘दाह देव᳘स्य सवितुः᳘ सव ऽइ᳘ति देवे᳘न सवित्रा प्प्र᳘सूता ऽइ᳘त्ये᳘वैत᳘दाह देवा᳘ देवै᳘रवन्तु मे᳘ति देवा᳘ ह्येत᳘न्देवै᳘रभिषिञ्च᳘न्ति॥
मूलम् - श्रीधरादि
(ष्ठा᳘ ऽथो) अ᳘थो त्रया᳘ देवा ऽए᳘कादशे᳘ति॥ त्रयस्त्रिᳫँ᳭शङ्ग्र᳘हञ्जुहोति त्रया हि᳘ देवा ऽए᳘कादश त्रयस्त्रिᳫँ᳭शाः᳘ सुरा᳘धस ऽइ᳘ति त्रयस्त्रिᳫँ᳭शद्धि᳘ देवा बृ᳘हस्प᳘तिपुरोहिता ऽइ᳘ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्मपुरोहिता ऽइ᳘त्ये᳘वैत᳘दाह देव᳘स्य सवितुः᳘ सव ऽइ᳘ति देवे᳘न सवित्रा प्प्र᳘सूता ऽइ᳘त्ये᳘वैत᳘दाह देवा᳘ देवै᳘रवन्तु मे᳘ति देवा᳘ ह्येत᳘न्देवै᳘रभिषिञ्च᳘न्ति॥
मूलम् - Weber
अ᳘थो त्रया᳘ देवा ए᳘कादशे᳘ति त्रयस्त्रिᳫंशं ग्र᳘हं जुहोति त्रया हि᳘ देवा ए᳘कादश त्रयस्त्रिᳫंशाः᳘ सुरा᳘धस इ᳘ति त्रयस्त्रिᳫंशद्धि᳘ देवा बृ᳘हस्प᳘तिपुरोहिता इ᳘ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्मपुरोहिता इ᳘त्येॗवैत᳘दाह देव᳘स्य सवितुः᳘ सवऽइ᳘ति देवे᳘न सवित्रा प्र᳘सूता इ᳘त्येॗवैत᳘दाह देवा᳘ देवै᳘रवन्तु मे᳘ति देवाॗ ह्येतं᳘ देवै᳘रभिषिञ्च᳘न्ति ॥
मूलम् - विस्वरम्
अथो “त्रया देवा एकादश”- इति त्रयस्त्रिंशं ग्रहं जुहोति । त्रया हि देवा एकादश । “त्रयस्त्रिंशाः सुराधसः”- इति । त्रयस्त्रिंशद्धि देवाः । “बृहस्पतिपुरोहिताः”- इति । ब्रह्म वै बृहस्पतिः । ब्रह्मपुरोहिताः इत्येवैतदाह । “देवस्य सवितुः सवे”- इति । देवेन सवित्रा प्रसूता इत्येवैतदाह । “देवा देवैरवंतु मा”- (वा० सं० २० । ११) इति । देवा ह्येतं देवैरभिषिंचन्ति ॥ २९ ॥
हरिस्वामी
अथो त्रया देवाः । त्रया हि ते देवा एकादश त्रिभागाः । एकादश त्रयस्त्रिंशदित्यर्थः । देवा हि एतं देवाः अप्सु आहितवीर्यैः अभिषिंचन्ति ॥ २९ ॥
Eggeling
- Or he (the Adhvaryu) takes a thirty-third cupful (of gravy), with (Vāj. S. XX, 11-12 32), ‘Thrice
eleven are the gods,’–for there are indeed thrice eleven gods;–’three-and-thirty, bountiful,’–for there are thirty-three gods; ‘with Br̥haspati for their Purohita,’–Br̥haspati is the Brahman (n.): he thus means to say, ‘With the Brahman for their Purohita (family-priest);’–‘at the impulse (sava) of the god Savitr̥,’–that is, ‘impelled by the god Savitr̥;’–‘may the gods protect me through the gods!’ for the gods indeed consecrate him through the gods.
