०१
विश्वास-प्रस्तुतिः
व्विश्व᳘रूपम्वै᳘ त्वाष्ट्रमि᳘न्द्रो ऽहन्॥
(हंस्त) तन्त्व᳘ष्टा हत᳘पुत्रो᳘ ऽभ्यचर᳘त्सो ऽभिचरणी᳘यम᳘पेन्द्रᳫँ᳭ सो᳘ममा᳘हरत्तस्ये᳘न्द्रो[[!!]] यज्ञवेशस᳘ङ्कृत्वा᳘ प्रास᳘हा सो᳘ममपिबत्स व्वि᳘ष्व᳘ङ्व्यार्च्छत्त᳘स्येन्द्रिय᳘म्वी᳘र्य्यम᳘ङ्गादङ्गादस्रवत्॥
मूलम् - श्रीधरादि
व्विश्व᳘रूपम्वै᳘ त्वाष्ट्रमि᳘न्द्रो ऽहन्॥
(हंस्त) तन्त्व᳘ष्टा हत᳘पुत्रो᳘ ऽभ्यचर᳘त्सो ऽभिचरणी᳘यम᳘पेन्द्रᳫँ᳭ सो᳘ममा᳘हरत्तस्ये᳘न्द्रो[[!!]] यज्ञवेशस᳘ङ्कृत्वा᳘ प्रास᳘हा सो᳘ममपिबत्स व्वि᳘ष्व᳘ङ्व्यार्च्छत्त᳘स्येन्द्रिय᳘म्वी᳘र्य्यम᳘ङ्गादङ्गादस्रवत्॥
मूलम् - Weber
विश्व᳘रूपं वै᳘ त्वाष्ट्रमि᳘न्दोऽहन् ॥
तं त्व᳘ष्टा हत᳘पुत्रोॗऽभ्यचरॗत्सोऽभिचरणी᳘यमपेन्द्रᳫं सो᳘ममाहरत्त᳘स्ये᳘न्द्रो यज्ञवेशसं᳘ कृत्वा᳘ प्रास᳘हा सो᳘ममपिबत्स वि᳘ष्वॗङ् व्यार्छत्त᳘स्येन्द्रियं᳘ वीॗर्यमङ्गादङ्गादस्रवत् ॥
मूलम् - विस्वरम्
अथ सौत्रामणी यागः ।
विश्वरूपं वै त्वाष्ट्रमिन्द्रो ऽहन् । तं त्वष्टा हतपुत्रो ऽभ्यचरत् । सो ऽभिचरणीयमपेन्द्रँ सोममाहरत् । तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोममपिबत् । स विष्वङ्व्यार्च्छत् । तस्येन्द्रियं वीर्यमङ्गादङ्गादस्रवत् ॥ १ ॥
हरिस्वामी
विश्वरूपं वै इति सौत्रामणीब्राह्मणमेतत् त्रयो ऽध्यायाः । (एतवाग्निब्राह्मणानन्तरमेवमनुक्तमेवमादात्तात्तंयुक्तस्वेदस्यतुपर्यन् योत्वत्पादाध्यानदर्शपूर्णमासाग्निहोत्रखिलैर्वातहितमधुनांतं ?) । तत्रेह ब्राह्मणे सौत्रामण्याः । सौत्रामणीत्वोद्भावनार्थं विश्वरूपेतिहासेन सौत्रामण्युपकरणानामजाविगवां त्रयाणां च पशुयागानामुत्पत्तिः सौत्रामणीशब्दनिर्वचनं दक्षिणाधिकारविधिश्च । (परतमुनिमित्त फलग्रहणसंयोगाः) प्रसन्नं प्रायः । विशेषं तु दर्शयिष्यामः । अभिचरंत्यनेनेति अभिचरणीयम् । करणे कृत्यः । स्नानीयं चूर्णमिति यथा । अपेत इन्द्रो ऽस्मादित्यपेन्द्रम् । सोमं यागतस्त्वष्टा आहृतवान् । तस्य च स इन्द्रो यज्ञविनाशं कृत्वा प्रासहा प्रसहनेन, प्रसह्य वा सोमं पीतवान् । स च सोमः विष्वङ् विषुशब्दो व्याप्तिवचनः । सर्वाभिः शरीरनाडीभिः गत्वा । अधि आर्च्छत् । (इतश्चेतश्च सफलं भवद्विपसस्विपूर्वतम् ऐंस्वतारेभ्यः अतनरोवेसण्डवायाः स्वर्गो द्रष्टव्यः ?) सर्वः स रसः । ताभिर्निर्गतस्तरय चेन्द्रस्य तेन सोमेन सह इन्द्रियमिन्द्रियकारणं तेजःप्रभृति वीर्यं वीरयति