०१
विश्वास-प्रस्तुतिः
इ᳘न्द्रस्य वै य᳘त्र॥
(त्रे) इन्द्रिया᳘णि व्वी᳘र्य्याणि व्व्युद᳘क्रामंस्ता᳘नि देवा᳘ ऽएते᳘नै᳘व[[!!]] यज्ञे᳘न पु᳘नः स᳘मदधुर्य्य᳘त्पयोग्ग्रहा᳘श्च सुराग्ग्रहा᳘श्च ग्गृह्य᳘न्त ऽइन्द्रिया᳘ण्ये᳘वास्मिंस्त᳘द्वी᳘र्य्याणि पु᳘नः स᳘न्दधत्युत्तरे ऽग्नौ᳘ पयोग्ग्रहा᳘ञ्जुह्वति शुक्रे᳘णै᳘वैनन्त᳘त्सोमपीथे᳘न स᳘मर्द्धयति॥
मूलम् - श्रीधरादि
इ᳘न्द्रस्य वै य᳘त्र॥
(त्रे) इन्द्रिया᳘णि व्वी᳘र्य्याणि व्व्युद᳘क्रामंस्ता᳘नि देवा᳘ ऽएते᳘नै᳘व[[!!]] यज्ञे᳘न पु᳘नः स᳘मदधुर्य्य᳘त्पयोग्ग्रहा᳘श्च सुराग्ग्रहा᳘श्च ग्गृह्य᳘न्त ऽइन्द्रिया᳘ण्ये᳘वास्मिंस्त᳘द्वी᳘र्य्याणि पु᳘नः स᳘न्दधत्युत्तरे ऽग्नौ᳘ पयोग्ग्रहा᳘ञ्जुह्वति शुक्रे᳘णै᳘वैनन्त᳘त्सोमपीथे᳘न स᳘मर्द्धयति॥
मूलम् - Weber
इ᳘न्द्रस्य वै य᳘त्र ॥
इन्द्रिया᳘णि वीॗर्याणि व्युद᳘क्रामंस्ता᳘नि देवा᳘ एते᳘नैव᳘ यज्ञे᳘न पु᳘नः स᳘मदधुर्य᳘त्पयोग्रहा᳘श्च सुराग्रहा᳘श्च गृह्य᳘न्तऽइन्द्रिया᳘ण्येॗवास्मिंस्त᳘द्वीॗर्याणि पु᳘नः सं᳘दधत्युत्तरेऽग्नौ᳘ पयोग्रहा᳘न्जुह्वति शुक्रे᳘णैॗवैनं त᳘त्सोमपीथे᳘न स᳘मर्धयति ॥
मूलम् - विस्वरम्
इन्द्रस्य वै यत्रेन्द्रियाणि वीर्याणि व्युदक्रामन् । तानि देवा एतेनैव यज्ञेन पुनः समदधुः । यत्पयोग्रहाश्च सुराग्रहाश्च गृह्यन्ते । इन्द्रियाण्येवास्मिन् तद्वीर्याणि सन्दधति । उत्तरे ऽग्नौ पयोग्रहान् जुह्वति । शुक्रेणैवैनं तत्सोमपीथेन समर्द्धयति ॥ १ ॥
हरिस्वामी
इंद्रस्य वै यत्र । उत्तरे ऽग्नौ 1 पयोग्रहान् दक्षिणे 2 सुराग्रहान् हुत्वा 3 भक्षयन्ति 4 । परिक्रीतो 5 वा भक्षयेत् । अंगारेषु 6 वा जुहोति । प्रक्षालनेनोपसिंचति 7 पितरः 8 शुंधध्वमिति जपति । परिस्रुच्छेषं 9 शतातृण्णा ऽधिक्षारयति पुनंतुमेति नवर्चं वाचयन् क्षारपाते यजमानश्च 10 दक्षिणे ऽग्नावाज्याहुतिं च जुहोति । उत्तरे ऽग्नौ 11 पयआहुतिं च । भक्षयति 12 । हिरण्येन 13 च मार्जयंते । इत्येतदत्र ब्राह्मणे प्रसन्नप्रायमेव । उत्तरे ऽग्नौ पयोग्रहान् जुह्वतीति बहुवचनं होत्रादिसहकार्यपेक्षम् । शुक्रेणैवैनं तत्सोमपीथेनेति । न पुनः पयआत्मकेनासोमपीथेन । एवं यजमानः समर्द्धयति । सुराबंध एष पथः । या सौत्रामणी नाम्नः । तत्र ग्रहद्वारेण सुराः । तास्त्रिपशुबर्हिषदः । यद्बर्हिरेव एनं यजमानं समर्द्धयति । ऋत्विजो वै महिषाः महांतः । यज्ञः यज्ञसाधनं मनस्वतीर्वा । ऋत्विग्भिरेव यज्ञं समर्द्धयति यज्ञं हविर्ऋत्विग्भिर्वर्द्धयति । महिषा ऋत्विज इति कथं । ते चाधियज्ञेन यजमानं समर्द्धयति । तदर्थत्वात् । दधानाः । सोमं पयआत्मकमिति सोमपीथमेवमवहितमस्मिन् यजमाने दधति । एवमेनं सोमपीथं पयोरूपं देवतासु अश्विसरस्वतीन्द्राख्यासु दधति । तदनुकरणेन एनं यजमानं देवतामध्ये दधति । मदाय वाव सोमः पयोलक्षणः । मदाय सुरा । उभावेव मदाववरुंधे इति । द्वयोर्होममंत्रे ऽपि मदशब्देन सुरामदो ऽवरुद्ध इत्यर्थः । अर्को वै देवानामन्नम् । यद्देवानामन्नं हविः तत् स्वर्क इति अर्को ऽभिप्रेतः तच्च हविर्लक्षणमन्नं यज्ञसाधनम् । यज्ञसाधनत्वात् यज्ञः । तेन यज्ञेनान्नाद्येन समर्द्धयति । हुत्वा भक्षयंति पयोग्रहान् यजमानसप्तमाः । समृद्ध मेव यः स्वभावादस्य यजमानस्य वर्द्धयति । एवं च सति अयं मंत्रार्थे द्रष्टव्यः । अंशुसुरामध्वादिगुणं यज्ञं सौत्रामण्यात्मकं तन्वन्ति महिषा उ । स हि ससत्रयज्ञे सोमपयोलक्षणो दिवि देवतासु, देवताश्च अश्विसरस्वतीन्द्राः संस्कार्यास्त्रयः वयं यजमाना इति । दक्षिणे ऽग्नौ पयोग्रहान् जुह्वतीति तत्तेन यानेव पयोलक्षणं सोमसुरालक्षणेन पाप्मना व्यावर्तयति । नानादेशं वर्तयति । न संसृजति । एवं तदनुकारेण यजमानमपि पाप्मनैव व्यावर्तयति ॥ १-३ ॥
Eggeling
- Now, when Indra’s energies, or vital powers, departed from him, the gods restored them by means of this very sacrifice. Both cups of milk and cups of Surā-liquor are filled: they thereby restore to him his energies, or vital powers. On the northern fire they offer (from) the cups of milk, and thereby provide him 14 with the bright liquor, with the Soma-drink.
मूलम् - Makoto
इ᳓न्द्रस्य वै᳓ य᳓त्र ।॥
इन्द्रिया᳓णि वीर्या᳙णि व्युद᳓क्रा᳓मंस् ता᳓नि देवा᳓ एते᳓नैव᳓ यज्ञे᳓न पु᳓नः स᳓मदधुर् य᳓त् पयोग्रहा᳓श् च सुरा᳓ग्रहा᳓श् च गृह्य᳓न्त इन्द्रिया᳓ण्य् एवा᳙स्मिंस् त᳓द् वीर्या᳙णि पु᳓नः सं᳓दधत्य् उ᳓त्तरे ऽग्नौ᳓ पयोग्रहा᳓न् जुह्वति शुक्रे᳓णैवै᳙नं त᳓त् सोमपीथे᳓न स᳓मर्धयति ॥॥
०२
विश्वास-प्रस्तुतिः
स᳘ जुहोति॥
सु᳘रावन्तम्बर्हिष᳘दᳫँ᳭ सुवी᳘रमि᳘ति सु᳘रावान्वा᳘ ऽएष᳘ बर्हिष᳘द्यज्ञो य᳘त्सौत्रामणी᳘ बर्हि᳘षै᳘वैनं यज्ञे᳘न स᳘मर्द्धयति यज्ञ᳘ᳫँ᳘ हिन्वन्ति महिषा न᳘मोभिरित्यृत्वि᳘जो वै᳘ महिषा᳘ यज्ञो न᳘म ऽऋत्वि᳘ग्भिरेव᳘ यज्ञ᳘ᳫँ᳘ समर्द्धयति यज्ञे᳘न य᳘जमानन्द᳘धानाः सो᳘ममि᳘ति सोमपीथ᳘मे᳘वास्मिन्दधति दिवि᳘ देव᳘तास्वि᳘ति दि᳘व्ये᳘वैनन्देव᳘तासु दधति म᳘देमे᳘न्द्रमि᳘ति म᳘दाय वाव सो᳘मो म᳘दाय सु᳘रोभा᳘वेव᳘ सोममद᳘ञ्च सुरामदञ्चा᳘वरुन्धे य᳘जमानाः स्वर्क्का ऽइ᳘त्यर्क्को वै᳘ देवा᳘नाम᳘न्नम᳘न्नं यज्ञो᳘ यज्ञे᳘नै᳘वैनमन्ना᳘द्येन स᳘मर्द्धयति हुत्वा᳘ भक्षयन्ति स᳘मृद्ध᳘मे᳘वास्य त᳘द्वर्द्धयन्ति॥
मूलम् - श्रीधरादि
स᳘ जुहोति॥
सु᳘रावन्तम्बर्हिष᳘दᳫँ᳭ सुवी᳘रमि᳘ति सु᳘रावान्वा᳘ ऽएष᳘ बर्हिष᳘द्यज्ञो य᳘त्सौत्रामणी᳘ बर्हि᳘षै᳘वैनं यज्ञे᳘न स᳘मर्द्धयति यज्ञ᳘ᳫँ᳘ हिन्वन्ति महिषा न᳘मोभिरित्यृत्वि᳘जो वै᳘ महिषा᳘ यज्ञो न᳘म ऽऋत्वि᳘ग्भिरेव᳘ यज्ञ᳘ᳫँ᳘ समर्द्धयति यज्ञे᳘न य᳘जमानन्द᳘धानाः सो᳘ममि᳘ति सोमपीथ᳘मे᳘वास्मिन्दधति दिवि᳘ देव᳘तास्वि᳘ति दि᳘व्ये᳘वैनन्देव᳘तासु दधति म᳘देमे᳘न्द्रमि᳘ति म᳘दाय वाव सो᳘मो म᳘दाय सु᳘रोभा᳘वेव᳘ सोममद᳘ञ्च सुरामदञ्चा᳘वरुन्धे य᳘जमानाः स्वर्क्का ऽइ᳘त्यर्क्को वै᳘ देवा᳘नाम᳘न्नम᳘न्नं यज्ञो᳘ यज्ञे᳘नै᳘वैनमन्ना᳘द्येन स᳘मर्द्धयति हुत्वा᳘ भक्षयन्ति स᳘मृद्ध᳘मे᳘वास्य त᳘द्वर्द्धयन्ति॥
मूलम् - Weber
स᳘ जुहोति ॥
सु᳘रावन्तं बर्हिष᳘दᳫं सुवी᳘रमि᳘ति सु᳘रावान्वा᳘ऽएष᳘ बर्हिष᳘द्यज्ञो य᳘त्सौत्रामणी᳘ बर्हि᳘षैॗवैनं यज्ञे᳘न स᳘मर्धयति यज्ञ᳘ᳫं᳘ हिन्वन्ति महिषा न᳘मोभिरित्यृत्वि᳘जो वै᳘ महिषा᳘ यज्ञो न᳘म ऋत्वि᳘ग्भिरेव᳘ यज्ञ᳘ᳫं᳘ समर्ध᳘यति यज्ञे᳘न य᳘जमानं द᳘धानाः सो᳘ममि᳘ति सोमपीथ᳘मेॗवास्मिन्दधति दिवि᳘ देव᳘तास्वि᳘ति दिॗव्येॗवैनं देव᳘तासु दधति म᳘देमे᳘न्द्रमि᳘ति म᳘दाय वाव सो᳘मो म᳘दाय सु᳘रोभा᳘वेव᳘ सोममदं᳘ च सुरा्मदं चा᳘वरुन्द्धे य᳘जमानाः स्वर्का इ᳘त्यर्को वै᳘ देवा᳘नाम᳘न्नम᳘न्नं यज्ञो᳘ यज्ञे᳘नैॗवैनमन्ना᳘द्येन स᳘मर्धयति हुत्वा᳘ भक्षयन्ति स᳘मृद्धॗमवास्य त᳘द्वर्धयन्ति ॥
मूलम् - विस्वरम्
स जुहोति “सुरावन्तं बर्हिषदँ सुवीरम्”- इति । सुरावान्वा एष बर्हिषद्यज्ञो यत्सौत्रामणी । बर्हिषैवैनं यज्ञेन समर्द्धयति । “यज्ञं हिन्वन्ति महिषा नमोभिः”- इति । ऋत्विजो वै महिषाः । यज्ञो नमः । ऋत्विग्भिरेव यज्ञं समर्द्धयति । यज्ञेन यजमानम् । “दधानाः सोमम्”- इति । सोमपीथमेवास्मिन् दधति । “दिवि देवतासु”- इति । दिव्येवैनं देवतासु दधति । “मदेमेन्द्रम्"- इति । मदाय वाव सोमः । मदाय सुरा । उभावेव सोममदं च सुरामदं चावरुन्धे । “यजमानाः स्वर्काः"- (वा० सं० १९ । ३२) इति । अर्को वै देवानामन्नम् । अन्नं यज्ञः । यज्ञेनैवैनमन्नाद्येन समर्द्धयति । हुत्वा भक्षयन्ति । समृद्धमेवास्य तद् वर्द्धयन्ति ॥ २ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- He (the Adhvaryu) offers (of the three cups of milk) with (Vāj. S. XIX, 32), ‘By their devotions the buffalos quicken the sacrifice,’–the buffalos, doubtless, are the officiating priests, and devotion is sacrifice: through the priests he causes the sacrifice to prosper, and through the sacrifice the sacrificer 15;–’the barhis-seated one, supplied with Surā and goodly heroes,’ supplied with Surā, indeed, is this barhis-seated sacrifice, to wit, the Sautrāmaṇī: by means of the barhis (the sacred grass on the Vedi), and the sacrifice, he causes him to prosper;–’they who bestow Soma,’–they thus bestow the Soma-drink upon him;–‘with the deities in heaven,’–they thus place him with the deities in heaven;–‘may we enjoy ourselves,’–the Soma-juice, indeed, conduces
to joy, and so does the Surā-liquor: both the joy of Soma and the joy of Surā he thus secures;–‘worshipping Indra with good hymns of praise!’–for the hymn of praise is food for the gods, and the sacrifice also is food: by sacrifice, by food, he thus makes him successful. Having sacrificed, they drink (of the milk), and thereby increase what is prosperous with him.