मूलम् - Makoto
अ᳓थो त्रया᳓ देवा᳓ ए᳓का᳓दशेति त्रयस्त्रिँशं᳓ ग्र᳓हं जुहोति त्रया᳓ हि᳓ देवा᳓ ए᳓का᳓दश त्रयस्त्रिँशाः᳓ सुरा᳓धस इ᳓त्य् एवै᳙त᳓द् आ᳓ह देव᳓स्य सवितुः᳓ सव᳓ इ᳓ति देवे᳓न सवित्रा᳓ प्र᳓सूता᳓ इ᳓त्य् एवै᳙त᳓द् आ᳓ह देवा᳓ देवै᳓र् अवन्तु मे᳓ति देवा᳓ ह्य् ए᳙तं᳓ देवै᳓र् अभिषिञ्च᳓न्ति ॥॥
३०
विश्वास-प्रस्तुतिः
प्प्रथमा᳘ द्विती᳘यैरि᳘ति॥ प्प्रथमा᳘ ह्येत᳘न्द्विती᳘यैरभिषिञ्च᳘न्ति द्विती᳘यास्तृती᳘यैरि᳘ति द्विती᳘या᳘ ह्येत᳘न्तृती᳘यैरभिषिञ्च᳘न्ति तृती᳘याः सत्येने᳘ति तृती᳘या᳘ ह्येत᳘ᳫँ᳘ सत्ये᳘नाभिषिञ्च᳘न्ति सत्यं᳘ यज्ञेने᳘ति सत्य᳘ᳫँ᳘ ह्येतं᳘ यज्ञे᳘नाभिषिञ्च᳘ति यज्ञो य᳘जुर्भिरि᳘ति यज्ञो᳘ ह्येतं य᳘जुर्भिरभिषिञ्च᳘ति य᳘जूᳫँ᳭षि सा᳘मभिरि᳘ति य᳘जूᳫँ᳭षि᳘ ह्येतᳫँ᳭ सा᳘मभिरभिषिञ्च᳘न्ति सा᳘मान्यृग्भिरि᳘ति सा᳘मानि᳘ ह्येत᳘मृग्भि᳘रभिषिञ्चन्त्यृ᳘चः[[!!]] पुरो ऽनुवा᳘क्याभिरित्यृ᳘चो᳘ ह्येत᳘म्पुरो ऽनुवा᳘क्याभिरभिषिञ्च᳘न्ति पुरो ऽनुवा᳘क्या या᳘ज्याभिरि᳘ति पुरो ऽनुवा᳘क्या᳘ह्येतं᳘ या᳘ज्याभिरभिषिञ्च᳘न्ति या᳘ज्या व्वषट्कारैरि᳘ति या᳘ज्या᳘ ह्येत᳘म्वषट्कारै᳘रभिषिञ्च᳘न्ति व्वषट्कारा ऽआ᳘हुतिभिरि᳘ति व्वषट्कारा᳘ ह्येतमा᳘हुतिभिरभिषिञ्चन्त्या᳘हुतयो मे का᳘मान्त्स᳘मर्द्धयन्तु भूः स्वाहे᳘ति त᳘देनमेता᳘भिर्द्देव᳘ताभिः परो ऽवर᳘मभिषिच्या᳘थास्मा ऽआ᳘हुतिभिः स᳘र्व्वान्का᳘मान्त्स᳘मर्द्धयन्त्य᳘थर्त्वि᳘क्षूपहव᳘मिष्ट्वा᳘ भक्षयत्यृत᳘वो वा᳘ ऽऋत्वि᳘ज ऽऋतु᳘ष्वे᳘वैत᳘दुपहव᳘मिच्छते॥
मूलम् - श्रीधरादि
प्प्रथमा᳘ द्विती᳘यैरि᳘ति॥ प्प्रथमा᳘ ह्येत᳘न्द्विती᳘यैरभिषिञ्च᳘न्ति द्विती᳘यास्तृती᳘यैरि᳘ति द्विती᳘या᳘ ह्येत᳘न्तृती᳘यैरभिषिञ्च᳘न्ति तृती᳘याः सत्येने᳘ति तृती᳘या᳘ ह्येत᳘ᳫँ᳘ सत्ये᳘नाभिषिञ्च᳘न्ति सत्यं᳘ यज्ञेने᳘ति सत्य᳘ᳫँ᳘ ह्येतं᳘ यज्ञे᳘नाभिषिञ्च᳘ति यज्ञो य᳘जुर्भिरि᳘ति यज्ञो᳘ ह्येतं य᳘जुर्भिरभिषिञ्च᳘ति य᳘जूᳫँ᳭षि सा᳘मभिरि᳘ति य᳘जूᳫँ᳭षि᳘ ह्येतᳫँ᳭ सा᳘मभिरभिषिञ्च᳘न्ति सा᳘मान्यृग्भिरि᳘ति सा᳘मानि᳘ ह्येत᳘मृग्भि᳘रभिषिञ्चन्त्यृ᳘चः[[!!]] पुरो ऽनुवा᳘क्याभिरित्यृ᳘चो᳘ ह्येत᳘म्पुरो ऽनुवा᳘क्याभिरभिषिञ्च᳘न्ति पुरो ऽनुवा᳘क्या या᳘ज्याभिरि᳘ति पुरो ऽनुवा᳘क्या᳘ह्येतं᳘ या᳘ज्याभिरभिषिञ्च᳘न्ति या᳘ज्या व्वषट्कारैरि᳘ति या᳘ज्या᳘ ह्येत᳘म्वषट्कारै᳘रभिषिञ्च᳘न्ति व्वषट्कारा ऽआ᳘हुतिभिरि᳘ति व्वषट्कारा᳘ ह्येतमा᳘हुतिभिरभिषिञ्चन्त्या᳘हुतयो मे का᳘मान्त्स᳘मर्द्धयन्तु भूः स्वाहे᳘ति त᳘देनमेता᳘भिर्द्देव᳘ताभिः परो ऽवर᳘मभिषिच्या᳘थास्मा ऽआ᳘हुतिभिः स᳘र्व्वान्का᳘मान्त्स᳘मर्द्धयन्त्य᳘थर्त्वि᳘क्षूपहव᳘मिष्ट्वा᳘ भक्षयत्यृत᳘वो वा᳘ ऽऋत्वि᳘ज ऽऋतु᳘ष्वे᳘वैत᳘दुपहव᳘मिच्छते॥
मूलम् - Weber