विक्रमयते कार्येणेष्टेनेति वीर्यवत्तेज अंगादंगादवयवादस्रवदिति सामान्यसृष्टिः । तस्याक्षिभ्यामेव तेजः सोमेन सह व्यस्रवत् । तेजः स्रुतं भवितव्यं वाव सा देवता महाभाग्या च । अजः पशुः धूम्रवर्णो भारं वहति । प्रेरयति न च प्रेर्यते । यत् स्नेहः स्रुतं तच्च कर्कन्धुकल्पतरं बदराकारम् । यशः यशसः कारणम् । भूतविशेषा एव दृशः । को ऽपि यो यशस्वी भवति । (तद्याच लणं ?) जातमात्रस्यैव छायामन्यां स्वभूतविशेषानेव दृष्टाः स्रवन्तीत्युपपद्यते । (तामृर्त्ता ऐशवादयः ?) । तदेकशफानां- अश्वादीनामपि तु प्रदेशस्थानामुपयोक्ष्यते ॥ १–५ ॥
Eggeling
- Indra slew Tvashṭr̥’s son, Viśvarūpa. Seeing his son slain, Tvashṭr̥ exorcized him (Indra), and
brought Soma juice suitable for witchery 1, and withheld from Indra. Indra by force drank off his Soma-juice, thereby committing a desecration of the sacrifice. He went asunder in every direction, and his energy, or vital power 2, flowed away from every limb.
मूलम् - Makoto
विश्व᳓रूपं वै᳓ त्वा᳓ष्ट्र᳓म् इ᳓न्द्रो ऽहन् ।॥
तं᳓ त्व᳓ष्टा᳓ हत᳓पुत्रो ऽभ्य᳙चरत् सो᳙ ऽभिचरणी᳓यम् अ᳓पेन्द्रँ सो᳓मम् आ᳓हरत् त᳓स्ये᳓न्द्रो यज्ञवेशसं᳓ कृत्वा᳓ प्रा᳓स᳓हा᳓ सो᳓मम् अपिबत् स᳓ वि᳓ष्वङ् व्या᳙र्छत् त᳓स्येन्द्रियं᳓ वीर्य᳙म् अ᳓ङ्गा᳓दङ्गा᳓द् अस्रवत् ॥॥
०२
विश्वास-प्रस्तुतिः
(त्त᳘) तस्या᳘क्षिभ्यामेव ते᳘जो ऽस्रव᳘त्[[!!]]॥
(त्सो) सो ऽजः᳘ पशुरभवद्धूम्रो᳘ ऽथ यत्प᳘क्ष्मभ्यस्ते᳘ गोधू᳘मा यद᳘श्रुभ्यस्तत्कुवलम्[[!!]]॥
मूलम् - श्रीधरादि
(त्त᳘) तस्या᳘क्षिभ्यामेव ते᳘जो ऽस्रव᳘त्[[!!]]॥
(त्सो) सो ऽजः᳘ पशुरभवद्धूम्रो᳘ ऽथ यत्प᳘क्ष्मभ्यस्ते᳘ गोधू᳘मा यद᳘श्रुभ्यस्तत्कुवलम्[[!!]]॥
मूलम् - Weber
तस्या᳘क्षिभ्यामेव ते᳘जोऽस्रवत्᳟᳟ ॥
सोऽजः᳘ पशु᳘रभवद्धूम्रो᳘ऽथ यत्प᳘क्ष्मभ्यस्ते᳘ गोधू᳘मा यद᳘श्रुभ्यस्तत्कु᳘वलम् ॥
मूलम् - विस्वरम्
तस्याक्षिभ्यामेव तेजो ऽस्रवत्; सो ऽजः पशुरभवद्धूम्रः । अथ यत्पक्ष्मभ्यस्ते गोधूमाः । यदश्रुभ्यस्तत्कुवलम् ॥ २ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- From his eyes his fiery spirit flowed, and became that grey (smoke-coloured) animal, the he-goat; and what (flowed) from his eyelashes became wheat, and what (flowed) from his tears became the kuvala-fruit 3.
