०१

विश्वास-प्रस्तुतिः

प्रजा᳘पतिर्य्यज्ञ᳘मसृजत्॥
(त्त) तमा᳘हरत्ते᳘नायजत ते᳘नेष्ट्वा᳘ रिरिचान᳘ ऽइवामन्यत स᳘ ऽएतं᳘ यज्ञक्रतु᳘मपश्यत्सौत्रामणीन्ते᳘नायजत त᳘तो वै स पु᳘नरा᳘प्यायत रिच्य᳘त ऽइव वा᳘ ऽएष यः सो᳘मेन य᳘जते᳘ व्वीव᳘ ह्यस्य व्वित्तं व्वे᳘दो ह᳘रन्ति॥

मूलम् - श्रीधरादि

प्रजा᳘पतिर्य्यज्ञ᳘मसृजत्॥
(त्त) तमा᳘हरत्ते᳘नायजत ते᳘नेष्ट्वा᳘ रिरिचान᳘ ऽइवामन्यत स᳘ ऽएतं᳘ यज्ञक्रतु᳘मपश्यत्सौत्रामणीन्ते᳘नायजत त᳘तो वै स पु᳘नरा᳘प्यायत रिच्य᳘त ऽइव वा᳘ ऽएष यः सो᳘मेन य᳘जते᳘ व्वीव᳘ ह्यस्य व्वित्तं व्वे᳘दो ह᳘रन्ति॥

मूलम् - Weber

प्रजा᳘पतिर्यज्ञ᳘मसृजत ॥
तमा᳘हरत्ते᳘नायजत ते᳘नेष्ट्वा᳘ रिरिचान᳘-इवामन्यत स᳘ एतं᳘ यज्ञक्रतु᳘मपश्यत्सौत्रामणीं ते᳘नायजत त᳘तो वै स पु᳘नरा᳘प्यायत रिच्य᳘तऽइव वा᳘ऽएष यः सो᳘मेन य᳘जतेॗ वीवॗ ह्यस्य वित्तं वे᳘दो ह᳘रन्ति ॥

मूलम् - विस्वरम्

अथ सौत्रामण्यां सोमसम्पत्तिः ।

प्रजापतिर्यज्ञमसृजत् । तमाहरत् । तेनायजत । तेनेष्ट्वा रिरिचान इवामन्यत । स एतं यज्ञक्रतुमपश्यत् सौत्रामणीम् । तेनायजत । ततो वै स पुनराप्यायत । रिच्यत इव वा एषः- यः सोमेन यजते । वीव ह्यस्य वित्तं वेदो हरन्ति ॥ १ ॥

हरिस्वामी

प्रजापतिर्यज्ञमसृजदिति । यज्ञं सोमयागं ‘यः सोमेन यजते’ इति वाक्यशेषात् । रिरिचानः रिक्तः । वीव ह्यस्य वित्तं वेदो हरंति । अस्यर्त्विजः सदस्याश्च वित्तं लब्धं वेदो धनं हरन्ति ॥ १ ॥

Eggeling
  1. Prajāpati created the (Soma-)sacrifice. He took it and performed it. When he had performed it, he felt like one emptied out. He saw this sacrificial performance, the Sautrāmaṇī, and performed it, and then he was again replenished; and, indeed, he who performs the Soma-sacrifice is, as it were, emptied out, for his wealth, his prosperity is, as it were, taken from him.
मूलम् - Makoto

प्रजा᳓पतिर् यज्ञ᳓म् असृजत ।॥
त᳓म् आ᳓हरत् ते᳓ना᳓यजत ते᳓नेष्ट्वा᳓ रिरिचा᳓न᳓ इवा᳓मन्यत स᳓ एतं᳓ यज्ञक्रतु᳓म् अपश्यत् सौत्रा᳓मणीं᳓ ते᳓ना᳓यजत त᳓तो वै᳓ स᳓ पु᳓नर् आ᳓प्या᳓यत रिच्य᳓त इव वा᳓ एष᳓ यः᳓ सो᳓मेन य᳓जते वी᳙व ह्य् अ᳙स्य वित्तं᳓ वे᳓दो ह᳓रन्ति ॥॥

०२

विश्वास-प्रस्तुतिः

सो᳘मेनेष्ट्वा᳘ सौत्रामण्या᳘ यजेत॥
य᳘था धेनुर्द्दुग्धा[[!!]] पु᳘नराप्या᳘येतैव᳘ᳫँ᳘ हैव पु᳘नरा᳘प्यायत ऽआ᳘ प्प्रज᳘या पशु᳘भिः प्यायते प्र᳘त्यस्मिं᳘ल्लोके᳘ तिष्ठत्यभि᳘ स्वर्गं᳘ लोक᳘ञ्जयति य᳘ ऽएवं᳘ व्विद्वा᳘न्त्सौत्रामण्या य᳘जते यो᳘ वैत᳘देवम्वे᳘द॥

मूलम् - श्रीधरादि

सो᳘मेनेष्ट्वा᳘ सौत्रामण्या᳘ यजेत॥
य᳘था धेनुर्द्दुग्धा[[!!]] पु᳘नराप्या᳘येतैव᳘ᳫँ᳘ हैव पु᳘नरा᳘प्यायत ऽआ᳘ प्प्रज᳘या पशु᳘भिः प्यायते प्र᳘त्यस्मिं᳘ल्लोके᳘ तिष्ठत्यभि᳘ स्वर्गं᳘ लोक᳘ञ्जयति य᳘ ऽएवं᳘ व्विद्वा᳘न्त्सौत्रामण्या य᳘जते यो᳘ वैत᳘देवम्वे᳘द॥

मूलम् - Weber

सो᳘मेनेष्ट्वा᳘ सौत्रामण्या᳘ यजेत ॥
य᳘था धे᳘नुर्दुग्धा पु᳘नराप्या᳘येतैव᳘ᳫं᳘ हैव पु᳘नरा᳘प्यायतऽआ᳘ प्रज᳘या पशु᳘भिः प्यायते प्र᳘त्यस्मिं᳘लोके᳘ तिष्ठत्यभि᳘ स्वर्गं᳘ लोकं᳘ जयति य᳘ एवं᳘ विद्वा᳘न्त्सौत्रामण्या य᳘जते यो᳘ वैत᳘देवं वे᳘द ॥

मूलम् - विस्वरम्

सोमेनेष्ट्वा सौत्रामण्या यजेत । यथा धेनुर्दुग्धा पुनराप्यायेत । एवं हैव पुनराप्यायते । आ प्रजया पशुभिः प्यायते । प्रत्यस्मिन् लोके तिष्ठति । अभि स्वर्गं लोकं जयति । य एवं विद्वान् सौत्रामण्या यजते । यो वैतदेवं वेद ॥ २ ॥

हरिस्वामी

सोमेनेष्ट्वेति । सोमयागांगत्वेन सौत्रामणी विधीयते । कुतः ? न तावत्सोमयागस्य सौत्रामण्या निमित्तत्वं प्रमाणाभावात् । यत्तु, रेचनाप्यायनार्थत्ववचनम् । यद्ददाति तमेवातस्त्रिभिः पुनराप्याययतीति । अथ सोमयाग एव सौत्रामण्याः कस्मादंगं न भवति ? तथा हि- सौत्रामण्याः प्रकरणमनुग्रहीष्यते । नैतदेवमिष्टमिति । सोमयागः सिद्ध एवमुपात्तस्य प्रयोजनापेक्षया विधेयत्वं नास्ति । न सौत्रामणी अनुविधीयमाना प्रयोजनमपेक्षत इति तस्या एवांगत्वं युक्तम् । यथा वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति वाजपेयांगत्वं बृहस्पतिसवस्य । तथा च रिरिचानाप्यायनमुपकारविशेषः सौत्रामणीकार्यम् । एवं च श्रूयते । तस्मात्सोमांगं सौत्रामणीत्युपपन्नम् । स च सोमयागो ज्योतिष्टोमः । स हि प्रकृतिः । प्रकृतिगामिनश्चानारभ्यविषया भवंति । अयं चापि सोमो ऽनारभ्यविधिः । एवं च सति सांगज्योतिष्टोमदक्षिणाभिरेव च सौत्रामण्या दक्षिणार्थः सिद्ध इति न पृथक् सौत्रामण्यां दक्षिणा देया । न च तदंगविधिप्रत्यक्षश्रुतौ त्रयस्त्रिंशद्दक्षिणा देयाः । तस्य वचनस्य स्वतन्त्रप्रयोगकृतार्थत्वात् । “स यो भ्रातृव्यवान् स्यात् स सौत्रामण्या यजेत”- इत्येवमादयो हि स्वतन्त्रा एव सौत्रामण्याः प्रयोगा इति तेषां दक्षिणा । एवमेव च अग्निचितः सोमातिपूतस्य सोमवामिनश्च सोत्रामणीप्रयोग अदक्षिणाः । वचनादन्यत्र कर्तव्यं विज्ञायते चेत्तत्रैव दक्षिणेति ॥ २ ॥

Eggeling
  1. Having performed a Soma-sacrifice one ought to perform the Sautrāmaṇī: as a cow that has been milked would replenish again, even so, indeed, does he replenish himself,–he replenishes himself by offspring and cattle; and, verily, he who, knowing this, performs the Sautrāmaṇī, or he who (even) knows this, establishes himself in this world, and wins the heavenly world.
मूलम् - Makoto

सो᳓मेनेष्ट्वा᳓ सौत्रा᳓मण्या᳓ यजेत ।॥
य᳓था᳓ धे᳓नुर् दुग्धा᳓ पु᳓नर् आ᳓प्या᳓येतैवँ᳓ हैव᳓ पु᳓नर् आ᳓प्या᳓यत आ᳓ प्रज᳓या᳓ पशु᳓भिः प्या᳓यते प्र᳓त्य् अस्मिं᳓ लोके᳓ तिष्ठत्य् अभि᳓ स्वर्गं᳓ लोकं᳓ जयति य᳓ एवं᳓ विद्वा᳓न्त् सौत्रा᳓मण्या᳓ य᳓जते यो᳓ वैत᳓द् एवं᳓ वे᳓द ॥॥

०३

विश्वास-प्रस्तुतिः

त᳘द्धैत᳘त्पप्रच्छ॥
सु᳘प्ला सार्ञ्जयः᳘ प्रतीदर्श᳘मैभावतं यन्न᳘ दीक्ष᳘येव दी᳘क्षते न᳘ सोमाᳫँ᳭श᳘व ऽइव न्युप्यन्ते᳘ ऽथ कथ᳘ᳫँ᳘ सौत्रामणी᳘ सोमयज्ञो᳘ भवती᳘ति॥

मूलम् - श्रीधरादि

त᳘द्धैत᳘त्पप्रच्छ॥
सु᳘प्ला सार्ञ्जयः᳘ प्रतीदर्श᳘मैभावतं यन्न᳘ दीक्ष᳘येव दी᳘क्षते न᳘ सोमाᳫँ᳭श᳘व ऽइव न्युप्यन्ते᳘ ऽथ कथ᳘ᳫँ᳘ सौत्रामणी᳘ सोमयज्ञो᳘ भवती᳘ति॥

मूलम् - Weber

त᳘द्धैत᳘त्पप्रछ ॥
सु᳘प्ला सार्ञ्जयः᳘ प्रतीदर्श᳘मैभावतं यन्न᳘ दीक्ष᳘येव दी᳘क्षते न᳘ सोमाᳫंश᳘व-इव न्युप्यन्ते᳘ऽथ कथ᳘ᳫं᳘ सौत्रामणी᳘ सोमयज्ञो᳘ भवती᳘ति ॥

मूलम् - विस्वरम्

तद्धैतत् पप्रच्छ सुप्ला सार्ञ्जयः प्रतीदर्शमैभावतम् । यन्न दीक्षयेव दीक्षते । न सोमांशव इव न्युप्यंते । अथ कथं सौत्रामणी सोमयज्ञो भवतीति ॥ ३ ॥

हरिस्वामी

तद्धैतत्पप्रच्छ । तत्तत्र सौत्रामण्यां एतत् वक्ष्यमाणं पप्रच्छ पृष्टवान् । सुप्ला नाम राजपुत्रो याज्ञिकः । सार्ञ्जयः सृंजयस्यापत्यम् । प्रतीदर्शं नाम राजानमिभावतो ऽपत्यमैभावतम् । किं पृष्टवान् इत्यत आह- यन्न दीक्षयेवेति । अत्र सौत्रामण्यां न दीक्षते नापि तद्दीक्षादिक्रिया । नैव सोमांशवः । अभिषवार्थं अधिषवणे न्युप्यन्ते । अथ ततः कथं सौत्रामण्यां सोमयज्ञो भवतीति अवयवाः पृष्टाः । दीक्षासोमांशुग्रहणं च प्रदर्शनार्थम् । किमस्य व्रतस्य शिरः । क आत्मा । इत्येतदपि पृष्टम् । प्रतिद्रव्यं प्रतिवचनदर्शनात् ॥ ३ ॥

Eggeling
  1. As to this Suplan Sārñjaya asked Pratīdarśa Aibhāvata 1, ‘Seeing that neither does one

become initiated, nor are Soma-shoots 2 thrown down (to be pressed), how then does the Sautrāmaṇī become a Soma-sacrifice?’

मूलम् - Makoto

त᳓द् धैत᳓त् पप्रछ ।॥
सु᳓प्ला᳓ सा᳓र्ञ्जयः᳓ प्रतीदर्शमैभा᳓वतं य᳓न् न᳓ दीक्ष᳓येव दी᳓क्षते न᳓ सोमाँ᳓श᳓व इव न्युप्य᳓न्ते᳓ ऽथ कथँ᳓ सौत्रा᳓मणी᳓ सोमयज्ञो᳓ भवती᳓ति ॥॥

०४

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
शि᳘रो वा᳘ ऽएत᳘द्यज्ञ᳘स्य य᳘द्व्रत᳘मात्मा᳘ दी᳘क्षैतत्ख᳘लु वै᳘ व्व्रत᳘स्य रूपं य᳘त्सत्य᳘मेत᳘द्दीक्षा᳘यै य᳘च्छ्रद्धा म᳘नो य᳘जमानस्य रूपं व्वा᳘ग्यज्ञस्ये᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
शि᳘रो वा᳘ ऽएत᳘द्यज्ञ᳘स्य य᳘द्व्रत᳘मात्मा᳘ दी᳘क्षैतत्ख᳘लु वै᳘ व्व्रत᳘स्य रूपं य᳘त्सत्य᳘मेत᳘द्दीक्षा᳘यै य᳘च्छ्रद्धा म᳘नो य᳘जमानस्य रूपं व्वा᳘ग्यज्ञस्ये᳘ति॥

मूलम् - Weber

स᳘ होवाच ॥
शि᳘रो वा᳘ऽएत᳘द्यज्ञ᳘स्य य᳘द्व्रत᳘मात्मा᳘ दीॗक्षैतत्ख᳘लु वै᳘ व्रत᳘स्य रूपं य᳘त्सत्य᳘मेत᳘द्दीक्षा᳘यै य᳘छ्रद्धा म᳘नो य᳘जमानस्य रूपं वा᳘ग्यज्ञस्ये᳘ति ॥

मूलम् - विस्वरम्

स होवाच । शिरो वा एतद्यज्ञस्य । यद् व्रतम् । आत्मा दीक्षा । एतत् खलु वै व्रतस्य रूपम् । यत् सत्यम् । एतद्दीक्षायै । यत् श्रद्धा । मनो यजमानस्य रूपम् । वाग् यज्ञस्येति ॥ ४ ॥

हरिस्वामी

स होवाच- ज्योतिष्टोम एव तद्दीक्षाव्रतयोरध्यात्ममाह- शिर एव तद्यज्ञस्य । यद्दीक्षितव्रतं सत्यवदनादि । आत्मा दीक्षा । सोमयज्ञस्यात्मा शरीरान्तस्थः । स च तादृशस्य ज्योतिष्टोमिकस्याध्यात्मकस्य व्रतस्यैतद्रूपं यत्सत्यं सौत्रामण्यामेतच्च दीक्षाया रूपं या श्रद्धा । अथ यजमानस्य किमत्राध्यात्मिकं रूपं किं वा यज्ञस्येत्यत आह- यजमानस्याध्यात्मं रूपं मनः पिंडस्थलिंगं च तत्प्रधानत्वात् । वागिंद्रियं यज्ञस्याध्यात्ममिह रूपम् । वागभिद्वारा मन्त्रसाध्यत्वाद्यज्ञस्य ॥ ४ ॥

Eggeling
  1. He replied, ‘The observance of the fast, assuredly, is the head of the sacrifice, and the initiation its body. And the truth, doubtless, is of the form of the fast-observance, and faith of that of the initiation. And mind is of the form of the Sacrificer, and speech of that of the sacrifice.’
मूलम् - Makoto

स᳓ होवा᳓च ।॥
शि᳓रो वा᳓ एत᳓द् यज्ञ᳓स्य य᳓द् व्रत᳓म् आ᳓त्मा᳓ दीक्षै᳙त᳓त् ख᳓लु वै᳓ व्रत᳓स्य रूपं᳓ य᳓त् सत्य᳓म् एत᳓द् दीक्षा᳓यै य᳓च् छ्रद्धा᳓ म᳓नो य᳓जमा᳓नस्य रूपं᳓ वा᳓ग् यज्ञ᳓स्येति ॥॥

०५

विश्वास-प्रस्तुतिः

स य᳘द्वाचा᳘ व्व्रत᳘मुपै᳘ति॥
(त्या) आत्म᳘न्ये᳘वैत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘तिदधाति सत्य᳘ᳫँ᳘ श्रद्धा᳘यान्दधाति य᳘जमानं यज्ञे[[!!]]॥

मूलम् - श्रीधरादि

स य᳘द्वाचा᳘ व्व्रत᳘मुपै᳘ति॥
(त्या) आत्म᳘न्ये᳘वैत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘तिदधाति सत्य᳘ᳫँ᳘ श्रद्धा᳘यान्दधाति य᳘जमानं यज्ञे[[!!]]॥

मूलम् - Weber

स य᳘द्वाचा᳘ व्रत᳘मुपै᳘ति ॥
आत्म᳘न्येॗवैत᳘द्यज्ञ᳘स्य शि᳘रः प्र᳘तिदधाति सत्य᳘ᳫं᳘ श्रद्धा᳘यां दधाति य᳘जमानं यज्ञे᳟ ॥