मूलम् - Makoto
स᳓ जुहोति ।॥
सु᳓रा᳓वन्तं बर्हिष᳓दँ सुवी᳓रम् इ᳓ति सु᳓रा᳓वा᳓न् वा᳓ एष᳓ बर्हिष᳓द् यज्ञो᳓ य᳓त् सौत्रा᳓मणी᳓ बर्हि᳓षैवै᳙नं यज्ञे᳓न स᳓मर्धयति यज्ञँ᳓ हिन्वन्ति महिषा᳓ न᳓मोभिर् इ᳓त्य् ऋत्वि᳓जो वै᳓ महिषा᳓ यज्ञो᳓ न᳓म ऋत्वि᳓ग्भिर् एव᳓ यज्ञँ᳓ समर्ध᳓यति यज्ञे᳓न य᳓जमा᳓नं द᳓धा᳓नाः᳓ सो᳓मम् इ᳓ति सोमपीथ᳓म् एवा᳙स्मिन् दधति दिवि᳓ देव᳓ता᳓स्व् इ᳓ति दिव्य् ए᳙वै᳙नं देव᳓ता᳓सु दधति म᳓देमे᳓न्द्रम् इ᳓ति म᳓दा᳓य वा᳓व᳓ सो᳓मो म᳓दा᳓य सु᳓रोभा᳓व् एव᳓ सोममदं᳓ च सुरा᳓मदं᳓ चा᳓वरुन्द्धे य᳓जमा᳓नाः᳓ स्वर्का᳓ इ᳓त्य् अर्को᳓ वै᳓ देवा᳓ना᳓म् अ᳓न्नम् अ᳓न्नं यज्ञो᳓ यज्ञे᳓नैवै᳙नम् अन्ना᳓द्येन स᳓मर्धयति हुत्वा᳓ भक्षयन्ति स᳓मृद्धम् एवा᳙स्य त᳓द् वर्धयन्ति ॥॥
०३
विश्वास-प्रस्तुतिः
स᳘ भक्षयति॥
य᳘मश्वि᳘ना न᳘मुचेरासुरादधी᳘त्यश्वि᳘नौ᳘ ह्येतन्न᳘मुचेरद्ध्या᳘हरताᳫँ᳭ स᳘रस्वत्य᳘सुनोदिन्द्रियाये᳘ति स᳘रस्वती᳘ ह्येतम᳘सुनोदिन्द्रिया᳘येमन्त᳘ᳫँ᳘[[!!]] शुक्रम्म᳘धुमन्तमि᳘न्दुमि᳘ति शुक्रो वा᳘ ऽएष म᳘धुमानि᳘न्दुर्य्यत्सो᳘मः सो᳘मᳫँ᳭ रा᳘जानमिह᳘ भक्षयामी᳘ति सो᳘म ऽए᳘वास्य रा᳘जा भक्षितो᳘ भवति द᳘क्षिणे ऽग्नौ᳘ सुराग्ग्रहा᳘ञ्जुह्वति पाप्म᳘नै᳘वैनं तद्व्या᳘वर्तयन्ति॥
मूलम् - श्रीधरादि
स᳘ भक्षयति॥
य᳘मश्वि᳘ना न᳘मुचेरासुरादधी᳘त्यश्वि᳘नौ᳘ ह्येतन्न᳘मुचेरद्ध्या᳘हरताᳫँ᳭ स᳘रस्वत्य᳘सुनोदिन्द्रियाये᳘ति स᳘रस्वती᳘ ह्येतम᳘सुनोदिन्द्रिया᳘येमन्त᳘ᳫँ᳘[[!!]] शुक्रम्म᳘धुमन्तमि᳘न्दुमि᳘ति शुक्रो वा᳘ ऽएष म᳘धुमानि᳘न्दुर्य्यत्सो᳘मः सो᳘मᳫँ᳭ रा᳘जानमिह᳘ भक्षयामी᳘ति सो᳘म ऽए᳘वास्य रा᳘जा भक्षितो᳘ भवति द᳘क्षिणे ऽग्नौ᳘ सुराग्ग्रहा᳘ञ्जुह्वति पाप्म᳘नै᳘वैनं तद्व्या᳘वर्तयन्ति॥
मूलम् - Weber
स᳘ भक्षयति ॥
य᳘मश्वि᳘ना न᳘मुचेरासुरादधी᳘त्यश्वि᳘नौॗ ह्येतं न᳘मुचेरध्या᳘हरताᳫं स᳘रस्वत्य᳘सुनोदिन्द्रियाये᳘ति स᳘रस्वतीॗ ह्येत᳘मसुनोदिन्द्रिया᳘येमं तᳫं शुक्रं म᳘धुमन्तमिन्दुमि᳘ति शुक्रो वा᳘ऽएष म᳘धुमानि᳘न्दुर्यत्सो᳘मः सो᳘मᳫं रा᳘जानमिह᳘ भक्षयामी᳘ति सो᳘म एॗवास्य रा᳘जा भक्षितो᳘ भवति द᳘क्षिणेऽग्नौ᳘ सुराग्रहा᳘न्जुह्वति पाप्म᳘नैॗवैनं तद्व्या᳘वर्तयन्ति ॥
मूलम् - विस्वरम्
स भक्षयति “यमश्विना नमुचेरासुरादधि”- इति । अश्विनौ ह्येतन्नमुचेरध्याहरताम् । “सरस्वत्यसुनोदिंद्रियाय”- इति । सरस्वती ह्येतमसुनोत् इंद्रियाय । “इमन्तं शुक्रं मधुमंतमिंदुम्”- इति । शुक्रो वा एष मधुमानिन्दुः यत्सोमः । “सोमं राजानमिह भक्षयामि”- (वा० सं० १९ । ३४ ।) इति । सोम एवास्य राजा भक्षितो भवति । दक्षिणे ग्नौ सुराग्रहान् जुह्वति । पाप्मनैवैनं तद् व्यावर्तयंति ॥ ३ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- He drinks 16 with (Vāj. S. XIX, 34), ‘The (Soma) which the Aśvins (brought away) from Namuci, the Asura,’–for the two Aśvins indeed brought away that (Soma juice) from Namuci;–‘and Sarasvatī distilled for the sake of Indra’s strength,’–for Sarasvatī indeed distilled it for the sake of Indra’s strength;–’that clear, sweet draught,’–for clear and sweet indeed is that draught, Soma;–‘King Soma I now drink,’–it is thus king Soma that comes to be drunk by him. The cups of Surā-liquor they offer (from) on the southern fire 17, and thereby keep him (the Sacrificer) from evil 18.
मूलम् - Makoto
स᳓ भक्षयति ।॥
य᳓म् अश्वि᳓ना᳓ न᳓मुचेर् आ᳓सुरा᳓द् अधी᳓त्य् अश्वि᳓नौ ह्य् ए᳙तं᳓ न᳓मुचेर् अध्या᳓हरताँ᳓ स᳓रस्वत्य् अ᳓सुनोद् इन्द्रिया᳓ये᳓ति स᳓रस्वती ह्य् ए᳙त᳓म् अ᳓सुनोद् इन्द्रिया᳓येमं᳓ तँ᳓ शुक्रं᳓ म᳓धुमन्तम् इ᳓न्दुम् इ᳓ति शुक्रो᳓ वा᳓ एष᳓ म᳓धुमा᳓न् इ᳓न्दुर् य᳓त् सो᳓मः सो᳓मँ रा᳓जा᳓नम् इह᳓ भक्षया᳓मी᳓ति सो᳓म एवा᳙स्य रा᳓जा᳓ भक्षितो᳓ भवति द᳓क्षिणे ऽग्नौ᳓ सुरा᳓ग्रहा᳓न् जुह्वति पा᳓प्म᳓नैवै᳙नं त᳓द् व्या᳓वर्तयन्ति ॥॥
०४
विश्वास-प्रस्तुतिः
स᳘ जुहोति॥
य᳘स्ते र᳘सः स᳘म्भृत ऽओ᳘षधीष्वि᳘त्यपा᳘ञ्च वा᳘ ऽएष ऽओ᳘षधीनाञ्च र᳘सो यत्सु᳘रा ऽपा᳘ञ्चै᳘वैनमेतदो᳘षधीनाञ्च र᳘सेन स᳘मर्द्धयति सो᳘मस्य शु᳘ष्मः सु᳘रया सुतस्ये᳘ति य᳘ ऽएव सो᳘मे शु᳘ष्मो यः सु᳘रायान्त᳘मेवा᳘वरुन्द्धे ते᳘न जिन्व य᳘जमानम्म᳘देने᳘ति ते᳘न प्प्रीणीहि य᳘जमानम्म᳘देनेत्ये᳘वैत᳘दाह स᳘रस्वतीमश्वि᳘नावि᳘न्द्रमग्निमि᳘ति देव᳘ताभिरेव᳘ यज्ञ᳘ᳫँ᳘ समर्द्ध᳘यति देव᳘ताभिर्य्यज्ञे᳘न य᳘जमानᳫँ᳭ हुत्वा᳘ भक्षयन्ति᳘ व्व्यृद्धमे᳘वास्य तत्स᳘मर्द्धयति॥
मूलम् - श्रीधरादि
स᳘ जुहोति॥
य᳘स्ते र᳘सः स᳘म्भृत ऽओ᳘षधीष्वि᳘त्यपा᳘ञ्च वा᳘ ऽएष ऽओ᳘षधीनाञ्च र᳘सो यत्सु᳘रा ऽपा᳘ञ्चै᳘वैनमेतदो᳘षधीनाञ्च र᳘सेन स᳘मर्द्धयति सो᳘मस्य शु᳘ष्मः सु᳘रया सुतस्ये᳘ति य᳘ ऽएव सो᳘मे शु᳘ष्मो यः सु᳘रायान्त᳘मेवा᳘वरुन्द्धे ते᳘न जिन्व य᳘जमानम्म᳘देने᳘ति ते᳘न प्प्रीणीहि य᳘जमानम्म᳘देनेत्ये᳘वैत᳘दाह स᳘रस्वतीमश्वि᳘नावि᳘न्द्रमग्निमि᳘ति देव᳘ताभिरेव᳘ यज्ञ᳘ᳫँ᳘ समर्द्ध᳘यति देव᳘ताभिर्य्यज्ञे᳘न य᳘जमानᳫँ᳭ हुत्वा᳘ भक्षयन्ति᳘ व्व्यृद्धमे᳘वास्य तत्स᳘मर्द्धयति॥
मूलम् - Weber
स᳘ जुहोति ॥
य᳘स्ते र᳘सः स᳘म्भृत ओ᳘षधीष्वित्यपां᳘ च वा᳘ऽएष ओ᳘षधीनां च र᳘सो यत्सु᳘रापां᳘ चैनमेतदो᳘षधीनां च र᳘सेन स᳘मर्धयति सो᳘मस्य शु᳘ष्मः सु᳘रया सुतस्ये᳘ति य᳘ एव सो᳘मे शु᳘ष्मो यः सु᳘रायां त᳘मेवा᳘वरुन्द्धे ते᳘न जिन्व य᳘जमानं म᳘देने᳘ति ते᳘न प्रीणीहि य᳘जमानं म᳘देनेत्येॗवैत᳘दाह स᳘रस्वतीमश्वि᳘नावि᳘न्द्रमग्निमि᳘ति देव᳘ताभिरेव᳘ यज्ञ᳘ᳫं᳘ समर्ध᳘यति देव᳘ताभिर्यज्ञे᳘न य᳘जमानᳫं हुत्वा᳘ भक्षयन्तिॗ व्यृद्धमेॗवास्य तत्स᳘मर्धयति ॥
मूलम् - विस्वरम्
स जुहोति “यस्ते रसः संभृत ओषधीषु”- इति । अपां च वा एष ओषधीनां च रसः । यत्सुरा । अपां चैवैनमेतदोषधीनां च रसेन समर्द्धयति । “सोमस्य शुष्मः सुरया सुतस्य”- इति । य एव सोमे शुष्मः । यः सुरायाम् । तमेवावरुंधे । “तेन जिन्व यजमानं मदेन"- इति । तेन प्रीणीहि यजमानं मदेन इत्येवैतदाह । “सरस्वतीमश्विनाविंद्रमग्निम्"- (वा० सं० १९ । ३३) इति । देवताभिरेव यज्ञं समर्द्धयति । देवताभिर्यज्ञेन यजमानम् । हुत्वा भक्षयंति । व्यृद्धमेवास्य तत्समर्द्धयति ॥ ४ ॥
हरिस्वामी
स जुहोति यस्ते रस इति । ते तव सोमस्य सोमात्मिकायाः सुरायाः सुतस्य त्वदात्मना सुतस्य । शुष्मः बलवान् । रसः संभृतः ओषधीषु । तेन रसेन त्वं उदकाकारेण तर्पय सरस्वत्यादीन् । तद्द्वारेण यजमानमपि प्रीणीहि । सोमाधारमित्येवं मन्त्रार्थमादरीकृत्य यजमानमेव ओषधीनां च रसेन समर्द्धयतीत्याद्याह । देवताभिरेवाश्व्यादिभिर्यज्ञं समर्द्धयति । देवताभिर्यज्ञेन च यजमानम् । तदर्थत्वात् यज्ञस्य । हुत्वा सुरां भक्षयन्ति यजमानसप्तमा ऋत्विज एव इति यत् तत्तेन व्यृद्धेनैव लोकदृष्ट्या अस्य यजमानस्य समर्द्धयति । सोमं राजानमिह भक्षयामीत्यनयोपासनयेत्यभिप्रायः ॥ ४ ॥
Eggeling
- He (the Pratiprasthātr̥) offers (libations from the cups of Surā-liquor 19), with (Vāj. S. XIX, 33), ‘What essence there is of thine, gathered from the plants,’ for this Surā-liquor, indeed, is the essence
of both the waters and the plants: by the essence of both the waters and the plants he thus causes him to prosper;–’the strength of the Soma-juice together with the Surā-liquor,’–he thereby secures what strength there is in the Soma-juice and in the Surā-liquor;–‘by that exhilarating drink quicken thou the Sacrificer,’–that is, ‘by that exhilarating drink gladden thou the Sacrificer;’–‘Sarasvatī, the Aśvins, Indra, and Agni,’–by deities he (the priest) thus causes the sacrifice to prosper, and by deities and sacrifice the Sacrificer. Having made the offering, they drink (the liquor), and thereby cause to prosper what is unprosperous with him.