मूलम् - Makoto
त᳓स्या᳓क्षिभ्या᳓म् एव᳓ ते᳓जो ऽस्रवत् ।॥
सो᳙ ऽजः᳓ पशु᳓र् अभवद् धूम्रो᳓ ऽथ य᳓त् प᳓क्ष्मभ्यस् ते᳓ गोधू᳓मा᳓ य᳓द् अ᳓श्रुभ्यस् त᳓त् कु᳓वलम् ॥॥
०३
विश्वास-प्रस्तुतिः
(न्ना᳘) ना᳘सिकाभ्यामे᳘वास्य व्वी᳘र्य्यमस्रवत्॥
(त्सो᳘) सो᳘ ऽविः पशु᳘रभवन्मेषो᳘ ऽथ य᳘च्छ्लेष्मणस्ता᳘ ऽउपवा᳘का[[!!]] य᳘त्स्नीहा तद्ब᳘दरम्॥
मूलम् - श्रीधरादि
(न्ना᳘) ना᳘सिकाभ्यामे᳘वास्य व्वी᳘र्य्यमस्रवत्॥
(त्सो᳘) सो᳘ ऽविः पशु᳘रभवन्मेषो᳘ ऽथ य᳘च्छ्लेष्मणस्ता᳘ ऽउपवा᳘का[[!!]] य᳘त्स्नीहा तद्ब᳘दरम्॥
मूलम् - Weber
ना᳘सिकाभ्यामेॗवास्य वीॗर्यमस्रवत् ॥
सो᳘ऽविः पशु᳘रभवन्मेषो᳘ऽथ य᳘छ्लेष्म᳘णस्ता᳘ उपवा᳘का य᳘त्स्नीहा तद्ब᳘दरं ॥
मूलम् - विस्वरम्
नासिकाभ्यामेवास्य वीर्यमस्रवत्; सो ऽविः पशुरभवन्मेषः । अथ यत् श्लेष्मणस्ता उपवाकाः । यत् स्नीहा तद्वदरम् ॥ ३ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- From his nostrils his vital power flowed, and became that animal, the ram; and what (flowed) from the phlegm became the Indra-grain, and what moisture there was that became the badara-fruit 4.
मूलम् - Makoto
ना᳓सिका᳓भ्या᳓म् एवा᳙स्य वीर्य᳙म् अस्रवत् ।॥
सो᳓ ऽविः पशु᳓र् अभवन् मेषो᳓ ऽथ य᳓च् छलेष्म᳓णस् ता᳓ उपवा᳓का᳓ य᳓त् स्नीहा᳓ त᳓द् ब᳓दरं ॥॥
०४
विश्वास-प्रस्तुतिः
(म्मु᳘) मु᳘खादे᳘वास्य ब᳘लमस्रवत्॥
(त्स) स गौः᳘ पशु᳘रभवदृषभो᳘ ऽथ ये फे᳘नास्ते य᳘वा यत्स्ने᳘हस्त᳘त्कर्क्कन्धु॥
मूलम् - श्रीधरादि
(म्मु᳘) मु᳘खादे᳘वास्य ब᳘लमस्रवत्॥
(त्स) स गौः᳘ पशु᳘रभवदृषभो᳘ ऽथ ये फे᳘नास्ते य᳘वा यत्स्ने᳘हस्त᳘त्कर्क्कन्धु॥
मूलम् - Weber
मु᳘खादेॗवास्य ब᳘लमस्रवत् ॥
स गौः᳘ पशु᳘रभवदृषभो᳘ऽथ ये फे᳘नास्ते य᳘वा यत्स्ने᳘हस्त᳘त्कर्क᳘न्धु 5 ॥
मूलम् - विस्वरम्
मुखादेवास्य बलमस्रवत्; स गौः पशुरभवदृषभः । अथ ये फेनास्ते यवाः । यत् स्नेहः तत्कर्कन्धु ॥ ४ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- From his mouth his strength flowed, it became that animal, the bull; and what foam there was became barley, and what moisture there was became the karkandhu-fruit 4.