मूलम् - विस्वरम्

स यत् वाचा व्रतमुपैति । आत्मन्येवैतद्यज्ञस्य शिरः प्रतिदधाति । सत्यं श्रद्धायां दधाति । यजमानं यज्ञे ॥ ५ ॥

हरिस्वामी

स यद्वाचा व्रतमिति । यदत्र सौत्रामण्यां वागिन्द्रियेण व्रतमुपवसथलक्षणम् ॥ ५ ॥

Eggeling
  1. Thus, when he enters upon the fast-observance, he thereby restores the head to the body of the sacrifice, and he puts truth into faith, and the Sacrificer into the sacrifice.
मूलम् - Makoto

स᳓ य᳓द् वा᳓चा᳓ व्रत᳓म् उपै᳓ति ।॥
आ᳓त्म᳓न्य् एवै᳙त᳓द् यज्ञ᳓स्य शि᳓रः प्र᳓तिदधा᳓ति सत्यँ᳓ श्रद्धा᳓यां᳓ दधा᳓ति य᳓जमा᳓नं यज्ञे᳓ ॥॥

०६

विश्वास-प्रस्तुतिः

त᳘स्मादेत᳘स्य यज्ञ᳘स्य॥
व्व्रत᳘मेव᳘ दीक्षा वृ᳘षो वै᳘ व्व्रतं यो᳘षा दीक्षा वृ᳘षा सत्यं यो᳘षा श्रद्धा वृ᳘षा म᳘नो यो᳘षा व्वाग्वृ᳘षा प᳘त्न्यै य᳘जमानस्त᳘स्माद्य᳘त्रैव प᳘तिस्त᳘त्र जाया᳘ ऽथो यज्ञमुख᳘ ऽएव त᳘न्मिथुनानि[[!!]] करोति प्प्र᳘जात्यै॥

मूलम् - श्रीधरादि

त᳘स्मादेत᳘स्य यज्ञ᳘स्य॥
व्व्रत᳘मेव᳘ दीक्षा वृ᳘षो वै᳘ व्व्रतं यो᳘षा दीक्षा वृ᳘षा सत्यं यो᳘षा श्रद्धा वृ᳘षा म᳘नो यो᳘षा व्वाग्वृ᳘षा प᳘त्न्यै य᳘जमानस्त᳘स्माद्य᳘त्रैव प᳘तिस्त᳘त्र जाया᳘ ऽथो यज्ञमुख᳘ ऽएव त᳘न्मिथुनानि[[!!]] करोति प्प्र᳘जात्यै॥

मूलम् - Weber

त᳘स्मादेत᳘स्य यज्ञ᳘स्य ॥
व्रत᳘मेव᳘ दीक्षा वृ᳘षो वै᳘ व्रतं यो᳘षा दीक्षा वृ᳘षा सत्यं यो᳘षा श्रद्धा वृ᳘षा म᳘नो यो᳘षा वाग्वृ᳘षा प᳘त्न्यै य᳘जमानस्त᳘स्माद्य᳘त्रैव प᳘तिस्त᳘त्र जाया᳘थो यज्ञमुख᳘ऽएव त᳘न्मिथुना᳘नि करोति प्र᳘जात्यै ॥

मूलम् - विस्वरम्

तस्मात् एतस्य यज्ञस्य व्रतमेव दीक्षा । वृषा उ वै व्रतम् । योषा दीक्षा । वृषा सत्यम् । योषा श्रद्धा । वृषा मनः । योषा वाग् । वृषा पत्न्यै यजमानः । तस्मात् यत्रैव पतिस्तत्र जाया । अथो यज्ञमुख एव तन्मिथुनानि करोति प्रजात्यै ॥ ६ ॥

हरिस्वामी

दीक्षा कथम् ? वृषा उ वै व्रतम् । योषा दीक्षा । वृषयोषयोश्च संसर्गादभेदः इत्यभिप्रायः । वृषा सत्यम् । अस्त्रीलिंगस्य चाव्ययत्वात् । ततश्च संपर्काच्छ्रद्धायाः सत्यस्याभेदः । श्रद्धायै दीक्षाया रूपमित्युक्तम् । तस्याश्चाभिन्नत्वात् । अन्यव्रतमपि दीक्षेत्युपपन्नम् । वृषा मनः । ततश्च वृषात्वेन व्रतादभिन्नयोषावान् । ततश्च योषात्वेन दीक्षया संसर्गाच्च तया सह समासः । एकत्वाच्च मनो ऽपि दीक्षा । वृषा पत्न्यै यजमानः । वृषा पत्नी च योषा दीक्षाया अभेदाच्च यजमानो ऽपि दीक्षा । यस्माच्चैवम् तस्मात् मिथुनभेदात् । यत्रैव पतिस्तत्र जायेति मिथुनैकत्वम् । अथो यज्ञमुख एव तन्मिथुनानि करोति । यद्वाचा व्रतमुपैति । तेना ऽऽत्मादिषु शिरआदिषु दीक्षामादधाति । एतानि च मिथुनानि यज्ञमुखे व्रतमुपैति करोत्युपासकः ॥ ६ ॥

Eggeling
  1. Therefore at this sacrifice (the Sautrāmaṇī) the fast-observance 3 is the initiation. Now, the fast-observance is a male, and the initiation a female; and the truth is a male, and faith a female; and the mind is a male, and speech a female; and the Sacrificer is the male to his wife, whence wherever there is a husband there is a wife: and at the very outset of the sacrifice he thus sets up couples with a view to production.
मूलम् - Makoto

त᳓स्मा᳓द् एत᳓स्य यज्ञ᳓स्य ।॥
व्रत᳓म् एव᳓ दीक्षा᳓ वृ᳓षो वै᳓ व्रतं᳓ यो᳓षा᳓ दीक्षा᳓ वृ᳓षा᳓ सत्यं᳓ यो᳓षा᳓ श्रद्धा᳓ वृ᳓षा᳓ म᳓नो यो᳓षा᳓ वा᳓ग् वृ᳓षा᳓ प᳓त्न्यै य᳓जमा᳓नस् त᳓स्मा᳓द् य᳓त्रैव᳓ प᳓तिस् त᳓त्र जा᳓या᳓थो यज्ञमुख᳓ एव᳓ त᳓न् मिथुना᳓नि करोति प्र᳓जा᳓त्यै ॥॥

०७

विश्वास-प्रस्तुतिः

(त्या ऽए) एते ख᳘लु वा᳘ ऽएत᳘स्य यज्ञ᳘स्य॥
सोमाᳫँ᳭श᳘व ऽइ᳘त्याहुर्य्यच्छ᳘ष्पाणि तो᳘क्मानि लाजा ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्या ऽए) एते ख᳘लु वा᳘ ऽएत᳘स्य यज्ञ᳘स्य॥
सोमाᳫँ᳭श᳘व ऽइ᳘त्याहुर्य्यच्छ᳘ष्पाणि तो᳘क्मानि लाजा ऽइ᳘ति॥

मूलम् - Weber

एते ख᳘लु वा᳘ऽएत᳘स्य यज्ञ᳘स्य ॥
सोमाᳫंश᳘व इ᳘त्याहुर्यछ᳘ष्पाणि तो᳘क्मानि लाजा इ᳘ति ॥

मूलम् - विस्वरम्

एते खलु वा एतस्य यज्ञस्य सोमांशव इत्याहुः । यच्छष्पाणि तोक्मानि लाजा इति ॥ ७ ॥

हरिस्वामी

एते खलु वा । सोमोपपादनमेतत् 4 ॥ ७ ॥

Eggeling
  1. ‘And, indeed, those (materials) are the Soma-shoots at this sacrifice,’ they say, ’to wit, the malted rice, the malted barley, and the fried rice.’
मूलम् - Makoto

एते᳓ ख᳓लु वा᳓ एत᳓स्य यज्ञ᳓स्य ।॥
सोमाँ᳓श᳓व इ᳓त्य् आ᳓हुर् य᳓च् छ᳓ष्पा᳓णि तो᳓क्मा᳓नि ला᳓जा᳓ इ᳓ति ॥॥

०८

विश्वास-प्रस्तुतिः

प्रातःसवन᳘स्यैत᳘द्रूपम्[[!!]]॥
यच्छ᳘ष्पाण्ययम्वै᳘ लोकः᳘ प्रातःसवनᳫँ᳭ स᳘ ऽआश्विन᳘ ऽआश्विने᳘न प᳘यसा प्प्रथमाᳫँ᳭ रा᳘त्रिम्प᳘रिषिञ्चति स्वे᳘नै᳘वैनमेत᳘ल्लोके᳘न स्व᳘या देव᳘तया स्वे᳘न रूपे᳘ण प्रातःसवने᳘न स᳘मर्द्धयति॥

मूलम् - श्रीधरादि

प्रातःसवन᳘स्यैत᳘द्रूपम्[[!!]]॥
यच्छ᳘ष्पाण्ययम्वै᳘ लोकः᳘ प्रातःसवनᳫँ᳭ स᳘ ऽआश्विन᳘ ऽआश्विने᳘न प᳘यसा प्प्रथमाᳫँ᳭ रा᳘त्रिम्प᳘रिषिञ्चति स्वे᳘नै᳘वैनमेत᳘ल्लोके᳘न स्व᳘या देव᳘तया स्वे᳘न रूपे᳘ण प्रातःसवने᳘न स᳘मर्द्धयति॥

मूलम् - Weber

प्रातःसवन᳘स्यैत᳘द्रूप᳟म् ॥
यछ᳘ष्पाण्ययं वै᳘ लोकः᳘ प्रातःसवनᳫं स᳘ आश्विन᳘ आश्विने᳘न प᳘यसा प्रथमाᳫं रा᳘त्रिं प᳘रिषिञ्चति स्वे᳘नैॗवैनमेत᳘ल्लोके᳘न स्व᳘या देव᳘तया स्वे᳘न रूपे᳘ण प्रातःसवने᳘न स᳘मर्धयति ॥

मूलम् - विस्वरम्

प्रातःसवनस्यैतद् रूपं यच्छष्पाणि । अयं वै लोकः प्रातःसवनम् । स आश्विनः । आश्विनेन पयसा प्रथमां रात्रिं परिषिंचति । स्वेनैवैनमेतल्लोकेन स्वया देवतया स्वेन रूपेण प्रातःसवनेन समर्द्धयति ॥ ८ ॥

हरिस्वामी

प्रातःसवनस्येति पंचभिः कण्डिकाभिः परिषेक उच्यते । प्रातःसवनस्य शष्पाणि रूपं क्रयसामान्यात् । एवमेवायं लोकः प्रातःसवनम् । स आश्विन इति । आश्विनेन पयसा सत्यपि क्रयसामान्यादे?? गौणं आश्विनत्वम् । तत्त यागादेव मुख्यमुपपद्यते । सूत्रकारेण तु एकस्याः पयसा अपाकृतेन आश्विनेन परिषिंचतीत्युक्तम् । तद्वचनान्तात् विज्ञेयम् । एवं सारस्वतेनैन्द्रेणेत्यपि ज्ञातव्यम् । शष्पादीनां च प्रातःसवनरूपत्वं वचनात् । शष्पान्यपि परिषेककाले आवपतीति गम्यते । “परीतो षिंचता सुतम्” इत्यनेन मन्त्रेण परिषिंचति । किमर्थं ? सुत्यायै । एतेन हि परिषिच्यमाने सोमे स तु सुत्यायै भवति । (इयं समादातेसोमाभिषवत्वादस्य ?) । अद्रिभिः सह संसर्गिभिः । एषो ऽन्तरेण च । अन्तर्वर्तिना रसेन भूयात् कार्यत इत्यत आह- सोमसुत्यायै । अस्यैव गम्यामानार्थवचनम् ॥ ८-१२ ॥

Eggeling
  1. The malted rice 5, indeed, is of the form of the

morning-pressing, for the morning-pressing is this (terrestrial) world, and the latter relates to the Aśvins, and Āśvina milk he pours (into the Surā-liquor) the first night: he thus provides him (the Sacrificer 6) with the morning-pressing–with its own world, with its own deity, with its own form 7.

मूलम् - Makoto

प्रा᳓तःसवन᳓स्यैत᳓द् रूप᳓म् ।॥
य᳓च् छ᳓ष्पा᳓ण्य् अयं᳓ वै᳓ लोकः᳓ प्रा᳓तःसवनँ᳓ स᳓ आ᳓श्विन᳓ आ᳓श्विने᳓न प᳓यसा᳓ प्रथमाँ᳓ रा᳓त्रिं प᳓रिषिञ्चति स्वे᳓नैवै᳙नम् एत᳓ल् लोके᳓न स्व᳓या᳓ देव᳓तया᳓ स्वे᳓न रूपे᳓ण प्रा᳓तःसवने᳓न स᳓मर्धयति ॥॥

०९

विश्वास-प्रस्तुतिः

मा᳘ध्यन्दिनस्यैतत्स᳘वनस्य रूपम्[[!!]]॥
यत्तो᳘क्मान्यन्त᳘रिक्षम्वै मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं त᳘त्सारस्वत᳘ᳫँ᳘ सारस्वते᳘न प᳘यसा द्विती᳘याᳫँ᳭ रा᳘त्रिम्प᳘रिषिञ्चति स्वे᳘नै᳘वैनमेत᳘ल्लोके᳘न स्व᳘या देव᳘तया स्वे᳘न रूपे᳘ण मा᳘ध्यन्दिनेन स᳘वनेन स᳘मर्द्धयति॥

मूलम् - श्रीधरादि

मा᳘ध्यन्दिनस्यैतत्स᳘वनस्य रूपम्[[!!]]॥
यत्तो᳘क्मान्यन्त᳘रिक्षम्वै मा᳘ध्यन्दिनᳫँ᳭ स᳘वनं त᳘त्सारस्वत᳘ᳫँ᳘ सारस्वते᳘न प᳘यसा द्विती᳘याᳫँ᳭ रा᳘त्रिम्प᳘रिषिञ्चति स्वे᳘नै᳘वैनमेत᳘ल्लोके᳘न स्व᳘या देव᳘तया स्वे᳘न रूपे᳘ण मा᳘ध्यन्दिनेन स᳘वनेन स᳘मर्द्धयति॥

मूलम् - Weber

मा᳘ध्यन्दिनस्यैतत्स᳘वनस्य रूप᳟म् ॥
यत्तो᳘क्मान्यन्त᳘रिक्षं वै मा᳘ध्यन्दिनᳫं सवनं त᳘त्सारस्वत᳘ᳫं᳘ सारस्वते᳘न प᳘यसा द्विती᳘याᳫं रा᳘त्रिं प᳘रिषिञ्चति स्वे᳘नैॗवैनमेत᳘ल्लोके᳘न स्व᳘या देव᳘तया स्वे᳘न रूपे᳘ण मा᳘ध्यन्दिनेन स᳘वनेन स᳘मर्धयति ॥

मूलम् - विस्वरम्

माध्यंदिनस्यैतत्सवनस्य रूपं यत्तोक्मानि । अंतरिक्षं वै माध्यंदिनं सवनम् । तत्सारस्वतम् । सारस्वतेन पयसा द्वितीयां रात्रिं परिषिंचति । स्वेनैवैनमेतल्लोकेन स्वया देवतया स्वेन रूपेण माध्यंदिनेन सवनेन समर्धयति ॥ ९ ॥

हरिस्वामी

[व्याख्यानं अष्टमे]

Eggeling
  1. And the malted barley is of the form of the midday-pressing, for the midday-pressing is the air, and the latter relates to Sarasvatī 8, and the Sārasvata milk he pours (into the Surā) the second night: he thus provides him with the midday-pressing–with its own world, with its own deity, with its own form.
मूलम् - Makoto

मा᳓ध्यन्दिनस्यैत᳓त् स᳓वनस्य रूप᳓म् ।॥
य᳓त् तो᳓क्मा᳓न्य् अन्त᳓रिक्षं वै᳓ मा᳓ध्यन्दिनँ सवनं᳓ त᳓त् सा᳓रस्वतँ᳓ सा᳓रस्वते᳓न प᳓यसा᳓ द्विती᳓याँ᳓ रा᳓त्रिं प᳓रिषिञ्चति स्वे᳓नैवै᳙नम् एत᳓ल् लोके᳓न स्व᳓या᳓ देव᳓तया᳓ स्वे᳓न रूपे᳓ण मा᳓ध्यन्दिनेन स᳓वनेन स᳓मर्धयति ॥॥

१०

विश्वास-प्रस्तुतिः

तृतीयसवन᳘स्यैत᳘द्रूपम्[[!!]]॥
य᳘ल्लाजा द्यौर्व्वै᳘ तृतीयसवन᳘ᳫँ᳘ सै᳘न्द्र्यैन्द्रे᳘ण प᳘यसा तृती᳘याᳫँ᳭ रा᳘त्रिम्प᳘रिषिञ्चति स्वे᳘नै᳘वैनमेत᳘ल्लोके᳘न स्व᳘या देव᳘तया स्वे᳘न रूपे᳘ण तृतीयसवने᳘न स᳘मर्द्धयति॥

मूलम् - श्रीधरादि

तृतीयसवन᳘स्यैत᳘द्रूपम्[[!!]]॥
य᳘ल्लाजा द्यौर्व्वै᳘ तृतीयसवन᳘ᳫँ᳘ सै᳘न्द्र्यैन्द्रे᳘ण प᳘यसा तृती᳘याᳫँ᳭ रा᳘त्रिम्प᳘रिषिञ्चति स्वे᳘नै᳘वैनमेत᳘ल्लोके᳘न स्व᳘या देव᳘तया स्वे᳘न रूपे᳘ण तृतीयसवने᳘न स᳘मर्द्धयति॥

मूलम् - Weber

तृतीयसवन᳘स्यैत᳘द्रूप᳟म् ॥
य᳘ल्लाजा द्यौर्वै᳘ तृतीयसवन᳘ᳫं᳘ सैॗन्द्र्यैन्द्रे᳘ण प᳘यसा तृती᳘याᳫं रा᳘त्रिं प᳘रिषिञ्चति स्वे᳘नैॗवैनमेत᳘ल्लोके᳘न स्व᳘या देव᳘तया स्वे᳘न रूपे᳘ण तृतीयसवने᳘न स᳘मर्धयति ॥