प्रथमा᳘ द्विती᳘यैरि᳘ति प्रथमाॗ ह्येतं᳘ द्विती᳘यैरभिषिञ्च᳘न्ति द्विती᳘यास्तृती᳘यैरि᳘ति द्विती᳘याॗ ह्येतं᳘ तृती᳘यैरभिषिञ्च᳘न्ति तृती᳘याः सत्येने᳘ति तृती᳘याॗ ह्येत᳘ᳫं᳘ सत्ये᳘नाभिषिञ्च᳘न्ति सत्यं᳘ यज्ञेने᳘ति सत्य᳘ᳫं᳘ ह्येतं᳘ यज्ञे᳘नाभिषिञ्च᳘ति यज्ञो य᳘जुर्भिरि᳘ति यज्ञोॗ ह्येतं य᳘जुर्भिरभिषिञ्च᳘ति य᳘जूᳫंषि सा᳘मभिरि᳘ति य᳘जूᳫंषिॗ ह्येतᳫं सा᳘मभिरभिषिञ्च᳘न्ति सा᳘मान्यृग्भिरि᳘ति सा᳘मानिॗ ह्येत᳘मृग्भि᳘रभिषिञ्च᳘न्त्यृ᳘चः पुरोऽनुवाॗक्याभिरित्यृ᳘चोॗ ह्येतं᳘ पुरोऽनुवाॗक्याभिरभिषिञ्च᳘न्ति पुरोऽनुवाॗक्या याॗज्याभिरि᳘ति पुरोऽनुवाॗक्याॗ ह्येतं᳘ याॗज्याभिरभिषिञ्च᳘न्ति याॗज्या वषट्कारैरि᳘ति याॗज्याॗ ह्येतं᳘ वषट्कारै᳘रभिषिञ्च᳘न्ति वषट्कारा आ᳘हुतिभिरि᳘ति वषट्काराॗ ह्येतमा᳘हुतिभिरभिषिञ्चन्त्या᳘हुतयो मे का᳘मान्त्स᳘मर्धयन्तु भूः स्वाहे᳘ति त᳘देनमेता᳘भिर्देव᳘ताभिः परोऽवर᳘मभिषिच्या᳘थास्माऽआ᳘हुतिभिः स᳘र्वान्का᳘मान्त्स᳘मर्धयत्य᳘थऽर्त्वि᳘क्षूपहवमिष्ट्वा᳘ भक्षयत्यृत᳘वो वा᳘ऽऋत्वि᳘ज ऋतु᳘ष्वेॗवैत᳘दुपहव᳘मिछते ॥
मूलम् - विस्वरम्
“प्रथमा द्वितीयैः”- इति । प्रथमा ह्येतं द्वितीयैरभिषिंचन्ति । “द्वितीयास्तृतीयैः”- इति । द्वितीया ह्येतं तृतीयैरभिषिंचन्ति । “तृतीयाः सत्येन”- इति । तृतीया ह्येतं सत्येनाभिषिंचन्ति । “सत्यं यज्ञेन”- इति । सत्यं ह्येतं यज्ञेनाभिषिंचति । “यज्ञो यजुर्भिः”- इति । यज्ञो ह्येतं यजुर्भिरभिषिंचति । “यजूंषि सामभिः”- इति । यजूंषि ह्येतं सामभिरभिषिंचन्ति । “सामानि ऋग्भिः”- इति । सामानि ह्येतमृग्भिरभिषिञ्चन्ति । “ऋचः पुरो ऽनुवाक्याभिः”- इति । ऋचो ह्येतं पुरो ऽनुवाक्याभिरभिषिंचन्ति । पुरो ऽनु वाक्या याज्याभिः"- इति । पुरो ऽनुवाक्या ह्येतं याज्याभिरभिषिंचन्ति । “याज्या वषट्कारैः”- इति । याज्या ह्येतं वषट्कारैरभिषिंचन्ति । “वषट्कारा आहुतिभिः”- इति । वषट्कारा ह्येतमाहुतिभिरभिषिंचन्ति । “आहुतयो मे कामान् समर्द्धयन्तु भूः स्वाहा”- (वा० सं० २० । १२) इति । तदेनमेताभिर्देवताभिः परो ऽवरमभिषिच्य, अथास्मा आहुतिभिः सर्वान् कामान् समर्द्धयन्ति । अथर्त्विक्षूपहवमिष्ट्वा भक्षयति । ऋतवो वा ऋत्विजः । ऋतुष्वेवैतदुपहवमिच्छते ॥ ३० ॥
हरिस्वामी
प्रथमा द्वितीयैरिति । परो ऽवरं परावरया आद्यया परया चेत्येवं परो ऽवरम् । अभिषिच्य । अथर्त्विक्षु ऋत्विक्षु विषयभूतेषु उपहवमिष्ट्वा “ब्रह्मन्नुपह्वयस्व” “होतरुपह्वयस्व” इत्येवमिष्ट्वा प्रार्थयित्वा भक्षयति यजमानः ॥ ३० ॥
Eggeling