मूलम् - Makoto
मु᳓खा᳓द् एवा᳙स्य बलम् अस्रवत् ।॥
स᳓ गौः᳓ पशु᳓र् अभवद् ऋषभो᳓ ऽथ ये᳓ फे᳓ना᳓स् ते᳓ य᳓वा᳓ य᳓त् स्ने᳓हस् त᳓त् कर्क᳓न्धु ॥॥
०५
विश्वास-प्रस्तुतिः
श्रो᳘त्रादे᳘वास्य य᳘शो ऽस्रवत्॥
(त्त) तदे᳘कशफमभवद᳘श्वो ऽश्वतरो᳘ गर्द्दभः[[!!]]॥
मूलम् - श्रीधरादि
श्रो᳘त्रादे᳘वास्य य᳘शो ऽस्रवत्॥
(त्त) तदे᳘कशफमभवद᳘श्वो ऽश्वतरो᳘ गर्द्दभः[[!!]]॥
मूलम् - Weber
श्रो᳘त्रादेॗवास्य य᳘शोऽस्रवत् ॥
तदे᳘कशफमभवद᳘श्वोऽश्वतरो᳘ गर्दभः᳟ 6 ॥
मूलम् - विस्वरम्
श्रोत्रादेवास्य यशो ऽस्रवत्; तदेकशफमभवत्, अश्वो ऽश्वतरो गर्द्दभः ॥ ५ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- From his ear his glory flowed, and became the one-hoofed animals, the horse, mule, and ass.
मूलम् - Makoto
श्रो᳓त्रा᳓द् एवा᳙स्य य᳓शो ऽस्रवत् ।॥
त᳓द् ए᳓कशफम् अभवद् अ᳓श्वो ऽश्वतरो᳓ गर्दभः᳓ ॥॥
०६
विश्वास-प्रस्तुतिः
(स्स्त᳘) स्त᳘नाभ्यामे᳘वास्य शुक्र᳘मस्रवत्॥
(त्त) तत्प᳘यो ऽभवत्पशूनाञ्ज्यो᳘तिरु᳘रस ऽए᳘वास्य हृ᳘दयात्त्वि᳘षिरस्रवत्स᳘ श्ये᳘नो ऽपाष्ठि᳘हा ऽभवद्व᳘यसाᳫँ᳭ रा᳘जा॥
मूलम् - श्रीधरादि
(स्स्त᳘) स्त᳘नाभ्यामे᳘वास्य शुक्र᳘मस्रवत्॥
(त्त) तत्प᳘यो ऽभवत्पशूनाञ्ज्यो᳘तिरु᳘रस ऽए᳘वास्य हृ᳘दयात्त्वि᳘षिरस्रवत्स᳘ श्ये᳘नो ऽपाष्ठि᳘हा ऽभवद्व᳘यसाᳫँ᳭ रा᳘जा॥
मूलम् - Weber
स्त᳘नाभ्यामेॗवास्य 7 शुक्र᳘मस्रवत् ॥
तत्प᳘योऽभवत्पशूनां ज्यो᳘तिरु᳘रस एॗवास्य हृ᳘दयात्त्वि᳘षिरस्रवत्स᳘ श्येॗनोऽपाष्ठिॗहाभवद्व᳘यसाᳫं रा᳘जा ॥
मूलम् - विस्वरम्
स्तनाभ्यामेवास्य शुक्रमस्रवत्; तत्पयो ऽभवत्, पशूनां ज्योतिः । उरस एवास्य हृदयात्त्विषिरस्रवत्; स श्येनो ऽपाष्ठिहा ऽभवत्, वयसां राजा ॥ ६ ॥
हरिस्वामी
तत्पयो ऽभवदिति पयसः सृष्टिः पयोग्रहेषूपयोक्ष्यते । उरसः उरःस्थानात् । हृदयात् त्विषिर्दीप्तिः । श्येनः पक्षी । स्वानपहन्तीति अपाष्ठिहा ऽस्य पत्रे भवतीति वयसः सृष्टिः ॥ ६ ॥
Eggeling
- From the breasts his bright (vital) sap flowed, and became milk, the light of cattle; from the heart in his breast his courage flowed, and became the talon-slaying eagle, the king of birds.
