०१
विश्वास-प्रस्तुतिः
अ᳘प वा᳘ ऽएत᳘स्मात्॥
(त्ते᳘) ते᳘ज ऽइन्द्रिय᳘म्वी᳘र्य्यङ्क्रामति यᳫँ᳭ सो᳘मो ऽतिप᳘वत ऽऊर्ध्वम्वा᳘ ऽवाञ्चम्वा॥
मूलम् - श्रीधरादि
अ᳘प वा᳘ ऽएत᳘स्मात्॥
(त्ते᳘) ते᳘ज ऽइन्द्रिय᳘म्वी᳘र्य्यङ्क्रामति यᳫँ᳭ सो᳘मो ऽतिप᳘वत ऽऊर्ध्वम्वा᳘ ऽवाञ्चम्वा॥
मूलम् - Weber
अ᳘प वा᳘ऽएत᳘स्मात् ॥
ते᳘ज इन्द्रियं᳘ वीॗर्यं क्रामति यᳫं सो᳘मोऽतिप᳘वतऽऊर्ध्वं चा᳘वाञ्चं वा ॥
मूलम् - विस्वरम्
अप वा एतस्मात्तेज इंद्रियं वीर्यं क्रामति । यं सोमो ऽतिपवते- ऊर्ध्वं वा, अवांचं वा ॥ १ ॥
हरिस्वामी
अप वा एतस्मात् । सोमो ऽतिपवते । ऊर्ध्वमधस्ताद्वा अतिवर्तते । ततः तेज इन्द्रियं अपक्रामति । प्रकृतान्येव सन्निधानात् । तानि च यजमानस्यैव सोमपीथेन क्रियंते । तदर्थत्वात् कर्मणः । न ऋत्विजां अतदर्थत्वात् । ततश्च यजमान एवातिपूतः । सौत्रामणीं कुर्वन् । नर्त्विग् अतो ऽयं सोमो ऽतिपवते । स एतं आश्विनं धूम्रमालमेतेति संबंधः । एवं तावत् सोमातिपवनं निमित्तं प्रकल्प्य स्थापितम् ॥ १ ॥
Eggeling
- Verily, his fiery spirit, his energy, or vital power, depart from him whom Soma purges either upwards or downwards.
मूलम् - Makoto
अ᳓प वा᳓ एत᳓स्मा᳓त् ।॥
ते᳓ज इन्द्रियं᳓ वीर्यं᳙ क्रा᳓मति यँ᳓ सो᳓मो ऽतिप᳓वत ऊर्ध्वं᳓ चा᳓वा᳓ञ्चं वा᳓ ॥॥
०२
विश्वास-प्रस्तुतिः
त᳘दाहुः॥ (र᳘) अ᳘न्नम्वा᳘ ऽएत᳘द्ब्राह्मण᳘स्य यत्सो᳘मो[[!!]] न वै सो᳘मेन ब्राह्मणः᳘ सोमवामी स यो वा ऽअ᳘लम्भू᳘त्यै सम्भू᳘तिन्न᳘ प्राप्नो᳘ति यो वा᳘ ऽलम्पशु᳘भ्यः स᳘न्पशून्न᳘ विन्द᳘ते स᳘ सोमवामी᳘ पश᳘वो हि सो᳘म ऽइ᳘ति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥ (र᳘) अ᳘न्नम्वा᳘ ऽएत᳘द्ब्राह्मण᳘स्य यत्सो᳘मो[[!!]] न वै सो᳘मेन ब्राह्मणः᳘ सोमवामी स यो वा ऽअ᳘लम्भू᳘त्यै सम्भू᳘तिन्न᳘ प्राप्नो᳘ति यो वा᳘ ऽलम्पशु᳘भ्यः स᳘न्पशून्न᳘ विन्द᳘ते स᳘ सोमवामी᳘ पश᳘वो हि सो᳘म ऽइ᳘ति॥
मूलम् - Weber
त᳘दाहुः ॥ अ᳘न्नं वा᳘ऽएत᳘द्ब्राह्मण᳘स्य य᳘त्सो᳘मो न वै सो᳘मेन ब्राह्मणः᳘ सोमवामी स यो वाऽअ᳘लं भू᳘त्यै सन्भू᳘तिं न᳘ प्राप्नो᳘ति यो वा᳘लं पशु᳘भ्यः स᳘न्पशून्न᳘ विन्द᳘ते स᳘ सोमवामी᳘ 1 पश᳘वो हि सो᳘म इ᳘ति ॥
मूलम् - विस्वरम्
तदाहुः- अन्नं वा एतद् ब्राह्मणस्य- यत्सोमः । न वै सोमेन ब्राह्मणः सोमवामी सः । यो वा अलं भूत्यै सम्भूतिं न प्राप्नोति । यो वा ऽलं पशुभ्यः सन्पशून्न विंदते । स सोमवामी । पशवो हि सोम इति ॥ २ ॥
हरिस्वामी
अधुना निमित्तान्तरं प्रकल्पयति । तदाहुरन्नमेवैतद्ब्राह्मणस्य यत्सोमः । नित्यत्वादित्यभिप्रायः । ब्राह्मणग्रहणं क्षत्रियवैश्ययोरसोमत्वोपप्रदर्शनार्थम् । तत्तूचितमेव । अनुचितेनापि सोमपानेन सोमवामी भवति, इतरयोः सोमवमने ऽप्रायश्चित्तार्थतेत्यभिप्रायः । कस्तर्हि सोमवामीत्यभिप्रायः । यो वा अलं भूत्यै सन् भूतिं न प्राप्नोति । यो वा ऽलं पशुभ्यः सन् पशून्न विंदते । स सोमवामीति गौणं सोमवमनं निमित्तमुपन्यस्तम् । तौ अधुना द्वावप्येतौ मुख्य गौणौ सोमवामिनौ स इत्यनेन शब्देन परामृशति । द्विनिमित्तिका सौत्रामणी । तत्र द्विप्रकारेणापि निमित्ते स एतमाश्विनमित्यादि चक्षुर्वा अश्विनौ तेज इत्यादिना कण्डिकात्रयेण । देवतास्वाध्यात्ममाह- का अश्विनी ? अश्विन्यः अश्विभक्तास्तदनूक्ताः प्रत्याहुरिति संबन्धः । सारस्वत्यः अवय इत्याहुः । ऐन्द्र्यो गाव इत्याहुः । यदेते धूम्रादयः पशव आलभ्यन्ते । तदेताभिरेवैतानजादीन्पशून् अवरुन्धे इति धूम्रादीनामधिभूतवचनम् ॥ २-७ ॥
Eggeling
- As to this they say, ‘Truly, the Soma-juice is the Brāhmaṇa’s food; and, indeed, it is not owing to Soma when a Brāhmaṇa vomits Soma; and he who vomits Soma is one who, whilst being fit to (gain) prosperity, does not gain prosperity, and who, whilst being fit to (gain) cattle, does not gain cattle 2, for Soma is cattle.’
मूलम् - Makoto
त᳓द् आ᳓हुः ।॥
अ᳓न्नं वा᳓ एत᳓द् ब्रा᳓ह्मण᳓स्य य᳓त् सो᳓मो न᳓ वै᳓ सो᳓मेन ब्रा᳓ह्मणः᳓ सोमवा᳓मी᳓ स᳓ यो᳓ वा᳓ अ᳓लं भू᳓त्यै स᳓न् भू᳓तिं न᳓ प्रा᳓प्नो᳓ति यो᳓ वा᳓लं पशु᳓भ्यः स᳓न् पशू᳓न् न᳓ विन्द᳓ते स᳓ सोमवा᳓मी᳓ पश᳓वो हि᳓ सो᳓म इ᳓ति ॥॥
०३
विश्वास-प्रस्तुतिः
स᳘ ऽएत᳘माश्विन᳘न्धूम्रमा᳘लभेत॥
सारस्वत᳘म्मेष᳘मैन्द्र᳘मृषभ᳘मश्वि᳘नौ वै᳘ देवा᳘नाम्भिष᳘जौ ता᳘भ्यामे᳘वैनम्भिषज्यति स᳘रस्वती भेषजन्त᳘यै᳘वास्मै भेषज᳘ङ्करोती᳘न्द्र ऽइन्द्रिय᳘म्वी᳘र्य्यन्ते᳘नै᳘वास्मिन्निन्द्रिय᳘म्वी᳘र्य्यन्दधाति॥
मूलम् - श्रीधरादि
स᳘ ऽएत᳘माश्विन᳘न्धूम्रमा᳘लभेत॥
सारस्वत᳘म्मेष᳘मैन्द्र᳘मृषभ᳘मश्वि᳘नौ वै᳘ देवा᳘नाम्भिष᳘जौ ता᳘भ्यामे᳘वैनम्भिषज्यति स᳘रस्वती भेषजन्त᳘यै᳘वास्मै भेषज᳘ङ्करोती᳘न्द्र ऽइन्द्रिय᳘म्वी᳘र्य्यन्ते᳘नै᳘वास्मिन्निन्द्रिय᳘म्वी᳘र्य्यन्दधाति॥
मूलम् - Weber
स᳘ एत᳘माश्विनं᳘ धूम्रमा᳘लभेत ॥
सारस्वतं᳘ मेष᳘मैन्द्र᳘मृषभ᳘मश्वि᳘नौ वै᳘ देवा᳘नां भिष᳘जौ ता᳘भ्यामेॗवैनं भिषज्यति स᳘रस्वती भेषजं त᳘यैॗवास्मै भेषजं᳘ करोती᳘न्द्र इन्द्रियं᳘ वीॗर्यं ते᳘नैॗवास्मिन्निन्द्रियं᳘ वीॗर्यं दधाति ॥
मूलम् - विस्वरम्
(१) स एतमाश्विनं धूम्रमालभेत 3 । (२) सारस्वतं मेषम् । (३) ऐन्द्रमृषभम् । अश्विनौ वै देवानां भेषजौ । ताभ्यामेवैनं भिषज्यति । सरस्वती भेषजम् । तयैवास्मिन् भेषजं करोति । इंद्र इंद्रियं वीर्यम् । तैनवास्मिन्निन्द्रियं वीर्यं दधाति ॥ ३ ॥
हरिस्वामी
[व्याख्यानं द्वितीये]
Eggeling
- Let him seize for sacrifice that grey (he-goat) of the Aśvins, the ram of Sarasvatī, and the bull of Indra; for the Aśvins are the physicians of the gods, and it is by them that he heals this (Sacrificer); and Sarasvatī is healing medicine, and it is with her help that he prepares medicine for him; and Indra is energy (indriya), or vital power, and it is with his help that he bestows energy, or vital power, on this (Sacrificer).