- ‘The first with the second,’–for the first (gods, on earth) consecrate him along with the second ones (in the air);–’the second with the third,’–for the second ones consecrate him along with the third ones (in the sky);–’the third with 33 the truth,’–for the third ones consecrate him with the truth;–’the truth with the sacrifice,’–for the truth consecrates him with the sacrifice;–’the sacrifice with sacrificial texts,’–for the sacrifice consecrates him with sacrificial texts;–‘sacrificial texts with hymn-tunes,’–for sacrificial texts (yajus) consecrate him along with hymn-tunes ‘hymn-tunes with hymn-verses,’–for hymn-tunes consecrate him along with hymn-verses (r̥c):–‘hymn-verses with invitatory verses,’–for hymn-verses consecrate him along with invitatory verses;–‘invitatory verses with offering-verses,’–for invitatory verses consecrate him along with offering-verses;–‘offering-verses with Vashaṭ-calls,’–for offering-verses consecrate him
along with Vashaṭ-calls;–‘Vashaṭ-calls with oblations,’–for Vashaṭ-calls consecrate him along with oblations;–‘May the oblations render successful my wishes! bhūḥ! svāhā!’–having thus consecrated him by means of those deities from first to last, he thus, by means of oblations, renders all his wishes successful. Having then solicited an invitation from the officiating priests, he (the Sacrificer) drinks 34 (the remains of the cup of vasā), for the officiating priests are the seasons: it is thus in the seasons that he solicits art invitation.
मूलम् - Makoto
प्रथमा᳓ द्विती᳓यैर् इ᳓ति प्रथमा᳓ ह्य् ए᳙तं᳓ द्विती᳓यैर् अभिषिञ्च᳓न्ति द्विती᳓या᳓स् तृती᳓यैर् इ᳓ति द्विती᳓या᳓ ह्य् ए᳙तं᳓ तृती᳓यैर् अभिषिञ्च᳓न्ति तृती᳓याः᳓ सत्ये᳓ने᳓ति तृती᳓या᳓ ह्य् ए᳙तँ᳓ सत्ये᳓ना᳓भिषिञ्च᳓न्ति सत्यं᳓ यज्ञे᳓ने᳓ति सत्यँ᳓ ह्य् ए᳙तं᳓ यज्ञे᳓ना᳓भिषिञ्च᳓ति यज्ञो᳓ य᳓जुर्भिर् इ᳓ति यज्ञो᳓ ह्य् ए᳙तं᳓ य᳓जुर्भिर् अभिषिञ्च᳓ति य᳓जूँषि सा᳓म᳓भिर् इ᳓ति य᳓जूँषि ह्य् ए᳙तँ सा᳓मभिर् अभिषिञ्च᳓न्ति सा᳓मा᳓न्य् ऋग्भि᳓र् इ᳓ति सा᳓मा᳓नि ह्य् ए᳙त᳓म् ऋग्भि᳓र् अभिषिञ्च᳓न्त्य् र्᳓̥̄चः पुरोऽनुवा᳓क्या᳙भिर् इ᳓त्य् र्᳓̥̄चो ह्य् ए᳙तं᳓ पुरोऽनुवा᳓क्या᳙भिर् अभिषिञ्च᳓न्ति पुरोऽनुवा᳓क्या᳙ या᳓ज्या᳙भिर् इ᳓ति पुरोऽनुवा᳓क्या᳙ ह्य् ए᳙तं᳓ या᳓ज्या᳙भिर् अभिषिञ्च᳓न्ति या᳓ज्या᳙ वषट्का᳓रै᳓र् इ᳓ति या᳓ज्या᳙ ह्य् ए᳙तं᳓ वषट्का᳓रै᳓र् अभिषिञ्च᳓न्ति वषट्का᳓रा᳓ आ᳓हुतिभिर् इ᳓ति वषट्का᳓रा᳓ ह्य् ए᳙त᳓म् आ᳓हुतिभिर् अभिषिञ्च᳓न्त्य् आ᳓हुतयो मे का᳓मा᳓न्त् स᳓मर्धयन्तु भूः᳓ स्वा᳓हे᳓ति त᳓द् एनम् एता᳓भिर् देव᳓ता᳓भिः परोऽवर᳓म् अभिषि᳓च्या᳓था᳓स्मा᳓ आ᳓हुतिभिः स᳓र्वा᳓न् का᳓मा᳓न्त् स᳓मर्धयत्य् अ᳓थर्त्वि᳓क्षूपहव᳓म् इष्ट्वा᳓ भक्षयत्य् ऋत᳓वो वा᳓ ऋत्वि᳓ज ऋतु᳓ष्व् एवै᳙त᳓द् उपहव᳓म् इछते ॥॥
३१
विश्वास-प्रस्तुतिः