मूलम् - Makoto
स्त᳓ना᳓भ्या᳓म् एवा᳙स्य शुक्र᳓म् अस्रवत् ।॥
त᳓त् प᳓यो ऽभवत् पशुनां᳓ ज्यो᳓तिर् उ᳓रस एवा᳙स्य हृ᳓दया᳓त् त्वि᳓षिर् अस्रवत् स᳓ श्येनो᳙ ऽपा᳓ष्ठिहा᳙भवद् व᳓यसाँ᳓ रा᳓जा᳓ ॥॥
०७
विश्वास-प्रस्तुतिः
ना᳘भ्या ऽए᳘वास्य शू᳘षो ऽस्रवत्॥
(त्त) तत्सी᳘समभवन्ना᳘यो न हि᳘रण्यᳫँ᳭ रे᳘तस ऽए᳘वास्य रूप᳘मस्रवत्त᳘त्सुव᳘र्ण्णᳫँ᳭ हि᳘रण्यमभवच्छिश्ना᳘दे᳘वास्य र᳘सो ऽस्रवत्सा᳘ परिस्रु᳘दभवत्स्फिगी᳘भ्यामे᳘वास्य भा᳘मो ऽस्रवत्सा सु᳘रा ऽभवद᳘न्नस्य र᳘सः॥
मूलम् - श्रीधरादि
ना᳘भ्या ऽए᳘वास्य शू᳘षो ऽस्रवत्॥
(त्त) तत्सी᳘समभवन्ना᳘यो न हि᳘रण्यᳫँ᳭ रे᳘तस ऽए᳘वास्य रूप᳘मस्रवत्त᳘त्सुव᳘र्ण्णᳫँ᳭ हि᳘रण्यमभवच्छिश्ना᳘दे᳘वास्य र᳘सो ऽस्रवत्सा᳘ परिस्रु᳘दभवत्स्फिगी᳘भ्यामे᳘वास्य भा᳘मो ऽस्रवत्सा सु᳘रा ऽभवद᳘न्नस्य र᳘सः॥
मूलम् - Weber
ना᳘भ्या एॗवास्य शूॗषोऽस्रवत् ॥
तत्सो᳘समभवन्ना᳘यो न हि᳘रण्यᳫं रे᳘तस एॗवास्य रूप᳘मस्रवत्त᳘त्सुव᳘र्णᳫं हि᳘रण्यमभवछिश्ना᳘देॗवास्य र᳘सोऽस्रवत्सा᳘ परिस्रु᳘दभवत्स्फिगी᳘भ्यामेॗवास्य भा᳘मोऽस्रवत्सा सु᳘राभवद᳘न्नस्य र᳘सः ॥
मूलम् - विस्वरम्
नाभ्या एवास्य शूषो ऽस्रवत्; तत्सीसमभवत्, नायः, न हिरण्यम् । रेतस एवास्य रूपमस्रवत्; तत् सुवर्णं हिरण्यमभवत् । शिश्नादेवास्य रसो ऽस्रवत्; सा परिस्रुदभवत् । स्फिगीभ्यामेवास्य भामो ऽस्रवत्, सा सुरा ऽभवत्; अन्नस्य रसः ॥ ७ ॥
हरिस्वामी
सृष्टः बलविशेषः परिशोषयिता । रस आपः परिस्पन्दनस्य परिपक्ष्याः । स्फिगीभ्याः 8 भामः क्रोधः । सुरापक्षो ऽन्न जयहेतुः ॥ ७ ॥
Eggeling
- From his navel his life-breath flowed, and became lead,–not iron, nor silver; from his seed his form flowed, and became gold; from his generative organ his essence flowed, and became parisrut (raw fiery liquor); from his hips his fire flowed, and became surd (matured liquor), the essence of food.
मूलम् - Makoto
ना᳓भ्या᳓ एवा᳙स्य शूषो᳙ ऽस्रवत् ।॥
त᳓त् सो᳓सम् अभवन् ना᳓यो न᳓ हि᳓रण्यँ रे᳓तस एवा᳙स्य रूप᳓म् अस्रवत् त᳓त् सुव᳓र्णँ हि᳓रण्यम् अभवच् छिश्ना᳓द् एवा᳙स्य र᳓सो ऽस्रवत् सा᳓ परिस्रु᳓द् अभवत् स्फिगी᳓भ्या᳓म् एवा᳙स्य भा᳓मो ऽस्रवत् सा᳓ सु᳓रा᳓भवद् अ᳓न्नस्य र᳓सः ॥॥
०८
विश्वास-प्रस्तुतिः
(सो) मू᳘त्रादे᳘वास्यौ᳘जो ऽस्रवत्॥