मूलम् - Makoto
स᳓ एत᳓म् आ᳓श्विनं᳓ धुम्र᳓म् आ᳓लभेत ।॥
सा᳓रस्वतं᳓ मेष᳓म् ऐन्द्र᳓म् ऋषभ᳓म् अश्वि᳓नौ वै᳓ देवा᳓नां᳓ भिषजौ᳓ ता᳓भ्या᳓म् एवै᳙नं भिषज्यति स᳓रस्वती भेषजं᳓ त᳓यैवा᳙स्मै भेषजं᳓ करोती᳓न्द्र इन्द्रियं᳓ वीर्यं᳙ ते᳓नैवा᳙स्मिन्न् इन्द्रियं᳓ वीर्यं᳙ दधा᳓ति ॥॥
०४
विश्वास-प्रस्तुतिः
च᳘क्षुर्व्वा᳘ अश्वि᳘नौ ते᳘जः॥
(जो) य᳘दाश्विनो भ᳘वति च᳘क्षुरे᳘वास्मिंस्तत्ते᳘जो दधात्य᳘थो श्रो᳘त्रᳫँ᳭ समानᳫँ᳭ हि च᳘क्षुश्च श्रो᳘त्रञ्च॥
मूलम् - श्रीधरादि
च᳘क्षुर्व्वा᳘ अश्वि᳘नौ ते᳘जः॥
(जो) य᳘दाश्विनो भ᳘वति च᳘क्षुरे᳘वास्मिंस्तत्ते᳘जो दधात्य᳘थो श्रो᳘त्रᳫँ᳭ समानᳫँ᳭ हि च᳘क्षुश्च श्रो᳘त्रञ्च॥
मूलम् - Weber
च᳘क्षुर्वा᳘ऽअश्वि᳘नौ ते᳘जः ॥
य᳘दाश्विनो भ᳘वति च᳘क्षुरेॗवास्मिंस्तत्ते᳘जो दधात्य᳘थो श्रो᳘त्रᳫं समानᳫं हि च᳘क्षुश्च श्रो᳘त्रं च ॥
मूलम् - विस्वरम्
चक्षुर्वा अश्विनौ तेजः । यदाश्विनो भवति । चक्षुरेवास्मिंस्तत्तेजो दधाति, अथो श्रोत्रम् । समानं हि चक्षुश्च श्रोत्रं च ॥ ४ ॥
हरिस्वामी
[व्याख्यानं द्वितीये]
Eggeling
- The two Aśvins, indeed, are the eyesight,
fiery spirit; and inasmuch as there is (a victim) sacred to the Aśvins, he (the priest) bestows eyesight, fiery spirit, on this (Sacrificer). And the ear also (he thereby bestows on him), for one and the same are the eye and the ear.
मूलम् - Makoto
च᳓क्षुर् वा᳓ अशिवि᳓नौ ते᳓जः ।॥
य᳓द् आ᳓श्विनो भ᳓वति च᳓क्षुर् एवा᳙स्मिंस् त᳓त् ते᳓जो दधा᳓त्य् अ᳓थो श्रो᳓त्रँ समा᳓नँ᳓ हि᳓ च᳓क्षुश् च श्रो᳓त्रं च ॥॥
०५
विश्वास-प्रस्तुतिः
प्राणः स᳘रस्वती व्वी᳘र्य्यम्॥
य᳘त्सारस्वतो भ᳘वति प्राण᳘मे᳘वास्मिंस्त᳘द्वी᳘र्य्यन्दधात्य᳘थो ऽअपान᳘ᳫँ᳘[[!!]] समानᳫँ᳭ हि᳘ प्राण᳘श्चापान᳘श्च॥ (अर्द्धःप्रपाठकः)॥
मूलम् - श्रीधरादि
प्राणः स᳘रस्वती व्वी᳘र्य्यम्॥
य᳘त्सारस्वतो भ᳘वति प्राण᳘मे᳘वास्मिंस्त᳘द्वी᳘र्य्यन्दधात्य᳘थो ऽअपान᳘ᳫँ᳘[[!!]] समानᳫँ᳭ हि᳘ प्राण᳘श्चापान᳘श्च॥ (अर्द्धःप्रपाठकः)॥
मूलम् - Weber
प्राणः स᳘रस्वती वीॗर्यम् ॥
य᳘त्सारस्वतो भ᳘वति प्राण᳘मेॗवास्मिंस्त᳘द्वीॗर्यं दधात्य᳘थोऽअपा᳘न᳘ᳫं᳘ समानᳫं हि᳘ प्राण᳘श्चापान᳘श्च ॥
मूलम् - विस्वरम्
प्राणः सरस्वती वीर्यम् । यत्सारस्वतो भवति । प्राणमेवास्मिंस्तद्वीर्यं दधाति, अथो अपानम् । समानं हि प्राणश्चापानश्च ॥ ५ ॥
हरिस्वामी
[व्याख्यानं द्वितीये]
Eggeling
- Sarasvatī is the breath, vital power; and inasmuch as there is (a victim) sacred to Sarasvatī, he bestows breath, vital power, on this (Sacrificer). And the off-breathing also (he thereby bestows on him), for one and the same are the breath (of the mouth) and the of breathing.
मूलम् - Makoto
प्रा᳓णः᳓ स᳓रस्वती वीर्य᳙म् ।॥
य᳓त् सा᳓रस्वतो᳓ भ᳓वति प्रा᳓ण᳓म् एवा᳙स्मिंस् त᳓द् वीर्यं᳙ दधा᳓त्य् अ᳓थो अपा᳓नँ᳓ समा᳓नँ᳓ हि᳓ प्रा᳓ण᳓श् चा᳓पा᳓न᳓श् च ॥॥
०६
विश्वास-प्रस्तुतिः
व्वागि᳘न्द्रो ब᳘लम्॥
य᳘दैन्द्रो भ᳘वति व्वा᳘चमे᳘वास्मिंस्तद्ब᳘लन्दधात्य᳘थो म᳘नः समानᳫँ᳭ हि व्वा᳘क्च म᳘नश्च॥
मूलम् - श्रीधरादि
व्वागि᳘न्द्रो ब᳘लम्॥
य᳘दैन्द्रो भ᳘वति व्वा᳘चमे᳘वास्मिंस्तद्ब᳘लन्दधात्य᳘थो म᳘नः समानᳫँ᳭ हि व्वा᳘क्च म᳘नश्च॥
मूलम् - Weber
वागि᳘न्द्रो ब᳘लम् ॥
य᳘दैन्द्रो भ᳘वति वा᳘चमेॗवास्मिंस्तद्ब᳘लं दधात्य᳘थो म᳘नः समानᳫं हि वा᳘क्च म᳘नश्च ॥
मूलम् - विस्वरम्
वागिंद्रो बलम् । यदैंद्रो भवति । वाचमेवास्मिंस्तद्बलं दधाति, अथो मनः । समानं हि वाक् च मनश्च ॥ ६ ॥
हरिस्वामी
[व्याख्यानं द्वितीये]
Eggeling
- Indra is speech, strength; and inasmuch as there is (a victim) sacred to Indra, he bestows speech, strength, on this (Sacrificer); and mind also, for one and the same are speech and mind.
मूलम् - Makoto
वा᳓ग् इ᳓न्द्रो ब᳓लम् ।॥
य᳓द् ऐन्द्रो᳓ भ᳓वति वा᳓चम् एवा᳙स्मिंस् त᳓द् ब᳓लं दधा᳓त्य् अ᳓थो म᳓नः समा᳓नँ᳓ हि᳓ वा᳓क् च म᳓नश् च ॥॥
०७
विश्वास-प्रस्तुतिः
(श्चा) आश्विनी᳘रजाः᳘॥
सारस्वतीर᳘वीरैन्द्रीर्ग्गा᳘व ऽइ᳘त्याहुर्य्य᳘देते᳘ पश᳘व ऽआलभ्य᳘न्त ऽएता᳘भिरेव᳘ देव᳘ताभिरेता᳘न्पशून᳘वरुन्धे॥
मूलम् - श्रीधरादि
(श्चा) आश्विनी᳘रजाः᳘॥
सारस्वतीर᳘वीरैन्द्रीर्ग्गा᳘व ऽइ᳘त्याहुर्य्य᳘देते᳘ पश᳘व ऽआलभ्य᳘न्त ऽएता᳘भिरेव᳘ देव᳘ताभिरेता᳘न्पशून᳘वरुन्धे॥
मूलम् - Weber
आश्विनी᳘रजाः᳘ ॥
सारस्वतीर᳘वीरैन्द्रीर्गा᳘व इ᳘त्याहुर्य᳘देते᳘ पश᳘व आलभ्य᳘न्तऽएता᳘भिरेव᳘ देव᳘ताभिरेता᳘न्पशून᳘वरुन्द्धे ॥
मूलम् - विस्वरम्
आश्विनीरजाः सारस्वतीरवीरैंद्रीर्गाव इत्याहुः । यदेते पशव आलभ्यंते । एताभिरेव देवताभिरेतान्पशूनवरुन्धे ॥ ७ ॥
हरिस्वामी
[व्याख्यानं द्वितीये]
Eggeling
- ‘He-goats are sacred to the Aśvins, ewes to Sarasvatī, and cows (and bulls) to Indra,’ they say: if these animals are sacrificed, he, by means of those deities, gains those (three) animals.