स᳘ भक्षयति लो᳘मानि॥
प्प्र᳘यतिर्म्म᳘म त्व᳘ङ्म ऽआ᳘नतिरा᳘गतिः॥
माᳫँ᳭स᳘म्म ऽउ᳘पनतिर्व्वस्व᳘स्थि मज्जा᳘ म ऽआ᳘नतिरि᳘ति᳘ प्प्रेव वा᳘ ऽएष᳘ लोकां᳘श्च देव᳘ताश्च व्विशति यः᳘ सौत्राम᳘ण्या ऽभिषिच्य᳘ते त᳘देत᳘दवान्तरा᳘मात्मा᳘नमु᳘पह्वयते त᳘था कृत्स्न᳘ ऽएव स᳘र्व्वतनूः सा᳘ङ्गः स᳘म्भवति॥
मूलम् - श्रीधरादि
स᳘ भक्षयति लो᳘मानि॥
प्प्र᳘यतिर्म्म᳘म त्व᳘ङ्म ऽआ᳘नतिरा᳘गतिः॥
माᳫँ᳭स᳘म्म ऽउ᳘पनतिर्व्वस्व᳘स्थि मज्जा᳘ म ऽआ᳘नतिरि᳘ति᳘ प्प्रेव वा᳘ ऽएष᳘ लोकां᳘श्च देव᳘ताश्च व्विशति यः᳘ सौत्राम᳘ण्या ऽभिषिच्य᳘ते त᳘देत᳘दवान्तरा᳘मात्मा᳘नमु᳘पह्वयते त᳘था कृत्स्न᳘ ऽएव स᳘र्व्वतनूः सा᳘ङ्गः स᳘म्भवति॥
मूलम् - Weber
स᳘ भक्षयति ॥
लो᳘मानि प्र᳘यतिर्मम त्व᳘ङ्मऽआ᳘नतिरा᳘गतिः ॥
माᳫंसं᳘ मऽउ᳘पनतिर्वस्व᳘स्थि मज्जा᳘ मऽआ᳘नतिरि᳘तिॗ प्रेव वा᳘ऽएष᳘ लोकां᳘श्च देव᳘ताश्च विशति यः᳘ सौत्रामॗण्याभिषिच्य᳘ते त᳘देत᳘दवान्तरा᳘मात्मा᳘नमु᳘पह्वयते त᳘था कृत्स्न᳘ एव स᳘र्वतनूः सा᳘ङ्गः स᳘म्भवति ॥ २ [८.३.] ॥ अष्टमोऽध्यायः [८२.] ॥ ॥
मूलम् - विस्वरम्
स भक्षयति । “लोमानि प्रयतिर्मम त्वङ्म आनतिरागतिः । मांसं म उपनतिर्वस्वस्थि मज्जा म आनतिः”- । (वा० सं० २० । १३) इति प्रेव वा एष लोकांश्च देवताश्च विशति । यः सौत्रामण्या ऽभिषिच्यते । तदेतदवांतरामात्मानमुपह्वयते । तथा कृत्स्न एव सर्वतनूः सांगः संभवति ॥ ३१ ॥
हरिस्वामी
‘स भक्षयति’ । यः सौत्रामण्या अभिषिच्यते । स लोकान् देवताश्च प्रविशति विशति । (तास्वउपवेशा ?) इत्यग्रे उपह्वयत इति संप्रदानविशेषेण सौत्रामण्या यागेनादः पुरुषस्यांगं संस्कृतमन्यूनं संभवति ॥ ३१ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे अष्टमे ऽध्याये तृतीयं ब्राह्मणम् ॥ १२ । ८ । ३ ॥
नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन्हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥ १ ॥
श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥ २ ॥
भूभर्त्रा विक्रमार्केण क्लृप्तां कनकवेदिकाम् । दानायाध्यास्य कृतवान् श्रुत्यर्थविवृतिं हरिः ॥ ३ ॥
इति श्रीसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीनां श्रीहरिस्वामिनां कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे ऽष्टमो ऽध्यायः समाप्तः ॥ १२-८ ॥
Eggeling
- He drinks it, with (Vāj. S. XX, 13), ‘My hair is endeavour 35, my skin submission and approach 36, my flesh inclination, my bone wealth, and my marrow submission,’–for he who is consecrated by the Sautrāmaṇī enters the worlds and among the deities; he now has himself, invited amongst them 37, and thus he arises (in the other world) complete, with a whole body, and with (all) limbs.