मूलम् - विस्वरम्

तृतीयसवनस्यैतद् रूपं यत् लाजाः । द्यौर्वै तृतीयसवनम् । सैन्द्री । ऐंद्रेण पयसा तृतीयां रात्रिं परिषिंचति । स्वेनैवैनमेतल्लोकेन स्वया देवतया स्वेन रूपेण तृतीयसवनेन समर्द्धयति ॥ १० ॥

हरिस्वामी

[व्याख्यानं अष्टमे]

Eggeling
  1. And the fried rice is of the form of the evening-pressing, for the evening-pressing is the sky, and the latter relates to Indra, and Aindra milk he pours (into the Surā) the third night: he thus provides him with the evening-pressing–with its own world, with its own deity, with its own form.
मूलम् - Makoto

तृतीयसवन᳓स्यैत᳓द् रूप᳓म् ।॥
य᳓ल् ला᳓जा᳓ द्यौ᳓र् वै᳓ तृतीयसवनँ᳓ सैन्द्र्यै᳙न्द्रे᳓ण प᳓यसा᳓ तृती᳓याँ᳓ रा᳓त्रिं प᳓रिषिञ्चति स्वे᳓नैवै᳙नम् एत᳓ल् लोके᳓न स्व᳓या᳓ देव᳓तया᳓ स्वे᳓न रूपे᳓ण तृतीयसवने᳓न स᳓मर्धयति ॥॥

११

विश्वास-प्रस्तुतिः

(त्ये᳘) ए᳘कस्यै दुग्धे᳘न॥
प्रथमाᳫँ᳭ रा᳘त्रिम्प᳘रिषिञ्चति द्व᳘योर्द्दुग्धे᳘न द्विती᳘यां तिसृणां᳘ दुग्धे᳘न तृती᳘यां यथारूप᳘मे᳘वैनं यथादेवतᳫँ᳭ स᳘वनैः स᳘मर्द्धयति॥

मूलम् - श्रीधरादि

(त्ये᳘) ए᳘कस्यै दुग्धे᳘न॥
प्रथमाᳫँ᳭ रा᳘त्रिम्प᳘रिषिञ्चति द्व᳘योर्द्दुग्धे᳘न द्विती᳘यां तिसृणां᳘ दुग्धे᳘न तृती᳘यां यथारूप᳘मे᳘वैनं यथादेवतᳫँ᳭ स᳘वनैः स᳘मर्द्धयति॥

मूलम् - Weber

ए᳘कस्यै दुग्धे᳘न ॥
प्रथमाᳫं रा᳘त्रिं प᳘रिषिञ्चति द्व᳘योर्दुग्धे᳘न द्विती᳘यां तिसृणां᳘ दुग्धे᳘न तृती᳘यां यथारूप᳘मेॗवैनं यथादेवतᳫं स᳘वनैः स᳘मर्धयति ॥

मूलम् - विस्वरम्

एकस्यै दुग्धेन प्रथमां रात्रिं परिषिंचति । द्वयोर्दुग्धेन द्वितीयाम् । तिसृणां दुग्धेन तृतीयाम् । यथारूपमेवैनं यथादेवतं सवनैः समर्द्धयति ॥ ११ ॥

हरिस्वामी

[व्याख्यानं अष्टमे]

Eggeling
  1. The milk of one (cow) he pours (into the Surā) the first night, the milk of two the second

night, and the milk of three the third night: he thus provides him with the pressings, in accordance with their forms, and in accordance with their deities.

मूलम् - Makoto

ए᳓कस्यै दुग्धे᳓न ।॥
प्रथमाँ᳓ रा᳓त्रिं प᳓रिषिञ्चति द्व᳓योर् दुग्धे᳓न द्विती᳓यां᳓ तिसृणां᳓ दुग्धे᳓न तृती᳓यां᳓ यथा᳓रूप᳓म् एवै᳙नं यथा᳓देवतँ᳓ स᳓वनैः स᳓मर्धयति ॥॥

१२

विश्वास-प्रस्तुतिः

प᳘रीतो᳘ षिञ्चता सुतमि᳘ति॥
प᳘रिषिञ्चति सुत्या᳘यै सो᳘मो य᳘ ऽउत्तम᳘ᳫँ᳘ हविरि᳘त्युत्तमम्वा᳘ ऽएत᳘द्धविर्य्यत्सो᳘म ऽउत्तम᳘मे᳘वैनᳫँ᳭ हवि᳘ष्करोति दधन्वा यो न᳘र्य्यो ऽअ᳘प्स्वन्तरे᳘त्यद्भि᳘श्च᳘ ह्येषो᳘ ऽन्तरेण च सूय᳘ते सुषा᳘व सो᳘मम᳘द्रिभिरित्य᳘द्रिभिर्व्वै सो᳘मः सूयते᳘ ऽद्रिभिरे᳘वैनᳫँ᳭ सुनोति सोमसुत्या᳘यै॥

मूलम् - श्रीधरादि

प᳘रीतो᳘ षिञ्चता सुतमि᳘ति॥
प᳘रिषिञ्चति सुत्या᳘यै सो᳘मो य᳘ ऽउत्तम᳘ᳫँ᳘ हविरि᳘त्युत्तमम्वा᳘ ऽएत᳘द्धविर्य्यत्सो᳘म ऽउत्तम᳘मे᳘वैनᳫँ᳭ हवि᳘ष्करोति दधन्वा यो न᳘र्य्यो ऽअ᳘प्स्वन्तरे᳘त्यद्भि᳘श्च᳘ ह्येषो᳘ ऽन्तरेण च सूय᳘ते सुषा᳘व सो᳘मम᳘द्रिभिरित्य᳘द्रिभिर्व्वै सो᳘मः सूयते᳘ ऽद्रिभिरे᳘वैनᳫँ᳭ सुनोति सोमसुत्या᳘यै॥

मूलम् - Weber

प᳘रीतो᳘ षिञ्चता सुतमि᳘ति ॥
प᳘रिषिञ्चति सुत्या᳘यै सो᳘मो य᳘ उत्तम᳘ᳫं᳘ हविरि᳘त्युत्तमं वा᳘ऽएत᳘द्धविर्यत्सो᳘म उत्तम᳘मेॗवैनᳫं हवि᳘ष्करोति दधन्वा यो न᳘र्योऽअॗप्स्वन्तरे᳘त्यद्भि᳘श्चॗ ह्येषो᳘ऽन्तरेण च सूय᳘ते सुषा᳘व सो᳘मम᳘द्रिभिरित्य᳘द्रिभिर्वै सो᳘मः सूयते᳘ऽद्रिभिरेॗवैनᳫं सुनोति सोमसुत्या᳘यै ॥

मूलम् - विस्वरम्

“परीतो षिंचता सुतम्”- इति परिषिंचति सुत्यायै । “सोमो य उत्तमं हविः”- इति । उत्तमं वा एतद्धविः । यत्सोमः । उत्तममेवैनं हविष्करोति । “दधन्वा यो नर्यो अप्स्वंतरा”- इति । अद्भिश्च ह्येषो ऽन्तरेण च सूयते । “सुषाव सोममद्रिभिः”- (वा० सं० १९ । २) इति । अद्रिभिर्वै सोमः सूयते । अद्रिभिरेवैनं सुनोति । सोमसुत्यायै ॥ १२ ॥

हरिस्वामी

[व्याख्यानं अष्टमे]

Eggeling
  1. With (Vāj. S. XIX, 2), ‘Hereof pour ye to the juice,’ he pours in (the milk) for the sake of (conformity with) the Soma-pressing;–’(to) the Soma who is the supreme offering,’–for this, to wit, Soma, is indeed the supreme offering (-material): he thus makes it 9 to be the supreme offering;–’the manly one who hath rushed into the waters,’ for both with water and between it is he (Soma) indeed pressed out;–‘I have pressed out Soma by stones,’ for by means of stones Soma is indeed pressed out: it is thus by means of stones he presses it out for the sake of (conformity with) the Soma-pressing.
मूलम् - Makoto

प᳓रीतो᳓ षिञ्चता᳓ सुत᳓म् इ᳓ति ।॥
प᳓रिषिञ्चति सुत्या᳓यै सो᳓मो य᳓ उत्तमँ᳓ हविर् इ᳓त्य् उत्तमं᳓ वा᳓ एत᳓द् धवि᳓र् य᳓त् सो᳓म उत्तम᳓म् एवै᳙नँ हवि᳓ष् करोति दधन्वा᳓ यो᳓ न᳓र्यो अप्स्व् अ᳙न्तरे᳓त्य् अद्भि᳓श् च ह्य् ए᳙षो᳓ ऽन्तरेण च सूय᳓ते सुषा᳓व सो᳓मम् अ᳓द्रिभिर् इ᳓त्य् अ᳓द्रिभिर् वै᳓ सो᳓मः सूयते᳓ ऽद्रिभिर् एवै᳙नँ सुनोति सोमसुत्या᳓यै ॥॥

१३

विश्वास-प्रस्तुतिः

त᳘दाहुः॥ (रु) उभ᳘योर्व्वा᳘ ऽएत᳘द्रूप᳘ᳫँ᳘ सुत᳘स्य चा᳘सुतस्य च य᳘त्सौत्राम᳘ण्यपा᳘मेष ऽओ᳘षधीनाᳫँ᳭ र᳘सो यत्प᳘यस्त᳘त्सुत᳘स्य रूपम᳘न्नस्यैष र᳘सो य᳘त्परिस्रुत्तदा᳘सुतस्य रूप᳘मुभा᳘भ्यामे᳘वैनᳫँ᳭ सवा᳘भ्याᳫँ᳭ सुनो᳘त्युभा᳘भ्याᳫँ᳭ सवा᳘भ्याम᳘वरुन्द्धे॥

मूलम् - श्रीधरादि

त᳘दाहुः॥ (रु) उभ᳘योर्व्वा᳘ ऽएत᳘द्रूप᳘ᳫँ᳘ सुत᳘स्य चा᳘सुतस्य च य᳘त्सौत्राम᳘ण्यपा᳘मेष ऽओ᳘षधीनाᳫँ᳭ र᳘सो यत्प᳘यस्त᳘त्सुत᳘स्य रूपम᳘न्नस्यैष र᳘सो य᳘त्परिस्रुत्तदा᳘सुतस्य रूप᳘मुभा᳘भ्यामे᳘वैनᳫँ᳭ सवा᳘भ्याᳫँ᳭ सुनो᳘त्युभा᳘भ्याᳫँ᳭ सवा᳘भ्याम᳘वरुन्द्धे॥

मूलम् - Weber

त᳘दाहुः ॥ उभ᳘योर्वा᳘ऽएत᳘द्रूप᳘ᳫं᳘ सुत᳘स्य चा᳘सुतस्य व य᳘त्सौत्रामॗण्यपा᳘मेष ओ᳘षधीनाᳫं र᳘सो यत्प᳘यस्त᳘त्सुत᳘स्य रूपम᳘न्नस्यैष र᳘सो य᳘त्परिस्रुत्तदा᳘सुतस्य रूप᳘मुभा᳘भ्यामेॗवैनᳫं सवा᳘भ्याᳫं सुनो᳘त्युभा᳘भ्याᳫं सवा᳘भ्याम᳘वरुन्द्धे ॥

मूलम् - विस्वरम्

तदाहुः । उभयोर्वा एतद् रूपम् । सुतस्य चासुतस्य च । यत् सौत्रामणी । अपामेष ओषधीनां रसः । यत्पयः । तत्सुतस्य रूपम् । अन्नस्यैष रसः । यत्परिस्रुत् । तदासुतस्य रूपम् । उभाभ्यामेवैनं सवाभ्यां सुनोति । उभाभ्यां सवाभ्यामवरुन्धे ॥ १३ ॥

हरिस्वामी

तदाहुरिति । उभयोः सुतस्यासुतस्य च सवस्याविकृतस्यासुतस्य सत्त्वात् परिस्रुद्रसस्य रूपं सौत्रामणी । कथम् ? अपामोषधीनां चैष रसः । असंहितः अतीव्रीकृतः । यत्पयस्तत्सुतस्य असंहितस्य सवस्य रूपम् । अतश्चान्नस्य एष रसः या परिस्रुत् । य आसुतस्य सन्धानजस्य रूपमेतत् । उभाभ्यामपि सवाभ्यामेनं सोमं सुनोति स्रावयति अवरुन्धे च ॥ १३ ॥

Eggeling
  1. As to this they say, ‘That Sautrāmaṇī, surely, is of the form of both effused (extracted) and infused 10 (Soma);–to wit, that essence of both water and plants, the milk, is of the form of the effused (Soma); and that essence of food, the liquor, is of the form of infused (Soma): by both (kinds of) pressings he thus expresses it, by both pressings he secures it.
मूलम् - Makoto

त᳓द् आ᳓हुः ।॥
उभ᳓योर् वा᳓ एत᳓द् रूपँ᳓ सुत᳓स्य चा᳓सुतस्य व य᳓त् सौत्रा᳓मण्य् अ᳙पा᳓म् एष᳓ ओ᳓षधीनाँ᳓ र᳓सो य᳓त् प᳓यस् त᳓त् सुत᳓स्य रूप᳓म् अ᳓न्नस्यैष᳓ र᳓सो य᳓त् परिस्रु᳓त् त᳓द् आ᳓सुतस्य रूप᳓म् उभा᳓भ्या᳓म् एवै᳙नँ सवा᳓भ्याँ᳓ सुनो᳓त्य् उभा᳓भ्याँ᳓ सवा᳓भ्या᳓म् अ᳓वरुन्द्धे ॥॥

१४

विश्वास-प्रस्तुतिः

त᳘दाहुः॥ (र्य्य) यद्ग्रा᳘वभिः सो᳘मः सूयते᳘ ऽथ कथ᳘ᳫँ᳘ सौत्रामणी᳘ति प्प्रैषाप्प्री᳘भिरि᳘ति ब्रूयाद्बा᳘र्हता वै᳘ प्प्रैषा बा᳘र्हता ग्ग्रा᳘वाणो ग्ग्रा᳘वभिर्व्वै सो᳘मः सूयते ग्ग्रा᳘वभिरे᳘वैनᳫँ᳭ सुनोति सोमसुत्या᳘यै॥

मूलम् - श्रीधरादि

त᳘दाहुः॥ (र्य्य) यद्ग्रा᳘वभिः सो᳘मः सूयते᳘ ऽथ कथ᳘ᳫँ᳘ सौत्रामणी᳘ति प्प्रैषाप्प्री᳘भिरि᳘ति ब्रूयाद्बा᳘र्हता वै᳘ प्प्रैषा बा᳘र्हता ग्ग्रा᳘वाणो ग्ग्रा᳘वभिर्व्वै सो᳘मः सूयते ग्ग्रा᳘वभिरे᳘वैनᳫँ᳭ सुनोति सोमसुत्या᳘यै॥

मूलम् - Weber

त᳘दाहुः ॥ यद्ग्रा᳘वभिः सो᳘मः सूय᳘ते᳘ऽथ कथ᳘ᳫं᳘ सौत्रामणी᳘ति प्रैषाप्री᳘भिरि᳘ति ब्रूयाद्बा᳘र्हता वै᳘ प्रैषा बा᳘र्हता ग्रा᳘वाणो ग्रा᳘वभिर्वै सो᳘मः सूयते ग्रा᳘वभिरेॗवैनᳫं सुनोति सोमसुत्या᳘यै ॥

मूलम् - विस्वरम्

तदाहुः- यद् ग्रावभिः सोमः सूयते । अथ कथं सौत्रामणीति । प्रैषाप्रीभिरिति ब्रूयात् । बार्हता वै प्रैषाः । बार्हता ग्रावाणः । ग्रावभिर्वै सोमः सूयते । ग्रावभिरेवैनं सुनोति । सोमसुत्यायै ॥ १४ ॥

हरिस्वामी

तदाहुर्यदिति । ‘प्रैषाः’ 11 । “होता यक्षत्समिधाग्निम्” (वा. सं. २१ । २९-४०) इत्येवमादयः । ‘आप्रियः’ 12 । “समिद्धो अग्निरश्विना”- (वा. सं. २० । २५-३६) इत्येवमादयः । कथं पुनः प्रैषाप्रीभिर्ब्रूयादित्यत आह- ‘बार्हताः’ बृहत्या संमिताः बार्हताः । बृहद्रथन्तरयोर्हि रथन्तरमल्पं संक्षिप्तम् । बृहच्च विलम्बितं महत् । तदनुकारेण यदल्पं संक्षिप्तं च तत् रथन्तरमुच्यते । यत्तु महत् विलम्बितं तत् बार्हतमुच्यते । प्रैषास्तु महांतः, ग्रावोल्लेखसामान्यात् । एवं संभावना ॥ १४ ॥

Eggeling
  1. As to this they say, ‘Seeing that the Soma-juice is pressed out by stones, how as to the Sautrāmaṇī?’ Let him reply, ‘By the directions 13 and the

Āprī-verses;’ for the directions (praisha) are in the Br̥hatī (metre), and the pressing-stones are of bārhata nature: by means of stones the Soma-juice is indeed pressed out, and by means of stones he now presses it out for the sake of (conformity with) the Soma-pressing.