मूलम् - Makoto
स᳓ जुहोति ।॥
य᳓स् ते र᳓सः स᳓म्भृत ओ᳓षधीष्व् इ᳓त्य् अपां᳓ च वा᳓ एष᳓ ओ᳓षधीनां᳓ च र᳓सो य᳓त् सु᳓रा᳓पां᳓ चैनम् एत᳓द् ओ᳓षधीनां᳓ च र᳓सेन स᳓मर्धयति सो᳓मस्य शु᳓ष्मः सु᳓रया᳓ सुतस्ये᳓ति य᳓ एव᳓ सो᳓मे शु᳓ष्मो यः᳓ सु᳓रा᳓यां᳓ त᳓म् एवा᳓वरुन्द्धे ते᳓न जिन्व य᳓जमा᳓नं म᳓देने᳓ति ते᳓न प्रीणीहि य᳓जमा᳓नं म᳓देने᳓त्य् एवै᳙त᳓द् आ᳓ह स᳓रस्वतीम् अश्वि᳓ना᳓व् इ᳓न्द्रम् अग्नि᳓म् इ᳓ति देव᳓ता᳓भिर् एव᳓ यज्ञँ᳓ समर्ध᳓यति देव᳓ता᳓भिर् यज्ञ᳓न य᳓जमा᳓नँ हुत्वा᳓ भक्षयन्ति व्यृ᳙द्धम् एवा᳙स्य त᳓त् स᳓मर्धयति ॥॥
०५
विश्वास-प्रस्तुतिः
स᳘ भक्षयति॥
यद᳘त्र रिप्त᳘ᳫँ᳘ रसि᳘नः सुतस्ये᳘ति सुतासुत᳘योरेव र᳘सम᳘वरुन्द्धे यदि᳘न्द्रो ऽअ᳘पिबच्छ᳘चीभिरिती᳘न्द्रो᳘ ह्येतद᳘पिबच्छ᳘चीभिरहन्त᳘दस्य म᳘नसा शिवेनेत्य᳘शिव ऽइव वा᳘ ऽएष᳘ भक्षो यत्सु᳘रा ब्राह्मण᳘स्य शिव᳘मे᳘वैनमेत᳘त्कृ᳘त्वा ऽऽत्म᳘न्धत्ते सो᳘मᳫँ᳭ रा᳘जानमिह᳘ भक्षयामी᳘ति सो᳘म ऽए᳘वास्य रा᳘जा भक्षितो᳘ भवति॥
मूलम् - श्रीधरादि
स᳘ भक्षयति॥
यद᳘त्र रिप्त᳘ᳫँ᳘ रसि᳘नः सुतस्ये᳘ति सुतासुत᳘योरेव र᳘सम᳘वरुन्द्धे यदि᳘न्द्रो ऽअ᳘पिबच्छ᳘चीभिरिती᳘न्द्रो᳘ ह्येतद᳘पिबच्छ᳘चीभिरहन्त᳘दस्य म᳘नसा शिवेनेत्य᳘शिव ऽइव वा᳘ ऽएष᳘ भक्षो यत्सु᳘रा ब्राह्मण᳘स्य शिव᳘मे᳘वैनमेत᳘त्कृ᳘त्वा ऽऽत्म᳘न्धत्ते सो᳘मᳫँ᳭ रा᳘जानमिह᳘ भक्षयामी᳘ति सो᳘म ऽए᳘वास्य रा᳘जा भक्षितो᳘ भवति॥
मूलम् - Weber
स᳘ भक्षयति ॥
यद᳘त्र रिप्त᳘ᳫं᳘ रसि᳘नः सुतस्ये᳘ति सुतासुत᳘योरेव र᳘सम᳘वरुन्द्धे यदि᳘न्द्रोऽअ᳘पिबछ᳘चीभिरिती᳘न्द्रोॗ ह्येतद᳘पिबछ᳘चीभिरहं त᳘दस्य म᳘नसा शिवेनेत्य᳘शिव-इव वा᳘ऽएष᳘ भक्षो यत्सु᳘रा ब्राह्मण᳘स्य शिव᳘मेॗवैनमेत᳘त्कृॗत्वात्म᳘न्धत्ते सो᳘मᳫं रा᳘जानमिह᳘ भक्षयामी᳘ति सो᳘म एॗवास्य रा᳘जा भक्षितो᳘ भवति ॥
मूलम् - विस्वरम्
स भक्षयति “यदत्र रिप्तं रसिनः सुतस्य”- इति । सुतासुतयोरेव रसमवरुंधे । “यदिंद्रो अपिबच्छचीभिः”- इति । इंद्रो ह्येतदपिबत् शचीभिः । “अहं तदस्य मनसा शिवेन”- इति । अशिव इव वा एष भक्षः । यत्सुरा ब्राह्मणस्य । शिवमेवैनमेतत् कृत्वा ऽऽत्मन्धत्ते । “सोमं राजानमिह भक्षयामि”- (वा. सं. १९ । ३५) इति । सोम एवास्य राजा भक्षितो भवति ॥ ५ ॥
हरिस्वामी
स भक्षयति । आश्विनं तावदध्वर्युः प्रतिप्रस्थाता आग्नीध्रः, सारस्वतं होता ब्रह्मा मैत्रावरुणः, ऐन्द्रं यजमान इति वचनात् तत्र यो नाम भक्षयति सः अनेन मन्त्रेणेति प्रत्येकं मन्त्रो वर्तत इत्येवैकवचनम् । सुतः सोमः, असुतः सुरा, तयो रसमवरुन्धे इति सुरायाः साक्षात्सोमस्याप्युपासनम् “यदत्र रिप्तं रसिनः सुतस्य” इति वचनात् । इन्द्रो हि एतत् सुरालिप्तं सोमलिप्तं सोममत्रापि पीतवान् । शचीभिः कर्मभिर्हेतुभूतैः । पुनरिन्द्रकर्तृकं कर्म करिष्यामीत्येवमर्थम् ॥ ५ ॥
Eggeling
- He drinks, with (Vāj. S. XIX, 35), ‘Whatever is mingled herewith of the juicy Soma,’–he thereby secures for him the essence (juice) of the effused (extracted) and the infused 20 (Soma);–‘which Indra drank with eagerness,’–for Indra, indeed, drank it with eagerness;–’that (essence) thereof (I drink) with propitious mind,’–for unpropitious, as it were, to a Brāhmaṇa is that drink, the Surā-liquor: having thus made it propitious, he takes it to himself;–‘King Soma I drink,’–it is thus king Soma that comes to be drunk by him.
मूलम् - Makoto
स᳓ भक्षयति ।॥
य᳓द् अ᳓त्र रिप्तँ᳓ रसि᳓नः सुत᳓स्ये᳓ति सुता᳓सुत᳓योर् एव᳓ र᳓सम् अ᳓वरुन्द्धे य᳓द् इ᳓न्द्रो अ᳓पिबच् छ᳓चीभिर् इ᳓ती᳓न्द्रो ह्य् ए᳙त᳓द् अ᳓पिबच् छ᳓चीभिर् अहं᳓ त᳓द् अस्य म᳓नसा᳓ शिवे᳓ने᳓त्य् अ᳓शिव इव वा᳓ एष᳓ भक्षो᳓ य᳓त् सु᳓रा᳓ ब्रा᳓ह्मण᳓स्य शिव᳓म् एवै᳙नम् एत᳓त् कृत्वा᳙त्म᳓न् धत्ते सो᳓मँ रा᳓जा᳓नम् इह᳓ भक्षया᳓मी᳓ति सो᳓म एवा᳙स्य रा᳓जा᳓ भक्षितो᳓ भवति ॥॥
०६
विश्वास-प्रस्तुतिः
त᳘द्धैत᳘द᳘न्ये ऽध्वर्य्य᳘वः॥
(वो) राज᳘न्यम्वा व्वै᳘श्यम्वा[[!!]] प᳘रिक्रीणन्ति स᳘ ऽएत᳘द्भक्षयिष्यती᳘ति त᳘दु त᳘था न᳘ कुर्य्याद्यो᳘ ह वा᳘ ऽएत᳘द्भक्ष᳘यति त᳘स्य हैवं᳘ पितॄ᳘न्पितामहा᳘नेष᳘ सोमपीथो᳘ ऽन्वेति द᳘क्षिणस्यै᳘वाग्नेस्त्रीन᳘ङ्गारान्निर्व्व᳘र्त्त्य बहिष्परिधि त᳘देता᳘भिर्व्व्या᳘हृतिभिर्ज्जुहुयात्॥
मूलम् - श्रीधरादि
त᳘द्धैत᳘द᳘न्ये ऽध्वर्य्य᳘वः॥
(वो) राज᳘न्यम्वा व्वै᳘श्यम्वा[[!!]] प᳘रिक्रीणन्ति स᳘ ऽएत᳘द्भक्षयिष्यती᳘ति त᳘दु त᳘था न᳘ कुर्य्याद्यो᳘ ह वा᳘ ऽएत᳘द्भक्ष᳘यति त᳘स्य हैवं᳘ पितॄ᳘न्पितामहा᳘नेष᳘ सोमपीथो᳘ ऽन्वेति द᳘क्षिणस्यै᳘वाग्नेस्त्रीन᳘ङ्गारान्निर्व्व᳘र्त्त्य बहिष्परिधि त᳘देता᳘भिर्व्व्या᳘हृतिभिर्ज्जुहुयात्॥
मूलम् - Weber
त᳘द्धैत᳘दॗन्येऽध्वर्य᳘वः ॥
राजॗन्यं वा वै᳘श्यं᳘ वा प᳘रिक्रीणन्ति स᳘ एत᳘द्भक्षयिष्यती᳘ति त᳘दु त᳘था न᳘ कुर्याद्यो᳘ ह वा᳘ऽएत᳘द्भक्ष᳘यति त᳘स्य हैवं᳘ पितॄ᳘न्पितामहा᳘नेष᳘ सोमपीथो᳘ऽन्वेति द᳘क्षिणस्यैॗवाग्नेस्त्रीन᳘ङ्गारान्निर्व᳘र्त्य बहिष्परिधि त᳘देता᳘भिर्व्या᳘हृतिभिर्जुहुयात् ॥
मूलम् - विस्वरम्
तद्धैतत् अन्ये ऽध्वर्यवः राजन्यं वा वैश्यं वा परिक्रीणंति । स एतत् भक्षयिष्यतीति । तदु तथा न कुर्यात् । यो ह वा एतद् भक्षयति । तस्य हैव पितॄन् पितामहान् एष सोमपीथो ऽन्वेति । दक्षिणस्यैवाग्नेस्त्रीनंगारान्निर्वर्त्य बहिष्परिधि । तदेताभिर्व्याहृतिभिर्जुहुयात् ॥ ६ ॥
हरिस्वामी
तद्धैतदिति । एतत् मन्त्रसुरापाने कर्तव्ये । यो ह वै एतत् हुतोच्छिष्टं भक्षयति । तस्यैवं पितृषु एष सोमपीथः सोमपानं मन्त्रवर्णिकं अस्त्येवेति । न च राजन्यवैश्ययोः सोमपीथो ऽस्तीत्यभिप्रायः । दक्षिणस्यैवाग्नेरेकदेशभूतानंगारान्निर्वर्त्य बहिःकृत्वा । पितृवद्दक्षिणोत्तरात् तत् तेषु एताभिर्व्याहृतिभिर्जुहुयात् । “पितृभ्यः स्वधायिभ्यः स्वधानमः” इत्याश्विनशेषमुत्तरार्द्धे जुहोति । एतेन च पितॄनेव यजमानस्य पितृलोके दधाति स्थापयति । पितामहेभ्य इति सारस्वतं मध्यमे । प्रपितामहेभ्य इत्यैन्द्रं दक्षिणे ॥ ६-७ ॥
Eggeling
- Here, now, other Adhvaryus hire some Rājanya or Vaiśya with the view that he shall drink that (liquor); but let him not do this; for, indeed, this Soma-drink falls to the share of the fathers and grandfathers of whoever drinks (the liquor 21) on
this occasion. Having shifted three coals of the southern fire to outside the enclosing-stones 22, he may there offer (of the liquor) with these (three) utterances (Vāj. S. XIX, 36):–
मूलम् - Makoto
त᳓द् धैत᳓द् अन्ये᳙ ऽध्वर्य᳓वः ।॥
रा᳓जन्यं᳙ वा᳓ वै᳓श्यं वा᳓ प᳓रिक्रीणन्ति स᳓ एत᳓द् भक्षयिष्यती᳓ति त᳓द् उ त᳓था᳓ न᳓ कुर्या᳓द् यो᳓ ह वा᳓ एत᳓द् भक्ष᳓यति त᳓स्य हैवं᳓ पित्क़्;न् पिता᳓महा᳓न् एष᳓ सोमपीथो᳓ ऽन्वेति द᳓क्षिणस्यैवा᳙ग्ने᳓स् त्री᳓न् अ᳓ङ्गा᳓रा᳓न् निर्व᳓र्त्य बहिष्परिधि᳓ त᳓द् एता᳓भिर् व्या᳓हृतिभिर् जुहुया᳓त् ॥॥
०७
विश्वास-प्रस्तुतिः
(त्पि) पितृ᳘भ्यः स्वधायि᳘भ्यः स्वधा न᳘म ऽइ᳘ति॥
पितॄ᳘नेव᳘ पितृलोके᳘ स्वधा᳘यान्दधाति पितामहे᳘भ्यः स्वधायि᳘भ्यः स्वधा न᳘म ऽइ᳘ति पितामहा᳘नेव᳘ पितामहलोके᳘ स्वधा᳘यान्दधाति प्प्र᳘पितामहेभ्यः स्वधायि᳘भ्यः स्वधा न᳘म ऽइ᳘ति प्र᳘पितामहानेव᳘ प्प्रपितामहलोके᳘ स्वधा᳘यान्दधाति॥
मूलम् - श्रीधरादि
(त्पि) पितृ᳘भ्यः स्वधायि᳘भ्यः स्वधा न᳘म ऽइ᳘ति॥
पितॄ᳘नेव᳘ पितृलोके᳘ स्वधा᳘यान्दधाति पितामहे᳘भ्यः स्वधायि᳘भ्यः स्वधा न᳘म ऽइ᳘ति पितामहा᳘नेव᳘ पितामहलोके᳘ स्वधा᳘यान्दधाति प्प्र᳘पितामहेभ्यः स्वधायि᳘भ्यः स्वधा न᳘म ऽइ᳘ति प्र᳘पितामहानेव᳘ प्प्रपितामहलोके᳘ स्वधा᳘यान्दधाति॥