मूलम् - Makoto
आ᳓शिविनी᳓र् अजाः᳓ ।॥
सा᳓रस्वती᳓र् अ᳓वीर् ऐन्द्री᳓र् गा᳓व इ᳓त्य् आ᳓हुर् य᳓द् एते᳓ पश᳓व आ᳓लभ्य᳓न्त एता᳓भिर् एव᳓ देव᳓ता᳓भिर् एता᳓न्य् अपशू᳓न् अ᳓वरुन्द्धे ॥॥
०८
विश्वास-प्रस्तुतिः
व्व᳘डवा᳘ ऽनु शिशुर्भवति॥
य᳘श ऽएवै᳘कशफम᳘वरुन्ध ऽआरण्या᳘नाम्पशूनां लो᳘मानि भवन्त्यारण्या᳘नाम्पशूनाम᳘वरुद्ध्यै व्वृकलोमा᳘नि भवन्त्यो᳘ज ऽएव᳘ जूति᳘मारण्या᳘नाम्पशूनाम᳘वरुन्धे व्व्याघ्रलोमा᳘नि भवन्ति मन्यु᳘मेव᳘ राज्य᳘मारण्या᳘नाम्पशूनाम᳘वरुन्धे सिᳫँ᳭हलोमा᳘नि भवन्ति स᳘ह ऽए᳘वेशा᳘मारण्या᳘नाम्पशूनाम᳘वरुन्धे॥
मूलम् - श्रीधरादि
व्व᳘डवा᳘ ऽनु शिशुर्भवति॥
य᳘श ऽएवै᳘कशफम᳘वरुन्ध ऽआरण्या᳘नाम्पशूनां लो᳘मानि भवन्त्यारण्या᳘नाम्पशूनाम᳘वरुद्ध्यै व्वृकलोमा᳘नि भवन्त्यो᳘ज ऽएव᳘ जूति᳘मारण्या᳘नाम्पशूनाम᳘वरुन्धे व्व्याघ्रलोमा᳘नि भवन्ति मन्यु᳘मेव᳘ राज्य᳘मारण्या᳘नाम्पशूनाम᳘वरुन्धे सिᳫँ᳭हलोमा᳘नि भवन्ति स᳘ह ऽए᳘वेशा᳘मारण्या᳘नाम्पशूनाम᳘वरुन्धे॥
मूलम् - Weber
व᳘डबा᳘नुशिशुर्भवति ॥
य᳘श एवै᳘कशफम᳘वरुन्द्धऽआरण्या᳘नां पशूनां लो᳘मानि भवन्त्यारण्या᳘नां पशूनाम᳘वरुद्ध्यै वृकलोमा᳘नि भवन्त्यो᳘ज एव᳘ जूति᳘मारण्या᳘णां पशूनाम᳘वरुन्द्धे व्याघ्रलोमा᳘नि भवन्ति मन्यु᳘मेव᳘ राज्य᳘मारण्या᳘नां पशूनाम᳘वरुन्द्धे सिᳫंहलोमा᳘नि भवन्ति स᳘ह एॗवेशा᳘मारण्या᳘नां पशूनाम᳘वरुन्द्धे ॥
मूलम् - विस्वरम्
(४) वडवा ऽनुशिशुर्भवति । यश एवैकशफमवरुंधे । आरण्यानां पशूनां लोमानि भवंति । आरण्यानां पशूनामवरुद्ध्ये । (५) वृकलोमानि भवति । ओज एव जूतिमारण्यानां पशूनामवरुंधे । (६) व्याघ्रलोमानि भवंति । मन्युमेव राज्यमारण्यानां पशूनामवरुंधे । (७) सिंहलोमानि भवंति । सह एवेशामारण्यानां पशूनामवरुन्धे ॥ ८ ॥
हरिस्वामी
वडवा ऽनुशिशुर्भवतीत्यादि सौत्रामण्याम् ॥ ८-११ ॥
Eggeling
- There is a mare with a foal 4: the one-hoofed (animal),glory, he thereby secures (for the Sacrificer 5). There are hairs of wild beasts 6, for the purpose of securing the wild beasts;–there are hairs of wolf: vigour, the impetuous rush of wild beasts, he thereby secures;–there are hairs of tiger: courage, the sway of wild beasts, he thereby secures;–there are hairs
of lion: might, the rule of wild beasts, he thereby secures.
मूलम् - Makoto
व᳓डबा᳓नुशिशुर् भवति ।॥
य᳓श एवै᳓कशफम् अ᳓वरुन्द्ध आ᳓रण्या᳓नां᳓ पशूनां᳓ लो᳓मा᳓नि भवन्त्य् आ᳓रण्या᳓नां᳓ पशूना᳓म् अ᳓वरुद्ध्यै वृकलोमा᳓नि भवत्य् ओ᳓ज एव᳓ जूति᳓म् आ᳓रण्या᳓णां᳓ पशूना᳓म् अ᳓वरुन्द्धे व्या᳓घ्रलोमा᳓नि भवन्ति मन्यु᳓म् एव᳓ रा᳓ज्य᳓म् आ᳓रण्या᳓नां᳓ पशूना᳓म् अ᳓वरुन्द्धे सिँहलोमा᳓नि भवन्ति स᳓ह एवे᳙शा᳓म् आ᳓रण्या᳓नां᳓ पशूना᳓म् अ᳓वरुन्द्धे ॥॥
०९
विश्वास-प्रस्तुतिः
व्व्रीह᳘यश्च श्यामा᳘काश्च भ᳘वन्ति॥
गोधू᳘माश्च कु᳘वलानि चोपवा᳘काश्च ब᳘दराणि च य᳘वाश्च कर्क्क᳘न्धूनि श᳘ष्पाणि च तो᳘क्मानि चोभ᳘यमेव᳘ ग्राम्यञ्चा᳘न्नमारण्यञ्चा᳘वरुन्धे᳘ ऽथो ऽउभ᳘येनैवा᳘न्नेन यथा रूप᳘मिन्द्रिय᳘म्वी᳘र्य्यमात्म᳘न्द्धत्ते॥
मूलम् - श्रीधरादि
व्व्रीह᳘यश्च श्यामा᳘काश्च भ᳘वन्ति॥
गोधू᳘माश्च कु᳘वलानि चोपवा᳘काश्च ब᳘दराणि च य᳘वाश्च कर्क्क᳘न्धूनि श᳘ष्पाणि च तो᳘क्मानि चोभ᳘यमेव᳘ ग्राम्यञ्चा᳘न्नमारण्यञ्चा᳘वरुन्धे᳘ ऽथो ऽउभ᳘येनैवा᳘न्नेन यथा रूप᳘मिन्द्रिय᳘म्वी᳘र्य्यमात्म᳘न्द्धत्ते॥
मूलम् - Weber
व्रीह᳘यश्च श्यामा᳘काश्च भ᳘वन्ति ॥
गोधू᳘माश्च कु᳘वलानि चोपवा᳘काश्च ब᳘दराणि च य᳘वाश्च कर्क᳘न्धूनि श᳘ष्पाणि च तो᳘क्मानि चोभ᳘यमेव᳘ ग्राम्यं चा᳘न्नमारण्यं चा᳘वरुन्द्धे᳘ऽथोऽउभ᳘येनैवा᳘न्नेन यथारूप᳘मिन्द्रियं᳘ वीॗर्यमात्म᳘न्धत्ते ॥
मूलम् - विस्वरम्
(८) व्रीहयश्च (९) श्यामाकाश्च भवन्ति । (१०) गोधूमाश्च (११) कुवलानि च । (१२) उपवाकाश्च (१३) बदराणि च । (१४) यवाश्च (१५) कर्क्कन्धूनि च । (१६) शष्पाणि च (१७) तोक्मानि च । उभयमेव ग्राम्यं चान्नमारण्यं चावरुन्धे । अथो उभयेनैवान्नेन यथा रूपमिन्द्रियं वीर्यमात्मन्धते ॥ ९ ॥
हरिस्वामी
[व्याख्यानं अष्टमे]
Eggeling
- There are grains of rice and grains of millet, grains of wheat and kuvala jujubes, Indra-grain and badara jujubes, grains of barley and karkandhu jujubes, malted rice and barley 7: both cultivated and wild-grain food he thereby secures; and by means of both kinds of food he duly lays energy and vital power into his own self.
मूलम् - Makoto
व्रीहिय᳓यश् च श्या᳓मा᳓का᳓श् च भ᳓वन्ति ।॥
गोधू᳓मा᳓श् च कु᳓वला᳓नि चोपवा᳓का᳓श् च ब᳓दरा᳓णि च य᳓वा᳓श् च कर्क᳓न्धूनि श᳓ष्पा᳓णि च तो᳓क्मा᳓नि चोभ᳓यम् एव᳓ ग्रा᳓म्यं᳓ चा᳓न्नम् आ᳓रण्यं᳓ चा᳓वरुन्द्धे᳓ ऽथो उभ᳓येनैवा᳓न्नेन यथा᳓रूप᳓म् इन्द्रियं᳓ वीर्य᳙म् आ᳓त्म᳓न् धत्ते ॥॥
१०
विश्वास-प्रस्तुतिः
सी᳘सेन श᳘ष्पाणि क्रीणाति॥
(त्यू᳘) ऊ᳘र्ण्णाभिस्तो᳘क्मानि सू᳘त्रैर्व्व्रीही᳘नुभ᳘योर्व्वा᳘ ऽएत᳘द्रूपम᳘यसश्च हि᳘रण्यस्य च यत्सी᳘समुभ᳘यᳫँ᳭ सौत्रामणी᳘ष्टिश्च पशुबन्ध᳘श्चोभ᳘यस्या᳘वरुद्ध्यै॥
मूलम् - श्रीधरादि
सी᳘सेन श᳘ष्पाणि क्रीणाति॥
(त्यू᳘) ऊ᳘र्ण्णाभिस्तो᳘क्मानि सू᳘त्रैर्व्व्रीही᳘नुभ᳘योर्व्वा᳘ ऽएत᳘द्रूपम᳘यसश्च हि᳘रण्यस्य च यत्सी᳘समुभ᳘यᳫँ᳭ सौत्रामणी᳘ष्टिश्च पशुबन्ध᳘श्चोभ᳘यस्या᳘वरुद्ध्यै॥
मूलम् - Weber
सी᳘सेन श᳘ष्पाणि क्रीणाति ॥
ऊ᳘र्णाभिस्तो᳘क्मानि सू᳘त्रैर्व्रीही᳘नुभ᳘योर्वा᳘ऽएत᳘द्रूपम᳘यसश्च हि᳘रण्यस्य च यत्सी᳘समुभ᳘यᳫं सौत्रामणी᳘ष्टिश्च पशुबन्ध᳘श्चोभ᳘यस्या᳘वरुद्ध्यै ॥
मूलम् - विस्वरम्
(१८) सीसेन शष्पाणि क्रीणाति । (१९) ऊर्णाभिस्तोक्मानि । (२०) सूत्रैर्व्रीहीन् । उभयोर्वा एतद्रूपम् । अयसश्च हिरण्यस्य च । यत्सीसम् । उभयं सौत्रामणी । इष्टिश्च पशुबन्धश्च । उभयस्यावरुद्ध्यै ॥ १० ॥
हरिस्वामी
[व्याख्यानं अष्टमे]
Eggeling
- With lead he buys 8 the malted rice, with (sheep’s) wool the malted barley, with thread the (fried) rice-grain,–that lead is a form of both iron and gold, and the Sautrāmaṇī is both an ishṭi-offering and an animal sacrifice, so that he thereby secures both of these.