मूलम् - Makoto

त᳓द् आ᳓हुः ।॥
य᳓द् ग्रा᳓वभिः सो᳓मः सूय᳓ते᳓ ऽथ कथँ᳓ सौत्रा᳓मणी᳓ति प्रैषा᳓प्री᳓भिर् इ᳓ति ब्रूया᳓द् बा᳓र्हता᳓ वै᳓ प्रैषा᳓ बा᳓र्हता᳓ ग्रा᳓वा᳓णो ग्रा᳓वभिर् वै᳓ सो᳓मः सूयते ग्रा᳓वभिर् एवै᳙नँ सुनोति सोमसुत्या᳓यै ॥॥

१५

विश्वास-प्रस्तुतिः

स᳘र्व्वे प᳘यस्वन्तो भवन्ति॥
प᳘यसा हि᳘ सूय᳘ते स᳘र्व्वे सो᳘मवन्तो भवन्ति सोमरूप᳘तायै स᳘र्व्वे परिस्रु᳘न्मन्तो भवन्ति परिस्रु᳘ता हि᳘ सूय᳘ते स᳘र्व्वे घृत᳘वन्तो भवन्त्येतद्वै᳘ प्प्रत्य᳘क्षाद्यज्ञरूपं य᳘द्घृत᳘म्प्रत्य᳘क्षादेवैनं[[!!]] यज्ञरूप᳘ङ्करोति स᳘र्व्वे म᳘धुमन्तो भवन्त्येतद्वै᳘ प्प्रत्य᳘क्षात्सोमरूपं यन्म᳘धु प्प्रत्य᳘क्षादे᳘वैनᳫँ᳭ सोमरूप᳘ङ्करोति॥

मूलम् - श्रीधरादि

स᳘र्व्वे प᳘यस्वन्तो भवन्ति॥
प᳘यसा हि᳘ सूय᳘ते स᳘र्व्वे सो᳘मवन्तो भवन्ति सोमरूप᳘तायै स᳘र्व्वे परिस्रु᳘न्मन्तो भवन्ति परिस्रु᳘ता हि᳘ सूय᳘ते स᳘र्व्वे घृत᳘वन्तो भवन्त्येतद्वै᳘ प्प्रत्य᳘क्षाद्यज्ञरूपं य᳘द्घृत᳘म्प्रत्य᳘क्षादेवैनं[[!!]] यज्ञरूप᳘ङ्करोति स᳘र्व्वे म᳘धुमन्तो भवन्त्येतद्वै᳘ प्प्रत्य᳘क्षात्सोमरूपं यन्म᳘धु प्प्रत्य᳘क्षादे᳘वैनᳫँ᳭ सोमरूप᳘ङ्करोति॥

मूलम् - Weber

स᳘र्वे प᳘यस्वन्तो भवन्ति ॥
प᳘यसा हि᳘ सूय᳘ते स᳘र्वे सो᳘मवन्तो भवन्ति सोमरूप᳘तायै स᳘र्वे परिस्रु᳘न्मन्तो भवन्ति परिस्रु᳘ता हि᳘ सूय᳘ते स᳘र्वे घृत᳘वन्तो भवन्त्येतद्वै᳘ प्रत्य᳘क्षाद्यज्ञरूपं य᳘द्घृतं᳘ प्रत्य᳘क्षा᳘देॗवैनᳫं यज्ञरूपं᳘ करोति स᳘र्वे म᳘धुमन्तो भवन्त्येतद्वै᳘ प्रत्य᳘क्षात्सोमरूपं यन्म᳘धु प्रत्य᳘क्षादेॗवैनᳫं सोमरूपं᳘ करोति ॥ शतम् ६३०० ॥ ॥

मूलम् - विस्वरम्

सर्वे पयस्वन्तो भवन्ति । पयसा हि सूयते । सर्वे सोमवन्तो भवन्ति । सोमरूपतायै । सर्वे परिस्रुन्मन्तो भवन्ति । परिस्रुता हि सूयते । सर्वे घृतवन्तो भवन्ति । तद्वै प्रत्यक्षाद्यज्ञरूपम् । यद् घृतम् । प्रत्यक्षादेवैनं यज्ञरूपं करोति । सर्वे मधुमन्तो भवन्ति । तद्वै प्रत्यक्षात्सोमरूपम् । यन्मधु । प्रत्यक्षादेवैनं सोमरूपं करोति ॥ १५ ॥

हरिस्वामी

तया ऽपि च संभावनेत्याह- ‘सर्वे पयस्वंतः’ । यज्ञाः पयस्वंतो भवन्ति । पयः सोमः परिस्रुत् इत्याद्युक्तमित्यर्थः । पयसा हि ग्रहगतेन परिषेकेनार्भवपवमानपूते सौत्रामणी सोमो जन्यत इत्यर्थः । एवं परिस्रुत उपायभूतः सौत्रामणिकः सोमः सूयते । प्रत्यक्षमिव प्रथमाया आदादेशः । प्रत्यक्षं साक्षात् । तत् परो ऽक्षं यज्ञसाधनं घृतम् । प्रायेण घृतस्य यज्ञसाधनत्वात् । प्रत्यक्षः सौत्यरूपो यन्मधु ओषधिवनस्पतिरसत्वात् ॥ १५ ॥

Eggeling
  1. All (the praishas) contain (the word) ‘payas’ (milk), for in the form of milk Soma is (here) pressed 14; they all contain (the word) ‘Soma,’ for the sake of (conformity with) the Soma-pressing; they all contain (the word) ‘parisrut’ (spirituous liquor), for in the form of spirituous liquor Soma is (here) pressed; they all contain (the word) ‘ghr̥ta’ (ghee), for this–to wit, ghee–doubtless is manifestly a form of the sacrifice: he thus makes it to be manifestly a form of the sacrifice; they all contain (the word) ‘madhu’ (honey), for this–to wit, honey–is manifestly a form of Soma: he thus makes it to be manifestly a form of Soma.
मूलम् - Makoto

स᳓र्वे प᳓यस्वन्तो भवन्ति ।॥
प᳓यसा᳓ हि᳓ सूय᳓ते स᳓र्वे सो᳓मवन्तो भवन्ति सोमरूप᳓ता᳓यै स᳓र्वे परिस्रु᳓न्मन्तो भवन्ति परिस्रु᳓ता᳓ हि᳓ सूय᳓ते स᳓र्वे घृत᳓वन्तो भवन्त्य् एत᳓द् वै᳓ प्रत्य᳓क्षा᳓द् यज्ञरूपं᳓ य᳓द् घृतं᳓ प्रत्य᳓क्षा᳓द् एवै᳙नं यज्ञरूपं᳓ करोति स᳓र्वे म᳓धुमन्तो भवन्त्य् एत᳓द् वै᳓ प्रत्य᳓क्षा᳓त् सोमरूपं᳓ य᳓न् म᳓धु प्रत्य᳓क्षा᳓द् एवै᳙नँ सोमरूपं᳓ करोति ॥॥

१६

विश्वास-प्रस्तुतिः

स᳘र्व्व ऽआश्विना᳘ भवन्ति॥
भै᳘षज्याय स᳘र्व्वे सारस्वता᳘ ऽअन्ना᳘द्यस्यैवा᳘वरुद्ध्यै स᳘र्व्व ऽऐन्द्रा᳘ ऽइन्द्रिय᳘स्यैव᳘ व्वी᳘र्य्यस्या᳘वरुद्ध्यै॥

मूलम् - श्रीधरादि

स᳘र्व्व ऽआश्विना᳘ भवन्ति॥
भै᳘षज्याय स᳘र्व्वे सारस्वता᳘ ऽअन्ना᳘द्यस्यैवा᳘वरुद्ध्यै स᳘र्व्व ऽऐन्द्रा᳘ ऽइन्द्रिय᳘स्यैव᳘ व्वी᳘र्य्यस्या᳘वरुद्ध्यै॥

मूलम् - Weber

स᳘र्वऽआश्विना᳘ भवन्ति ॥
भै᳘षज्याय 15 स᳘र्वे सारस्वता᳘ अन्ना᳘द्यस्येवा᳘वरुद्ध्यै स᳘र्वऽऐन्द्रा᳘ इन्द्रिय᳘स्यैव᳘ वीॗर्यस्या᳘वरुद्ध्यै ॥

मूलम् - विस्वरम्

सर्व आश्विना भवन्ति । भैषज्याय । सर्वे सारस्वताः । अन्नाद्यस्यैवावरुद्ध्ये । सर्वे ऐन्द्राः । इन्द्रियस्यैव वीर्यस्यावरुद्ध्यै ॥ १६ ॥

हरिस्वामी

आश्विना इत्यादयो ऽनुपदं दर्शितार्थाः । लिंगक्रमादेव एवंरूपाणां प्रयाजैस्ते प्रैषाः प्राप्ताः । ततश्च अश्विसरस्वतीन्द्राः श्रुत्या प्रयाजप्रैषेषु देवतात्वेन न विहिताः । नैतद्युक्तमुपपद्यत इति प्राकृत्य एव प्रयाजेषु समिदादयो देवताः । नाश्व्यादयः । तद्धितो ऽपि च “तस्येदम्” (पा. सू. ४ । ३ । १२०) इत्येवं द्रष्टव्यः । न “सा ऽस्य देवता”- (पा. सू. ४ । २ । २४) इति । एवमाप्रीष्वपि । नैतदुक्ता अश्व्यादयः । भैषज्यायेति । अश्विनौ देवानां भिषजावित्यभिप्रायः । अन्नाद्यस्यैवावरुद्ध्यै चरौ सरस्वतीति वाचा तान् चरध्वै इत्यभिप्रायः । तस्मात् यो वाचा प्रशाम्यान्नादौ हैव भवतीति ॥ १६ ॥

Eggeling
  1. They all refer to the Aśvins 16, for the sake of healing-power 17; they all refer to Sarasvatī, for the obtainment of food; they all refer to Indra, for the obtainment of energy, or vital power.
मूलम् - Makoto

स᳓र्व आ᳓श्विना᳓ भवन्ति ।॥
भै᳓षज्या᳓य स᳓र्वे सा᳓रस्वता᳓ अन्ना᳓द्यस्येवा᳓वरुद्ध्यै स᳓र्व ऐन्द्रा᳓ इन्द्रिय᳓स्यैव᳓ वीर्य᳙स्या᳓वरुद्ध्यै ॥॥

१७

विश्वास-प्रस्तुतिः

य᳘द्वेव स᳘र्व्व ऽआश्विना भ᳘वन्ति॥
स᳘र्व्वे सारस्वताः स᳘र्व्व ऽऐन्द्रा᳘ ऽएता वा᳘ ऽएत᳘न्देव᳘ता ऽअ᳘ग्ग्रे यज्ञᳫँ᳭ स᳘मभरंस्ता᳘भिरे᳘वैनᳫँ᳭ स᳘म्भरत्य᳘थो ऽएता᳘ ऽए᳘वैत᳘द्देव᳘ता भागधे᳘येन स᳘मर्द्धयति॥

मूलम् - श्रीधरादि

य᳘द्वेव स᳘र्व्व ऽआश्विना भ᳘वन्ति॥
स᳘र्व्वे सारस्वताः स᳘र्व्व ऽऐन्द्रा᳘ ऽएता वा᳘ ऽएत᳘न्देव᳘ता ऽअ᳘ग्ग्रे यज्ञᳫँ᳭ स᳘मभरंस्ता᳘भिरे᳘वैनᳫँ᳭ स᳘म्भरत्य᳘थो ऽएता᳘ ऽए᳘वैत᳘द्देव᳘ता भागधे᳘येन स᳘मर्द्धयति॥

मूलम् - Weber

य᳘द्वेव स᳘र्वऽआश्विना भ᳘वन्ति ॥
स᳘र्वे सारस्वताः स᳘र्वऽऐन्द्रा᳘ एता वा᳘ऽएतं᳘ देव᳘ता अ᳘ग्रे यज्ञᳫं स᳘मभरंस्ता᳘भिरेॗवैनᳫं स᳘म्भरत्य᳘थोऽएता᳘ एॗवैत᳘द्देव᳘ता भागधे᳘येन स᳘मर्धयति ॥

मूलम् - विस्वरम्

यद्वेव सर्व आश्विना भवन्ति । सर्वे सारस्वताः । सर्व ऐन्द्राः । एता वा एतं देवता अग्रे यज्ञं समभरन् । ताभिरेवैनं संभरति । अथो एता एवैतद्देवता भागधेयेन समर्द्धयति ॥ १७ ॥

हरिस्वामी

यथाह- यद्वेव सर्व इति । ताभिर्यज्ञः संभवति । अथो एता एव तेन संकीर्त्यमानेन भागधेयेन एतदुक्ताभिः समर्द्धयन् । वचनादेव देवता विधीयते । तन्मन्यते । प्रैषवत्स्वादिप्रधानेनाचक्षते ॥ १७ ॥

Eggeling
  1. And, again, as to why they all refer to the Aśvins, all of them to Sarasvatī, and all of them to Indra,–these, indeed, were the deities who first

prepared this sacrifice (the Sautrāmaṇī); with the help of these deities he thus prepares it; and, besides, he also provides these deities with a share.

मूलम् - Makoto

य᳓द् व् एव᳓ स᳓र्व आ᳓श्विना᳓ भ᳓वन्ति ।॥
स᳓र्वे सा᳓रस्वताः᳓ स᳓र्व ऐन्द्रा᳓ एता᳓ वा᳓ एतं᳓ देव᳓ता᳓ अ᳓ग्रे यज्ञँ᳓ स᳓मभरंस् ता᳓भिर् एवै᳙नँ स᳓म्भरत्य् अ᳓थो एता᳓ एवै᳙त᳓द् देव᳓ता᳓ भा᳓गधे᳓येन स᳓मर्धयति ॥॥

१८

विश्वास-प्रस्तुतिः

स᳘न्तता याज्यापुरो ऽनुवा᳘क्या भवन्ति॥
समानदेव᳘त्याः प्रजा᳘नाᳫँ᳭ स᳘न्तत्या ऽअ᳘व्यवच्छेदाय स᳘र्व्वा ऽआश्वि᳘न्यो भ᳘वन्ति स᳘र्व्वाः सारस्व᳘त्यः स᳘र्व्वा ऽऐ᳘न्द्र्यः समानी᳘ बन्धु᳘ता॥

मूलम् - श्रीधरादि

स᳘न्तता याज्यापुरो ऽनुवा᳘क्या भवन्ति॥
समानदेव᳘त्याः प्रजा᳘नाᳫँ᳭ स᳘न्तत्या ऽअ᳘व्यवच्छेदाय स᳘र्व्वा ऽआश्वि᳘न्यो भ᳘वन्ति स᳘र्व्वाः सारस्व᳘त्यः स᳘र्व्वा ऽऐ᳘न्द्र्यः समानी᳘ बन्धु᳘ता॥

मूलम् - Weber

सं᳘तता याज्यापुरोऽनुवाॗक्या भवन्ति ॥
समानदेव᳘त्याः प्रजा᳘नाᳫं सं᳘तत्याऽअ᳘व्यवछेदाय स᳘र्वा आश्विॗन्यो भ᳘वन्ति स᳘र्वाः सारस्वॗत्यः स᳘र्वा ऐॗन्द्र्यः समानी᳘ बन्धु᳘ता ॥

मूलम् - विस्वरम्

सन्तता याज्यापुरो ऽनुवाक्या भवन्ति समानदेवत्याः । प्रजानां सन्तत्या अव्यवच्छेदाय । सर्वा आश्विन्यो भवन्ति । सर्वाः सारस्वत्यः । सर्वा ऐन्द्र्यः । समानी बन्धुता ॥ १८ ॥

हरिस्वामी

संतता 18 याज्येति । वपानां तावत्तिसृणामपि “आश्विना हविः” (वा. सं. २० । ६७-६९) इत्येताः याज्यानुवाक्याः संतता अविच्छिन्ना भवंति । प्रथमामनूच्य द्वितीया याज्या । द्वितीयामनूच्य तृतीया याज्या । तृतीयामनूच्य प्रथमा याज्या । इत्येवमेव “य इंद्र इंद्रियम्” (वा. सं. २० । ७०-७२) इत्येतास्तिस्त्रः । त्रयाणामपि पशुपुरोडाशानां संतता याज्याः । तृतीयामनूच्य प्रथमा याज्येत्येवम् । एवं “अश्विना गोभिः” (वा. सं. २० । ७३-७५) इत्येतास्तिस्त्रो हविषां संतता याज्यापुरो ऽनुवाक्या भवंति । ‘समानदेवत्याः’ । समाना अग्न्यादयो देवता आसामिति समानदेवत्याः । सर्वा आश्विन्य इत्यादिर्वपाहविषां च पुरोडाशानां च याज्यानुवाक्या भवंति । एवमेव तासामिंद्रसवितृवरुणदेवताः । ‘समानी बंधुता’ । “एता वा एतं देवता अग्रे यज्ञं समभरन्” इत्यादिब्राह्मणसमूहस्तुल्यप्रैषैः सह याज्यानुवाक्यानाम् ॥ १८ ॥

Eggeling
  1. The invitatory and offering formulas are made continuous 19, and relate to the same deities,–for the sake of continuity and uninterruptedness of the race (offspring). All of them relate to the Aśvins, all of them to Sarasvatī, and all of them to Indra: the significance of this is the same as before.
मूलम् - Makoto

सं᳓तता᳓ या᳓ज्या᳓पुरोऽनुवा᳓क्या᳙ भवन्ति ।॥
समा᳓नदेव᳓त्याः᳓ प्रजा᳓नाँ᳓ सं᳓तत्या᳓ अ᳓व्यवच्छेदा᳓य स᳓र्वा᳓ आ᳓श्विन्यो᳙ भ᳓वन्ति स᳓र्वाः᳓ सा᳓रस्वत्यः᳙ स᳓र्वा᳓ ऐन्द्र्यः᳙ समा᳓नी᳓ बन्धु᳓ता᳓ ॥॥

१९

विश्वास-प्रस्तुतिः

(ता ऽनु) अनुष्टु᳘भ ऽआ᳘प्प्रियो भवन्ति व्वाग्वा᳘ ऽअनुष्टु᳘ब्वा᳘चो वै सो᳘मः सूयते व्वा᳘चै᳘वैᳫँ᳭ सुनोति सोमसुत्या᳘यै स᳘र्व्वा ऽआश्वि᳘न्यो भ᳘वन्ति स᳘र्व्वाः सारस्व᳘त्यः स᳘र्व्वा ऽऐ᳘न्द्र्यः समानी᳘ बन्धु᳘ता॥

मूलम् - श्रीधरादि

(ता ऽनु) अनुष्टु᳘भ ऽआ᳘प्प्रियो भवन्ति व्वाग्वा᳘ ऽअनुष्टु᳘ब्वा᳘चो वै सो᳘मः सूयते व्वा᳘चै᳘वैᳫँ᳭ सुनोति सोमसुत्या᳘यै स᳘र्व्वा ऽआश्वि᳘न्यो भ᳘वन्ति स᳘र्व्वाः सारस्व᳘त्यः स᳘र्व्वा ऽऐ᳘न्द्र्यः समानी᳘ बन्धु᳘ता॥

मूलम् - Weber

अनुष्टु᳘भ आॗप्रियो 20 भवन्ति वाग्वा᳘ऽअनुष्टु᳘ब्वाॗचो वै सो᳘मः सूयते वाॗचैॗवैनᳫं सुनोति सोमसुत्या᳘यै स᳘र्वा आश्विॗन्यो भ᳘वन्ति स᳘र्वाः सारस्वॗत्यः स᳘र्वा ऐॗन्द्र्यः समानी᳘ बन्धु᳘ता ॥