मूलम् - Weber
पितृ᳘भ्यः स्वधायि᳘भ्यः स्वधा न᳘म इ᳘ति ॥
पितॄ᳘नेव᳘ पितृलोके᳘ स्वधा᳘यां दधाति पितामहे᳘भ्यः स्वधायि᳘भ्यः स्वधा न᳘म इ᳘ति पितामहा᳘नेव᳘ पितामहलोके᳘ स्वधा᳘यां दधाति प्र᳘पितामहेभ्यः स्वधायि᳘भ्यः स्वधा न᳘म इ᳘ति प्र᳘पितामहानेव᳘ प्रपितामहलोके᳘ स्वधा᳘यां दधाति ॥
मूलम् - विस्वरम्
“पितृभ्यः स्वधायिभ्यः स्वधा नमः”- (वा० सं० १९ । ३६) इति । पितॄनेव पितृलोके स्वधायां दधाति । “पितामहेभ्यः स्वधायिभ्यः स्वधा नमः”- इति । पितामहानेव पितामहलोके स्वधायां दधाति । “प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः”- इति । प्रपितामहानेव प्रपितामहलोके स्वधायां दधाति ॥ ७ ॥
हरिस्वामी
[व्याख्यानं षष्ठे]
Eggeling
- ‘To the Svadhā-loving Fathers be Svadhā, adoration!’ he thereby places the Fathers with the Svadhā in the world of the Fathers.–‘To the Svadhā-loving grandfathers he Svadhā, adoration!’ he thereby places the grandfathers with the Svadhā in the world of the grandfathers.–‘To the Svadhā-loving great-grandfathers be Svadhā, adoration!’ he thereby places the great-grandfathers with the Svadhā in the world of the great-grandfathers.
मूलम् - Makoto
पितृ᳓भ्यः स्वधा᳓यि᳓भ्यः स्वधा᳓ न᳓म इ᳓ति ।॥
पित्क़्;न् एव᳓ पितृलोके᳓ स्वधा᳓यां᳓ दधा᳓ति पिता᳓महे᳓भ्यः स्वधा᳓यि᳓भ्यः स्वधा᳓ न᳓म इ᳓ति पिता᳓महा᳓न् एव᳓ पिता᳓महलोके᳓ स्वधा᳓यां᳓ दधा᳓ति प्र᳓पिता᳓महेभ्यः स्वधा᳓यि᳓भ्यः स्वधा᳓ न᳓म इ᳓ति प्र᳓पिता᳓महा᳓न् एव᳓ प्रपिता᳓महलोके᳓ स्वधा᳓यां᳓ दधा᳓ति ॥॥
०८
विश्वास-प्रस्तुतिः
(त्य) अप᳘ ऽआनी᳘य नि᳘नयति॥
(त्य᳘) अ᳘क्षन्पित᳘र ऽइ᳘त्यन्ना᳘द्यमे᳘वैषु दधात्य᳘मीमदन्त पित᳘र ऽइ᳘ति मद᳘यत्ये᳘वैनान᳘तीतृपन्त पित᳘र ऽइ᳘ति तर्प्प᳘यत्ये᳘वैनान्पि᳘तरः शु᳘न्धध्वमि᳘त्यनुपूर्व्व᳘मे᳘वैनान्त्स᳘र्वान्पावयति पवि᳘त्रम्वै᳘ सौत्रामणी᳘॥
मूलम् - श्रीधरादि
(त्य) अप᳘ ऽआनी᳘य नि᳘नयति॥
(त्य᳘) अ᳘क्षन्पित᳘र ऽइ᳘त्यन्ना᳘द्यमे᳘वैषु दधात्य᳘मीमदन्त पित᳘र ऽइ᳘ति मद᳘यत्ये᳘वैनान᳘तीतृपन्त पित᳘र ऽइ᳘ति तर्प्प᳘यत्ये᳘वैनान्पि᳘तरः शु᳘न्धध्वमि᳘त्यनुपूर्व्व᳘मे᳘वैनान्त्स᳘र्वान्पावयति पवि᳘त्रम्वै᳘ सौत्रामणी᳘॥
मूलम् - Weber
अप᳘ आनी᳘य नि᳘नयति ॥
अ᳘क्षन्पित᳘र इ᳘त्यन्ना᳘द्यमेॗवैषु दधात्य᳘मीमदन्त पित᳘र इ᳘ति मद᳘यत्येॗवैनान᳘तीतृपन्त पित᳘र इ᳘ति तर्प᳘यत्येॗवैनान्पि᳘तरः शु᳘न्धध्वमि᳘त्यनुपूर्व᳘मेॗवैनान्त्स᳘र्वान्पावयति पवि᳘त्रं वै᳘ सौत्रामणी᳘॥
मूलम् - विस्वरम्
अप आनीय निनयति । “अक्षन्पितरः”- इति । अन्नाद्यमेवैषु दधाति । “अमीमदन्त पितरः”- इति । मदयत्येवैनान् । “अतीतृपन्त पितरः”- इति । तर्पयत्येवैनान् । “पितरः शुंधध्वम्”- (वा० सं० १९ । ३६)- इति अनुपूर्वमेवैनान् सर्वान्पावयति । पवित्रं वै सौत्रामणी ॥ ८ ॥
हरिस्वामी
अप आनीय ग्रहपात्रेषु । ततस्तत् होमदेशे च यथाक्रमं निनयति । अन्नाद्यमेवैषु दधातीत्येतदन्नस्यादनविषयत्वादपक्वं नित्यमनेनैवान्नाद्यमुपात्तमित्यभिप्रायः । पितरः शुंधध्वमिति जपति क्रियांतरस्यानुपदेशात् । अनुपूर्वमेव एनान् पित्रादीन् पावयति तर्पयति इति ॥ ८ ॥
Eggeling
- Having fetched water, he pours it (into the cups) with, ‘The Fathers have drunk:’ he thereby bestows food on them;–’the Fathers have enjoyed themselves:’ he thereby causes them to enjoy themselves;–’the Fathers have become satisfied:’ he thereby satisfies them;–‘may the Fathers cleanse themselves!’ he thereby purifies all of them from the first downwards, for the Sautrāmaṇī is a means of purification 23.
मूलम् - Makoto
अप᳓ आ᳓नी᳓य नि᳓नयति ।॥
अ᳓क्षन् पित᳓र इ᳓त्य् अन्ना᳓द्यम् एवै᳙षु दधा᳓त्य् अ᳓मीमदन्त पित᳓र इ᳓ति मद᳓यत्य् एवै᳙ना᳓न् अ᳓तीतृपन्त पित᳓र इ᳓ति तर्प᳓यत्य् एवै᳙ना᳓न् पि᳓तरः शु᳓न्धध्वम् इ᳓त्य् अनुपूर्व᳓म् एवै᳙ना᳓न्त् स᳓र्वा᳓न् पा᳓वयति पवि᳓त्रं वै᳓ सौत्रा᳓मणी᳓ ॥॥
०९
विश्वास-प्रस्तुतिः
त्रिभिः᳘ पवि᳘त्रैः पावयन्ति॥
त्र᳘यो वा᳘ इमे᳘ लोका᳘ ऽएभि᳘रे᳘वैनं लोकैः᳘ पुनन्ति॥
मूलम् - श्रीधरादि
त्रिभिः᳘ पवि᳘त्रैः पावयन्ति॥
त्र᳘यो वा᳘ इमे᳘ लोका᳘ ऽएभि᳘रे᳘वैनं लोकैः᳘ पुनन्ति॥
मूलम् - Weber
त्रिभिः᳘ पवि᳘त्रैः पावयन्ति ॥
त्र᳘यो वा᳘ऽइमे᳘ लोका᳘ एभि᳘रेॗवैनं लोकैः᳘ पुनन्ति ॥
मूलम् - विस्वरम्
त्रिभिः पवित्रैः पावयन्ति । त्रयो वा इमे लोकाः । एभिरेवैनं लोकैः पुनन्ति ॥ ९ ॥
हरिस्वामी
त्रिभिः पवित्रैः । गो ऽश्ववालपवित्रेण, अजाविलोमपवित्रेण, हिरण्येन, इत्येतैस्त्रिभिः पवित्रैः । परिस्रुच्छेषं शतातृण्णायां दक्षिणे ऽग्नौ कार्यमाणं पुनस्तदनुकारेण यजमानं पावयन्ति अध्वर्य्वादयः सहचारिणः पावमानीभिः । “पुनन्तु मा पितरः”- (वा. सं. १९ । ३७-४४) इत्याभिः सहकारिणः पावयन्ति । अध्वर्युर्वाचयत्येनं पावमानम् । (कवनवद्व्रामनेक्षमाणः ?) ॥ ९ ॥ १० ॥
Eggeling
- By three implements of purification he purifies,–three in number are these worlds: by means of these worlds he thus purifies him.
मूलम् - Makoto
त्रिभिः᳓ पवि᳓त्रैः पा᳓वयन्ति ।॥
त्र᳓यो वा᳓ इमे᳓ लोकाः᳓ एभि᳓र् एवै᳙नं लोकैः᳓ पुनन्ति ॥॥
१०
विश्वास-प्रस्तुतिः
पावमानी᳘भिः पावयन्ति॥
पवि᳘त्रम्वै᳘ पावमा᳘न्यः पवि᳘त्रेणै᳘वैनम्पुनन्ति॥
मूलम् - श्रीधरादि
पावमानी᳘भिः पावयन्ति॥
पवि᳘त्रम्वै᳘ पावमा᳘न्यः पवि᳘त्रेणै᳘वैनम्पुनन्ति॥
मूलम् - Weber
पावमानी᳘भिः पावयन्ति ॥
पवि᳘त्रं वै᳘ पावमाॗन्यः पवि᳘त्रेणैॗवैनं पुनन्ति ॥
मूलम् - विस्वरम्
पावमानीभिः पावयन्ति । पवित्रं वै पावमान्यः । पवित्रेणैवैनं पुनन्ति ॥ १० ॥
हरिस्वामी
[व्याख्यानं नवमे]
Eggeling
- With ‘pāvamānī 24 (verses)’ they purify; for pāvamānīs are a means of purification: by a means of purification they thus purify him.
मूलम् - Makoto
पा᳓वमा᳓नी᳓भिः पा᳓वयन्ति ।॥
पवि᳓त्रं वै᳓ पा᳓वमा᳓न्यः᳙ पवि᳓त्रेणैवै᳙नं पुनन्ति ॥॥
११
विश्वास-प्रस्तुतिः
तिसृ᳘भिस्तिसृभिः पावयन्ति॥
त्र᳘यो वै᳘ प्प्राणाः᳘ प्प्राण᳘ ऽउदानो᳘ व्व्यानस्तै᳘रे᳘वै᳘नम्पुनन्ति॥
मूलम् - श्रीधरादि
तिसृ᳘भिस्तिसृभिः पावयन्ति॥
त्र᳘यो वै᳘ प्प्राणाः᳘ प्प्राण᳘ ऽउदानो᳘ व्व्यानस्तै᳘रे᳘वै᳘नम्पुनन्ति॥
मूलम् - Weber
तिसृ᳘भिस्तिसृभिः पावयन्ति ॥
त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ उदानो᳘ व्यानस्तै᳘रेॗवैनं 25 पुनन्ति ॥
मूलम् - विस्वरम्
तिसृभिस्तिसृभिः पावयन्ति । त्रयो वै प्राणाः । प्राण उदानो व्यानः । तैरेवैनं पुनन्ति ॥ ११ ॥
हरिस्वामी
तिसृभिस्तिसृभिर्ऋग्भिः पावयन्तीत्यनुवाद एवाभिप्रायः । नवभिः प्राणेषु पूतं पूतत्वेन प्रतिष्ठापयन्ति । ते अपि इन्द्रियसंस्कृताः प्राणात्मको हि भवंति । पवित्रेण अजाविलोममयेन वाक्यशेषात् । वालेन गो ऽश्ववालेन वाक्यशेषात् । हिरण्येन एतानि त्रीण्यन्तर्द्धाय सुरां क्षारयन्तो वाचयन्ति । सुरया पावयन्ति । सुरया यजमानस्य प्रकृतपूतया वालपवित्रहिरण्यैः पूयमानया यजमानं वाचयन्ति । बल्कसेन किदिसेन विविच्यते । तस्मात् पृथक् भवति ॥ ११-१६ ॥
Eggeling
- With three (verses) they purify each time,–there are three vital airs, the in-breathing, the up-breathing, and the through-breathing: it is by means of these that they purify him.