मूलम् - Makoto
स᳓ भक्षयति ।॥
लो᳓मा᳓नि प्र᳓यतिर् मम᳓ त्व᳓ङ् म आ᳓नतिर् आ᳓गतिः ।॥
माँ᳓सं᳓ म उ᳓पनतिर् वस्व् अ᳓स्थि मज्जा᳓ म आ᳓नतिर् इ᳓ति प्रे᳙व वा᳓ एष᳓ लोकाँ᳓श् च देव᳓ता᳓श् च विशति य᳓ सौत्रा᳓मण्या᳙भिषिच्य᳓ते त᳓द् एत᳓द् अवा᳓न्तरा᳓म् आ᳓त्मा᳓नम् उ᳓पह्वयते त᳓था᳓ कृत्स्न᳓ एव᳓ स᳓र्वतनूः सा᳓ङ्गः स᳓म्भवति ॥॥
-
शामित्रनुशासनप्रभृति वनस्पत्यन्तं कृत्वा सोमासन्दीवदासंदीं जानुमात्रपादीं वेद्योर्निदधाति क्षत्रस्य योनिरिति । कृष्णाजिनमस्यामास्तृणाति मा त्वेति । तस्मिन्नास्ते यजमानो निषसादेति । पादयो रुक्मा उपास्यति राजतँ सव्ये मृत्योरिति । खुरैर्वसाग्रहान् द्वात्रिँ शतं जुहोति सीसेनेति प्रत्यृचम् । (खुराश्चार्षभाः । सीसेन तन्त्रमित्यारभ्य तेजः पशूनामित्यन्ताः षोडश मन्त्राः । एकैकेन मंत्रेण द्वयोर्द्वयोर्होमः इत्यर्थः ।) द्वौ द्वौ हुत्वा शेषान् सते करोति । (सतं पात्रं तच्च वैतसम्) । का. श्रौ. सू. १९ । ९०-९६ । ↩︎
-
सर्वसुरभ्युन्मृदितँ शेषैरभिषिंचत्यामुखादवस्रावयन् प्रतिदिशं सर्वत्र सावित्रमश्विनोः सरस्वत्या इन्द्रस्येति प्रतिमन्त्रम् । सर्वाभिश्चतुर्थम् । महाव्याहृतिभिरेके । उत्तमेन वा । उन्मर्द्दनमभिषेके ऽवनीयैके ॥ यजमानमालभते को ऽसीति । सुश्लोकेत्यालब्धो ह्वयति का. श्रौ. सू. १९ । ९७-१०३ । ↩︎
-
अंगानि चालभते यथालिंगं शिरो म इति प्रतिमन्त्रम् । का. श्रौ. सू. १९ । -१०४ । ↩︎
-
उद्यच्छन्त्येनँ शतरुद्रियवत्प्रमाणेषु । (आहूताः सुश्लोकसुमंगलादयः कर्तारः । कृष्णाजिने ऽवरोहति प्रतिक्षत्र इति । (अवरोहणं अवतरणं आसन्दीतः कृष्णाजिने ऽवतरणमित्यर्थः ।) का. श्रौ. सू. १९ । १०५-१०६ । ↩︎
-
त्रयस्त्रिःँ शं वसाग्रहं गृह्णाति यो भूतानामिति । (आर्षभेण खुरेण) आज्यग्रहमाश्वस्थेनैके । (ततश्चाहवनीययजतित्वात् ध्रुवायाः सवषट्कारत्वात् चतुर्ग्रहणमाप्यायनं चेति कर्कः । (का. श्रौ. सू. १९ । १०७-१०८) । ↩︎
-
साम प्रेष्यति । (साम गाय साम ब्रूहीति वा प्रैषः ।) ऐंद्र्यां बृहत्यां गायति । (ब्रह्मा गायतीति कर्कः ।) ऐंद्री बृहती “बृहदिंद्राय गायत” (वा. सं. २० । ३०) इयं ऋक् बृहत्साम्नो योनिः । सँ श्रवसे, विश्रवसे, सत्यश्रवसे, श्रवसे इति सर्वे निधनमुपयंति । (सर्वे ऋत्विग्यजमानाः । उपयंति पठतीत्यर्थः ।) संजित्यै, विजित्यै सत्यजित्यै, जित्या इति क्षत्रियस्य । संपुष्ट्यै, विपुष्ट्यै, सत्यपुष्ट्यै, पुष्ट्या इति वैश्यस्य । यथाम्नातं वा सर्वेषाम् । आस्ते प्रतिगरिष्यन् । सामगानानंतरं होता शस्त्रं शंसति । तत्र प्रतिगरदानार्थं अध्वर्युर्होतुरग्रत उपविशति । (आस उपवेशने इति धात्वर्थः ।) त्रया देवा इति शस्त्रांते जुहोति । (त्रयस्त्रिंशं वसाग्रहम् । स च होमः अनुवाचनयजप्रैषपूर्वकम् । देवताश्चात्र प्रकृता एव । “अश्विना तेजसा” “अश्विना पिबतम्” (वा. सं. २० । ८०-९०) इति याज्यानुवाक्ययोस्तदभिधानादिति कर्कः ।) का. श्रौ. सू. १९ । १०९-११६ । ↩︎
-
शेषमृत्विजः प्राणभक्षं भक्षयंति प्राणपा म इति । शेषस्त्रयस्त्रिंशवसाग्रहहोमशेषः । प्रत्यक्षभक्षं यजमानो लोमानि प्रयतिरिति । का. श्रौ. सू. १९ । ११७-११८ । ↩︎
-
249:1 Literally, sprinkled, i.e. anointed, with the ‘vasā,’ or fat gravy obtained from the cooking of the sacrificial animals. ↩︎
-
249:2 See part i, p. 23, note 2. ↩︎
-
250:1 For the two special Vedis, see p. 225, note 1. ↩︎
-
250:2 ‘A kind of Kshatriyas,’ Delbrück, Altind. Synt., p. 494. ↩︎
-
250:3 For this or some such meaning (‘probably’–German, ‘wohl’ or ‘vielleicht’) which seems to me to suit best the use of ‘śaśvat’ in the Brāhmaṇas, see part iii, p. 98, note 2.–Thus, at I, 2, 3, 2, I would now translate ‘and perhaps it was Trita who slew him,–Indra at all events was exonerated from that (guilt), for he is a god.’ Similarly, I, 8, 1, 4, ‘perhaps it was a jḥasha, for that (fish) grows best (fastest);’ II, 2, 1, 2, ‘If, on the other hand, that oblation were not offered up in him, he would perhaps burn either the Adhvaryu, or the Sacrificer.’ Somewhat peculiar is the passage, I, 6, 3, 10, where śaśvat occurs both in the relative and in the demonstrative clause, and where we can hardly translate otherwise than ‘If, perchance, he had said, “Grow thou, the foe of Indra!” he (Vr̥tra) would perhaps have slain Indra.’–Hätte er vielleicht (etwa) gesagt: ‘Wachse, du Feind Indras!’ so würde er (Vr̥tra) vielleicht (? gewiss) Indra erschlagen haben.–If this be the right interpretation of these passages, they would have td be transferred, in the St. Petersb. Dict., from meaning b (?) to c, where ‘vielleicht’ would have to be added, as it certainly suits better than ‘gewiss’ (most likely) the last of the foregoing passages, at all events. The comm. explains ‘śaśvat’ by ‘bahukr̥tvaḥ.’ ↩︎