मूलम् - विस्वरम्

अनुष्टुभ आप्रियो भवन्ति । वाग्वा अनुष्टुप् । वाचा वै सोमः सूयते । वाचैवैनं सुनोति । सोमसुत्यायै । सर्वा आश्विन्यो भवन्ति । सर्वाः सारस्वत्यः । सर्वा ऐन्द्र्यः । समानी बन्धुता ॥ १९ ॥

हरिस्वामी

अनुष्टुभः आप्रियः 21 । “समिद्धो अग्निरश्विना” (वा. सं. २० । ५५-६६) इत्यादय अनुष्टुभः ॥ १९ ॥

Eggeling
  1. The Āprī-formulas 22 are anushṭubh verses; for the Anushṭubh is speech, and with speech Soma is pressed: he thus presses it with speech, for the sake of (conformity with) the Soma-sacrifice. All of them relate to the Aśvins, all of them to Sarasvatī, and all of them to Indra: the significance of this is the same as before.
मूलम् - Makoto

अनुष्टु᳓भ आ᳓प्रियो᳙ भवन्ति वा᳓ग्वा᳓ अनुष्टु᳓ब्वा᳓चो᳙ वै᳓ सो᳓मः सूयते वा᳓चै᳙वै᳙नँ सुनोति सोमसुत्या᳓यै स᳓र्वा᳓ आ᳓श्विन्यो᳙ भ᳓वन्ति स᳓र्वाः᳓ सा᳓रस्वत्यः᳙ स᳓र्वा᳓ ऐन्द्र्यः᳙ समा᳓नी᳓ बन्धु᳓ता᳓ ॥॥

२०

विश्वास-प्रस्तुतिः

जा᳘गता ऽअनुप्प्रैषा᳘ भवन्ति॥
(न्ती) इयम्वै ज᳘गत्यन᳘या वै सो᳘मः सूयते ऽन᳘यै᳘वैनᳫँ᳭ सुनोति सोमसुत्या᳘यै स᳘र्व्व ऽआश्विना भ᳘वन्ति स᳘र्व्वे सारस्वताः स᳘र्व्व ऽऐन्द्राः᳘ समानी᳘ बन्धु᳘ता॥

मूलम् - श्रीधरादि

जा᳘गता ऽअनुप्प्रैषा᳘ भवन्ति॥
(न्ती) इयम्वै ज᳘गत्यन᳘या वै सो᳘मः सूयते ऽन᳘यै᳘वैनᳫँ᳭ सुनोति सोमसुत्या᳘यै स᳘र्व्व ऽआश्विना भ᳘वन्ति स᳘र्व्वे सारस्वताः स᳘र्व्व ऽऐन्द्राः᳘ समानी᳘ बन्धु᳘ता॥

मूलम् - Weber

जा᳘गता अनुप्रैषा᳘ भवन्ति ॥
इयं वै ज᳘गत्यन᳘या वै सो᳘मः सूयतेऽन᳘यैॗवैनᳫं सुनोति सोमसुत्या᳘यै स᳘र्वऽआश्विना भ᳘वन्ति स᳘र्वे सारस्वताः स᳘र्वऽऐन्द्राः᳘ समानी᳘ बन्धु᳘ता ॥

मूलम् - विस्वरम्

जागता अनुप्रैषा भवन्ति । इयं वै जगती । अनया वै सोमः सूयते । अनयैवैनं सुनोति । सोमसुत्यायै । सर्व आश्विना भवन्ति । सर्वे सारस्वताः । सर्व ऐन्द्राः । समानी बन्धुता ॥ २० ॥

हरिस्वामी

जागताः । जगत्यां भवा जागताः । अनुयाजप्रैषाः 21 “देवं बर्हिः सरस्वती” (वा. स. २१ । ४७-५८) इत्येते । वकारद्वयविश्लेषेण तेषां पूर्वार्द्धा अष्टादशाक्षराः संपद्यंते । उत्तरार्द्धास्त्रयस्त्रिंशदक्षराः । ‘इयं वै जगती’ दूरंगतत्वात् । भूतानि चास्या गच्छंति द्वादश एवाभिन्नेति । अनया वै पृथिव्या सोमः सूयते । ग्राव्णां पार्थिवत्वात् ॥ २० ॥

Eggeling
  1. The anupraishas 23 (after-directions) are in the

jāgata metre; for the Jagatī is this (earth), and by means of her Soma is pressed: by means of her he thus presses it for the sake of (conformity with) the Soma-pressing. All of them relate to the Aśvins, all of them to Sarasvatī, and all of them to Indra: the significance of this is the same as before.

मूलम् - Makoto

जा᳓गता᳓ अनुप्रैषा᳓ भवन्ति ।॥
इयं᳓ वै᳓ ज᳓गत्यन᳓या᳓ वै᳓ सो᳓मः सूयते ऽन᳓यैवै᳙नँ सुनोति सोमसुत्या᳓यै स᳓र्व आ᳓श्विना᳓ भ᳓वन्ति स᳓र्वे सा᳓रस्वताः᳓ स᳓र्व ऐन्द्राः᳓ समा᳓नी᳓ बन्धु᳓ता᳓ ॥॥

२१

विश्वास-प्रस्तुतिः

स वा᳘ ऽएष᳘ प्रत्य᳘क्षात्सोमयज्ञ᳘ ऽएव य᳘त्सौत्रामणी[[!!]]॥
तं य᳘द्येकाकी य᳘जमानो भक्ष᳘येदि᳘ष्टिर्व्वैव स्या᳘त्पशुबन्धो᳘ वा स᳘र्व्व ऽऋत्वि᳘जो भक्षयन्ति स᳘र्व्वे वा᳘ ऽऋत्वि᳘जः सो᳘मम्भक्षयन्ति सोमरूप᳘तायै॥

मूलम् - श्रीधरादि

स वा᳘ ऽएष᳘ प्रत्य᳘क्षात्सोमयज्ञ᳘ ऽएव य᳘त्सौत्रामणी[[!!]]॥
तं य᳘द्येकाकी य᳘जमानो भक्ष᳘येदि᳘ष्टिर्व्वैव स्या᳘त्पशुबन्धो᳘ वा स᳘र्व्व ऽऋत्वि᳘जो भक्षयन्ति स᳘र्व्वे वा᳘ ऽऋत्वि᳘जः सो᳘मम्भक्षयन्ति सोमरूप᳘तायै॥

मूलम् - Weber

स वा᳘ऽएष᳘ प्रत्य᳘क्षात्सोमयज्ञ᳘ एव य᳘त्सौत्रामणी᳟ ॥
तं य᳘द्येकाकी य᳘जमानो भक्ष᳘येदि᳘ष्टिर्वैव स्या᳘त्पशुबन्धो᳘ वा स᳘र्वऽऋत्वि᳘जो भक्षयन्ति स᳘र्वे वा᳘ऽऋत्वि᳘जः सो᳘मं भक्षयन्ति सोमरूप᳘तायै ॥

मूलम् - विस्वरम्

स वा एष प्रत्यक्षात् सोमयज्ञ एव । यत् सौत्रामणी । तं यद्येकाकी यजमानो भक्षयेत् । इष्टिर्वैव स्यात्पशुबन्धो वा । सर्व ऋत्विजो भक्षयन्ति । सर्वे वा ऋत्विजः सोमं भक्षयन्ति । सोमरूपतायै ॥ २१ ॥

हरिस्वामी

‘स वा एषः’ । यस्मादेव मंत्रदीक्षादयः समग्राः तस्मादेषः प्रत्यक्षं सोमयज्ञ एव सौत्रामणीत्युपसंहारश्चोत्तरोपन्यासश्च । न सोमयज्ञं सौत्रामण्याख्यम् । तेनात्र तदंशसाधनग्रहद्रव्यं पयः सुरा चोपलक्ष्यते । तं ग्रहशेषं सोमसुतं यदा उपहवो यजमान उपहूयस्व । उपहूत इति । ताभ्यां विना भक्षयेत् । न इष्टिर्वा एषा स्यात् पशुबंधो वा तत्र हि- यथा सर्वर्त्विजः शेषं भक्षयंतः परस्परानपेक्षाः असहाया एव भक्षयंति । तथा यजमानो ऽप्यसहायो भक्षयति । सोमे त्वनुज्ञाप्य यदा सहाया भक्षयंति तदा इत्यभिप्रायः ॥ २१ ॥

Eggeling
  1. This Sautrāmaṇī, then, is manifestly a Soma-sacrifice; and were the Sacrificer alone to drink (the liquor), it would be either an ishṭi-offering, or an animal sacrifice; but, for the sake of conformity of the liquor) to the Soma, all the priests drink thereof, for all the priests drink of the Soma-juice.
मूलम् - Makoto

स᳓ वा᳓ एष᳓ प्रत्य᳓क्षा᳓त् सोमयज्ञ᳓ एव᳓ य᳓त् सौत्रा᳓मणी᳓ ।॥
तं᳓ य᳓द्य् एका᳓की᳓ य᳓जमा᳓नो भक्ष᳓येद् इ᳓ष्टिर् वैव᳓ स्या᳓त् पशुबन्धो᳓ वा᳓ स᳓र्व ऋत्वि᳓जो भक्षयन्ति स᳓र्वे वा᳓ ऋत्वि᳓जः सो᳓मं भक्षयन्ति सोमरूप᳓ता᳓यै ॥॥

२२

विश्वास-प्रस्तुतिः

(या ऽआ) आ᳘श्विन᳘मध्वर्य्य᳘वो भक्षयन्ति॥
(न्त्य) अश्वि᳘नौ वै᳘ देवा᳘नामध्वर्य्यू स्व᳘मे᳘वैत᳘द्भागधे᳘यᳫँ᳭ स्व᳘ ऽआय᳘तने भक्षयन्ति॥

मूलम् - श्रीधरादि

(या ऽआ) आ᳘श्विन᳘मध्वर्य्य᳘वो भक्षयन्ति॥
(न्त्य) अश्वि᳘नौ वै᳘ देवा᳘नामध्वर्य्यू स्व᳘मे᳘वैत᳘द्भागधे᳘यᳫँ᳭ स्व᳘ ऽआय᳘तने भक्षयन्ति॥

मूलम् - Weber

आ᳘श्विन᳘मध्वर्य᳘वो भक्षयन्ति ॥
अश्वि᳘नौ वै᳘ देवा᳘नामध्वर्यू स्व᳘मेॗवैत᳘द्भागधे᳘यᳫं स्व᳘ऽआय᳘तने भक्षयन्ति ॥

मूलम् - विस्वरम्

आश्विनमध्वर्यवो भक्षयन्ति । अश्विनौ वै देवानामध्वर्यू । स्वमेवैतत् भागधेयं स्व आयतने भक्षयन्ति ॥ २२ ॥

हरिस्वामी

‘आश्विनमध्वर्यवः’ अध्वर्युः प्रतिप्रस्थाता ऽग्नीध्र इत्येते आध्वर्यववेदात्मकं कर्म कुर्वन्तीत्येते ऽत्राध्वर्यवो गृह्यंते । आश्विनं पयोग्रहं वाक्यशेषात् ॥ २२ ॥

Eggeling
  1. The Adhvaryus 24 drink (the contents of) the Āśvina (cup), for the Aśvins are the Adhvaryus of the gods: they thus consume each his own share in his own abode.
मूलम् - Makoto

आ᳓श्विन᳓म् अध्वर्य᳓वो भक्षयन्ति ।॥
अश्विनौ᳓ वै᳓ देवा᳓ना᳓म् अध्वर्यू᳓ स्व᳓म् एवै᳙त᳓द् भा᳓गधे᳓यह्ँ स्व᳓ आ᳓य᳓तने भक्षयन्ति ॥॥

२३

विश्वास-प्रस्तुतिः

सारस्वतᳫँ᳭ हो᳘ता ब्रह्मा᳘ मैत्रावरुणः[[!!]]॥
(णो) व्वाग्वै᳘ यज्ञ᳘स्य हो᳘ता हृ᳘दयम्ब्रह्मा म᳘नो मैत्रावरुणः स्व᳘मे᳘वैत᳘द्भागधे᳘यᳫँ᳭ स्व᳘ ऽआय᳘तने भक्षयन्ति॥

मूलम् - श्रीधरादि

सारस्वतᳫँ᳭ हो᳘ता ब्रह्मा᳘ मैत्रावरुणः[[!!]]॥
(णो) व्वाग्वै᳘ यज्ञ᳘स्य हो᳘ता हृ᳘दयम्ब्रह्मा म᳘नो मैत्रावरुणः स्व᳘मे᳘वैत᳘द्भागधे᳘यᳫँ᳭ स्व᳘ ऽआय᳘तने भक्षयन्ति॥

मूलम् - Weber

सारस्वतᳫं हो᳘ता ब्रह्मा᳘ मैत्रावरुणः᳟ ॥
वाग्वै᳘ यज्ञ᳘स्य हो᳘ता हृ᳘दयं ब्रह्मा म᳘नो मैत्रावरुणः स्व᳘मेॗवैत᳘द्भागधे᳘यᳫं स्व᳘ऽआय᳘तने भक्षयन्ति ॥

मूलम् - विस्वरम्

सारस्वतं होता ब्रह्मा मैत्रावरुणः । वाग्वै यज्ञस्य होता । हृदयं ब्रह्मा । मनो मैत्रावरुणः । स्वमेवैतत् भागधेयं स्व आयतने भक्षयन्ति ॥ २३ ॥

हरिस्वामी

‘सारस्वतम्’ वाग्वै वागिंद्रियं ‘यज्ञस्य होता’ तेन च वागिंद्रियेण प्रायो यज्ञो व्याप्रियते । हृदयस्थानात् हृदयस्थो न बहिर्ब्रह्मा । स हि बुद्धिप्रधानः अप्रत्यक्षत्वात् । मनो मैत्रावरुणः । स हि मनसि वसत्यतस्तद्धोत्रा प्रेष्यते चान्वाहरंतश्च सहसैव सैव भेदेन दर्शी । तं होता वाग्भूतः अनुवदति । इति मनो मैत्रावरुण इत्यापाद्यते ॥ २३ ॥

Eggeling
  1. The Hotr̥, Brahman, and Maitrāvaruṇa (drink that) of the Sārasvata (cup), for the Hotr̥ is the voice of the sacrifice, the Brahman its heart, and the Maitrāvaruṇa its mind: they thus consume each his own share in his own abode.
मूलम् - Makoto

सा᳓रस्वतँ᳓ हो᳓ता᳓ ब्रह्मा᳓ मैत्रा᳓वरुणः᳓ ।॥
वा᳓ग् वै᳓ यज्ञ᳓स्य हो᳓ता᳓ हृ᳓दयं ब्रह्मा᳓ म᳓नो मैत्रा᳓वरुणः᳓ स्व᳓म् एवै᳙त᳓द् भा᳓गधे᳓यह्ँ स्व᳓ आ᳓य᳓तने भक्षयन्ति ॥॥

२४

विश्वास-प्रस्तुतिः

(न्त्यै) ऐन्द्रं य᳘जमानो भक्षयति॥
(त्यै) ऐन्द्रो वा᳘ ऽएष᳘ यज्ञो य᳘त्सौत्रामणी᳘न्द्रायतन ऽएष᳘ ऽएत᳘र्हि यो य᳘जते स्व᳘मे᳘वैत᳘द्भागधे᳘यᳫँ᳭ स्व᳘ ऽआय᳘तने भक्षयति॥

मूलम् - श्रीधरादि

(न्त्यै) ऐन्द्रं य᳘जमानो भक्षयति॥
(त्यै) ऐन्द्रो वा᳘ ऽएष᳘ यज्ञो य᳘त्सौत्रामणी᳘न्द्रायतन ऽएष᳘ ऽएत᳘र्हि यो य᳘जते स्व᳘मे᳘वैत᳘द्भागधे᳘यᳫँ᳭ स्व᳘ ऽआय᳘तने भक्षयति॥

मूलम् - Weber

ऐन्द्रं य᳘जमानो भक्षयति ॥
ऐन्द्रो वा᳘ऽएष᳘ यज्ञो य᳘त्सौत्रामणी᳘न्द्रायतन एष᳘ एत᳘र्हि यो य᳘जते स्व᳘मेॗवैत᳘द्भागधे᳘यᳫं स्व᳘ऽआय᳘तने भक्षयति ॥

मूलम् - विस्वरम्

ऐन्द्रं यजमानो भक्षयति । ऐन्द्रो वा एष यज्ञः । यत्सौत्रामणी । इन्द्रायतन एष एतर्हि । यो यजते । स्वमेवैतत् भागधेयं स्व आयतने भक्षयति ॥ २४ ॥

हरिस्वामी

‘ऐन्द्रं यजमानः’ । ऐन्द्रो वै स एष यज्ञः सौत्रामणी इंद्रस्य । संस्कार्यत्वादिन्द्रस्य स्थानं यजमानत्वं इंद्रायतनम् । तस्मिन्निन्द्रायतने एषो ऽधुना वर्तते यो यजते ॥ २४ ॥

Eggeling
  1. The Sacrificer drinks (that of) the Aindra (cup), for this sacrifice, the Sautrāmaṇī, belongs to Indra, and even now he who sacrifices has his abode along with Indra: he thus consumes his own share in his own abode.
मूलम् - Makoto

ऐन्द्रं᳓ य᳓जमा᳓नो भक्षयति ।॥
ऐन्द्रो᳓ वा᳓ एष᳓ यज्ञो᳓ य᳓त् सौत्रा᳓मणी᳓न्द्रा᳓यतन एष᳓ एत᳓र्हि यो᳓ य᳓जते स्व᳓म् एवै᳙त᳓द् भा᳓गधे᳓यँ स्व᳓ आ᳓य᳓तने भक्षयति ॥॥

२५

विश्वास-प्रस्तुतिः

च᳘क्षुर्व्वा᳘ ऽआश्विनो ग्ग्र᳘हः॥
प्राणः᳘ सारस्वतो व्वा᳘गैन्द्र᳘ ऽआश्विना᳘त्सारस्वते᳘ ऽवनयति च᳘क्षुरे᳘वास्य त᳘त्प्राणैः स᳘न्दधाति सारस्वता᳘दैन्द्रे᳘ प्राणा᳘ने᳘वास्य त᳘द्वाचा स᳘न्दधात्य᳘थो प्राणा᳘ने᳘वास्य त᳘द्वाचि प्र᳘तिष्ठापयति त᳘स्मात्स᳘र्व्वे प्राणा᳘ व्वाचि प्र᳘तिष्ठिताः॥