मूलम् - Makoto
तिसृ᳓भिस्तिसृभिः पा᳓वयन्ति ।॥
त्र᳓यो वै᳓ प्रा᳓णाः᳓ प्रा᳓ण᳓ उदा᳓नो᳓ व्या᳓नस् तै᳓र् एवै᳙नं पुनन्ति ॥॥
१२
विश्वास-प्रस्तुतिः
नव᳘भिः पावयन्ति॥
न᳘व वै᳘ प्प्राणाः᳘ प्प्राणै᳘रे᳘वैनम्पुनन्ति प्प्राणे᳘षु पुनः पू᳘तम्प्र᳘तिष्ठापयन्ति॥
मूलम् - श्रीधरादि
नव᳘भिः पावयन्ति॥
न᳘व वै᳘ प्प्राणाः᳘ प्प्राणै᳘रे᳘वैनम्पुनन्ति प्प्राणे᳘षु पुनः पू᳘तम्प्र᳘तिष्ठापयन्ति॥
मूलम् - Weber
नव᳘भिः पावयन्ति ॥
न᳘व वै᳘ प्राणाः᳘ प्राणै᳘रेॗवैनं पुनन्ति प्राणे᳘षु पुनः पू᳘तं प्र᳘तिष्ठापयन्ति ॥
मूलम् - विस्वरम्
नवभिः 26 पावयन्ति । नव वै प्राणाः । प्राणैवैनं पुनन्ति । प्राणेषु पुनः पूतं प्रतिष्ठापयन्ति ॥ १२ ॥
हरिस्वामी
[व्याख्यानं एकादशे]
Eggeling
- With nine (verses) they purify,–there are nine vital airs: by means of the vital airs they purify him, and when purified they establish him again in the vital airs.
मूलम् - Makoto
नव᳓भिः पा᳓वयन्ति ।॥
न᳓व वै᳓ प्रा᳓णाः᳓ प्रा᳓णै᳓र् एवै᳙नं पुनन्ति प्रा᳓णे᳓षु पुनः᳓ पूतं᳓ प्र᳓तिष्ठा᳓पयन्ति ॥॥
१३
विश्वास-प्रस्तुतिः
पवि᳘त्रेण पावयन्ति॥
(न्त्य) अजाविक᳘स्य वा᳘ ऽएत᳘द्रूपं य᳘त्पवि᳘त्रमजाविके᳘नै᳘वैनम्पुनन्ति॥
मूलम् - श्रीधरादि
पवि᳘त्रेण पावयन्ति॥
(न्त्य) अजाविक᳘स्य वा᳘ ऽएत᳘द्रूपं य᳘त्पवि᳘त्रमजाविके᳘नै᳘वैनम्पुनन्ति॥
मूलम् - Weber
पवि᳘त्रेण पावयन्ति ॥
अजाविक᳘स्य वा᳘ऽएत᳘द्रूपं य᳘त्पवि᳘त्रमजाविके᳘नैॗवैनं पुनन्ति ॥
मूलम् - विस्वरम्
पवित्रेण पावयन्ति । अजाविकस्य वा एतद् रूपम् । यत् पवित्रम् । अजाविकेनैवैनं पुनन्ति ॥ १३ ॥
हरिस्वामी
[व्याख्यानं एकादशे]
Eggeling
- They purify by means of a (goat’s hair and sheep’s wool) strainer,–such a strainer doubtless is a form (symbol) of goats and sheep: by means of goats and sheep they thus purify him.
मूलम् - Makoto
पवि᳓त्रेण पा᳓वयन्ति ।॥
अजा᳓विक᳓स्य वा᳓ एत᳓द् रूपं᳓ य᳓त् पवि᳓त्रम् अजा᳓विके᳓नैवै᳙नं पुनन्ति ॥॥
१४
विश्वास-प्रस्तुतिः
व्वा᳘लेन पावयन्ति॥
गो ऽश्व᳘स्य वा᳘ ऽएत᳘द्रूपं यद्वा᳘लो गो ऽश्वे᳘नै᳘वैनम्पुनन्ति॥
मूलम् - श्रीधरादि
व्वा᳘लेन पावयन्ति॥
गो ऽश्व᳘स्य वा᳘ ऽएत᳘द्रूपं यद्वा᳘लो गो ऽश्वे᳘नै᳘वैनम्पुनन्ति॥
मूलम् - Weber
वा᳘लेन पावयन्ति ॥
गोऽश्व᳘स्य वा᳘ऽएत᳘द्रूपं यद्वा᳘लो गोऽश्वे᳘नैॗवैनं पुनन्ति ॥
मूलम् - विस्वरम्
वालेन पावयन्ति । गोश्वस्य वा एतद् रूपम् । यद्वालः । गोश्वेनैवैनं पुनन्ति ॥ १४ ॥
हरिस्वामी
[व्याख्यानं एकादशे]
Eggeling
- They purify by means of a tail-whisk,–such a tail-whisk doubtless is a form of kine and horses: with kine and horses they thus purify him.
मूलम् - Makoto
वा᳓लेन पा᳓वयन्ति ।॥
गोऽश्व᳓स्य वा᳓ एत᳓द् रूपं᳓ य᳓द् वा᳓लो गोऽश्वे᳓नैवै᳙नं पुनन्ति ॥॥
१५
विश्वास-प्रस्तुतिः
हि᳘रण्येन पावयन्ति॥
देवा᳘नाम्वा᳘ ऽएत᳘द्रूपं यद्धि᳘रण्यन्देवा᳘नामे᳘वैनᳫँ᳭ रूपे᳘ण पुनन्ति॥
मूलम् - श्रीधरादि
हि᳘रण्येन पावयन्ति॥
देवा᳘नाम्वा᳘ ऽएत᳘द्रूपं यद्धि᳘रण्यन्देवा᳘नामे᳘वैनᳫँ᳭ रूपे᳘ण पुनन्ति॥
मूलम् - Weber
हि᳘रण्येन पावयन्ति ॥
देवा᳘नां वा᳘ऽएत᳘द्रूपं यद्धि᳘रण्यं देवा᳘नामेॗवैनं रूपे᳘ण पुनन्ति ॥
मूलम् - विस्वरम्
हिरण्येन पावयन्ति । देवानां वा एतद्रूपम् । यद्धिरण्यम् । देवानामेवैनं रूपेण पुनन्ति ॥ १५ ॥
हरिस्वामी
[व्याख्यानं एकादशे]
Eggeling
- They purify by means of gold,–that (metal), to wit, gold, doubtless is a form of the gods: by means of a form of the gods they thus purify him.
मूलम् - Makoto
हि᳓रण्येन पा᳓वयन्ति ।॥
देवा᳓नां᳓ वा᳓ एत᳓द् रूपं᳓ य᳓द् धि᳓रण्यं देवा᳓ना᳓म् एवै᳙नं रूपे᳓ण पुनन्ति ॥॥
१६
विश्वास-प्रस्तुतिः
सु᳘रया पावयन्ति॥
सु᳘रा हि᳘ पूता᳘ पूत᳘यै᳘वैनम्पुनन्ति तद्य᳘था सुरा[[!!]] पूय᳘माना ब᳘ल्कसेन व्विविच्य᳘त ऽएव᳘मे᳘वैतद्य᳘जमानः स᳘र्व्वस्मात्पाप्म᳘नो नि᳘र्म्मुच्यते य᳘ ऽएवं᳘ व्विद्वा᳘न्त्सौत्रामण्या य᳘जते यो᳘ वैत᳘देवम्वे᳘द॥
मूलम् - श्रीधरादि
सु᳘रया पावयन्ति॥
सु᳘रा हि᳘ पूता᳘ पूत᳘यै᳘वैनम्पुनन्ति तद्य᳘था सुरा[[!!]] पूय᳘माना ब᳘ल्कसेन व्विविच्य᳘त ऽएव᳘मे᳘वैतद्य᳘जमानः स᳘र्व्वस्मात्पाप्म᳘नो नि᳘र्म्मुच्यते य᳘ ऽएवं᳘ व्विद्वा᳘न्त्सौत्रामण्या य᳘जते यो᳘ वैत᳘देवम्वे᳘द॥
मूलम् - Weber
सु᳘रया पावयन्ति ॥
सु᳘रा हि᳘ पूता᳘ पूत᳘यैॗवैनं पुनन्ति तद्य᳘था सु᳘रा पूय᳘माना ब᳘ल्कसेन विविच्य᳘तऽएव᳘मेॗवैतद्य᳘जमानः स᳘र्वस्मात्पाप्म᳘नो नि᳘र्मुच्यते य᳘ एवं᳘ विद्वा᳘न्त्सौत्रामण्या य᳘जते यो᳘ वैत᳘देवं वे᳘द ॥
मूलम् - विस्वरम्
सुरया पावयन्ति । सुरा हि पूता । पूतयैवैनं पुनन्ति । तद्यथा सुरा पूयमाना बल्कसेन विविच्यते । एवमेवैतद् यजमानः सर्वस्मात् पाप्मनो निर्मुच्यते । य एवं विद्वान् सौत्रामण्या यजते । यो वैतदेवं वेद ॥ १६ ॥
हरिस्वामी
[व्याख्यानं एकादशे]
Eggeling
- They purify him by means of Surā-liquor, for the Surā is purified: they thus purify him by that which is purified; and even as the liquor, whilst being purified, is cleared of impure matter 27, so is that Sacrificer thereby freed from all evil who, knowing this, performs the Sautrāmaṇī, or who even knows this.
मूलम् - Makoto
सु᳓रया᳓ पा᳓वयन्ति ।॥
सु᳓रा᳓ हि᳓ पूता᳓ पूत᳓यैवै᳙नं पुनन्ति त᳓द् य᳓था᳓ सु᳓रा᳓ पूय᳓मा᳓ना᳓ ब᳓लसेन विविच्य᳓त एव᳓म् एवै᳙त᳓द् य᳓जमा᳓नः स᳓र्वस्मा᳓त् पा᳓प्म᳓नो नि᳓मुच्यते य᳓ एवं᳓ विद्वा᳓न्त् सौत्रा᳓मण्या᳓ य᳓जते यो᳓ वैत᳓द् एवं᳓ वे᳓द ॥॥
१७
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्य्या) याजयित᳘व्यᳫँ᳭ सौत्रामण्या ३ न᳘ याजयितव्या३मित्य᳘नन्तराय᳘ᳫँ᳘ ह्ये᳘वास्मात्स᳘र्व्वम्पाप्मा᳘नमपघ्नन्ती᳘ति त᳘दु ह स्माह रेवो᳘त्तरास्थप᳘तिः पाटव᳘श्चाक्रो᳘ ऽपि प्प्रदा᳘नम्प्रदा᳘य याजयित᳘व्यमे᳘वात्मा वै᳘ यज्ञ᳘स्य य᳘जमानो᳘ ऽङ्गान्यृत्वि᳘जो य᳘त्र वा᳘ ऽआत्मा᳘ पूतः᳘ पूता᳘नि तत्रा᳘ङ्गान्युभ᳘य ऽएव᳘ पुन᳘त ऽउभ᳘ये पाप्मा᳘नम᳘पघ्नते त᳘स्माद᳘पि प्प्रदा᳘नम्प्रदा᳘य यजयित᳘व्यमेवे᳘ति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्य्या) याजयित᳘व्यᳫँ᳭ सौत्रामण्या ३ न᳘ याजयितव्या३मित्य᳘नन्तराय᳘ᳫँ᳘ ह्ये᳘वास्मात्स᳘र्व्वम्पाप्मा᳘नमपघ्नन्ती᳘ति त᳘दु ह स्माह रेवो᳘त्तरास्थप᳘तिः पाटव᳘श्चाक्रो᳘ ऽपि प्प्रदा᳘नम्प्रदा᳘य याजयित᳘व्यमे᳘वात्मा वै᳘ यज्ञ᳘स्य य᳘जमानो᳘ ऽङ्गान्यृत्वि᳘जो य᳘त्र वा᳘ ऽआत्मा᳘ पूतः᳘ पूता᳘नि तत्रा᳘ङ्गान्युभ᳘य ऽएव᳘ पुन᳘त ऽउभ᳘ये पाप्मा᳘नम᳘पघ्नते त᳘स्माद᳘पि प्प्रदा᳘नम्प्रदा᳘य यजयित᳘व्यमेवे᳘ति॥
मूलम् - Weber
त᳘दाहुः ॥
याजयित᳘व्यᳫं सौत्रामण्या३ न᳘ याजयितव्या३मित्य᳘नन्तरायॗᳫंॗ ह्येॗवास्मात्स᳘र्वं पाप्मा᳘नमपघ्नन्ती᳘ति त᳘दु ह स्माह रेवो᳘त्तरा स्थप᳘तिः पाटव᳘श्चाक्रो᳘ऽपि प्रदा᳘नं प्रदा᳘य याजयित᳘व्यमेॗवात्मा वै᳘ यज्ञ᳘स्य य᳘जमानो᳘ऽङ्गान्यृत्वि᳘जो य᳘त्र वा᳘ऽआत्मा᳘ 28 पूतः᳘ पूता᳘नि तत्रा᳘ङ्गान्युभ᳘यऽएव᳘ पुन᳘तऽउभ᳘ये पाप्मा᳘नम᳘पघ्नते त᳘स्माद᳘पि प्रदा᳘नं प्रदा᳘य यजयित᳘व्यमेवे᳘ति ॥
मूलम् - विस्वरम्
तदाहुः- याजयितव्यं सौत्रामण्या ३ न याजयितव्या ३मिति । अनन्तरायं ह्येवास्य सर्वं पाप्मानमपघ्नन्तीति । तदु ह स्माह रेवोत्तरास्थपतिः पाटवश्चाक्रो ऽपि । प्रदानं प्रदाय याजयितव्यमेव । आत्मा वै यज्ञस्य यजमानः । अंगानि ऋत्विजः । यत्र वा आत्मा पूतः । पूतानि तत्रांगानि । उभय एव पुनते । उभये पाप्मानमपघ्नते । तस्मादपि प्रदानं प्रदाय याजयितव्यमेवेति ॥ १७ ॥
हरिस्वामी
तदाहुर्याजयितव्यमिति । अनन्तरायं ह्येवास्य अन्तरायं न भवतीत्यनन्तरायं किंचिदपि पाप्मानं न विमुंचयन्तीत्यर्थः । यस्माच्चास्य यजमानस्य सर्वं पाप्मानमपघ्नन्ति सौत्रामण्या याजयन्तः । तस्मात्त्वनया याजयितव्यम् । पावयतामालेयस्यावश्यंभावित्वादित्यभिप्रायः । तस्मादुत्तरत्र विचारे आह स्म उक्तवान् । रेवोत्तराश्चक्रिः स्थपतिः बृहस्पतिसवयाजयितुः पटोरपत्यं चाक्रः । प्रदानमपि प्रदाय याजयितव्यमेवेत्युत्तरपक्षो विद्वद्विषयः पूर्वस्तु केवलयाज्ञिकविषयः ॥ १७ ॥
Eggeling
- Here, now, they ask, ‘Is the Sautrāmaṇī to be performed, or is it not to be performed, seeing that (in any case) they continuously repel from him all evil?’ As to this Revottaras Sthapati Pāṭava Kākra once said, ‘Even after making the surrender, one ought certainly to perform the sacrifice; for the Sacrificer is the body of the sacrifice, and the officiating priests are its limbs; and wherever the body is pure there the limbs also are pure; both of them, indeed, purify him, and both of them repel the evil from him: therefore even after making the surrender (of one’s own self) one ought certainly to sacrifice.’