मूलम् - Makoto
सी᳓सेन श᳓ष्पा᳓णि क्रीणा᳓ति ।॥
ऊ᳓र्णा᳓भिस् तो᳓क्मा᳓नि सू᳓त्रैर् व्रीही᳓न् उभ᳓योर् वा᳓ एत᳓द् रूप᳓म् अ᳓यसश् च हि᳓रण्यस्य च य᳓त् सी᳓सम् उभ᳓यँ सौत्रा᳓मणी᳓ष्टिश् च पशुबन्ध᳓श् चोभ᳓यस्या᳓वरुद्ध्यै ॥॥
११
विश्वास-प्रस्तुतिः
(द्ध्या ऽऊ) ऊर्ण्णासूत्रे᳘ण क्रीणाति॥
तद्वा᳘ ऽएत᳘त्स्त्रीणाङ्क᳘र्म्म य᳘दूर्ण्णासूत्रं क᳘र्म्म वा᳘ ऽइन्द्रिय᳘म्वी᳘र्य्यं त᳘देतदुत्सन्नᳫँ᳭ स्त्री᳘षु तद्य᳘दे᳘वेन्द्रिय᳘म्वी᳘र्य्यमु᳘त्सन्नᳫँ᳭ स्त्री᳘षु त᳘देवा᳘वरुन्धे॥
मूलम् - श्रीधरादि
(द्ध्या ऽऊ) ऊर्ण्णासूत्रे᳘ण क्रीणाति॥
तद्वा᳘ ऽएत᳘त्स्त्रीणाङ्क᳘र्म्म य᳘दूर्ण्णासूत्रं क᳘र्म्म वा᳘ ऽइन्द्रिय᳘म्वी᳘र्य्यं त᳘देतदुत्सन्नᳫँ᳭ स्त्री᳘षु तद्य᳘दे᳘वेन्द्रिय᳘म्वी᳘र्य्यमु᳘त्सन्नᳫँ᳭ स्त्री᳘षु त᳘देवा᳘वरुन्धे॥
मूलम् - Weber
ऊर्णासूत्रे᳘ण क्रीणाति ॥
तद्वा᳘ऽएत᳘त्स्त्रीणां क᳘र्म य᳘दूर्णासूत्रं क᳘र्म वा᳘ऽइन्द्रियं᳘ वीॗर्यं त᳘देतदुत्सन्नᳫं स्त्री᳘षु तद्य᳘देॗवेन्द्रियं᳘ वीॗर्यमु᳘त्सन्नᳫं स्त्री᳘षु 9 त᳘देवा᳘वरुन्द्धे ॥
मूलम् - विस्वरम्
(२१) ऊर्णासूत्रेण क्रीणाति । तद्वा एतत् स्त्रीणां कर्म, यदूर्णासूत्रम् । कर्म वा इन्द्रियं वीर्यम् । तदेतदुत्सन्नं स्त्रीषु । तद्यदेवेन्द्रियं वीर्यमुत्सन्नं स्त्रीषु तदेवावरुन्धे ॥ ११ ॥
हरिस्वामी
[व्याख्यानं अष्टमे]
Eggeling
- With wool and thread 10 he buys,–this, to wit, wool and thread, is women’s work; and work, indeed, means energy, or vital power, and this latter is extinct in women: he thus secures (for the Sacrificer) that energy, or vital power, which is extinct in women.
मूलम् - Makoto
ऊर्णा᳓सूत्रे᳓ण क्रीणा᳓ति ।॥
त᳓द् वा᳓ एत᳓त् स्त्रीणां᳓ क᳓र्म य᳓द् ऊर्णा᳓सूत्रं᳓ क᳓र्म वा᳓ इन्द्रियं᳓ वीर्यं᳙ त᳓द् एत᳓द् उ᳓त्सन्नँ स्त्री᳓षु त᳓द् य᳓द् एवे᳙न्द्रियं᳓ वीर्य᳙म् उ᳓त्सन्नँ स्त्री᳓षु त᳓द् एवा᳓वरुन्द्धे ॥॥
१२
विश्वास-प्रस्तुतिः
त᳘द्धैत᳘द᳘न्ये ऽध्वर्य्य᳘वः॥
सी᳘सेन क्लीबाच्छ᳘ष्पाणि क्रीणन्ति तत्तदि᳘ति न वा᳘ ऽएष स्त्री न पु᳘मान्य᳘त्क्लीबो ने᳘ष्टिर्न्न᳘ पशुबन्धः᳘ सौत्रामणी᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्य्यादुभ᳘यम्वै᳘ सौत्रामणी᳘ष्टिश्च पशुबन्ध᳘श्च᳘ व्व्यृद्धमु वा᳘ ऽएत᳘न्मनु᳘ष्येषु य᳘त्क्लीबो᳘ यज्ञमुख᳘ ऽएव ते᳘ यज्ञ᳘स्य᳘ व्व्यृद्धिन्दधति ये त᳘था कुर्व्व᳘न्ति सोमविक्रयि᳘ण ऽएव᳘ क्रीणीयात्सो᳘मो वै᳘ सौत्रामणी᳘ यज्ञमुख᳘ ऽएव त᳘त्सोमरूप᳘ङ्करोति यज्ञ᳘स्य स᳘मृद्ध्यै॥
मूलम् - श्रीधरादि
त᳘द्धैत᳘द᳘न्ये ऽध्वर्य्य᳘वः॥
सी᳘सेन क्लीबाच्छ᳘ष्पाणि क्रीणन्ति तत्तदि᳘ति न वा᳘ ऽएष स्त्री न पु᳘मान्य᳘त्क्लीबो ने᳘ष्टिर्न्न᳘ पशुबन्धः᳘ सौत्रामणी᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्य्यादुभ᳘यम्वै᳘ सौत्रामणी᳘ष्टिश्च पशुबन्ध᳘श्च᳘ व्व्यृद्धमु वा᳘ ऽएत᳘न्मनु᳘ष्येषु य᳘त्क्लीबो᳘ यज्ञमुख᳘ ऽएव ते᳘ यज्ञ᳘स्य᳘ व्व्यृद्धिन्दधति ये त᳘था कुर्व्व᳘न्ति सोमविक्रयि᳘ण ऽएव᳘ क्रीणीयात्सो᳘मो वै᳘ सौत्रामणी᳘ यज्ञमुख᳘ ऽएव त᳘त्सोमरूप᳘ङ्करोति यज्ञ᳘स्य स᳘मृद्ध्यै॥
मूलम् - Weber
त᳘द्धैत᳘दॗन्येऽध्वर्य᳘वः ॥
सी᳘सेन क्लीबाछ᳘ष्पाणि क्रीणन्ति तत्तदि᳘ति न वा᳘ऽएष स्त्री न पु᳘मान्य᳘त्क्लीबो ने᳘ष्टिर्न᳘ पशुबन्धः᳘ सौत्रामणी᳘ति वदन्तस्त᳘दु त᳘था न᳘ कुर्यादुभ᳘यं वै᳘ सौत्रामणी᳘ष्टिश्च पशुबन्ध᳘श्चॗ व्यृद्धमु वा᳘ऽएत᳘न्मनुॗष्येषु य᳘त्क्लीबो᳘ यज्ञमुख᳘ऽएव ते᳘ यज्ञ᳘स्यॗ व्यृद्धिं दधति ये त᳘था कुर्व᳘न्ति सोमविक्रयि᳘ण एव᳘ क्रीणीयात्सो᳘मो वै᳘ सौत्रामणी᳘ यज्ञमुख᳘ऽएव त᳘त्सोमरूपं᳘ करोति यज्ञ᳘स्य स᳘मृद्ध्यै ॥
मूलम् - विस्वरम्
तद्धैतत् अन्ये ऽध्वर्यवः- सीसेन क्लीबाच्छष्पाणि क्रीणंति । तत्तदिति । न वा एष स्त्री, न पुमान् । यत् क्लीबः । नेष्टिर्न पशुबंधः सौत्रामणीति वदंतः । तदु तथा न कुर्यात् । उभयं वै सौत्रामणी । इष्टिश्च पशुबंधश्च । व्यृद्धमु वा एतन्मनुष्येषु । यत् क्लीबः । यज्ञमुख एव ते यज्ञस्य व्यृद्धिं दधति । ये तथा कुर्वन्ति । सोमविक्रयिण एव क्रीणीयात् । सोमो वै सौत्रामणी यज्ञमुख एव तत्सोमरूपं करोति । यज्ञस्य समृद्ध्यै ॥ १२ ॥
हरिस्वामी
अन्ये ऽध्वर्यवश्चरकाः । सीसेन 11 क्लीबात् शष्पाणि क्रीणन्ति । न केवलं तर्हि तत्तत् अनेन निमित्तशब्द एवमर्थेन वा । (एषष्ठीत्यादिवत् ?) ॥ १२ ॥
Eggeling
- Here now, other Adhvaryus buy the malted rice with lead from a eunuch, saying, ‘That is that 12; for the eunuch is neither woman nor man, and the
Sautrāmaṇī is neither an ishṭi-offering nor an animal sacrifice.’ But let him not do so, for the Sautrāmaṇī is both an ishṭi and an animal sacrifice, and the eunuch is something unsuccessful among men: they who do this thus place failure into the very mouth (opening) of the sacrifice. Let him rather buy them from a vendor of Soma, for the Sautrāmaṇī is Soma: he thus puts a form of Soma into the very mouth of the sacrifice so as to secure the sacrifice.