(त्स) स वृ᳘को ऽभवदारण्या᳘नाम्पशूना᳘ञ्जूतिरू᳘वध्यादे᳘वास्य मन्यु᳘रस्रवत्स᳘ व्व्या᳘घ्रो ऽभवदारण्या᳘नाम्पशूनाᳫँ᳭ रा᳘जा लो᳘हितादे᳘वास्य स᳘हो ऽस्रवत्स सि᳘ᳫँ᳘हो ऽभवदारण्या᳘नाम्पशूना᳘मीशः[[!!]]॥
मूलम् - श्रीधरादि
(सो) मू᳘त्रादे᳘वास्यौ᳘जो ऽस्रवत्॥
(त्स) स वृ᳘को ऽभवदारण्या᳘नाम्पशूना᳘ञ्जूतिरू᳘वध्यादे᳘वास्य मन्यु᳘रस्रवत्स᳘ व्व्या᳘घ्रो ऽभवदारण्या᳘नाम्पशूनाᳫँ᳭ रा᳘जा लो᳘हितादे᳘वास्य स᳘हो ऽस्रवत्स सि᳘ᳫँ᳘हो ऽभवदारण्या᳘नाम्पशूना᳘मीशः[[!!]]॥
मूलम् - Weber
मू᳘त्रादेॗवास्यौ᳘जोऽस्रवत् ॥
स वृ᳘कोऽभवदारण्या᳘णां पशूनां᳘ जूतिरू᳘वध्यादेॗवास्य मन्यु᳘रस्रवत्स व्या᳘घ्रोऽभवदारण्या᳘णां पशूनाᳫं रा᳘जा लो᳘हितादेॗवास्य स᳘होऽस्रवत्स सिᳫंहोऽभवदारण्या᳘नां पशूना᳘मीशः᳟ ॥
मूलम् - विस्वरम्
मूत्रादेवास्यौजो ऽस्रवत्; स वृको ऽभवत्, आरण्यानां पशूनां जूतिः । ऊवध्यादेवास्य मन्युरस्रवत्; स व्याघ्रो ऽभवत्, आरण्यानां पशूनां राजा । लोहितादेवास्य सहो ऽस्रवत्; स सिंहो ऽभवत्, आरण्यानां पशूनामीशः ॥ ८ ॥
हरिस्वामी
आरण्यानां पशूनां मध्यत इति द्वारेण । षष्ठीतिर्गतिमान् वेगादत ऊवध्यमजीर्णम् आहो मन्युः सप्रयः कोशः । सहः पराभवहेतुर्बलविशेषः । ईशा ईश्वरः ॥ ८ ॥
Eggeling
- From his urine his vigour flowed, and became the wolf, the impetuous rush of wild beasts; from the contents of his intestines his fury flowed, and became the tiger, the king of wild beasts; from his blood his might flowed, and became the lion, the ruler of wild beasts.
मूलम् - Makoto
मू᳓त्रा᳓द् एवा᳙स्यौ᳓जो ऽस्रवत् ।॥
स᳓ वृ᳓को ऽभवद् आ᳓रण्या᳓णां᳓ पशूनां᳓ जूति᳓र् ऊ᳓वध्या᳓द् एवा᳙स्य मन्यु᳓र् अस्रवत् स᳓ व्या᳓घ्रो ऽभवद् आ᳓रण्या᳓णां᳓ पशूनाँ᳓ रा᳓जा᳓ लो᳓हिता᳓द् एवा᳙स्य स᳓हो ऽस्रवत् स᳓ सिँ᳓हो ऽभवद् आ᳓रण्या᳓नां᳓ पशूना᳓म् ईशः᳓ ॥॥
०९
विश्वास-प्रस्तुतिः
(शो) लो᳘मभ्य ऽए᳘वास्य चित्त᳘मस्रवत्॥
(त्ते᳘) ते᳘ श्यामा᳘का ऽअभवंस्त्वच᳘ ऽए᳘वास्यापचितिरस्रव᳘त्सो ऽश्वत्थो व्व᳘नस्प᳘तिरभवन्माᳫँ᳭से᳘भ्य ऽए᳘वास्यो᳘र्ग्गस्रवत्स᳘ ऽउदुम्ब᳘रो ऽभवद᳘स्थिभ्य ऽए᳘वास्य स्व᳘धा ऽस्रवत्स᳘ न्यग्रो᳘धो ऽभवन्मज्ज᳘भ्य ऽए᳘वास्य भक्षः᳘ सोमपी᳘थो ऽस्रवत्ते᳘ व्व्रीह᳘यो ऽभवन्नेव᳘मस्येन्द्रिया᳘णि व्वी᳘र्य्याणि व्व्युदक्रामन्[[!!]]॥
मूलम् - श्रीधरादि
(शो) लो᳘मभ्य ऽए᳘वास्य चित्त᳘मस्रवत्॥