मूलम् - Makoto
त᳓द् आ᳓हुः ।॥
या᳓जयित᳓व्यँ सौत्रा᳓मण्या᳓३ न᳓ या᳓जयित᳓व्या᳓३म् इ᳓त्य् अ᳓नन्तरा᳓यँ ह्य् ए᳙वा᳙स्मा᳓त् स᳓र्वं पा᳓प्मा᳓नम् अपघ्न᳓न्ती᳓ति त᳓द् उ ह स्मा᳓ह रेवो᳓त्तरा᳓ स्थप᳓तिः पा᳓टव᳓श् चा᳓क्रो᳓ ऽपि प्रदा᳓नं प्रदा᳓य या᳓जयित᳓व्यम् एवा᳙त्मा᳓ वै᳓ यज्ञ᳓स्य य᳓जमा᳓नो᳓ ऽङ्गा᳓न्य् ऋत्वि᳓जो य᳓त्र वा᳓ आ᳓त्मा᳓ पूतः᳓ पूता᳓नि तत्रा᳓ङ्गा᳓न्य् उभ᳓य एव᳓ पुन᳓त उभ᳓ये पा᳓प्मा᳓नम् अ᳓पघ्नते त᳓स्मा᳓द् अ᳓प प्रदा᳓नं प्रदा᳓य यजयित᳓व्यम् एवे᳓ति ॥॥
१८
विश्वास-प्रस्तुतिः
पितृलोकम्वा᳘ ऽए᳘ते ऽन्व᳘वयन्ति॥
ये द᳘क्षिणे ऽग्नौ च᳘रन्त्याज्ज्याहुति᳘ञ्जुहोति यज्ञो वा ऽआ᳘ज्यं यज्ञा᳘देव[[!!]] यज्ञे प्र᳘तितिष्ठन्ति॥
मूलम् - श्रीधरादि
पितृलोकम्वा᳘ ऽए᳘ते ऽन्व᳘वयन्ति॥
ये द᳘क्षिणे ऽग्नौ च᳘रन्त्याज्ज्याहुति᳘ञ्जुहोति यज्ञो वा ऽआ᳘ज्यं यज्ञा᳘देव[[!!]] यज्ञे प्र᳘तितिष्ठन्ति॥
मूलम् - Weber
पितृलोकं वा᳘ऽएॗतेऽन्व᳘वयन्ति ॥
ये द᳘क्षिणेऽग्नौ च᳘रन्त्याज्याहुतिं᳘ जुहोति यज्ञो वाऽआ᳘ज्यं यज्ञा᳘देव᳘ यज्ञे प्र᳘तितिष्ठन्ति ॥
मूलम् - विस्वरम्
पितृलोकं वा एते ऽन्ववयन्ति । ये दक्षिणे ऽग्नौ चरन्ति । आज्याहुतिं जुहोति । यज्ञो वा आज्यम् । यज्ञादेव यज्ञे प्रतितिष्ठन्ति ॥ १८ ॥
हरिस्वामी
‘पितृलोकं’ ये दक्षिणे ऽग्नौ चरन्ति ते पितृलोकमनुयन्ति दक्षिणात्वसामान्यात् । यज्ञो वै यज्ञसाधनं वै आज्यम् तत् हुत्वा । प्रत्यायन्त यज्ञादेवाज्याहुतिमदत्त । यज्ञादेव यज्ञे प्रतितिष्ठन्ति ॥ १८ ॥
Eggeling
- But, indeed, those who perform at the southern fire, go down to the world of the Fathers. He offers an oblation of ghee: ghee being (material of) sacrifice, it is by sacrifice that they establish themselves in the sacrifice.
मूलम् - Makoto
पितृलोकं᳓ वा᳓ एते᳙ ऽन्व᳓वयन्ति ।॥
ये᳓ द᳓क्षिणे ऽग्नौ᳓ च᳓रन्त्य् आ᳓ज्या᳓हुतिं᳓ जुहोति यज्ञो᳓ वा᳓ आ᳓ज्यं यज्ञा᳓द् एव᳓ यज्ञे᳓ प्र᳓तितिष्ठन्ति ॥॥
१९
विश्वास-प्रस्तुतिः
स᳘ जुहोति॥
ये᳘ समानाः स᳘मनसः पित᳘रो यमरा᳘ज्ये। ते᳘षां लोकः᳘ स्वधा न᳘मो यज्ञो᳘ देवे᳘षु कल्पतामि᳘ति पितॄ᳘नेव᳘ यमे प᳘रिदधात्य᳘थो पितृलोक᳘मेव᳘ जयति स᳘र्व्वे यज्ञोपवीता᳘नि कृत्वो᳘त्तरमग्नि᳘मुपसमा᳘यन्त्ययम्वै᳘ लोक ऽउ᳘त्तरो ऽग्नि᳘रस्मि᳘न्नेव᳘ लोके प्र᳘तितिष्ठन्त्याज्याहुति᳘ञ्जुहोति यज्ञो वा ऽआ᳘ज्यं[[!!]] यज्ञा᳘देव᳘ यज्ञे प्र᳘तितिष्ठन्ति॥
मूलम् - श्रीधरादि
स᳘ जुहोति॥
ये᳘ समानाः स᳘मनसः पित᳘रो यमरा᳘ज्ये। ते᳘षां लोकः᳘ स्वधा न᳘मो यज्ञो᳘ देवे᳘षु कल्पतामि᳘ति पितॄ᳘नेव᳘ यमे प᳘रिदधात्य᳘थो पितृलोक᳘मेव᳘ जयति स᳘र्व्वे यज्ञोपवीता᳘नि कृत्वो᳘त्तरमग्नि᳘मुपसमा᳘यन्त्ययम्वै᳘ लोक ऽउ᳘त्तरो ऽग्नि᳘रस्मि᳘न्नेव᳘ लोके प्र᳘तितिष्ठन्त्याज्याहुति᳘ञ्जुहोति यज्ञो वा ऽआ᳘ज्यं[[!!]] यज्ञा᳘देव᳘ यज्ञे प्र᳘तितिष्ठन्ति॥
मूलम् - Weber
स᳘ जुहोति ॥
ये᳘ समानाः स᳘मनसः पित᳘रो यमरा᳘ज्ये ते᳘षां लोकः᳘ स्वधा न᳘मो यज्ञो᳘ देवे᳘षु कल्पतामि᳘ति पितॄ᳘नेव᳘ यमे प᳘रिददात्य᳘थो पितृलोक᳘मेव᳘ जयति स᳘र्वे यज्ञोपवीता᳘नि कृत्वो᳘त्तरमग्नि᳘मुपसमा᳘यन्त्ययं वै᳘ लोक उ᳘त्तरोऽग्नि᳘रस्मि᳘न्नेव᳘ लोके प्र᳘तितिष्ठन्त्याज्याहुतिं᳘ जुहोति यज्ञो वा᳘ऽआ᳘ज्यं यज्ञा᳘देव᳘ यज्ञे प्र᳘तितिष्ठन्ति ॥
मूलम् - विस्वरम्
स जुहोति । “ये समानाः समनसः पितरो यमराज्ये । तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम्”- (वा० सं० १९ । ४५) इति । पितॄनेव यमे परिदधाति । अथो पितृलोकमेव जयति । सर्वे यज्ञोपवीतानि कृत्वा उत्तरमग्निमुपसमायन्ति । अयं वै लोक उत्तरो ऽग्निः । अस्मिन्नेव लोके प्रतितिष्ठन्ति । आज्याहुतिं जुहोति । यज्ञो वा आज्यम् । यज्ञादेव यज्ञे प्रतितिष्ठन्ति ॥ १९ ॥
हरिस्वामी
स जुहोति । पितॄनेवानया ऽऽहुत्या तर्पयित्वा । यमे यमाय परिदधाति परित्राणायार्पयति । अथो पितॄंस्तर्पयित्वा पितृलोकमेव जयति । यजमानो जुहोति लिङ्गात् ॥ १९ ॥
Eggeling
- He (the Sacrificer) offers, with (Vāj. S. XIX, 45), ‘The Fathers who, one in form and one in mind, live in Yama’s realm,–may their world,
the Svadhā, adoration, and sacrifice prosper among the gods!’ he thereby commits the Fathers to Yama, and he also conquers the world of the Fathers. Having, all of them, invested themselves sacrificially 29, they betake themselves to the northern fire, for the northern fire 30 is this (terrestrial) world 31: they thus establish themselves in this world. He offers an oblation of ghee: ghee being sacrifice, it is from out of the sacrifice that they establish themselves in the sacrifice.
मूलम् - Makoto
स᳓ जुहोति ।॥
ये᳓ समा᳓नाः᳓ स᳓मनसः पित᳓रो यमरा᳓ज्ये ते᳓षां᳓ लोकः᳓ स्वधा᳓ न᳓मो यज्ञो᳓ देवे᳓षु कल्पता᳓म् इ᳓ति पित्क़्;न् एव᳓ यमे᳓ प᳓रिददा᳓त्य् अ᳓थो पितृलोक᳓म् एव᳓ जयति स᳓र्वे यज्ञोपवीता᳓नि कृत्वो᳓त्तरम् अग्नि᳓म् उपसमा᳓यन्त्य् अयं᳓ वै᳓ लोक᳓ उ᳓त्तरो ऽग्नि᳓र् अस्मि᳓न्न् एव᳓ लोके᳓ प्र᳓तितिष्ठन्त्य् आ᳓ज्या᳓हुतिं᳓ जुहोति य᳓ज्ञो᳓ वा᳓ आ᳓ज्यं यज्ञा᳓द् एव᳓ यज्ञे᳓ प्र᳓तितिष्ठन्ति ॥॥
२०
विश्वास-प्रस्तुतिः
स᳘ जुहोति॥
ये᳘ समानाः स᳘मनसो जीवा᳘ जीवे᳘षु मामकाः[[!!]]॥
ते᳘षाᳫँ᳭ श्रीर्म्म᳘यि कल्पतामस्मिं᳘ल्लोके᳘ शतᳫँ᳭ स᳘मा ऽइ᳘ति स्वा᳘नामेव श्रि᳘यम᳘वरुन्द्धे᳘ ऽथो ज्ज्योग्जीवा᳘तुमे᳘वैषु दधाति प᳘यः समन्वा᳘रब्धेषु जुहोति प्राणो वा ऽअ᳘न्नम्प᳘यः प्प्राण᳘ ऽए᳘वान्ना᳘द्ये ऽन्ततः प्र᳘तितिष्ठन्ति॥
मूलम् - श्रीधरादि
स᳘ जुहोति॥
ये᳘ समानाः स᳘मनसो जीवा᳘ जीवे᳘षु मामकाः[[!!]]॥
ते᳘षाᳫँ᳭ श्रीर्म्म᳘यि कल्पतामस्मिं᳘ल्लोके᳘ शतᳫँ᳭ स᳘मा ऽइ᳘ति स्वा᳘नामेव श्रि᳘यम᳘वरुन्द्धे᳘ ऽथो ज्ज्योग्जीवा᳘तुमे᳘वैषु दधाति प᳘यः समन्वा᳘रब्धेषु जुहोति प्राणो वा ऽअ᳘न्नम्प᳘यः प्प्राण᳘ ऽए᳘वान्ना᳘द्ये ऽन्ततः प्र᳘तितिष्ठन्ति॥
मूलम् - Weber
स᳘ जुहोति ॥
ये᳘ समानाः स᳘मनसो जीवा᳘ जीवे᳘षु मामकाः᳟ ॥
ते᳘षाᳫं श्रीर्म᳘यि कल्पतामस्मिं᳘लोके᳘ शतᳫं स᳘मा इ᳘ति स्वा᳘नामेव श्रि᳘यमवरुन्द्धे᳘ऽथो ज्योग्जीवा᳘तुमेॗवैषु दधाति प᳘यः समन्वा᳘रब्धेषु जुहोति प्राणो वाऽअ᳘न्नं प᳘यः प्राण᳘ऽएॗवान्ना᳘द्येऽन्ततः प्र᳘तितिष्ठन्ति ॥
मूलम् - विस्वरम्
स जुहोति । “ये समानाः समनसो जीवा जीवेषु मामकाः । तेषां श्रीर्मयि कल्पतामस्मिन् लोके शतँ समाः”- (वा० सं० १९ । ४६) इति । स्वानामेव श्रियमवरुन्धे । अथो ज्योग् जीवातुमेवैषु दधाति । पयः समन्वारब्धेषु जुहोति । प्राणो वा अन्नं पयः । प्राण एव अन्नाद्ये ऽन्ततः प्रतितिष्ठन्ति ॥ २० ॥
हरिस्वामी
स्वानां ज्ञातीनां या श्रीः तामवरुन्धे । यष्टुरवस्थितामात्मोपकारिणीं तर्पयित्वा करोति । तेषां विधेयत्वात् । अथो ज्योक् चिरं जीविकां यजमानस्य एषु ज्ञातिषु दधाति । ज्ञातिमध्ये यजमानश्चिरं जीवतीत्यर्थः । श्रीरेव चास्य होमस्य मन्त्रवर्णाद् देवता । समन्वारब्धेषु ऋत्विक्षु यजमानः पयः उत्तरया जुहोति ॥ २० ॥
Eggeling
- He (the Sacrificer) offers, with (Vāj. S. XIX, 46), ‘Mine own (people) who are one in form and one in mind, living among the living,–may their fortune prosper with me, in this world, for a hundred years!’ he thereby secures the good fortune of his own people, and he also confers long life on them. Whilst they hold on to each other, he (the Adhvaryu) offers milk, for milk is vital air and food: in the vital air, in food, they thus finally establish themselves.