मूलम् - श्रीधरादि

च᳘क्षुर्व्वा᳘ ऽआश्विनो ग्ग्र᳘हः॥
प्राणः᳘ सारस्वतो व्वा᳘गैन्द्र᳘ ऽआश्विना᳘त्सारस्वते᳘ ऽवनयति च᳘क्षुरे᳘वास्य त᳘त्प्राणैः स᳘न्दधाति सारस्वता᳘दैन्द्रे᳘ प्राणा᳘ने᳘वास्य त᳘द्वाचा स᳘न्दधात्य᳘थो प्राणा᳘ने᳘वास्य त᳘द्वाचि प्र᳘तिष्ठापयति त᳘स्मात्स᳘र्व्वे प्राणा᳘ व्वाचि प्र᳘तिष्ठिताः॥

मूलम् - Weber

च᳘क्षुर्वा᳘ऽआश्विनो ग्र᳘हः ॥
प्राणः᳘ सारस्वतो वा᳘गैन्द्र᳘ आश्विना᳘त्सारस्वते᳘ऽवनयति च᳘क्षुरेॗवास्य त᳘त्प्राणैः सं᳘दधाति सारस्वता᳘दैन्द्रे᳘ प्राणा᳘नेॗवास्य त᳘द्वाचा सं᳘दधात्य᳘थो प्राणा᳘नेॗवास्य त᳘द्वाचि प्र᳘तिष्ठापयति त᳘स्मात्स᳘र्वे प्राणा᳘ वाचि प्र᳘तिष्ठिताः ॥

मूलम् - विस्वरम्

चक्षुर्वा आश्विनो ग्रहः । प्राणः सारस्वतः । वागैन्द्रः । आश्विनात्सारस्वते ऽवनयति । चक्षुरेवास्य तत्प्राणैः सन्दधाति । सारस्वतादैन्द्रे । प्राणानेवास्य तद्वाचा सन्दधाति । अथो प्राणानेवास्य तद्वाचि प्रतिष्ठापयति । तस्मात्सर्वे प्राणा वाचि प्रतिष्ठिताः ॥ २५ ॥

हरिस्वामी

‘चक्षुर्वा आश्विनः’ । आश्विने ग्रहे त्रिभिरप्यध्वर्युभिर्भक्षिते स सनिःशेषं सारस्वते अवनयति । चक्षुरेवास्य यज्ञस्याश्विनात्मकम् । तत् प्राणैः प्राणोदानव्यानैः संदधाति । सारस्वतो ऽपि यदा अग्नीधैव भक्षितः । तदा भक्षितशेषम् अभक्षिते ऐन्द्रे आनयति । प्राणोदानव्यानानेवास्य यजमानस्य तेन वाचा वागिन्द्रियेण संदधाति । अथो प्राणोदानव्यानानेवास्य तेन वागिन्द्रियेण प्रतिष्ठापयति । तस्मात् सर्वे प्राणाः वागिन्द्रिये प्रतिष्ठिताः । स्वेन ह्येतदपि दधते । तदधीनस्थितयः सर्वे प्राणाः ॥ २५ ॥

Eggeling
  1. The Āśvina cup, indeed, is the eye, the Sārasvata one the vital air, and the Aindra one

speech. From the Āśvina (cup) he pours (the remains) into the Sārasvata one, whereby he combines his eye with the vital airs; from the Sārasvata cup) into the Aindra one, whereby he combines his vital airs with his speech, and also establishes his vital airs in (the channel of) speech, whence all the vital airs are established on speech.

मूलम् - Makoto

च᳓क्षुर् वा᳓ आ᳓श्विनो᳓ ग्र᳓हः ।॥
प्रा᳓णः᳓ सा᳓रस्वतो᳓ वा᳓ग् ऐन्द्र᳓ आ᳓श्विना᳓त् सा᳓रस्वते᳓ ऽवनयति च᳓क्षुर् एवा᳙स्य त᳓त् प्रा᳓णैः᳓ सं᳓दधा᳓ति सा᳓रस्वता᳓द् ऐन्द्रे᳓ प्रा᳓णा᳓न् एवा᳙स्य त᳓द् वा᳓चा᳓ सं᳓दधा᳓त्य् अ᳓थो प्रा᳓णा᳓न् एवा᳙स्य त᳓द् वा᳓चि᳓ प्र᳓तिष्ठा᳓पयति त᳓स्मा᳓त् स᳓र्वे प्रा᳓णा᳓ वा᳓चि᳓ प्र᳓तिष्ठिताः᳓ ॥॥

२६

विश्वास-प्रस्तुतिः

(स्त्र᳘) त्र᳘य ऽआश्विन᳘म्भक्षयन्ति॥
(न्त्य) अध्वर्य्युः᳘ प्रतिप्रस्थाता᳘ ऽऽग्नीध्रस्त्रिवृद्वा᳘ ऽइदञ्च᳘क्षुः शुक्लं᳘ कृष्ण᳘ङ्कनी᳘नका यथारूप᳘मे᳘वास्मिंश्च᳘क्षुर्द्दधति॥

मूलम् - श्रीधरादि

(स्त्र᳘) त्र᳘य ऽआश्विन᳘म्भक्षयन्ति॥
(न्त्य) अध्वर्य्युः᳘ प्रतिप्रस्थाता᳘ ऽऽग्नीध्रस्त्रिवृद्वा᳘ ऽइदञ्च᳘क्षुः शुक्लं᳘ कृष्ण᳘ङ्कनी᳘नका यथारूप᳘मे᳘वास्मिंश्च᳘क्षुर्द्दधति॥

मूलम् - Weber

त्र᳘य आश्विनं᳘ भक्षयन्ति ॥
अध्वर्युः᳘ प्रतिप्रस्थाता᳘ग्नीध्रस्त्रिवृद्वा᳘ऽइदं च᳘क्षुः शुक्लं᳘ कृष्णं᳘ कनी᳘नका यथारूप᳘मेॗवास्मिंश्च᳘क्षुर्दधाति ॥

मूलम् - विस्वरम्

त्रय आश्विनं भक्षयन्ति । अध्वर्युः प्रतिप्रस्थाता ऽऽग्नीध्रः । त्रिवृद्वा इदं चक्षुः । शुक्लं कृष्णं कनीनका । यथारूपमेवास्मिन् चक्षुर्दधति ॥ २६ ॥

हरिस्वामी

त्रय आश्विनम् । प्रसन्ने द्वे ॥ २६ ॥ २७ ॥

Eggeling
  1. Three (men) drink the Āśvina (cup), to wit, the Adhvaryu, Pratiprasthātr̥, and Agnīdh; for this eye is threefold–the white, the black, and the pupil: he thus bestows on him the eye in accordance with its form.
मूलम् - Makoto

त्र᳓य आ᳓श्विनं᳓ भक्षयन्ति ।॥
अध्वर्युः᳓ प्रतिप्रस्था᳓ता᳓ग्नीध्रस् त्रिवृ᳓द् वा᳓ इदं᳓ च᳓क्षुः शुक्लं᳓ कृष्णं᳓ कनी᳓नका᳓ यथा᳓रूप᳓म् एवा᳙स्मिंश् च᳓क्षुर् दधा᳓ति ॥॥

२७

विश्वास-प्रस्तुतिः

त्र᳘यः सारस्वतम्[[!!]]॥
(ᳫँ᳭) हो᳘ता ब्रह्मा᳘ मैत्रावरुण᳘स्त्रेधाविहितो वा᳘ ऽअय᳘म्प्राणः᳘ प्राण᳘ ऽउदानो᳘ व्व्यान ऽइ᳘ति यथारूप᳘मे᳘वास्मिन्प्राण᳘न्दधति॥

मूलम् - श्रीधरादि

त्र᳘यः सारस्वतम्[[!!]]॥
(ᳫँ᳭) हो᳘ता ब्रह्मा᳘ मैत्रावरुण᳘स्त्रेधाविहितो वा᳘ ऽअय᳘म्प्राणः᳘ प्राण᳘ ऽउदानो᳘ व्व्यान ऽइ᳘ति यथारूप᳘मे᳘वास्मिन्प्राण᳘न्दधति॥

मूलम् - Weber

त्र᳘यः सारस्वत᳟ᳫं᳟ ॥
हो᳘ता ब्रह्मा᳘ मैत्रावरुण᳘स्त्रेधाविहितो वा᳘ऽअयं᳘ प्राणः᳘ प्राण᳘ उदानो᳘ व्यान इ᳘ति यथारूप᳘मेॗवास्मिन्प्राणं᳘ दधाति ॥

मूलम् - विस्वरम्

त्रयः सारस्वतम् । होता ब्रह्मा मैत्रावरुणः । त्रेधाविहितो वा अयं प्राणः । प्राण उदानो व्यान इति । यथारूपमेवास्मिन् प्राणं दधति ॥ २७॥

हरिस्वामी

[व्याख्यानं षड्विंशतितमे]

Eggeling
  1. Three (drink) the Sārasvata (cup), the Hotr̥, Brahman, and Maitrāvaruṇa; for threefold divided is this vital air–the in (and out)-breathing, the up-breathing, and the through-breathing: he thus bestows on him the vital air in accordance with its form.
मूलम् - Makoto

त्र᳓यः सा᳓रस्वतँ᳓ ।॥
हो᳓ता᳓ ब्रह्मा᳓ मैत्रा᳓वरुण᳓स् त्रेधा᳓विहितो᳓ वा᳓ अयं᳓ प्रा᳓णः᳓ प्रा᳓ण᳓ उदा᳓नो᳓ व्या᳓न᳓ इ᳓ति यथा᳓रूप᳓म् एवा᳙स्मिन् प्रा᳓णं᳓ दधा᳓ति ॥॥

२८

विश्वास-प्रस्तुतिः

(त्ये) एका᳘क्यैन्द्रं य᳘जमानो भक्षयति॥
(त्ये) एकधा वा᳘ ऽएषा᳘ प्राणा᳘नाᳫँ᳭ श्रीर्य्यद्वा᳘गेक᳘धैव व्वा᳘चᳫँ᳭ श्रि᳘यमात्म᳘न्द्धत्ते त᳘स्मात्सौत्राम᳘ण्येजान᳘ ऽएकधा स्वा᳘नाᳫँ᳭ श्रे᳘ष्ठो भवत्य᳘थो य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - श्रीधरादि

(त्ये) एका᳘क्यैन्द्रं य᳘जमानो भक्षयति॥
(त्ये) एकधा वा᳘ ऽएषा᳘ प्राणा᳘नाᳫँ᳭ श्रीर्य्यद्वा᳘गेक᳘धैव व्वा᳘चᳫँ᳭ श्रि᳘यमात्म᳘न्द्धत्ते त᳘स्मात्सौत्राम᳘ण्येजान᳘ ऽएकधा स्वा᳘नाᳫँ᳭ श्रे᳘ष्ठो भवत्य᳘थो य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - Weber

एकाॗक्यैन्द्रं य᳘जमानो भक्षयति ॥
एकधा वा᳘ऽएषा᳘ प्राणा᳘नाᳫं श्रीर्यद्वा᳘गेकॗधैव वा᳘चᳫं श्रि᳘यमात्म᳘न्धत्ते त᳘स्मात्सौत्रामॗण्येजान᳘ एकधा स्वा᳘नाᳫं श्रे᳘ष्ठो भवत्य᳘थो य᳘ एव᳘मेतद्वे᳘द ॥

मूलम् - विस्वरम्

एकाक्यैन्द्रं यजमानो भक्षयति । एकधा वा एषा प्राणानां श्रीः । यद् वाक् । एकधैव वाचं श्रियमात्मन्धत्ते । तस्मात्सौत्रामण्येजान एकधा स्वानां श्रेष्ठो भवति । अथो य एवमेतद्वेद ॥ २८ ॥

हरिस्वामी

‘एकाक्यैन्द्रम्’ एकधा एकाधिकरणा । एषा प्राणानां श्रीः श्रयणीया उपजीव्या वाक् । तदधीनस्थितित्वात् । एकधा एव यतः तां श्रयतीति श्रियं वाचं एव श्रियं उपजीव्यामात्मनि स्थापयति । तस्मात्सौत्रामण्या इष्ट्वा तुलीकृतो ज्ञातीनां श्रेष्ठः प्रशस्यतमो भवति ॥ २८ ॥

Eggeling
  1. Singly the Sacrificer drinks the Aindra (cup), for single is that distinction of the vital airs, speech: singly and solely to himself does he take that distinction, speech; whence he who has performed the Sautrāmaṇī becomes singly and solely the most distinguished among his own people, and so does even he who knows this.
मूलम् - Makoto

एका᳓क्यै᳙न्द्रं य᳓जमा᳓नो भक्षयति ।॥
एकधा᳓ वा᳓ एषा᳓ प्रा᳓णा᳓नाँ᳓ श्री᳓र् य᳓द् वा᳓ग् एकधै᳙व᳓ वा᳓चँ श्रि᳓यम् आ᳓त्म᳓न् धत्ते त᳓स्मा᳓त् सौत्रा᳓मण्ये᳙जा᳓न᳓ एकधा᳓ स्वा᳓नाँ᳓ श्रे᳓ष्ठो भवत्य् अ᳓थो य᳓ एव᳓म् एत᳓द् वे᳓द ॥॥

२९

विश्वास-प्रस्तुतिः

(ऽ) ऋत᳘वो वा᳘ ऽऋत्वि᳘जः॥
(जो) मा᳘सा भक्षाः ष᳘डृत्वि᳘जो भक्षयन्ति षड्वा᳘ ऽऋत᳘व ऽऋत्वि᳘ग्भिरे᳘वर्तून᳘वरुन्द्धे॥

मूलम् - श्रीधरादि

(ऽ) ऋत᳘वो वा᳘ ऽऋत्वि᳘जः॥
(जो) मा᳘सा भक्षाः ष᳘डृत्वि᳘जो भक्षयन्ति षड्वा᳘ ऽऋत᳘व ऽऋत्वि᳘ग्भिरे᳘वर्तून᳘वरुन्द्धे॥

मूलम् - Weber

ऋत᳘वो वा᳘ऽऋत्वि᳘जः ॥
मा᳘सा भक्षाः ष᳘डृत्वि᳘जो भक्षयन्ति षड्वा᳘ऽऋत᳘व ऋत्वि᳘ग्भिरेॗवऽर्तून᳘वरुन्द्धे ॥

मूलम् - विस्वरम्

ऋतवो वा ऋत्विजः । मासा भक्षाः । षड् ऋत्विजो भक्षयन्ति । षड्वा ऋतवः । ऋत्विग्भिरेव ऋतूनवरुन्धे ॥ २९ ॥

हरिस्वामी

‘ऋतवो वा ऋत्विजः’ ऋतव ऋत्विजः । ‘मासा भक्षाः’ । संख्यासामान्यात् ॥ २९ ॥

Eggeling
  1. The officiating priests (r̥tvij), doubtless, are the seasons (r̥tu), and the draughts (of liquor) are the months;–six priests drink, for there are six seasons: by means of the priests he thus secures the seasons.
मूलम् - Makoto

ऋत᳓वो वा᳓ ऋत्वि᳓जः ।॥
मा᳓सा᳓ भक्षाः᳓ ष᳓ड् ऋत्वि᳓जो भक्षयन्ति ष᳓ड् वा᳓ ऋत᳓व ऋत्वि᳓ग्भिर् एव᳙र्तू᳓न् अ᳓वरुन्द्धे ॥॥

३०

विश्वास-प्रस्तुतिः

द्वा᳘दश भक्षा᳘ भवन्ति॥
द्वा᳘दश मा᳘सा भक्षै᳘रेव मा᳘सान᳘वरुन्द्धे पु᳘नःपुनरभिनिव᳘र्त्तमृत्वि᳘जो भक्षयन्ति त᳘स्मादृत᳘वश्च मा᳘साश्चा᳘न्यो ऽन्य᳘मभिनि᳘वर्त्तन्ते॥

मूलम् - श्रीधरादि

द्वा᳘दश भक्षा᳘ भवन्ति॥
द्वा᳘दश मा᳘सा भक्षै᳘रेव मा᳘सान᳘वरुन्द्धे पु᳘नःपुनरभिनिव᳘र्त्तमृत्वि᳘जो भक्षयन्ति त᳘स्मादृत᳘वश्च मा᳘साश्चा᳘न्यो ऽन्य᳘मभिनि᳘वर्त्तन्ते॥

मूलम् - Weber

द्वा᳘दश भक्षा᳘ भवन्ति ॥
द्वा᳘दश मा᳘सा भक्षै᳘रेव मा᳘सान᳘वरुन्द्धे पु᳘नःपुनरभिनिव᳘र्तमृत्वि᳘जो भक्षयन्ति त᳘स्मादृत᳘वश्च मा᳘साश्चाॗन्योऽन्य᳘मभिनि᳘वर्तन्ते ॥

मूलम् - विस्वरम्

द्वादश भक्षा भवन्ति । द्वादश वै मासाः । भक्षैरेव मासानवरुन्धे । पुनःपुनरभिनिवर्तमृत्विजो भक्षयन्ति । तस्मात् ऋतवश्च मासाश्चान्यो ऽन्यमभिनिवर्तन्ते ॥ ३० ॥

हरिस्वामी

‘द्वादश भक्षाः’ अभिनिवर्त्याभिनिवर्त्याभिनिवर्तं त्रयो ऽप्याश्विनं भक्षयित्वा । पुनश्चैवाभिनिवर्तन्ते आलंभयन्ते । एवं सारस्वतम् । एवं सुराग्रहान् । तस्मादेते ऋतवश्च मासाश्च अन्यो ऽन्यमृतवो मासान्मासाश्च ऋतूनभिनिवर्तंते ते त्रयः फाल्गुनमभिनिवर्तन्ते ॥ ३० ॥

Eggeling
  1. There are twelve draughts 25, and twelve

months: by means of the draughts he thus secures the months. The priests drink again and again by turns, whence the seasons and months succeed one another by turns.