मूलम् - Makoto
त᳓द् धैत᳓द् अन्ये᳙ ऽध्वर्य᳓वः ।॥
सी᳓सेन क्लीबा᳓च् छ᳓ष्पा᳓णि क्रीणन्ति त᳓त् त᳓द् इ᳓ति न᳓ वा᳓ एष᳓ स्त्री᳓ न᳓ पु᳓मा᳓न् य᳓त् क्लीबो᳓ ने᳓ष्टिर् न᳓ पशुबन्धः᳓ सौत्रा᳓मणी᳓ति व᳓दन्तस् त᳓द् उ त᳓था᳓ न᳓ कुर्या᳓द् उभ᳓यं वै᳓ सौत्रा᳓मणी᳓ष्टिश् च पशुबन्ध᳓श् च व्यृ᳙द्धम् उ वा᳓ एत᳓न् मनुष्ये᳙षु य᳓त् क्लीबो᳓ यज्ञमुख᳓ एव᳓ ते᳓ यज्ञ᳓स्य व्यृ᳙द्धिं दधति ये᳓ त᳓था᳓ कुर्व᳓न्ति सोमविक्रयि᳓ण एव᳓ क्रीणीया᳓त् सो᳓मो वै᳓ सौत्रा᳓मणी᳓ यज्ञमुख᳓ एव᳓ त᳓त् सोमरूपं᳓ करोति यज्ञ᳓स्य स᳓मृद्ध्यै ॥॥
१३
विश्वास-प्रस्तुतिः
शता᳘तृष्णा कुम्भी᳘ भवति॥
बहु᳘धेव हि स व्व्य᳘स्रवद᳘थो शतो᳘न्मानो वै᳘ यज्ञो᳘ यज्ञ᳘मेवा᳘वरुन्द्धे स᳘तम्भवति स᳘देवा᳘वरुन्धे च᳘प्पम्भवत्यन्ना᳘द्यस्यैवा᳘वरुद्ध्यै पवित्र᳘म्भवति पुन᳘न्ति᳘ ह्येनम्वा᳘लो भवति पाप्म᳘नो व्व्या᳘वृत्त्यै सुव᳘र्ण्णᳫँ᳭ हि᳘रण्यं भवति रूप᳘स्यैवा᳘वरुद्ध्यै शत᳘मानं भवति शता᳘युर्व्वै पु᳘रुषः शते᳘न्द्रिय ऽआ᳘युरे᳘वेन्द्रिय᳘म्वी᳘र्य्यमात्म᳘न्द्धत्ते॥
मूलम् - श्रीधरादि
शता᳘तृष्णा कुम्भी᳘ भवति॥
बहु᳘धेव हि स व्व्य᳘स्रवद᳘थो शतो᳘न्मानो वै᳘ यज्ञो᳘ यज्ञ᳘मेवा᳘वरुन्द्धे स᳘तम्भवति स᳘देवा᳘वरुन्धे च᳘प्पम्भवत्यन्ना᳘द्यस्यैवा᳘वरुद्ध्यै पवित्र᳘म्भवति पुन᳘न्ति᳘ ह्येनम्वा᳘लो भवति पाप्म᳘नो व्व्या᳘वृत्त्यै सुव᳘र्ण्णᳫँ᳭ हि᳘रण्यं भवति रूप᳘स्यैवा᳘वरुद्ध्यै शत᳘मानं भवति शता᳘युर्व्वै पु᳘रुषः शते᳘न्द्रिय ऽआ᳘युरे᳘वेन्द्रिय᳘म्वी᳘र्य्यमात्म᳘न्द्धत्ते॥
मूलम् - Weber
शता᳘तृष्णा कुम्भी᳘ भवति ॥
बहुॗधेव हि स व्य᳘स्रवद᳘थो शतो᳘न्मानो वै᳘ यज्ञो᳘ यज्ञ᳘मेवा᳘वरुन्द्धे स᳘तं भवति स᳘देवा᳘वरुन्द्धे च᳘प्यं भवत्यन्ना᳘द्यस्यैवा᳘वरुद्ध्यै पवित्रं᳘ भवति पुन᳘न्तिॗ ह्येनं वा᳘लो भवति पाप्मनो व्या᳘वृत्त्यै 13 सुव᳘र्णᳫं हि᳘रण्यं भवति रूपस्यैवा᳘वरुद्ध्यै शत᳘मानं भवति शता᳘युर्वै पु᳘रुषः शते᳘न्द्रिय आ᳘युरेॗवेन्द्रियं᳘ वीॗर्यमात्म᳘न्धत्ते ॥
मूलम् - विस्वरम्
(२२) शतातृण्णा कुंभी भवति । बहुधेव स व्यस्रवत् । अथो शतोन्मानो वै यज्ञो यज्ञमेवावरुंधे । (२३) सतं भवति । सदेवावरुंधे । (२४) चप्पं भवति । अन्नाद्यस्यैवावरुद्ध्यै (२५) पवित्रं भवति । पुनंति ह्येनम् । (२६) वालो भवति । पाप्मनो व्यावृत्त्यै । (२७) सुवर्णं (२८) हिरण्यं भवति । रूपस्यैवावरुद्ध्यै । (२९) शतमानं भवति । शतायुर्वै पुरुषः शतेंद्रियः । आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते ॥ १३ ॥
हरिस्वामी
‘शतातृण्णा’ शतमातृण्णानि छिद्राणि यस्याः सा शतातृण्णा । बहुधा हि स्रुतः सोमः । अथो अपि च ‘शतोन्मानः’, शतं उन्मानानि दक्षिणा अस्येति शतोन्मानः ‘यज्ञः’ ऊर्ध्वं मीयते । यजनार्थे भवति सुरायाः पयसो ऽपि वा । सत्सतं सतशब्द उभयलिंग इति प्रदर्शितम् । वै भत्सः । सत इति अहिवल्लिंगः । कबंधं वेति । सुरापचनार्थमेव सच्छब्दः । इति च लोके प्रसिद्धम् । शतमानं शतकृष्णलम् ॥ १३ ॥
Eggeling
- There is a pot (kumbhī) perforated with a hundred holes 14, for in many ways did that (Soma) flow out of (Indra); and a hundred-sized also, indeed, is the sacrifice: it is the sacrifice he thereby secures. There is a bowl (rata 15): it is the real (or good) thing (sat) he thereby secures. There is a dish (capya) for him to secure food. There is a filter, for they cleanse him, (the Sacrificer, by this offering). There is a tail (-whisk) for turning away evil. There is gold for him to secure form (or colour); it weighs a hundred (grains), for man has a life of a hundred (years) and a hundred energies: life, and energy, vital power, he thus lays into his own self.
मूलम् - Makoto
शता᳓तृण्णा᳓ कुम्भी᳓ भवति ।॥
बहुधे᳙व हि᳓ स᳓ व्य᳓स्रवद् अ᳓थो शतो᳓न्मा᳓नो वै᳓ यज्ञो᳓ यज्ञ᳓म् एवा᳓वरुन्द्धे स᳓तं भवति स᳓देवा᳓वरुन्द्धे च᳓प्यं भवत्य् अन्ना᳓द्यस्यैवा᳓वरुद्ध्यै पवित्रं᳓ भवति पुन᳓न्ति ह्य् ए᳙नं वा᳓लो भवति पा᳓प्मनो᳓ व्या᳓वृत्त्यै सुव᳓र्णँ हि᳓रण्यं भवति रूपस्यैवा᳓रुद्ध्यै शत᳓मा᳓नं भवति शता᳓युर् वै᳓ पु᳓रुषः शते᳓न्द्रिय आ᳓युर् एवे᳙न्द्रियं᳓ वीर्य᳙म् आ᳓त्म᳓न् धत्ते ॥॥
१४
विश्वास-प्रस्तुतिः
(त्त ऽआ᳘) आ᳘श्वत्थम्पा᳘त्रं भवति॥
(त्य᳘) अ᳘पचितिमेवा᳘वरुन्द्ध ऽऔ᳘दुम्बरं भवत्यूर्ज्जमेवा᳘वरुन्द्धे नैयग्रो᳘धम्भवति स्वधा᳘मेवा᳘वरुन्द्धे स्था᳘ल्यो भवन्ति प्पृथिव्या᳘ ऽए᳘वान्ना᳘द्यम᳘वरुन्द्धे॥
मूलम् - श्रीधरादि
(त्त ऽआ᳘) आ᳘श्वत्थम्पा᳘त्रं भवति॥
(त्य᳘) अ᳘पचितिमेवा᳘वरुन्द्ध ऽऔ᳘दुम्बरं भवत्यूर्ज्जमेवा᳘वरुन्द्धे नैयग्रो᳘धम्भवति स्वधा᳘मेवा᳘वरुन्द्धे स्था᳘ल्यो भवन्ति प्पृथिव्या᳘ ऽए᳘वान्ना᳘द्यम᳘वरुन्द्धे॥
मूलम् - Weber
आ᳘श्वत्थं पा᳘त्रं भवति ॥
अ᳘पचितिमेवा᳘वरुन्द्धऽऔ᳘दुम्बरं भवत्यूर्जमेवा᳘वरुन्द्धे नैयग्रो᳘धं भवति स्वधा᳘मेवा᳘वरुन्द्धे स्था᳘ल्यो भवन्ति पृथिव्या᳘ऽएॗवान्ना᳘द्यमवरुन्द्धे ॥
मूलम् - विस्वरम्
(३०) आश्वत्थं 16 पात्रं भवति । अपचितिमेवावरुंधे । (३१) औदुंबरं भवति 17 । ऊर्जमेवावरुंधे । (३२) नैयग्रोधं 18 भवति । स्वधामेवावरुंधे । (३३) स्थाल्यो भवंति । पृथिव्या एवान्नाद्यमवरुंधे ॥ १४ ॥
हरिस्वामी
आश्वत्थं पात्रं भवतीत्यादि । अश्वत्थादीनां विकार्यवचनम् । स्थाल्यो मार्तिक्यः सुराग्रहणार्थाः ॥ १४ ॥
Eggeling
- There is an aśvattha (ficus religiosa) vessel: honour he thereby secures. There is an udumbara (ficus glomerata) one: force he thereby secures. There is a nyagrodha (ficus indica) one: sweet drink he thereby secures. There are (earthen) pots (sthālī): the food of the earth he thereby secures.