(त्ते᳘) ते᳘ श्यामा᳘का ऽअभवंस्त्वच᳘ ऽए᳘वास्यापचितिरस्रव᳘त्सो ऽश्वत्थो व्व᳘नस्प᳘तिरभवन्माᳫँ᳭से᳘भ्य ऽए᳘वास्यो᳘र्ग्गस्रवत्स᳘ ऽउदुम्ब᳘रो ऽभवद᳘स्थिभ्य ऽए᳘वास्य स्व᳘धा ऽस्रवत्स᳘ न्यग्रो᳘धो ऽभवन्मज्ज᳘भ्य ऽए᳘वास्य भक्षः᳘ सोमपी᳘थो ऽस्रवत्ते᳘ व्व्रीह᳘यो ऽभवन्नेव᳘मस्येन्द्रिया᳘णि व्वी᳘र्य्याणि व्व्युदक्रामन्[[!!]]॥
मूलम् - Weber
लो᳘मभ्य एॗवास्य चित्त᳘मस्रवत् ॥
ते᳘ श्यामा᳘का अभवंस्त्वच᳘ एॗवास्या᳘पचितिरस्रवॗत्सोऽश्वत्थो व᳘नस्प᳘तिरभवन्माᳫंसे᳘भ्य एॗवास्यो᳘र्गस्रवत्स᳘ उदुम्ब᳘रोऽभवद᳘स्थिभ्य एॗवास्य स्वॗधास्रवत्स न्यग्रो᳘धोऽभवन्मज्ज᳘भ्य एॗवास्य भक्षः᳘ सोमपीॗथोऽस्रवत्ते᳘ व्रीह᳘योऽभवन्नेव᳘मस्येन्द्रिया᳘णि वीॗर्याणि व्यु᳘दक्रामन् ॥
मूलम् - विस्वरम्
लोमभ्य एवास्य चित्तमस्रवत्; ते श्यामाका अभवन् । त्वच एवास्यापचितिरस्रवत्; सो ऽश्वत्थो वनस्पतिरभवत् । मांसेभ्य एवास्योर्गस्रवत्; स उदुंबरो ऽभवत् । अस्थिभ्य एवास्य स्वधा ऽस्रवत्; स न्यग्नोधो ऽभवत् । मज्जभ्य एवास्य भक्षः सोमपीथो ऽस्रवत्; ते व्रीहयो ऽभवन् । एवमस्येन्द्रियाणि वीर्याणि व्युदक्रामन् ॥ ९ ॥
हरिस्वामी
चित्तं चिद्धेतुः । अपचितिरादरकृतो भूतोपचयविशेषः । ऊर्क् बलकरो रसः । स्वधा पित्रन्नम् ॥ ९ ॥
Eggeling
- From his hair his thought flowed, and became millet; from his skin his honour flowed, and became the aśvattha tree (ficus religiosa); from his flesh his force flowed, and became the udumbara tree (ficus glomerata); from his bones his sweet drink flowed,
and became the nyagrodha tree (ficus indica); from his marrow his drink, the Soma juice, flowed, and became rice: in this way his energies, or vital powers, went from him.
मूलम् - Makoto
लो᳓मभ्य एवा᳙स्य चित्त᳓म् अस्रवत् ।॥
ते᳓ श्या᳓मा᳓का᳓ अभवंस् त्वच᳓ एवा᳙स्या᳓पचितिर् अस्रवत् सो᳙ ऽश्वत्थो᳓ व᳓नस्प᳓तिर् अभवन् माँ᳓से᳓भ्य एवा᳙स्यो᳓र्ग् अस्रवत् स᳓ उदुम्ब᳓रो ऽभवद् अ᳓स्थिभ्य एवा᳙स्य स्वधा᳙स्रवत् स᳓ न्यग्रो᳓धो ऽभवन् मज्ज᳓भ्य एवा᳙स्य भक्षः᳓ सोमपीथो᳙ ऽस्रवत् ते᳓ व्रीह᳓यो ऽभवन्न् एव᳓म् अस्येन्द्रिया᳓णि वीर्या᳙णि व्यु᳓दक्रा᳓मन् ॥॥
१०
विश्वास-प्रस्तुतिः
(न्न᳘) अ᳘थ ह वै त᳘र्हि॥
न᳘मुचिनै᳘वासुरे᳘ण सह᳘ चचार स᳘ ऽऐक्षत न᳘मुचिरपुनर्व्वा᳘ ऽअय᳘मभूद्ध᳘न्तास्येन्द्रिय᳘म्वी᳘र्य्यᳫँ᳭ सोमपीथ᳘मन्ना᳘द्यᳫँ᳭ ह᳘राणी᳘ति त᳘स्यैत᳘यैव सुरयेन्द्रियं᳘[[!!]] व्वी᳘र्य्यᳫँ᳭ सोमपीथ᳘मन्ना᳘द्यमहरत्स᳘ ह᳘ न्यर्ण्णः शिश्ये त᳘न्देवा᳘ ऽउपस᳘ञ्जग्मिरे श्रे᳘ष्ठो वै᳘ नो ऽय᳘मभूत्त᳘मिम᳘म्पा᳘प्मा ऽविदद्ध᳘न्तेमं᳘ भिषज्यामे᳘ति ॥