-
251:1 Cf. V, 4, 4, 5, where the verse is explained. ↩︎
-
251:2 Or, on the head, according to others. The plates are of the usual round shape. ↩︎
-
252:1 See p. 219, note 3. ↩︎
-
252:2 Only the first pāda of this, the first of the sixteen verses, is given in the text. Regarding the allusions in this verse, see XII, 7, 1, 10 seqq.; 2, 17; 7, 3, 3. ↩︎
-
वेतसः᳘ सतो A. ↩︎
-
253:1 According to Katy. Śr. XIX, 4, 14-17, he sprinkles him up to the mouth, letting it flow down on all four sides; and with each sprinkling he pronounces one of the formulas, first, the Sāvitra one, Vāj. S. XX, 3, ‘At the impulse of God Savitr̥ (I consecrate) thee by the arms of the Aśvins, and the heads of Pūshan!’ followed by the Āśvina one, ‘with the healing medicine of the Aśvins I sprinkle thee for energy and holy lustre!’ and the Sārasvata one, ‘with the healing medicine of Sarasvatī I sprinkle thee for vigour and food!’ Then a fourth time with a formula referring to all the deities (or with the three great utterances), or with the Aindra text, ‘With Indra’s power I sprinkle thee for strength, for excellence, and for fame!’ ↩︎
-
253:2 For this oblation, see III, 8, 3, 33; IV, 5, 2, 11; in both cases it is followed immediately by the oblation to Agni Svishṭakr̥t. ↩︎
-
254:1 Kshatriyo rājñobhishektā bhavati, pūrvaṁ hi rājaiva vr̥ddhaḥ kumāraṁ cābhishiñcatīty arthaḥ; comm. ↩︎
-
254:2 According to Kāty. Sr. XIX, 4, 19-2I, the Adhvaryu first touches him, with (Vāj. S. XX, 4), ‘Thou art Ka, thou art Katama,–to Ka thee!’ and the Sacrificer replies, ‘O thou of good fame! O most propitious one! O true king!’ and touches his limbs one after another with XX, 5-9. ↩︎
-
254:3 See part iii, p. 32 (V, 2, 1, 9 seqq.). ↩︎
-
254:4 That is, when the throne-seat has been lowered again, he rises from it and stands on the deer-skin. ↩︎
-
254:5 The function of ‘prati’ here seems to be to strengthen the preposition in the verb ‘prati-tishṭḥāmi.’ ↩︎
-
255:1 According to the commentator on Kāty. XIX, 5, 1, the Brahman sings, whilst Lāṭy. V, 4, 16-19 gives directions from which the Udgātr̥ would seem to be expected to perform this duty. When the Sacrificer is being anointed, the Udgātr̥ is to step between the (northern and southern) fires and, as soon as he is called upon by the Adhvaryu, he is to commence the Sāman. It would probably depend on the Brahman’s previous studies, whether or not he was sufficiently conversant with the complicated details of the hymnology. ↩︎
-
255:2 Viz. Vāj. S. XX, 30 (Riks. VIII, 89, 1), ‘To Indra, O Maruts, sing ye the great (hymn), most destructive to Vr̥tra, whereby the promoters of sacred rites produced the light, the wakeful god for the god.’ ↩︎
-
256:1 Professor Weber, Ind. Stud. VIII, p. 42, refers to a parallel passage in Tāṇḍya-Br. VII, 4, 7–‘By means of the Bahishpavamāna (of the morning service) the gods carried off Āditya, the sun, to heaven; but he did not stop there. At midday they then fixed him by means of the Br̥hatī, and for this reason the Br̥hatī metre is used for the Pavamāna-stotra at the midday service.’ ↩︎
-
256:2 Literally, sharpeners or sharpenings (saṁśāna). ↩︎
-