मूलम् - Makoto
स᳓ जुहोति ।॥
ये᳓ समा᳓नाः᳓ स᳓मनसो जीवा᳓ जीवे᳓षु मा᳓मकाः᳓ ।॥
तेषाँ᳓ श्री᳓र् म᳓यि कल्पता᳓म् अस्मिं᳓ लोके᳓ शतँ᳓ स᳓मा᳓ इ᳓ति स्वा᳓ना᳓म् एव᳓ श्रि᳓यम् अ᳓वरुन्द्धे᳓ ऽथो ज्योग्जीवा᳓तुम् एवै᳙षु दधा᳓ति प᳓यः समन्वा᳓रब्धेषु जुहोति प्रा᳓णो᳓ वा᳓ अ᳓न्नं प᳓यः प्रा᳓ण᳓ एवा᳙न्ना᳓द्ये ऽन्ततः᳓ प्र᳓तितिष्ठन्ति ॥॥
२१
विश्वास-प्रस्तुतिः
स᳘ जुहोति॥
द्वे᳘ सृती᳘ ऽअशृणवम्पितृणा᳘महमि᳘ति द्वे वाव᳘ सृती ऽइ᳘त्याहुर्द्देवा᳘नाञ्चैव᳘ पितॄणाञ्चे᳘ति ता᳘भ्यामिदम्वि᳘श्वमेजत्स᳘मेती᳘ति ता᳘भ्या᳘ᳫँ᳘ हीदᳫँ᳭ स᳘र्व्वमेजत्समे᳘ति य᳘दन्तरा᳘ पित᳘रम्मात᳘रञ्चे᳘त्यसौ वै᳘ पि᳘तेय᳘म्मा᳘ता ऽभ्या᳘मेव᳘ पितॄ᳘न्देवलोकम᳘पिनयत्येकाकी᳘ हुतोच्छिष्ट᳘म्भक्षयत्येक᳘धैव श्रि᳘यमात्म᳘न्धत्ते श्रीर्हि प᳘यः॥
मूलम् - श्रीधरादि
स᳘ जुहोति॥
द्वे᳘ सृती᳘ ऽअशृणवम्पितृणा᳘महमि᳘ति द्वे वाव᳘ सृती ऽइ᳘त्याहुर्द्देवा᳘नाञ्चैव᳘ पितॄणाञ्चे᳘ति ता᳘भ्यामिदम्वि᳘श्वमेजत्स᳘मेती᳘ति ता᳘भ्या᳘ᳫँ᳘ हीदᳫँ᳭ स᳘र्व्वमेजत्समे᳘ति य᳘दन्तरा᳘ पित᳘रम्मात᳘रञ्चे᳘त्यसौ वै᳘ पि᳘तेय᳘म्मा᳘ता ऽभ्या᳘मेव᳘ पितॄ᳘न्देवलोकम᳘पिनयत्येकाकी᳘ हुतोच्छिष्ट᳘म्भक्षयत्येक᳘धैव श्रि᳘यमात्म᳘न्धत्ते श्रीर्हि प᳘यः॥
मूलम् - Weber
स᳘ जुहोति ॥
द्वे᳘ सृती᳘ऽअशृणवं पितॄणा᳘महमिति द्वे वाव᳘ सृतीऽइ᳘त्याहुर्देवा᳘नां चैव᳘ पितॄणां चे᳘ति ता᳘भ्यामिदं वि᳘श्वमेजत्स᳘मेती᳘ति ता᳘भ्याॗᳫंॗ हीदᳫं स᳘र्वमेजत्समे᳘ति य᳘दन्तरा᳘ पित᳘रं मात᳘रं चे᳘त्यसौ वै᳘ पिॗतेयं᳘ माॗताभ्या᳘मेव᳘ पितॄ᳘न्देवलोकम᳘पिनयत्येकाकी᳘ हुतोच्छिष्टं᳘ भक्षयत्येकॗधैव श्रि᳘यमात्म᳘न्धत्ते श्रीर्हि प᳘यः ॥
मूलम् - विस्वरम्
स जुहोति । “द्वे सृती अशृणवं पितृणामहम्”- इति । द्वे वाव सृती इत्याहुः । देवानां चैव पितॄणां चेति । “ताभ्यामिदं विश्वमेजत् समेति”- इति । ताभ्यां हीदं सर्वमेजत्समेति । “यदन्तरा पितरं मातरं च”- (वा० सं० १९ । ४७) इति । असौ वै पिता । इयं माता । आभ्यामेव पितॄन् देवलोकमपिनयति । एकाकी हुतोच्छिष्टं भक्षयति । एकधैव श्रियमात्मन् धत्ते । श्रीर्हि पयः ॥ २१ ॥
हरिस्वामी
स जुहोति । ताभ्यामिदं द्यावापृथिव्योः सकाशात् पितॄन् देवलोकमपिनयत्यनेन देवयानपितृयानौ तर्पयित्वा । ततश्च द्वे एव सृती, ये अत्र देवते । एकाकी असहायः हुतोच्छिष्टं भक्षयति ॥ २१ ॥
Eggeling
- He offers, with (Vāj. S. XIX, 47), ‘Two paths for mortals have I heard of, (that of the Fathers and that of the gods 32),’–’two paths
indeed there are,’ they say, ’those of the gods and of the Fathers,’–’thereon all that liveth here passeth,’ for thereon, indeed, everything living here passes;–‘what there is between the father and the mother,’–the father, doubtless, is yonder (sky), and the mother is this (earth): by means of these two he leads the Fathers to the world of heaven. He (the Sacrificer) alone drinks what is left from the offering 33: to himself alone he thus takes prosperity, for milk is prosperity.
मूलम् - Makoto
स᳓ जुहोति ।॥
द्वे᳓ सृती᳓ अशृणवं पित्क़्णा᳓म् अह᳓म् इ᳓ति द्वे᳓ वा᳓व᳓ सृती᳓ इ᳓त्य् आ᳓हुर् देवा᳓नां᳓ चैव᳓ पित्क़्णां᳓ चे᳓ति ता᳓भ्या᳓म् इदं᳓ वि᳓श्वम् ए᳓जत् स᳓मेती᳓ति ता᳓भ्याँ᳓ हो᳙दँ᳓ सर्व᳓म् ए᳓जत् समे᳓ति य᳓द् अन्तरा᳓ पित᳓रं मा᳓त᳓रं चे᳓त्य् असौ᳓ वै᳓ पिते᳙यं᳓ मा᳓ता᳙भ्या᳓म् एव᳓ पित्क़्;न् देवलोक᳓म् अ᳓पिनयत्य् एका᳓की᳓ हुतोच्छिष्टं᳓ भक्षयत्य् एकधै᳙व᳓ श्रि᳓यम् आ᳓त्म᳓न् धत्ते श्री᳓र् हि᳓ प᳓यः ॥॥
२२
विश्वास-प्रस्तुतिः
स᳘ भक्षयति॥
(ती) इद᳘ᳫँ᳘ हविः᳘ प्रज᳘ननम्मे ऽअस्त्वि᳘ति प्रज᳘ननᳫँ᳭ हि य᳘दि प᳘यो य᳘दि सो᳘मो द᳘शवीरमि᳘ति प्राणा वै द᳘श व्वीराः᳘ प्राणा᳘ने᳘वात्म᳘न्धत्ते स᳘र्व्वगणमित्य᳘ङ्गानि वै स᳘र्व्वे गणा ऽअ᳘ङ्गान्ये᳘वात्म᳘न्धत्ते स्वस्त᳘य ऽआत्मसनी᳘त्यात्मा᳘नमेव᳘ सनोति प्रजासनी᳘ति प्रजा᳘मेव᳘ सनोति पशुसनी᳘ति पशू᳘नेव᳘ सनोति लोकसनी᳘ति लोका᳘य वै᳘ यजते त᳘मेव᳘ जयत्यभयसनी᳘ति स्वर्ग्गो वै᳘ लोको᳘ ऽभयᳫँ᳭ स्वर्ग्ग᳘ ऽएव᳘ लो᳘के ऽन्ततः प्र᳘तितिष्ठत्यग्निः᳘ प्प्रजा᳘म्बहुला᳘म्मे करोत्व᳘न्नम्प᳘यो रे᳘तो ऽअस्मा᳘सु धत्ते᳘ति तद्य᳘ ऽए᳘वैनमेते᳘ याज᳘यन्ति ता᳘नेत᳘दाहैतन्म᳘यि स᳘र्व्वन्धत्ते᳘ति हि᳘रण्येन मार्ज्जयन्ते ऽमृ᳘तम्वै᳘ हि᳘रण्यममृ᳘त ऽए᳘वान्ततः प्र᳘तितिष्ठन्ति॥
मूलम् - श्रीधरादि
स᳘ भक्षयति॥
(ती) इद᳘ᳫँ᳘ हविः᳘ प्रज᳘ननम्मे ऽअस्त्वि᳘ति प्रज᳘ननᳫँ᳭ हि य᳘दि प᳘यो य᳘दि सो᳘मो द᳘शवीरमि᳘ति प्राणा वै द᳘श व्वीराः᳘ प्राणा᳘ने᳘वात्म᳘न्धत्ते स᳘र्व्वगणमित्य᳘ङ्गानि वै स᳘र्व्वे गणा ऽअ᳘ङ्गान्ये᳘वात्म᳘न्धत्ते स्वस्त᳘य ऽआत्मसनी᳘त्यात्मा᳘नमेव᳘ सनोति प्रजासनी᳘ति प्रजा᳘मेव᳘ सनोति पशुसनी᳘ति पशू᳘नेव᳘ सनोति लोकसनी᳘ति लोका᳘य वै᳘ यजते त᳘मेव᳘ जयत्यभयसनी᳘ति स्वर्ग्गो वै᳘ लोको᳘ ऽभयᳫँ᳭ स्वर्ग्ग᳘ ऽएव᳘ लो᳘के ऽन्ततः प्र᳘तितिष्ठत्यग्निः᳘ प्प्रजा᳘म्बहुला᳘म्मे करोत्व᳘न्नम्प᳘यो रे᳘तो ऽअस्मा᳘सु धत्ते᳘ति तद्य᳘ ऽए᳘वैनमेते᳘ याज᳘यन्ति ता᳘नेत᳘दाहैतन्म᳘यि स᳘र्व्वन्धत्ते᳘ति हि᳘रण्येन मार्ज्जयन्ते ऽमृ᳘तम्वै᳘ हि᳘रण्यममृ᳘त ऽए᳘वान्ततः प्र᳘तितिष्ठन्ति॥
मूलम् - Weber
स᳘ भक्षयति ॥
इद᳘ᳫं᳘ हविः᳘ प्रज᳘ननं मेऽअस्त्वि᳘ति प्रज᳘ननᳫं हि य᳘दि प᳘यो य᳘दि सो᳘मो द᳘शवीरमि᳘ति प्राणा वै द᳘श वीराः᳘ प्राणा᳘नेॗवात्म᳘न्धत्ते स᳘र्वगणमित्य᳘ङ्गानि वै स᳘र्वे गणा अ᳘ङ्गान्येॗवात्म᳘न्धत्ते स्वस्त᳘यऽआत्मसनी᳘त्यात्मा᳘नमेव᳘ सनोति प्रजासनी᳘ति प्रजा᳘मेव᳘ सनोति पशुसनी᳘ति पशू᳘नेव᳘ सनोति लोकसनी᳘ति लोका᳘य वै᳘ यजते त᳘मेव᳘ जयत्यभयसनी᳘ति स्वर्गो वै᳘ लोको᳘ऽभयᳫं स्वर्ग᳘ऽएव᳘ लोॗकेऽन्ततः प्र᳘तितिष्ठत्यग्निः᳘ प्रजां᳘ बहुलां᳘ मे करोत्व᳘न्नं प᳘यो रे᳘तोऽस्मा᳘सु धत्ते᳘ति तद्य᳘ऽएॗवैनमेते᳘ याज᳘यन्ति ता᳘नेत᳘दाहैतन्म᳘यि स᳘र्वं धत्ते᳘ति हि᳘रण्येन मार्जयन्तेऽमृ᳘तं वै᳘ हि᳘रण्यममृ᳘तऽएॗवान्ततः प्र᳘तितिष्ठन्ति ॥ ५ ॥ [८.१.] ॥ तृतीयः प्रपाठकः ॥ कण्डिकासंख्या १२० ॥ ॥
मूलम् - विस्वरम्
स भक्षयति । “इदं हविः प्रजननं मे अस्तु”- इति । प्रजननं हि । यदि पयो यदि सोमः । “दशवीरम्”- इति । प्राणा वै दश वीराः । प्राणानेवात्मन्धत्ते । “सर्वगणम्”- इति । अङ्गानि वै सर्वे गणाः । अंगान्येवात्मन् धत्ते । “स्वस्तय आत्मसनि”- इति । आत्मानमेव सनोति । “प्रजासनि”- इति । प्रजामेव सनोति । “पशुसनि”- इति । पशूनेव सनोति । “लोकसनि”- इति । लोकाय वै यजते । तमेव जयति । “अभयसनि”- इति । स्वर्गो वै लोको ऽभयम् । स्वर्ग एव लोके ऽन्ततः प्रतितिष्ठति । “अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त”- (वा० सं० १९ । ४८) इति हिरण्येन मार्जयन्ते । अमृतं वै हिरण्यम् । अमृत एवांततः । प्रतितिष्ठन्ति ॥ २२ ॥
हरिस्वामी
प्रजननं हि हविः यदि पयो लोकदृष्ट्या । यदि सोम उपासनया । प्राणा वै दश विक्रांता वीराः । ते तर्पयितव्या अस्य संतीति दशवीरम् । एवं सर्वाण्यंगानि तर्पयितव्यानि अस्य विद्यन्ते इति सर्वगणम् । अंगान्येवात्मनि धत्ते । स्वस्तये अविनाशायेति च्छेदः । आत्मानमेव यजमानो ऽमृतं करोति । “षण संभक्तौ”- (धा. पा. भ्वा. प. ४६५) ददाति हविः । एवं प्रजासनीत्यादि द्रष्टव्यम् ॥ २२ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे अष्टमे ऽध्याये प्रथमं ब्राह्मणम् ॥ (१२ । ८ । १) ॥
Eggeling
- He drinks it, with (Vāj. S. XIX, 48), ‘May this oblation be productive for me,’–for productive indeed it is, whether it be milk or Soma;–‘possessed of ten heroes,’–the ten heroes, doubtless, are the vital airs: vital airs he thus takes to himself;–‘possessed of all the troops,’–all the troops, doubtless, are the limbs: it is limbs he thus takes to himself;–‘for well-being: breath-winning,’–the breath of life he thus wins;–‘race-winning,’–a race (offspring) he thus wins;–‘cattle-winning,’–cattle he thus wins;–‘place-winning’–for it is for a place (in heaven) that he sacrifices: it is that he gains;–‘safety-winning,’–the (place of) safety, doubtless, is the heavenly world: in the heavenly world he thus finally establishes himself;–‘May Agni raise for me abundant offspring,
and bestow ye upon us food, milk, and seed!’ it is to those (priests) who offer for him that he thus says, ‘Bestow ye all this upon me!’ By means of gold they cleanse themselves 34; for gold is immortal life: in immortal life they thus finally establish themselves.