मूलम् - Makoto

द्वा᳓दश भक्षा᳓ भवन्ति ।॥
द्वा᳓दश मा᳓सा᳓ भक्षै᳓र् एव᳓ मा᳓सा᳓न् अ᳓वरुन्द्धे पु᳓नःपुनर् अभिनिर्व᳓र्तम् ऋत्वि᳓जो भक्षयन्ति त᳓स्मा᳓द् ऋत᳓वश् च मा᳓सा᳓श् चा᳓न्यो᳙ऽन्य᳓म् अभिनि᳓वर्तन्ते ॥॥

३१

विश्वास-प्रस्तुतिः

त्रयोदशं[[!!]] य᳘जमानो भक्षयति॥
यो᳘ ह वा᳘ ऽएष᳘ त्रयोदशो मा᳘स ऽएष᳘ ऽएव᳘ प्रत्य᳘क्षात्सम्वत्सर᳘ ऽएत᳘मे᳘वाप्त्वा᳘ ऽवरुन्द्धे स[[!!]] वा᳘ ऽएष᳘ सम्वत्सर᳘ ऽएव य᳘त्सौत्रामणी ते᳘न स᳘र्व्वञ्ज᳘यति स᳘र्व्वम᳘वरुन्द्धे॥

मूलम् - श्रीधरादि

त्रयोदशं[[!!]] य᳘जमानो भक्षयति॥
यो᳘ ह वा᳘ ऽएष᳘ त्रयोदशो मा᳘स ऽएष᳘ ऽएव᳘ प्रत्य᳘क्षात्सम्वत्सर᳘ ऽएत᳘मे᳘वाप्त्वा᳘ ऽवरुन्द्धे स[[!!]] वा᳘ ऽएष᳘ सम्वत्सर᳘ ऽएव य᳘त्सौत्रामणी ते᳘न स᳘र्व्वञ्ज᳘यति स᳘र्व्वम᳘वरुन्द्धे॥

मूलम् - Weber

त्र᳘योदशं य᳘जमानो भक्षयति ॥
यो᳘ ह वा᳘ऽएष᳘ त्रयोदशो मा᳘स एष᳘ एव᳘ प्रत्य᳘क्षात्संवत्सर᳘ एत᳘मेॗवाप्त्वा᳘वरुन्द्धे स᳘ वा᳘ऽएष᳘ संवत्सर᳘ एव य᳘त्सौत्रामणी ते᳘न स᳘र्वं ज᳘यति स᳘र्वम᳘वरुन्द्धे ॥

मूलम् - विस्वरम्

त्रयोदशं यजमानो भक्षयति । यो ह वा एष त्रयोदशो मासः । एष एव प्रत्यक्षात्संवत्सरः । एतमेवाप्त्वा ऽवरुन्धे । स वा एष संवत्सर एव । यत्सौत्रामणी । तेन सर्वं जयति । सर्वमवरुन्धे ॥ ३१ ॥

हरिस्वामी

‘त्रयोदशम्’ ‘यो ह वा एष त्रयोदशो मासः’ । अधिमासः । को नाम । यः क्षयात् संवत्सरः समाप्यते, नेतरेष्वित्यभिप्रायः । एतमेव प्राप्यानपायिनं वा ऽस्य करोति । ततश्च संवत्सर एवैष (करेरुषो । या सौत्रामणी । तेन सौत्रामणीरूपेण संवत्सरेण सर्वं जगत्कार्यं संवत्सराष्टकम् । यजतित्वात् वरुणत्वे च अयं करोति ?) ॥ ३१ ॥

Eggeling
  1. The thirteenth draught the Sacrificer takes, for, indeed, that thirteenth month is manifestly the year itself: it is this he secures by obtaining (that draught). And, indeed, the Sautrāmaṇī is the same as the year, and by means of this he wins everything, and secures everything for himself.
मूलम् - Makoto

त्र᳓योदशं य᳓जमा᳓नो भक्षयति ।॥
यो᳓ ह वा᳓ एष᳓ त्रयोदशो मा᳓स एष᳓ एव᳓ प्रत्य᳓क्षा᳓त् संवत्सर᳓ एत᳓म् एवा᳙प्त्वा᳓वरुन्द्धे स᳓ वा᳓ एष᳓ संवत्सर᳓ एव᳓ य᳓त् सौत्रा᳓मणी᳓ ते᳓न स᳓र्वं ज᳓यति स᳓र्वम् अ᳓वरुन्द्धे ॥॥

३२

विश्वास-प्रस्तुतिः

त्र᳘यः पश᳘वो भवन्ति॥
त्र᳘यो वा᳘ ऽइमे᳘ लोका᳘ ऽइमा᳘नेव तै᳘र्ल्लोकान᳘वरुन्द्ध ऽइम᳘मेव᳘ लोक᳘माश्विने᳘नान्त᳘रिक्षᳫँ᳭ सारस्वते᳘न दि᳘वमैन्द्रे᳘ण यथारूप᳘मेव᳘ यथादेवत᳘मिमां᳘ल्लोकाञ्ज᳘यति चा᳘व च रुन्द्धे॥

मूलम् - श्रीधरादि

त्र᳘यः पश᳘वो भवन्ति॥
त्र᳘यो वा᳘ ऽइमे᳘ लोका᳘ ऽइमा᳘नेव तै᳘र्ल्लोकान᳘वरुन्द्ध ऽइम᳘मेव᳘ लोक᳘माश्विने᳘नान्त᳘रिक्षᳫँ᳭ सारस्वते᳘न दि᳘वमैन्द्रे᳘ण यथारूप᳘मेव᳘ यथादेवत᳘मिमां᳘ल्लोकाञ्ज᳘यति चा᳘व च रुन्द्धे॥

मूलम् - Weber

त्र᳘यः पश᳘वो भवन्ति ॥
त्र᳘यो वा᳘ इमे᳘ लोका᳘ इमा᳘नेव तै᳘र्लोकान᳘वरुन्द्धऽइम᳘मेव᳘ लोक᳘माश्विने᳘नान्त᳘रिक्षᳫं सारस्वते᳘न दि᳘वमैन्द्रे᳘ण यथारूप᳘मेव᳘ यथादेवत᳘मिमां᳘लोकान्ज᳘यति चा᳘व च रुन्द्धे ॥

मूलम् - विस्वरम्

त्रयः पशवो भवन्ति । त्रयो वा इमे लोकाः । इमानेव तैर्लोकानवरुन्धे । इममेव लोकमाश्विनेन । अन्तरिक्षं सारस्वतेन । दिवमैन्द्रेण । यथारूपमेव यथादेवतमिमान् लोकान् जयति चाव च रुन्धे ॥ ३२ ॥

हरिस्वामी

‘त्रयः पशवः’ । प्रसन्नास्तिस्रः ॥ ३२-३४ ॥

Eggeling
  1. There are three victims, for three in number are these worlds: it is these worlds he thereby secures,–to wit, this (terrestrial) world by that of the Aśvins, the air by that of Sarasvatī, and the sky by that of Indra: he thus wins and secures these worlds for himself in accordance with their (peculiar) form and deity.
मूलम् - Makoto

त्र᳓यः पश᳓वो भवन्ति ।॥
त्र᳓यो वा᳓ इमे᳓ लोका᳓ इमा᳓न् एव᳓ तै᳓र् लोका᳓न् अ᳓वरुन्द्ध इम᳓म् एव᳓ लोक᳓म् आ᳓श्विने᳓ना᳓न्त᳓रिक्षँ सा᳓रस्वते᳓न दि᳓वम् ऐन्द्रे᳓ण यथा᳓रूप᳓म् एव᳓ यथा᳓देवत᳓म् इमां᳓ लोका᳓न् ज᳓यति चा᳓व च रुन्द्धे ॥॥

३३

विश्वास-प्रस्तुतिः

त्र᳘यः पुरोडा᳘शा भवन्ति॥
त्र᳘यो वा᳘ ऽऋत᳘व ऽऋतू᳘नेवैतैर᳘वरुन्द्धे[[!!]] ग्ग्रीष्म᳘मे᳘वैन्द्रे᳘ण व्वर्षाः᳘ सावित्रे᳘ण हेमन्तं᳘ व्वारुणे᳘न यथारूप᳘मेव᳘ ययादेवत᳘मृतूञ्ज᳘यति चा᳘व च रुन्द्धे॥

मूलम् - श्रीधरादि

त्र᳘यः पुरोडा᳘शा भवन्ति॥
त्र᳘यो वा᳘ ऽऋत᳘व ऽऋतू᳘नेवैतैर᳘वरुन्द्धे[[!!]] ग्ग्रीष्म᳘मे᳘वैन्द्रे᳘ण व्वर्षाः᳘ सावित्रे᳘ण हेमन्तं᳘ व्वारुणे᳘न यथारूप᳘मेव᳘ ययादेवत᳘मृतूञ्ज᳘यति चा᳘व च रुन्द्धे॥

मूलम् - Weber

त्र᳘यः पुरोडा᳘शा भवन्ति ॥
त्र᳘यो वा᳘ऽऋत᳘व ऋतू᳘नेॗवैतैर᳘वरुन्द्धे ग्रीष्म᳘मेॗवैन्द्रे᳘ण वर्षाः᳘ सावित्रे᳘ण हेमन्तं᳘ वारुणे᳘न यथारूप᳘मेव᳘ ययादेवत᳘मृतून्ज᳘यति चा᳘व च रुन्द्धे ॥

मूलम् - विस्वरम्

त्रयः पुरोडाशा भवन्ति । त्रयो वा ऋतवः । ऋतूनेवैतैरवरुन्धे । ग्रीष्ममेवैन्द्रेण । वर्षाः सावित्रेण । हेमन्तं वारुणेन । यथारूपमेव यथादेवतमृतून् जयति चाव च रुन्धे ॥ ३३ ॥

हरिस्वामी

[व्याख्यानं द्वात्रिंशत्तमे]

Eggeling
  1. There are three sacrificial cakes, for there are three seasons: it is the seasons he thereby secures,–to wit, the summer by that of Indra, the rainy season by that of Savitr̥, and the winter by that of Varuṇa: he thus wins and secures the seasons for himself in accordance with their (peculiar) form and deity.
मूलम् - Makoto

त्र᳓यः पुरोडा᳓शा᳓ भवन्ति ।॥
त्र᳓यो वा᳓ ऋत᳓व ऋतू᳓न् एवै᳙तै᳓र् अ᳓वरुन्द्धे ग्रीष्म᳓म् एवै᳙न्द्रे᳓ण वर्षाः᳓ सा᳓वित्रे᳓ण हेमन्तं᳓ वा᳓रुणे᳓न यथा᳓रूप᳓म् एव᳓ यया᳓देवत᳓म् ऋतू᳓न् ज᳓यति चा᳓व च रुन्द्धे ॥॥

३४

विश्वास-प्रस्तुतिः

षड्ग्र᳘हा भवन्ति॥
षड्वा᳘ ऽऋत᳘व ऽऋतू᳘नेवैतैर᳘वरुन्द्धे[[!!]] व्वसन्तग्ग्रीष्मा᳘वे᳘वाश्विना᳘भयाम्वर्षाशरदौ᳘ सारस्वता᳘भ्याᳫँ᳭ हेमन्तशिशिरा᳘वैन्द्रा᳘भ्यां यथारूप᳘मेव᳘ यथादेवत᳘मृतूञ्ज᳘यति चा᳘व च रुन्द्धे॥

मूलम् - श्रीधरादि

षड्ग्र᳘हा भवन्ति॥
षड्वा᳘ ऽऋत᳘व ऽऋतू᳘नेवैतैर᳘वरुन्द्धे[[!!]] व्वसन्तग्ग्रीष्मा᳘वे᳘वाश्विना᳘भयाम्वर्षाशरदौ᳘ सारस्वता᳘भ्याᳫँ᳭ हेमन्तशिशिरा᳘वैन्द्रा᳘भ्यां यथारूप᳘मेव᳘ यथादेवत᳘मृतूञ्ज᳘यति चा᳘व च रुन्द्धे॥

मूलम् - Weber

षड्ग्र᳘हा भवन्ति ॥
षड्वा᳘ऽऋत᳘व ऋतू᳘नेॗवैतैर᳘वरुन्द्धे वसन्तग्रीष्मा᳘वेॗवाश्विना᳘भ्यां वर्षाशरदौ᳘ सारस्वता᳘भ्याᳫं हेमन्तशिशिरा᳘वैन्द्रा᳘भ्यां यथारूप᳘मेव᳘ यथादेवत᳘मृतून्ज᳘यति चा᳘व च रुन्द्धे ॥

मूलम् - विस्वरम्

षड् ग्रहा भवन्ति । षड्वा ऋतवः । ऋतूनेवैतैरवरुन्धे । वसन्तग्रीष्मावेवाश्विनाभ्याम् । वर्षाशरदौ सारस्वताभ्याम् । हेमन्तशिशिरावैन्द्राभ्याम् । यथारूपमेव यथादेवतमृतून् जयति चाव च रुन्धे ॥ ३४ ॥

हरिस्वामी

[व्याख्यानं द्वात्रिंशत्तमे]

Eggeling
  1. There are six cups (of milk and liquor), for there are six seasons: it is the seasons he thereby secures,–to wit, the spring and summer by the two Āśvina (cups), the rainy season and autumn by the two Sārasvata ones, and the winter and dewy season by the two Aindra ones: he thus wins and secures the seasons for himself in accordance with their form and deity.
मूलम् - Makoto

ष᳓ड् ग्र᳓हा᳓ भवन्ति ।॥
ष᳓ड् वा᳓ ऋत᳓व ऋतू᳓न् एवै᳙तै᳓र् अ᳓वरुन्द्धे वसन्तग्रीष्मा᳓व् एवा᳙श्विना᳓भ्यां᳓ वर्षा᳓शरदौ᳓ सा᳓रस्वता᳓भ्याँ᳓ हेमन्तशिशिरा᳓व् ऐन्द्रा᳓भ्यां᳓ यथा᳓रूप᳓म् एव᳓ यथा᳓देवत᳓म् ऋतू᳓न् ज᳓यति चा᳓व च रुन्द्धे ॥॥

३५

विश्वास-प्रस्तुतिः

स᳘न्तता याज्यापुरो ऽनुवा᳘क्या भवन्ति॥
समानदेव᳘त्या ऽऋतूनाᳫँ᳭ स᳘न्तत्या ऽअ᳘व्यवच्छेदाय स᳘र्व्वाः पुरो ऽनुवा᳘क्या भ᳘वन्ति स᳘र्व्वा या᳘ज्यास्त᳘स्मादृत᳘वः स᳘र्व्वे प᳘राञ्चः स᳘र्व्वे प्रत्य᳘ञ्चः स᳘र्व्वाः प्रथमा भ᳘वन्ति स᳘र्व्वा मध्यमाः स᳘र्व्वा ऽउत्तमास्त᳘स्मादृत᳘वः स᳘र्व्वे प्रथमाः स᳘र्व्वे मध्यमाः स᳘र्व्व ऽउत्तमाः स᳘र्व्वेषां ग्र᳘हाणां द्वे᳘ याज्यापुरो ऽनुवा᳘क्ये भवतो ऽहोरात्र᳘योस्त᳘द्रूप᳘महोरात्रे᳘ ऽएवा᳘वरुन्द्धे त᳘स्मादृत᳘वश्च मा᳘साश्चाहोरात्र᳘योरेव प्प्र᳘तिष्ठिताः॥

मूलम् - श्रीधरादि

स᳘न्तता याज्यापुरो ऽनुवा᳘क्या भवन्ति॥
समानदेव᳘त्या ऽऋतूनाᳫँ᳭ स᳘न्तत्या ऽअ᳘व्यवच्छेदाय स᳘र्व्वाः पुरो ऽनुवा᳘क्या भ᳘वन्ति स᳘र्व्वा या᳘ज्यास्त᳘स्मादृत᳘वः स᳘र्व्वे प᳘राञ्चः स᳘र्व्वे प्रत्य᳘ञ्चः स᳘र्व्वाः प्रथमा भ᳘वन्ति स᳘र्व्वा मध्यमाः स᳘र्व्वा ऽउत्तमास्त᳘स्मादृत᳘वः स᳘र्व्वे प्रथमाः स᳘र्व्वे मध्यमाः स᳘र्व्व ऽउत्तमाः स᳘र्व्वेषां ग्र᳘हाणां द्वे᳘ याज्यापुरो ऽनुवा᳘क्ये भवतो ऽहोरात्र᳘योस्त᳘द्रूप᳘महोरात्रे᳘ ऽएवा᳘वरुन्द्धे त᳘स्मादृत᳘वश्च मा᳘साश्चाहोरात्र᳘योरेव प्प्र᳘तिष्ठिताः॥

मूलम् - Weber

सं᳘तता याज्यापुरोऽनुवाॗक्या भवन्ति ॥
समानदेव᳘त्या ऋतूनाᳫं सं᳘तत्याऽअ᳘व्यवछेदाय स᳘र्वाः पुरोऽनुवाॗक्या भ᳘वन्ति स᳘र्वा याॗज्यास्त᳘स्मादृत᳘वः स᳘र्वे प᳘राञ्चः स᳘र्वे प्रत्य᳘ञ्चः स᳘र्वाः प्रथमा भ᳘वन्ति स᳘र्वा मध्यमाः स᳘र्वा उत्तमास्त᳘स्मादृत᳘वः स᳘र्वे प्रथमाः स᳘र्वे मध्यमाः स᳘र्वऽउत्तमाः स᳘र्वेषां ग्र᳘हाणां द्वे᳘ याज्यापुरोऽनुवाॗक्ये भवतोऽहोरात्र᳘योस्त᳘द्रूप᳘महोरात्रे᳘ऽएवा᳘वरुन्द्धे त᳘स्मादृत᳘वश्च मा᳘साश्चाहोरात्र᳘योरेव प्र᳘तिष्ठिताः ॥

मूलम् - विस्वरम्

संतता याज्यापुरो ऽनुवाक्या भवन्ति समानदेवत्याः । ऋतूनां संतत्या अव्यवच्छेदाय । सर्वाः पुरो ऽनुवाक्या भवन्ति । सर्वा याज्याः । तस्मात् ऋतवः सर्वे परांचः । सर्वे प्रत्यंचः । सर्वाः प्रथमा भवन्ति । सर्वा मध्यमाः । सर्वा उत्तमाः । तस्मात् ऋतवः सर्वे प्रथमाः । सर्वे मध्यमाः । सर्व उत्तमाः । सर्वेषां ग्रहाणां द्वे याज्यापुरो ऽनुवाक्ये भवतः । अहोरात्रयोस्तद्रूपम् । अहोरात्रे एवावरुन्धे । तस्मात् ऋतवश्च मासाश्चाहोरात्रयोरेव प्रतिष्ठिताः ॥ ३५ ॥