256:3 These words–apparently meaning ‘for fame all round, for fame far and wide, for true fame, for fame’ (or, perhaps, for hearing, or, rather, being heard of all round,’ &c.)–are used to form the fiṇaleś (nidhana) in which all the priests are to join; cf. Sāmav., Calc. ed., I, pp. 533-4, where the figured text is given. According to Katy. XIX, 5, 4-5; Lāṭy. V, 4, 19, the words, ‘saṁjityai, vijityai, satyajityai, jityai’ (for complete victory, victory far and wide, &c.), and ‘sampushṭyai, vipushṭyai,’ &c. (for complete prosperity, &c.), are to be used instead, in the case of a Kshatriya and Vaiśya respectively, either optionally or necessarily. Though these four words are here, and elsewhere, spoken of as so many different Sāmans, only ’the last of them (‘śravase’) forms the fiṇale of a Sāman in the ordinary sense of the word; the others being merely combined with certain musical ejaculations, or expletives (stobhas). All the four ‘Sāmans’ begin with the same phrase (varying only in the verb)–‘saṁ tvā hinvanti (riṇanti, tatakshur, śiśanti) dhītibhiḥ,’ i, e. ’they make thee up (or urge thee on) with prayers,’ serving as a kind of prelude (prastāva) the single words of which are given among the Stobhas (Sāmav„ Calc. ed., II, p. 522, last line), as, indeed, the words ‘saṁśravase,’ &c., themselves are (ib., p. 520). In the first three Sāmans this phrase is followed by the fiṇale consisting of the respective characteristic word preceded by the Stobha ‘auhovā.’ In the last Sāman, on the other hand, the introductory phrase is followed by the choral setting of the verse ‘Br̥had indrāya gāyata’ (see p. 255, n. 2), which, in its turn, is followed again by the first phrase, with a slightly modified modulation, ending with ‘auhovā śravase.’ Whilst joining in the fiṇale, the priests, according to Lāṭy. V, 4, 17, are to lay their hands on the head of the Sacrificer. ↩︎
-
उत्थं A. ↩︎
-
उत्थ᳘मे A. ↩︎
-
257:1 According to Katy. Sr. XIX, 4, 24; 5, 8 seq.; 7, 1 seq., the thirty-third libation of gravy is taken with the text, XX, 32, ‘yo bhūtānām adhipatiḥ (he who is the over-lord of creatures),’ &c. whilst, on the conclusion of the Sastra, or Hotr̥’s recitation, the Sacrificer offers the libation from that last cup with XX, 11-12, and drinks the remainder with XX, 13. The Sastra, recited in response to the Sāman, consists of the section of .eleven verses, Vāj. S. XX, 80-90, the first and last verses of which are recited thrice; whilst the ‘āhāva’ (śoṁsāvom, ’let us praise, om!’) is inserted by him before each triplet of the remaining nine verses. The two verses used whilst the Sacrificer offers (XX, 11-12) are likewise recited by the Hotr̥, as a ’nivid,’ being either added at the end of the Sastra, or inserted before the ninth or tenth verse; the whole recitation thus consisting of seventeen verses. ↩︎ ↩︎
-
258:1 Mahīdhara takes the instrumental throughout as a sociative (saha satyena). ↩︎
-
259:1 According to Kāty. XIX, 5, 9, the priests themselves first smell the remainder of the fat gravy, with the text (XX, 34), ‘The protector of my breath thou art,’ &c. Cf. also XIV, 2, 2, 42, with note. ↩︎
-
259:2 The use of ‘prayati’ in this sense (here and Vāj. S. XVIII, 1) is peculiar; being apparently derived from ‘pra-yam,’ one would expect it to have some such meaning as ‘offer, gift.’ This and the other predicates, according to Mahīdhara, are to show the state of feeling of beings towards the (royal) Sacrificer. The repetition of ‘ānati’ (bowing, prostration, submission) is strange. A strong alliterative cadence is noticeable in the verse. ↩︎
-
259:3 ? Hardly ‘return’ here; rather, perhaps, ‘attaining to (the other worlds),’ or, possibly, ’the turning to him, gathering round him (of the people).’ ↩︎
-
259:4 ? Or, he now calls these to himself in the meantime. ↩︎