मूलम् - Makoto
आ᳓श्वत्थं पा᳓त्रं भवति ।॥
अ᳓पचितिम् एवा᳓वरुन्द्ध औ᳓दुम्बरं भवत्य् उ᳓र्जम् एवा᳓वरुन्द्धे नैयग्रो᳓धं भवति स्वधा᳓म् एवा᳓वरुन्द्धे स्या᳓ल्यो भवन्ति पृथिव्या᳓ एवा᳙न्ना᳓द्यम् अ᳓वरुन्द्धे ॥॥
१५
विश्वास-प्रस्तुतिः
पा᳘लाशान्युपशया᳘नि भवन्ति॥
ब्र᳘ह्म वै᳘ पलाशो ब्र᳘ह्मणैव᳘ स्वर्ग्गं᳘ लोकं᳘ जयत्यपाष्ठिह᳘स्य प᳘त्रे भवतस्त्वि᳘षिमेव᳘ राज्यम्व᳘यसाम᳘वरुन्धे ष᳘ट्त्रिᳫँ᳭शदेता᳘नि भवन्ति ष᳘ट्त्रिᳫँ᳭शदक्षरा वै᳘ बृहती बा᳘र्हताः पश᳘वो बृह᳘त्यै᳘वास्मै पशून᳘वरुन्धे॥
मूलम् - श्रीधरादि
पा᳘लाशान्युपशया᳘नि भवन्ति॥
ब्र᳘ह्म वै᳘ पलाशो ब्र᳘ह्मणैव᳘ स्वर्ग्गं᳘ लोकं᳘ जयत्यपाष्ठिह᳘स्य प᳘त्रे भवतस्त्वि᳘षिमेव᳘ राज्यम्व᳘यसाम᳘वरुन्धे ष᳘ट्त्रिᳫँ᳭शदेता᳘नि भवन्ति ष᳘ट्त्रिᳫँ᳭शदक्षरा वै᳘ बृहती बा᳘र्हताः पश᳘वो बृह᳘त्यै᳘वास्मै पशून᳘वरुन्धे॥
मूलम् - Weber
पा᳘लाशान्युपशया᳘नि भवन्ति ॥
ब्र᳘ह्म वै᳘ पलाशो ब्र᳘ह्मणैव᳘ स्वर्गं᳘ लोकं᳘ जयत्यपाष्ठिह᳘स्य प᳘त्रे भवतस्त्वि᳘षिमेव᳘ राज्यं व᳘यसाम᳘वरुन्द्धे ष᳘ट्त्रिᳫंशदेता᳘नि भवन्ति ष᳘ट्त्रिᳫंशदक्षरा वै᳘ बृहती बा᳘र्हताः पश᳘वो बृहॗत्यैॗवास्मै पशून᳘वरुन्द्धे ॥
मूलम् - विस्वरम्
(३४) पालाशान्युपशयानि भवंति । ब्रह्म वै पलाशः । ब्रह्मणैव स्वर्गं लोकं जयति । अपाष्ठिहस्य (३५, ३६) पत्रे भवतः । त्विषिमेव राज्यं वयसामवरुंधे । षट्त्रिंशदेतानि भवंति । षट्त्रिंशदक्षरा वै बृहती । बार्हताः पशवः । बृहत्यैवास्मै पशूनवरुंधे ॥ १५ ॥
हरिस्वामी
पालाशान्युपशयानि भवंति । सुराग्रहाणां होमार्थानि पात्राणि । अस्य पार्ष्णिना ह्येनादित्यागास्तात् । अपाष्ठिहा । आशिषि हनः डप्रत्ययः । अपाष्ठिहेत्यत्र क्विप् । अपाष्ठिहस्य पत्रे यजमानपावनार्थे भवतः । षट्त्रिंशत् 16 । सर्वाण्येवैतानि द्रव्याणि धूम्रादारभ्य भवंति ॥ १५ ॥
Eggeling
- There are supernumerary 19 (vessels) of palāśa
wood: the palāśa (butea frondosa) is the Brahman (holy writ, holiness, the priesthood): it is by the Brahman that he gains the heavenly world. There are two feathers of a talon-slaying (bird) 20: courage, the sway of birds, he thereby secures. There are thirty-six of these (objects), for the Br̥hatī consists of thirty-six syllables, and cattle are related to the Br̥hatī: by means of the Br̥hatī he thus secures cattle for him.
मूलम् - Makoto
पा᳓ला᳓शा᳓न्य् उपशया᳓नि भवन्ति ।॥
ब्र᳓ह्म वै᳓ पला᳓शो᳓ ब्र᳓मणैव᳓ स्वर्गं᳓ लोकं᳓ जयत्य् अपा᳓ष्ठिह᳓स्य प᳓त्रे भवतस् त्वि᳓षिम् एव᳓ रा᳓ज्यं᳓ व᳓यसा᳓म् अ᳓वरुन्द्धे ष᳓ट्त्रिँशद् एता᳓नि भवन्ति ष᳓ट्त्रिँशदक्षरा᳓ वै᳓ बृहती᳓ बा᳓र्हताः᳓ पश᳓वो बृहत्यै᳙वा᳙स्मै पशू᳓न् अ᳓वरुन्द्धे ॥॥
१६
विश्वास-प्रस्तुतिः
त᳘दाहुः॥ (र) अन्यदेव᳘त्याः पश᳘वो भ᳘वन्त्यन्यदेव᳘त्याः पुरोडा᳘शा व्वि᳘लोमैत᳘त्क्रियते कथ᳘मेतत्स᳘लोम भवती᳘त्यैन्द्रः᳘ पशूना᳘मुत्तमो भ᳘वत्यैन्द्रः᳘ पुरोडा᳘शानां प्रथम᳘ ऽइन्द्रियम्वै᳘ व्वी᳘र्य्यमि᳘न्द्र ऽइन्द्रिये᳘णै᳘वास्मा ऽइन्द्रिय᳘व्वी᳘र्य्यᳫँ᳭ स᳘न्दधातीन्द्रिये᳘णेन्द्रिय᳘म्वी᳘र्य्यम᳘वरुन्धे॥
मूलम् - श्रीधरादि
त᳘दाहुः॥ (र) अन्यदेव᳘त्याः पश᳘वो भ᳘वन्त्यन्यदेव᳘त्याः पुरोडा᳘शा व्वि᳘लोमैत᳘त्क्रियते कथ᳘मेतत्स᳘लोम भवती᳘त्यैन्द्रः᳘ पशूना᳘मुत्तमो भ᳘वत्यैन्द्रः᳘ पुरोडा᳘शानां प्रथम᳘ ऽइन्द्रियम्वै᳘ व्वी᳘र्य्यमि᳘न्द्र ऽइन्द्रिये᳘णै᳘वास्मा ऽइन्द्रिय᳘व्वी᳘र्य्यᳫँ᳭ स᳘न्दधातीन्द्रिये᳘णेन्द्रिय᳘म्वी᳘र्य्यम᳘वरुन्धे॥
मूलम् - Weber
त᳘दाहुः ॥ अन्यदेव᳘त्याः पश᳘वो भ᳘वन्त्यन्यदेव᳘त्याः पुरोडा᳘शा वि᳘लोमैत᳘त्क्रियते कथ᳘मेतत्स᳘लोम भवती᳘त्यैन्द्रः᳘ पशूना᳘मुत्तमो भ᳘वत्यैन्द्रः᳘ पुरोडा᳘शानां प्रथम᳘ इन्द्रियं वै᳘ वीॗर्यमि᳘न्द्र इ᳘न्द्रिये᳘णैॗवास्मा᳘ऽइन्द्रियं᳘ वीॗर्यᳫं सं᳘दधातीन्द्रिये᳘णेन्द्रियं᳘ वीॗर्यमवरुन्द्धे ॥
मूलम् - विस्वरम्
तदाहुः- अन्यदेवत्याः पशवो भवंति । अन्यदेवत्याः पुरोडाशाः । विलोमैतत्क्रियते । कथमेतत्सलोम भवतीति । ऐंद्रः पशूनामुत्तमो भवति । ऐंद्रः पुरोडाशानां प्रथमः । इंद्रियं वै वीर्यम् इंद्रः । इंद्रियेणैवास्मा इंद्रियं वीर्यं संदधाति । इंद्रियेणेंद्रियं वीर्यमवरुंधे ॥ १६ ॥
हरिस्वामी
अन्यदेवत्याः पशवः अन्यदेवत्याः पुरोडाशाः । इत्येतद्विलोम क्रियते । कथमेतत् सलोम भवतीति पशुपुरोडाशानामुपन्यासो देवतांतरसंबन्धार्थः । इतरथा तु ऐन्द्रः पुरोडाशः सावित्रो वारुण इत्युक्ते कर्मान्तराणि वा प्राप्तान्येतानि । अनियमेन वा पशुपुरोडाशेषु देवताविचारः । न च प्रथमो देवताविधिः । प्रथमे पशुपुरोडाशे द्वितीयतृतीयः युज्यते । इह पुरोडाशानां क्रमाभावात् कर्मणश्च क्रमो विनियोजको भवति । पुनः पुरोडाशानां विशेषकस्तस्मादुपपन्नम् । गुणादसंबन्धार्थो ऽयमुपन्यास इति । तत्रैन्द्रः प्रथमः 21 । सावित्रो द्वितीयः । वारुणस्तृतीय इति देवता विधाय एकादशकपाल इति विधेयम् । मध्यत एतैरित्यनुवाद एव ॥ १६-२० ॥
Eggeling
- As to this they say, ‘The victims have one set of deities, and the cakes another set of deities: this is an improper performance 22; how does it become right and proper?’ To Indra belongs the last of the victims, and to Indra the first of the cakes; and Indra, indeed, is energy (indriya), or vital power: through (Indra’s) energy he thus confers on him energy, or vital power; and through (Indra’s) energy he secures energy, or vital power.