हरिस्वामी

‘सन्तता याज्यापुरो ऽनुवाक्याः’ । संतताः । प्रथमस्य याज्या द्वितीयस्यानुवाक्या क्रियते, पूर्वोत्तरयोर्युगलयोः सन्तत्यै । एवं द्वितीयस्य याज्या तृतीयस्यानुवाक्या । तृतीयस्य प्रथमा याज्या । एवं सन्ततास्ता भवन्ति । एवमेव च सर्वाः पर्यायेण पुरो ऽनुवाक्या याज्याश्च भवन्ति । तस्मात् ऋतवः सर्वे परांचः स्वस्थानेनावर्तते । ग्रीष्मणो ऽनन्तरं वर्षा भवन्ति । न पुनः ग्रीष्मः । एवं वर्षाणामनन्तरं हेमन्तो भवति । न पुनर्वर्षाः । इयेवं सर्वे परांचः । सर्वे प्रत्यंचः पुनरावर्तंत इत्यर्थः । सर्वाः प्रथमा इति । प्रथमाद्वितीयायोगयोस्तिस्र ऋचः प्रयुज्यन्ते । तत्रैका प्रथमा भवति, द्वितीया मध्यमा, तृतीया चोत्तमा । द्वितीयातृतीयायोगयोः प्रयोगेणाभिषवस्य मध्यमा सा प्रथमा भवति । या अन्त्या सा मध्यमा भवति । या अन्त्या द्वितीया ऽन्त्या सा प्रथमा भवति । तस्मादृतवः सर्वे प्रथमाः । यो हेमन्तस्तस्य हेमन्तादय इत्यर्थः । सर्वेषामपि ग्रहाणां द्वे एव याज्यानुवाक्ये । सर्वदेवत्येषु “युवँ सुरामं, पुत्रमिव” (वा. सं. २० । ७६-७७) इत्येते भवतः । तस्य देवतात्रयस्य युगपदेव आह्वानोपदेशाच्च प्रदानमपि सहैव युगपदेव कार्यम् । पयोग्रहाणामध्वर्युः । सुराग्रहाणां प्रतिप्रस्थाता । तस्मात् ऋतवश्च मासाः अहोरात्रयोरेव प्रतिष्ठिता इति । तत्राहोरात्राभ्यामृतवो मासाश्च वर्तन्त इत्यर्थः ॥ ३५ ॥

Eggeling
  1. The invitatory and offering formulas are made continuous, and relate to the same deities–

for the sake of the continuity and uninterruptedness of the seasons. They are all of them invitatory-formulas and all offering-formulas 26, whence all the seasons pass onwards, and all of them return. All (the formulas) are first, all of them intermediate, and all of them last, whence all the seasons are first, all of them intermediate, and all of them last. All the cups have two (formulas, an) invitatory and (an) offering-formula,–this is of the form of day and night: it is the day and the night he thus secures for himself; whence both the seasons and the months are established on day and night.

मूलम् - Makoto

सं᳓तता᳓ या᳓ज्या᳓पुरोऽनुवा᳓क्या᳙ भवन्ति ।॥
समा᳓नदेव᳓त्या᳓ ऋतू᳓नाँ᳓ सं᳓तत्या᳓ अ᳓व्यवच्छेदा᳓य स᳓र्वाः᳓ पुरोऽनुवा᳓क्या᳙ भ᳓वन्ति स᳓र्वा᳓ या᳓ज्या᳙स् त᳓स्मा᳓द् ऋत᳓वः स᳓र्वे प᳓रा᳓ञ्चः स᳓र्वे प्रत्य᳓ञ्चः स᳓र्वाः᳓ प्रथमा᳓ भ᳓वन्ति स᳓र्वा᳓ मध्यमाः᳓ स᳓र्वा᳓ उत्तमा᳓स् त᳓स्मा᳓द् ऋत᳓वः स᳓र्वे प्रथमाः᳓ स᳓र्वे मध्यमाः᳓ स᳓र्व उत्तमाः᳓ स᳓र्वेषां᳓ ग्र᳓हा᳓णां᳓ द्वे᳓ या᳓ज्या᳓पुरोऽनुवा᳓क्ये᳙ भवतो ऽहोरा᳓त्र᳓योस् त᳓द् रूप᳓म् अहोरा᳓त्रे᳓ एवा᳓वरुन्द्धे त᳓स्मा᳓द् ऋत᳓वश् च मा᳓सा᳓श् चा᳓होरा᳓त्र᳓योर् एव᳓ प्र᳓तिष्ठिताः᳓ ॥॥

३६

विश्वास-प्रस्तुतिः

स वा᳘ ऽएष᳘ सम्वत्सर᳘ ऽएव य᳘त्सौत्रामणी᳘॥
चन्द्र᳘मा ऽएव᳘ प्प्रत्य᳘क्षादादित्यो य᳘जमानस्त᳘स्येय᳘मेव᳘ पृथिवी व्वे᳘दिरन्त᳘रिक्षमुत्तरवेदिर्द्यौ᳘र्बर्हिर्द्दि᳘श ऽऋत्वि᳘जो व्व᳘नस्प᳘तय ऽइध्म ऽआ᳘प ऽआ᳘ज्यमोष᳘धय ऽआ᳘हुतयो ऽग्नि᳘रे᳘वाग्निः᳘ सम्वत्सरः᳘ सᳫँ᳭स्था तद्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वᳫँ᳭ सम्वत्सर᳘ ऽएव य᳘दिदं कि᳘ञ्च त᳘स्मात्सौत्राम᳘ण्येजानः स᳘र्व्वञ्ज᳘यति स᳘र्व्वम᳘वरुन्द्धे॥

मूलम् - श्रीधरादि

स वा᳘ ऽएष᳘ सम्वत्सर᳘ ऽएव य᳘त्सौत्रामणी᳘॥
चन्द्र᳘मा ऽएव᳘ प्प्रत्य᳘क्षादादित्यो य᳘जमानस्त᳘स्येय᳘मेव᳘ पृथिवी व्वे᳘दिरन्त᳘रिक्षमुत्तरवेदिर्द्यौ᳘र्बर्हिर्द्दि᳘श ऽऋत्वि᳘जो व्व᳘नस्प᳘तय ऽइध्म ऽआ᳘प ऽआ᳘ज्यमोष᳘धय ऽआ᳘हुतयो ऽग्नि᳘रे᳘वाग्निः᳘ सम्वत्सरः᳘ सᳫँ᳭स्था तद्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वᳫँ᳭ सम्वत्सर᳘ ऽएव य᳘दिदं कि᳘ञ्च त᳘स्मात्सौत्राम᳘ण्येजानः स᳘र्व्वञ्ज᳘यति स᳘र्व्वम᳘वरुन्द्धे॥

मूलम् - Weber

स वा᳘ऽएष᳘ संवत्सर᳘ एव य᳘त्सौत्रामणी᳘ ॥
चन्द्र᳘मा एव᳘ प्रत्य᳘क्षादादित्यो य᳘जमानस्त᳘स्येय᳘मेव᳘ पृथिवी वे᳘दिरन्त᳘रिक्षमुत्तरवेदिर्द्यौ᳘र्बर्हिर्दि᳘श ऋत्वि᳘जो व᳘नस्प᳘तय इध्म आ᳘प आ᳘ज्यमोष᳘धय आ᳘हुतयोऽग्नि᳘रेॗवाग्निः᳘ संवत्सरः᳘ सᳫंस्था तद्वा᳘ऽइदᳫं स᳘र्वᳫं संवत्सर᳘ एव य᳘दिदं किं᳘ च त᳘स्मात्सौत्रामॗण्येजानः स᳘र्वं ज᳘यति स᳘र्वम᳘वरुन्द्धे ॥ १ [८.२.] ॥ ॥

मूलम् - विस्वरम्

स वा एष संवत्सर एव । यत्सौत्रामणी । चंद्रमा एव प्रत्यक्षात् आदित्यो यजमानः । तस्येयमेव पृथिवी वेदिः । अंतरिक्षमुत्तरवेदिः । द्यौर्बर्हिः । दिश ऋत्विजः । वनस्पतय इध्मः । आप आज्यम् । ओषधय आहुतयः । अग्निरेवाग्निः । संवत्सरः संस्था । तद्वा इदं सर्वं संवत्सर एव । यदिदं किंच । तस्मात् सौत्रामण्येजानः सर्वं जयति । सर्वमवरुन्धे ॥ ३६ ॥

हरिस्वामी

‘स वा एष संवत्सर एव’ । एषा सौत्रामणी । उपासने विशेषः । कीदृशः ? संवत्सर एव यत्सौत्रामणी । चन्द्रमा एव प्रत्यक्षात् । चन्द्रो हि वृद्धिक्षयविशिष्ट आवर्तमानः न क्रीतेन सोमेन स एव संवत्सरः स पशुमत्सौत्रामणीत्युक्तम् । पयःसुरयोः सोमत्वात् । यदा चंद्रमाः सौत्रामणी । ततस्तदा आदित्यो यजमानः द्वयोः सामान्यात् । पृथिवी वेदिः, आधारत्वात् । अन्तरिक्षमुत्तरवेदिः, पृथिव्या उत्तरत्वात् । तथैव द्यौर्बर्हिः । दिश ऋत्विजः । वनस्पतय इध्मः, इन्धनत्वात् । आप आज्यं, द्रवत्वात् । ओषधय आहुतयः, आहुतिप्रकृतित्वान् । संवत्सर एव संस्था समाप्तिः । संवत्सरे हि सर्वमिदं सन्तिष्ठते । तद्वा इदमिति संवत्सरोपासनावचनम् ॥ ३६ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यंदिनीयशतपथब्राह्मणभाष्ये द्वादशे कांडे अष्टमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ १२ । ८ । २ ॥

Eggeling
  1. The Sautrāmaṇī, truly, is the same as the year, and the same as the moon; and the Sacrificer is manifestly the sun: his vedi (altar-ground) is this earth, his uttara-vedi the air, his barhis the sky, his officiating priests the quarters, his fuel the trees, his ghee the waters, his oblations the plants, his fire Agni himself, his saṁsthā (the particular form of sacrifice) the year–and, indeed, everything here, whatever there is, is the year; whence he who has performed the Sautrāmaṇī wins everything, and secures everything for himself.
मूलम् - Makoto

स᳓ वा᳓ एष᳓ संवत्सर᳓ एव᳓ य᳓त् सौत्रा᳓मणी᳓ ।॥
चन्द्र᳓मा᳓ एव᳓ प्रत्य᳓क्षा᳓द् आ᳓दित्यो᳓ य᳓जमा᳓नस् त᳓स्येय᳓म् एव᳓ पृथिवी᳓ वे᳓दिर् अन्त᳓रिक्षम् उत्तरवेदि᳓र् द्यौ᳓र् बर्हि᳓र् दि᳓श ऋत्वि᳓जो व᳓नस्प᳓तय इध्म᳓ आ᳓प आ᳓ज्यम् ओ᳓षधय आ᳓हुतयो ऽग्नि᳓र् एवा᳙ग्निः᳓ संवत्सरः᳓ सँस्था᳓ त᳓द् वा᳓ इदँ᳓ स᳓र्वँ संवत्सर᳓ एव᳓ य᳓द् इदं᳓ किं᳓ च त᳓स्मा᳓त् सौत्रा᳓मण्ये᳙जा᳓नः᳓ स᳓र्वं ज᳓यति स᳓र्वम् अ᳓वरुन्द्धे ॥॥


  1. 239:2 Cf. II, 4, 4, 3-4, where the latter is called Pratīdarśa Śvaikna (king of the Śvikna), whilst the former, after studying with him, is said to have been called Sahadeva Sārñjaya. ↩︎

  2. 240:1 The ‘Somāṁśava iva’ would seem to have here the force of ‘Soma-shoots proper,’ only substitutes (milk and liquor) being used instead. ↩︎

  3. 240:2 That is to say, the observance of the fast–by which the Sacrificer during the four days of the performance of the Sautrāmaṇī, lives solely on the remains of the Agnihotra–takes the place of the ordinary initiation of the Soma-sacrifice, there being no Dīkshā at the Sautrāmaṇī. ↩︎

  4. अत्र “देवा यज्ञमतन्वत” इत्यादयः- “सौत्रामणी सुते” इत्यन्ताः (वा. सं. १९ । १२-३१) विंशतिकंडिकाः सौत्रामण्यां सोमावयवसंपत्त्यभिधायिका अनुसन्धेयाः । ↩︎

  5. 240:3 The malted rice, malted barley, and fried rice, referred to in this and the next two paragraphs, refer to the remnants of these materials, not used at first in the preparation of the Surā, and amounting to one-third of the original quantity of each; these being added successively during the three nights during which the Surā has to mature; cf. p. 223, note 2. ↩︎

  6. 241:1 Or, he renders him, the Sacrificer (or, perhaps, it, the sacrifice), successful by means of the morning-pressing. ↩︎

  7. 241:2 The literal translation would seem to be,–he thus provides him with the respective (sva) world, with the respective deity, and with the respective form,–(hence) with the morning-pressing. It may be remarked, however, that the deities here connected with the three services (the Aśvins, Sarasvatī, and Indra) are not those elsewhere associated with them (Vasus, Rudras, and Ādityas, IV, 3, 5, 1; or Agni, Indra, Viśve Devāḥ, XI, 5, 9, 7). ↩︎

  8. 241:3 Viz. inasmuch as it is full of moisture (saras). ↩︎

  9. 242:1 The ’enam’ must refer to the Surā-liquor, treated as identical with Soma. ↩︎

  10. 242:2 I do not quite understand the distinction between suta’ and ‘āsuta ‘; cf. XII, 8, 1, 6; unless the former be the pure Soma-juice, and the latter that mixed with other ingredients. ↩︎

  11. होता यक्षत्समिधा ऽग्निमिति प्रयाजप्रैषास्त्रिपशोः । का. श्रौ. सू. १९ । १४४ । ↩︎

  12. आप्रियश्च समिद्धो अग्निरश्विनेति । चशब्दास्त्रिपशोरेव । का. श्रौ. सू. १९ । १४५ । ↩︎

  13. 242:3 The ‘praisha’ are the directions by which the Maitrāvaruṇa calls on the Hotr̥ to recite the offering-formulas (cf. part ii, p. 183, note 2). For the fore-offerings of the three victims, these directions are given, Vāj. S. XXI, 29-40. They all commence with ‘Hotā yakshat’ (may the Hotr̥ worship!), and end with ‘payaḥ somaḥ parisrutā ghr̥taṁ madhu vyantv ājyasya hotar yaja’ (milk, Soma, with parisrut-liquor, ghee, honey,–may they partake of the butter, Hotr̥ worship!). ↩︎

  14. 243:1 ? Literally, ‘by (way of) milk’–or, perhaps, ‘by the admixture of milk–Soma is (here, as it were) produced.’ ↩︎

  15. भे᳘षज्याय A.M. भै᳘ष॰ P. ↩︎

  16. 243:2 In all the directions referred to, the three deities are named. ↩︎

  17. 243:3 The two Aśvins are the physicians of the gods. Cf. IV, 1, 5, 8 seqq.; XII, 7, 2, 3. ↩︎

  18. अश्विना हविरिति तिस्रो वपानां याज्यानुवाक्याः । प्रथमामनूच्य द्वितीया याज्या, द्वितीयामनूच्य तृतीया याज्या, तृतीयामनूच्य प्रथमा याज्या । य इंद्र इति पुरोडाशानां पूर्ववत् (पूर्ववदिति प्रथमामनूच्येत्येवमादि सर्वम्) अश्विना गोभिरिति च हविषाम् । (चकारात्प्रथमामनूच्येत्यादि) का. श्रौ. सू. १९ । १४६-१४९ ॥ ↩︎

  19. 244:1 This refers to the puronuvākyās and yājyās of the oblations of omentum (vapā) of the three victims. For these formulas the three verses, Vāj. S. XX, 67-69, are used in such a way that verse 1 forms the anuvākyā, and verse 2 the yājyā, of the Aśvins’ oblation; verse 2 the anuvākyā, and verse 3 the yājyā, of Sarasvatī’s oblation; and verse 3 the anuvākyā, and verse 1 the yājyā, of Indra’s oblation. In each of the three verses all the three deities are mentioned.–In exactly the same way the three verses, XX, 70-72, are used as the anuvākyās and yājyās of the three paśupuroḍāśas; and 73-75 as those of the chief oblations (havis) of meat-portions. ↩︎

  20. आ᳘प्रियो गो᳘र्वितिः instead of आप्र्यो ! – गो᳘रीवितिः A. श्वि᳘त्कानाँ A. ↩︎

  21. आप्रियश्च समिद्धे अग्निरश्विनेति । का. श्रौ. सू. १९ । १४६ । ↩︎ ↩︎

  22. 244:2 The Āprīs (propitiatory verses, cf. part ii, p. 185) are the offering-formulas (yājyā) of the eleven (or twelve) fore-offerings (prayāja) of the animal sacrifice. Those used on the present occasion are the twelve verses given, Vāj. S. XX, 55-66; there being on this occasion (in the second and third places) fore-offerings both to Tanūnapāt and Narāśaṁsa. In each of these verses, again, all three deities are referred to. ↩︎

  23. 244:3 I do not exactly know what formulas are thereby referred to. It can hardly be the praishas of the anuyājas (Vāj. S. XXI, 48-58), as these are not in the jagatī, but in the (ārshī) trishṭubh metre; though certainly each of them contains the names of the three deities. ↩︎

  24. 245:1 Viz. the Adhvaryu, and his two assistants, the Pratiprasthātr̥ and Agnīdh. Cf. XII, 8, 1, 3 seqq. ↩︎

  25. 246:1 Viz. inasmuch as three priests partake of each of the first two cups of milk, and of the first two cups of Surd-liquor, and each priest drinks twice. ↩︎

  26. 248:1 See p. 244, note , where it is shown that each of the three verses serves successively as puronuvākyā and as yājyā. ↩︎