मूलम् - Makoto
स᳓ भक्षयति ।॥
इदँ᳓ हविः᳓ प्रज᳓ननं मे अस्त्व् इ᳓ति प्रज᳓ननँ हि᳓ य᳓दि प᳓यो य᳓दि सो᳓मो द᳓शवीरम् इ᳓ति प्रा᳓णा᳓ वै᳓ द᳓श वीराः᳓ प्रा᳓णा᳓न् एवा᳙त्म᳓न् धत्ते स᳓र्वगणम् इ᳓त्य् अ᳓ङ्गा᳓नि वै᳓ स᳓र्वे गणा᳓ अ᳓ङ्गा᳓न्य् एवा᳙त्म᳓न् धत्ते स्वस्त᳓य आ᳓त्मसनी᳓त्य् आ᳓त्मा᳓नम् एव᳓ सनोति प्रजा᳓सनी᳓ति प्रजा᳓म् एव᳓ सनोति पशुसनी᳓ति पशून् एव᳓ सनोति लोकसनी᳓ति लोका᳓य वै᳓ यजते न᳓मेव᳓ जयत्य् अभयसनी᳓ति स्वर्गो᳓ वै᳓ लोको᳓ ऽभयँ स्वर्ग᳓ एव᳓ लोके᳙ ऽन्ततः᳓ प्र᳓तितिष्ठत्य् अग्निः᳓ प्रजां᳓ बहुलां᳓ मे करोत्व् अ᳓न्नं प᳓यो रे᳓तो ऽस्मा᳓सु धत्ते᳓ति त᳓द् य᳓ एवै᳙नम् एते᳓ या᳓ज᳓यन्ति ता᳓न् एत᳓द् आ᳓हैत᳓न् म᳓यि स᳓र्वं धत्ते᳓ति हि᳓रण्येन मा᳓र्जयन्ते ऽमृ᳓तं वै᳓ हि᳓रण्यम् अमृ᳓त एवा᳙न्ततः प्र᳓तितिष्ठन्ति ॥॥
-
सुरावन्तमिति जुहोति । (का. श्रौ. सू. १९ । ६४) त्रीनपि पयोग्रहान् सहैवाध्वर्युः ॥ ↩︎
-
पालाशैः सौरान् न मृन्मयमाहुतिमानश इति श्रुतेर्यस्त इति । (का. श्रौ. सू. १९ । ६५) पालाशैरुलूखलैः प्रतिप्रस्थाता ऽत्र । ↩︎
-
अध्वर्युप्रतिप्रस्थाता ऽग्नीद्यमश्विनेत्याश्विनं भक्षयन्ति द्विर्द्विरावर्तम् । का. श्रौ. सू. १९ । ६६ । होतृब्रह्ममैत्रावरुणाः सारस्वतमाश्विनवत् । शेषँ शेषमासिंचत्युत्तरे पूर्वस्य । ऐन्द्रं यजमानः । का. श्रौ. सू. १९ । ६७-६९ । ↩︎
-
यदत्रेति सौरान् भक्षयन्ति यथाभक्षितं प्राचीनावीतिनो दक्षिणतः । दक्षिणतो विहारस्य । प्राणभक्षमेके । का. श्रौ. सू. १९ । ७० । ७१ । ↩︎
-
परिक्रीतो वा वैश्यराजन्ययोरन्यतरः । का. श्रौ. सू. १९ । ७२ । ↩︎
-
अंगारेषु वा बहिष्परिधि दक्षिणतो जुहोत्याश्विनमुत्तरे मध्यमे सारस्वतमैन्द्रं दक्षिणे पितृभ्य इति प्रतिमन्त्रम् । का. श्रौ. सू. १९ । ७३ । ↩︎
-
अक्षन्पितर इति प्रक्षालनेनोपसिञ्चति । का. श्रौ. सू. १९ । ७४ । ↩︎
-
पितरः शुंधध्वमिति जपति । का. श्रौ. सू. १९ । ७५ । ↩︎
-
कुंभीमासज्य कुंभवच्छतवितृण्णां वालपवित्रहिरण्यान्यन्तर्द्धाय नवर्चं वाचयति पुनंतु मेति । सोमवतां बर्हिषदामग्निष्वात्तानां च । (नवर्चमिति शेषः) । पूर्ववत्सोमातिपूतश्चेत् (पूर्ववदिति चरकसौत्रामणीवत् सोमवदादितृचैः । कुंभ्याः स्रवन्तीं सुरामुपतिष्ठेतेत्यर्थः) । का. श्रौ. सू. १९ । ७६-७८ । ↩︎
-
ये समाना इति यजमानो जुहोति (दक्षिणे ऽग्नौ) का. श्रौ. सू. १९ । ७९ । ↩︎
-
उत्तरे च यज्ञोपवीत्युत्तरया । (उसरे ऽग्नौ) । अन्वारब्धेषु पयो जुहोति द्वे सृती इति । का. श्रौ. सू. १९ । ८० । ८१ ↩︎
-
शेषं यजमानो भक्षयतीदँ हविरिति । का. श्रौ. सू. १९ । ८२ । ↩︎
-
चात्वाले मार्जयन्ते सपत्नीका हिरण्यमन्तर्द्धाय का. श्रौ. सू. १९ । ८३ । ↩︎
-
231:1 Or, cause him to prosper, render him successful by means of the liquor; MS. I. O. 311 reads ‘samardhayanti.’ ↩︎
-
231:2 Or, perhaps, he provides the sacrifice with priests, and the Sacrificer with sacrifice. For obvious reasons the first two pādas of the verse have been transposed in the translation. ↩︎
-
232:1 For particulars as to the persons who partake of the respective cups of milk and Surā-liquor, see XII, 8, 2, 22 seqq. ↩︎
-
232:2 That is, on the fire of the southern of the two special Vedis, see p. 225, note. ↩︎
-
232:3 Viz. inasmuch as the libations of liquor are not made on the offering-fire proper, the (northern) Āhavanīya, where the oblations from the cups of milk are made. ↩︎
-
232:4 These cups are of the same kind as those used for the draughts of Soma, being made of palāśa-wood, and resembling mortars in shape; cf. part ii, p. 259, note 1, towards the end. ↩︎
-
233:1 For the distinction between ‘suta’ and ‘āsuta’ (not ‘asuta’), cf. XII, 8, 2, 12. ↩︎
-
233:2 According to Kāty. Śr. XIX, 3, 15, some authorities, however, think the inhaling of the fumes of the liquor to be sufficient for this purpose. ↩︎
-
234:1 The coals are to be placed on the south side of the southern fire, from north to south, and the libation from the Āśvina cup is made on the northernmost coal, that from the Sārasvata cup on the central one, and that from the Aindra cup on the southern one. According to Kāty. XIX, 3, 17, and Mahīdhara on Vāj. S. XIX, 36, this is a fourth alternative of disposing of the liquor (in favour of the Fathers), the others being actual drinking, or smelling it, or hiring some one to drink it. ↩︎
-
234:2 At XII, 7, 2, 13 a perforated pot (with a hundred holes) was mentioned as being used at this sacrifice. According to Kāty. Śr. XIX, 3, 20, and Mahīdhara on Vāj. S. XIX, 37, use is made of this pot at this juncture in much the same way as is described in V, 5, 4, 27 seqq.; viz. two poles are driven into the ground north and south of the southern fire, and a bamboo stick laid thereon: on a string fastened to this stick the pot, containing a tail-whisk (for straining) and a piece of gold, is then made to hang over the fire, and the remains of the Surā-liquor poured into it; and whilst it trickles through into the fire, the priest makes the Sacrificer pronounce the verses Vāj. S. XIX, 37-44, 52-60, addressed to the different kinds of departed ancestors. ↩︎
-
235:1 That is, verses recited at the Soma-sacrifice whilst the Soma-juice is clarifying; the term being usually confined to the verses of hymns of the ninth maṇḍala of the R̥ksaṁhitā, whence indeed most of the verses used on this occasion (Vāj. S. XIX, 37-44) are taken. ↩︎
-
व्यानस्तै᳘रे᳘वैनंति A. ↩︎
-
(वा. सं. १९ । ३७-४४) इत्येतैर्नवभिर्मन्त्रैरिति । ↩︎
-
236:1 The term ‘balkasa’ (apparently connected with ‘valkala’) would seem to mean vegetable matter, esp. chaff or husks. The comm. explains it by ‘kidisa’ (? kilbisha or kiknasa). ↩︎
-
य᳘त्र वा᳘ आत्मा᳘ पूता᳘नि त॰ A. ↩︎
-
237:1 That is, by shifting their Brāhmaṇical cord so as to hang across the breast from the left shoulder to the right hip. ↩︎
-
237:2 That is, the fire on the uttara-vedi of the northern of the two special Vedis, see p. 225, note. ↩︎
-
237:3 They are supposed to return to the earth from the world of the Fathers below. ↩︎
-
237:4 Not only is the second pāda of the verse omitted here (as also in MS. I. O. 311), but the construction of the first half of the verse is also rather peculiar, the most natural rendering being, ‘Two paths of the Fathers have I heard of, (those) of the gods and of men.’ The same verse occurs R̥ks. X, 88, 15 (with the reading ‘dve srutī’ instead of ‘dve sr̥tī’), where Grassmann translates,– ‘Two paths there are, so the Fathers have told me, passable for gods and men;’ whilst Ludwig takes it in the way just referred to. The above interpretation is that of Mahīdhara, who refers to Śat.-Br. I, 9, 2, 3; whilst Sāyaṇa (on Riks.) seems to take the two paths to be that of the Fathers and gods, and that of men (pitrīṇāṁ devānāṁ cotāpi martyānāṁ ca dve srutī dvau mārgau); though he afterwards calls them ‘devayāna’ and ‘pitr̥yāṇa.’ ↩︎
-
238:1 That is to say, the milk which remains in the pot (ukhā), from which the milk used for the oblation was taken. ↩︎
-
239:1 Kāty. Śr. XIX, 3, 27, ‘Over the cātvāla (pit) they cleanse themselves, with their wives, putting gold between;’ that is to say, whilst the water is poured on their hands a piece of gold is held between, over which the water flows. ↩︎