मूलम् - Makoto
त᳓द् आ᳓हुः ।॥
अन्यदेव᳓त्याः᳓ पश᳓वो भ᳓वन्त्य् अन्यदेव᳓त्याः᳓ पुरोडा᳓शा᳓ वि᳓लोमैत᳓त् क्रियते कथ᳓म् एत᳓त् स᳓लोम भवती᳓त्य् ऐन्द्रः᳓ पशूना᳓म् उत्तमो᳓ भ᳓वत्य् ऐन्द्रः᳓ पुरोडा᳓शा᳓नां᳓ प्रथम᳓ इन्द्रियं᳓ वै᳓ वीर्य᳙म् इ᳓न्द्र इ᳓न्द्रिये᳓णैवा᳙स्मा᳓ इन्द्रियं᳓ वीर्यँ᳙ सं᳓दधा᳓तीन्द्रिये᳓णेन्द्रियं᳓ वीर्य᳙म् अ᳓वरुन्द्धे ॥॥
१७
विश्वास-प्रस्तुतिः
सावित्रः᳘ पुरोडा᳘शो भवति॥
सवितृप्रसूत᳘तायै व्वारुणो᳘ भवति व्व᳘रुणो वा᳘ ऽएत᳘ङ्गृह्णाति यः᳘ पाप्म᳘ना गृहीतो भ᳘वति व्व᳘रुणेनै᳘वैनम्वरु᳘ण्यान्मुञ्चत्य᳘न्त्यो भवत्यन्तत᳘ ऽए᳘वैनम्वरुणपाशात्प्र᳘मुञ्चति॥
मूलम् - श्रीधरादि
सावित्रः᳘ पुरोडा᳘शो भवति॥
सवितृप्रसूत᳘तायै व्वारुणो᳘ भवति व्व᳘रुणो वा᳘ ऽएत᳘ङ्गृह्णाति यः᳘ पाप्म᳘ना गृहीतो भ᳘वति व्व᳘रुणेनै᳘वैनम्वरु᳘ण्यान्मुञ्चत्य᳘न्त्यो भवत्यन्तत᳘ ऽए᳘वैनम्वरुणपाशात्प्र᳘मुञ्चति॥
मूलम् - Weber
सावित्रः᳘ पुरोडा᳘शो भवति ॥
सवितृप्रसूत᳘तायै वारुणो᳘ भवति व᳘रुणो वा᳘ऽएतं᳘ गृह्णाति यः᳘ पाप्म᳘ना गृहीतो भ᳘वति व᳘रुणेनैॗवैनं वरुॗण्यान्मुञ्चत्य᳘न्त्यो भवत्यन्तत᳘ एॗवैनं वरुणपाशात्प्र᳘मुञ्चति ॥
मूलम् - विस्वरम्
सावित्रः पुरोडाशो भवति । सवितृप्रसूततायै । वारुणो भवति । वरुणो वा एतं गृह्णाति । यः पाप्मना गृहीतो भवति । वरुणेनैवैनं वरुण्यान्मुंचति । अंत्यो भवति । अंतत एवैनं वरुणपाशात्प्रमुंचति ॥ १७ ॥
हरिस्वामी
[व्याख्यानं षोडशे]
Eggeling
- There is a cake to Savitr̥ for him to become impelled by Savitr̥; and one to Varuṇa, for it is Varuṇa that seizes him who is seized by evil: through Varuṇa he thus delivers him from Varuṇa’s power;–it is the final (cake): he thus delivers him finally from Varuṇa’s noose.
मूलम् - Makoto
सा᳓वित्रः᳓ पुरोडा᳓शो भवति ।॥
सवितृप्र्सूत᳓ता᳓यै वा᳓रुणो᳓ भवति व᳓रुणो वा᳓ एतं᳓ गृह्णा᳓ति यः᳓ पा᳓प्म᳓ना᳓ गृहीतो᳓ भ᳓वति व᳓रुणेनैवै᳙नं वरुण्या᳙न् मुञ्चत्य् अ᳓न्त्यो भवत्य् अन्तत᳓ एवै᳙नं वरुणपा᳓शा᳓त् प्र᳓मुञ्चति ॥॥
१८
विश्वास-प्रस्तुतिः
(त्ये᳘) ए᳘कादशकपाल ऽऐन्द्रो᳘ भवति॥
(त्ये) ए᳘कादशाक्षरा वै᳘ त्रिष्टु᳘बिन्द्रिय᳘मु वै᳘ व्वी᳘र्य्यं त्रिष्टु᳘बिन्द्रिय᳘स्यैव᳘ व्वी᳘र्य्यस्या᳘वरुद्ध्यै॥
मूलम् - श्रीधरादि
(त्ये᳘) ए᳘कादशकपाल ऽऐन्द्रो᳘ भवति॥
(त्ये) ए᳘कादशाक्षरा वै᳘ त्रिष्टु᳘बिन्द्रिय᳘मु वै᳘ व्वी᳘र्य्यं त्रिष्टु᳘बिन्द्रिय᳘स्यैव᳘ व्वी᳘र्य्यस्या᳘वरुद्ध्यै॥
मूलम् - Weber
ए᳘कादशकपाल ऐन्द्रो᳘ भवति ॥
ए᳘कादशाक्षरा वै᳘ त्रिष्टु᳘बिन्द्रिय᳘मु वै᳘ वीॗर्यं त्रिष्टु᳘बिन्द्रिय᳘स्यैव᳘ वीॗर्यस्या᳘वरुद्ध्यै ॥
मूलम् - विस्वरम्
एकादशकपाल ऐंद्रो भवति । एकादशाक्षरा वै त्रिष्टुप् । इंद्रियमु वै वीर्यं त्रिष्टुप् । इन्द्रियस्यैव वीर्यस्यावरुद्ध्यै ॥ १८ ॥
हरिस्वामी
[व्याख्यानं षोडशे]
Eggeling
- Indra’s (cake) is one on eleven potsherds, in order that he may secure (Indra’s) energy, or vital
power; for the Trishṭubh consists of eleven syllables, and the Trishṭubh is energy, or vital power.
मूलम् - Makoto
ए᳓का᳓दशकपा᳓ल ऐन्द्रो᳓ भवति ।॥
ए᳓का᳓दशा᳓क्षरा᳓ वै᳓ त्रिष्टु᳓ब् इन्द्रिय᳓म् उ वै᳓ वीर्यं᳙ त्रिष्टु᳓ब् इन्द्रिय᳓स्यैव᳓ वीर्य᳙स्या᳓वरुद्ध्यै ॥॥
१९
विश्वास-प्रस्तुतिः
द्वा᳘दशकपालः सावित्रो᳘ भवति॥
द्वा᳘दश वै मा᳘साः सम्वत्सर᳘स्य सम्वत्सरम्वा᳘ ऽअन्ना᳘द्यमन्वा᳘यत्तᳫँ᳭ सम्वत्सरा᳘दे᳘वास्मा ऽअन्ना᳘द्यम᳘वरुन्धे॥
मूलम् - श्रीधरादि
द्वा᳘दशकपालः सावित्रो᳘ भवति॥
द्वा᳘दश वै मा᳘साः सम्वत्सर᳘स्य सम्वत्सरम्वा᳘ ऽअन्ना᳘द्यमन्वा᳘यत्तᳫँ᳭ सम्वत्सरा᳘दे᳘वास्मा ऽअन्ना᳘द्यम᳘वरुन्धे॥
मूलम् - Weber
द्वा᳘दशकपालः सावित्रो᳘ भवति ॥
द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य संवत्सरं वा᳘ऽअन्ना᳘द्यमन्वा᳘यत्तᳫं संवत्सरा᳘देॗवास्माऽअन्ना᳘द्यम᳘वरुन्द्धे ॥
मूलम् - विस्वरम्
द्वादशकपालः सावित्रो भवति । द्वादश वै मासाः संवत्सरस्य । संवत्सरं वा अन्नाद्यमन्वायत्तम् । संवत्सरादेवास्मा अन्नाद्यमवरुंधे ॥ १९ ॥
हरिस्वामी
[व्याख्यानं षोडशे]
Eggeling
- Savitr̥’s (cake) is one on twelve potsherds, for there are twelve months in the year, and the year means constantly existing food: from the year he thus secures for hire food.
मूलम् - Makoto
द्वा᳓दशकपा᳓लः सा᳓वित्रो᳓ भवति ।॥
द्वा᳓दश वै᳓ मा᳓साः᳓ संवत्सर᳓स्य संवत्सरं᳓ वा᳓ अन्ना᳓द्यम् अन्वा᳓यत्तँ संवत्सरा᳓द् एवा᳙स्मा᳓ अन्न्ना᳓द्यम् अ᳓वरुन्द्धे ॥॥
२०
विश्वास-प्रस्तुतिः
द᳘शकपालो व्वारुणो᳘ भवति॥
द᳘शाक्षरा वै᳘ व्विराड᳘न्नं व्विराड्व᳘रुणो᳘ ऽन्नपतिर्व्वरुणेनै᳘वास्मा ऽअ᳘न्नम᳘वरुन्धे मध्यत᳘ ऽएतैः᳘ पुरोडा᳘शैः प्प्र᳘चरति म᳘ध्यम्वा᳘ ऽएते᳘षां यो᳘निः स्वा᳘दे᳘वैनान्यो᳘नेः प्र᳘जनयति॥
मूलम् - श्रीधरादि
द᳘शकपालो व्वारुणो᳘ भवति॥
द᳘शाक्षरा वै᳘ व्विराड᳘न्नं व्विराड्व᳘रुणो᳘ ऽन्नपतिर्व्वरुणेनै᳘वास्मा ऽअ᳘न्नम᳘वरुन्धे मध्यत᳘ ऽएतैः᳘ पुरोडा᳘शैः प्प्र᳘चरति म᳘ध्यम्वा᳘ ऽएते᳘षां यो᳘निः स्वा᳘दे᳘वैनान्यो᳘नेः प्र᳘जनयति॥
मूलम् - Weber
द᳘शकपालो वारुणो᳘ भवति ॥
द᳘शाक्षरा वै᳘ विराड᳘न्नं विराड्व᳘रुणो᳘ऽन्नपतिर्व᳘रुणेनैॗवास्माऽअ᳘न्नम᳘वरुन्द्धे मध्यत᳘ एतैः᳘ पुरोडा᳘शैः प्र᳘चरति म᳘ध्यं वा᳘ऽएते᳘षां यो᳘निः स्वा᳘देॗवैनान्यो᳘नेः प्र᳘जनयति ॥
मूलम् - विस्वरम्
दशकपालो वारुणो भवति । दशाक्षरा वै विराट् । अन्नं विराट् । वरुणो ऽन्नपतिः । वरुणेनैवास्मा अन्नमवरुन्धे । मध्यत एतैः पुरोडाशैः प्रचरति । मध्यं वा एतेषां योनिः । स्वादेवैनान् योनेः प्रजनयति ॥ २० ॥
हरिस्वामी
[व्याख्यानं षोडशे]
Eggeling
- Varuṇa’s (cake) is one on ten potsherds, for the Virāj consists of ten syllables, and Varuṇa is Virāj (the widely ruling), the lord of food: through Varuṇa he thus secures food for him. In the middle (of the sacrifice) they proceed with (the offering of) these cakes, for the centre means their (mother’s) womb: he thus causes them to be produced from their own (mother’s) womb.
मूलम् - Makoto
द᳓शकपा᳓लो वा᳓रुणो᳓ भवति ।॥
द᳓शा᳓क्षरा᳓ वै᳓ विरा᳓ड् अ᳓न्नं विरा᳓ड् व᳓रुणो᳓ ऽन्नपतिर् व᳓रुणेनैवा᳙स्मा᳓ अ᳓न्नम् अ᳓वरुन्द्धे मध्यत᳓ एतैः᳓ पुरोडा᳓शैः प्र᳓चरति म᳓ध्यं वा᳓ एतेषां᳓ यो᳓निः स्वा᳓द् एवै᳙ना᳓न् यो᳓नेः प्र᳓जनयति ॥॥
२१
विश्वास-प्रस्तुतिः
व्व᳘डवा᳘ ऽनुशिशुर्द्द᳘क्षिणा भवति॥
(त्यु) उभ᳘यम्वा᳘ ऽएषा᳘ जनयत्य᳘श्वञ्चाश्वतर᳘ञ्चोभ᳘यᳫँ᳭ सौत्रामणी᳘ष्टिश्च पशुबन्ध᳘श्चौभ᳘यस्यैवा᳘वरुद्ध्यै॥
मूलम् - श्रीधरादि
व्व᳘डवा᳘ ऽनुशिशुर्द्द᳘क्षिणा भवति॥
(त्यु) उभ᳘यम्वा᳘ ऽएषा᳘ जनयत्य᳘श्वञ्चाश्वतर᳘ञ्चोभ᳘यᳫँ᳭ सौत्रामणी᳘ष्टिश्च पशुबन्ध᳘श्चौभ᳘यस्यैवा᳘वरुद्ध्यै॥
मूलम् - Weber
व᳘डबा᳘नुशिशुर्द᳘क्षिणा भवति ॥
उभ᳘यं वा᳘ऽएषा᳘ जनयत्य᳘श्वं चाश्वतरं᳘ चोभ᳘यᳫं सौत्रामणी᳘ष्टिश्च पशुबन्ध᳘श्चोभ᳘यस्यैवा᳘वरुद्ध्यै ॥ ३ [७.२.] ॥ ॥
मूलम् - विस्वरम्
वडवा ऽनुशिशुर्दक्षिणा भवति । उभयं वा एषा जनयति । अश्वं चाश्वतरं च । उभयं सौत्रामणी । इष्टिश्च पशुबन्धश्च । उभयस्यैवावरुद्ध्यै ॥ २१ ॥
हरिस्वामी
वडवा ऽनुशिशुरिति । यदि गुणविधिः । यदि विशिष्टविधिः । उभयथा 23 त्रयस्त्रिंशद्दक्षिणा भवन्तीत्यनेन । (श. प. १२ । ७ । १ । १४) सह विकल्पे प्राप्ते सति षट्त्रिंशदेतानि भवन्तीति नित्यवत् वडवाय संख्यानात् समुच्चयो गम्यते ॥ २१ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशे कांडे सप्तमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ १२ । ७ । २ ॥
Eggeling
- A mare with a foal is the sacrificial fee, for such a (mare) produces both the horse and the mule, and the Sautrāmaṇī is both an ishṭi-offering and an animal sacrifice: thus it is so in order that he may secure both of these.
मूलम् - Makoto
व᳓डवा᳓नुशिशुर् द᳓क्षिणा᳓ भवति ।॥
उभ᳓यं वा᳓ एषा᳓ जनयत्य् अ᳓श्वं चा᳓श्वतरं᳓ चोभ᳓यँ सौत्रा᳓मणी᳓ष्टिश् च पशुबन्ध᳓श् चोभ᳓यस्यैवा᳓वरुद्ध्यै ॥॥
-
विंद᳘ते स᳘ सो᳘म इ᳘ति A. ↩︎
-
217:1 According to Kāty. XIX, 1, 4, the Sautrāmaṇī may also be performed by one who finds himself in the unfortunate position here referred to; as also (acc. to ib. 3) by a king who has been deprived of his kingdom. ↩︎
-
आश्विनो ऽजो धूम्रः । सारस्वतो मेषः, ऐंद्र ऋषभः । का. श्रौ. सू. १९ । ५८-५९ । ↩︎
-
218:1 According to XII, 9, 2, 11, a milch cow with her calf are given as dakshiṇā for the two paps offered to Aditi, whilst a mare and foal, according to XII, 7, 2, 21, are the fee for the offering of the three victims; though Kātyāyana, it is true, makes no mention of this dakshiṇā. ↩︎
-
218:2 Or, perhaps, he (the Sacrificer) secures for himself; but see paragraph 15, ‘asmai avarunddhe.’ ↩︎
-
218:3 Hairs of a wolf, tiger, and lion are put into the cups of spirituous liquor from which libations are made. ↩︎
-
219:1 That is, rice and barley grain that has germinated, and subsequently become dry. ↩︎
-
219:2 As on the occasion of the purchase of Soma-plants (part ii, p. 63 seq.), the bargain is effected near the antaḥpātya-peg at the back of the Vedi, where an ox-hide is spread for the purpose; the Adhvaryu asking the seller, ‘Seller of Surā and Soma, hast thou Surā and Soma for sale?’ ↩︎
-
स्त्रीषु तद्य᳘दे᳘वेन्द्रियं᳘ वी᳘र्यमु᳘त्सन्नँ स्त्री᳘षु A.P.M. Read both time स्त्रीषु. ↩︎
-
219:3 Thus ‘ūrṇā-sūtram’ is to be resolved, according to Kāty. XIX, 1, 18; the wool being used for buying malted barley, and the thread for buying fried rice. ↩︎
-
अंतःपात्यस्थाने चर्मणि सुरासोमविक्रयिणः सीसेन शष्पक्रयस्तोक्मानामूर्णाभिर्लाजानाँ सूत्रैः सुरासोमविक्रयिन् क्रय्यास्ते सुरासौमा इत्यामन्त्र्यामन्त्र्य सर्वेषु । क्लीबादेके का. श्रौ. सू. १९ । ८ । १९ । ↩︎
-
219:4 That is, one is the same as the other. ↩︎
-
व्या᳘वृत्यै A.P. ↩︎
-
220:1 For the use of this pot, see note on XII, 8, 1, 8. ↩︎
-
220:2 See XII, 8, 3, 14. 15. ↩︎
-
आश्विनमाश्वत्थेन । का. श्रौ. सू. १९ । ४२ । ग्रहं गृह्णीयादित्यर्थः । एवमग्रे ऽपि । ↩︎ ↩︎
-
सारस्वतमौदुंबरेण । का. श्रौ. सू. १९ । ४४ । ↩︎
-
ऐन्द्रं नैयग्रोधेन । का. श्रौ. सू. १९ । ४५ । ↩︎
-
220:3 At III, 7, 2, 1. 2, I would also now translate ‘upaśaya’ by ‘supernumerary’ or ‘additional’:–there are eleven stakes, and a twelfth, rough-hewn, supernumerary one, &c. ↩︎
-
221:1 For the use of the two feathers of an eagle, see XII, 7, 3, 22. ↩︎
-
पशुपुरोडाशान्निर्वपत्यैन्द्रँ सावित्रं वारुणं दशकपालम् । का. श्रौ. सू. १९-८४ । ↩︎
-
221:2 The rule (as laid down in III, 8, 3, 1) is that the Paśu-puroḍāśa, or animal cakes, offered after the animal portions, should belong to the same deities to whom the victims are sacred. On the present occasion this is, however, not the case; for while the three sacrificial animals of the main performance belong to the Aśvins, to Sarasvatī and Indra, the three cakes are offered to Indra, Savitr̥, and Varuṇa respectively. ↩︎
-
त्रयस्त्रिँ शतं दक्षिणा ददात्यनुशिशुं न वडवधेनुम् । का. श्रौ. सू. । १९-८८ । ↩︎