मूलम् - श्रीधरादि
(न्न᳘) अ᳘थ ह वै त᳘र्हि॥
न᳘मुचिनै᳘वासुरे᳘ण सह᳘ चचार स᳘ ऽऐक्षत न᳘मुचिरपुनर्व्वा᳘ ऽअय᳘मभूद्ध᳘न्तास्येन्द्रिय᳘म्वी᳘र्य्यᳫँ᳭ सोमपीथ᳘मन्ना᳘द्यᳫँ᳭ ह᳘राणी᳘ति त᳘स्यैत᳘यैव सुरयेन्द्रियं᳘[[!!]] व्वी᳘र्य्यᳫँ᳭ सोमपीथ᳘मन्ना᳘द्यमहरत्स᳘ ह᳘ न्यर्ण्णः शिश्ये त᳘न्देवा᳘ ऽउपस᳘ञ्जग्मिरे श्रे᳘ष्ठो वै᳘ नो ऽय᳘मभूत्त᳘मिम᳘म्पा᳘प्मा ऽविदद्ध᳘न्तेमं᳘ भिषज्यामे᳘ति ॥
मूलम् - Weber
अ᳘थ ह वै त᳘र्हि ॥
न᳘मुचिनैॗवासुरे᳘ण 9 सह᳘ चचार स᳘ ऐक्षत न᳘मुचिरपुनर्वा᳘ऽअय᳘मभूद्ध᳘न्तास्येन्द्रियं᳘ वीॗर्यᳫं सोमपीथ᳘मन्ना᳘द्यᳫं ह᳘राणी᳘ति त᳘स्यैत᳘यैव सु᳘रयेन्द्रियं᳘ वीॗर्यᳫं सोमपीथ᳘मन्ना᳘द्यमहरत्स᳘ हॗ न्यर्णः शिश्ये तं᳘ देवा᳘ उपसं᳘जग्मिरे श्रे᳘ष्ठो वै᳘ नोऽय᳘मभूत्त᳘मिमं᳘ पाॗप्माविदद्ध᳘न्तेमं᳘ भिषज्यामे᳘ति᳟᳟ ॥
मूलम् - विस्वरम्
अथ ह वै तर्हि नमुचिनैवासुरेण सह चचार । स ऐक्षत नमुचिः, अपुनर्वा अयमभूत् । हंत ! अस्येन्द्रियं वीर्यं सोमपीथमन्नाद्यं हराणीति । तस्यैतयैव सुरयेन्द्रियं वीर्यं सोमपीथमन्नाद्यमहरत् । स ह न्यर्णः शिश्ये । तं देवा उपसंजग्मिरे । श्रेष्ठो वै नो ऽयमभूत् । तमिमं पाप्मा ऽविदत् । हन्त ! इमं भिषज्यामेति ॥ १० ॥
हरिस्वामी
अथ तर्हि तदा नमुचिना ऽसुरेण सह चचारेन्द्रः स नमुचिः ऐक्षत । अपुनर्भावी तु पुनः अयं इन्द्रः अभूद्धंत अस्य इन्द्रियाणि संहराणीति यदवशिष्टं तदपीत्यभिप्रायः । स इन्द्रः न्यर्णः । अणअर्दगतौ । नितरां निःशेषम् शयितवान् । तं देवा उपसंगताः किं ? वदन्तः । अयमिन्द्रो ऽस्माकं प्रशस्यतम आसीत । अधुना त्वयं पाप्मानं प्राप्तः । हन्त इमं भिषिज्यामेति ॥ १० ॥
Eggeling
- Now at that time he (Indra) had to do with Namuci, the Asura. Namuci bethought him, ‘He has been undone once for all: I will seize upon his energy, his vital power, his Soma-drink, his food,’ By (taking) that Surā-liquor of his he seized upon his energy, or vital power, his Soma-drink, his food. He lay there dissolved. The gods gathered around him, and said, ‘Verily, he was the best of us; evil has befallen him: let us heal him!’
मूलम् - Makoto
अ᳓थ ह वै᳓ त᳓र्हि ।॥
न᳓मुचिनैवा᳙सुरे᳓ण सह᳓ चचा᳓र स᳓ ऐक्षत न᳓मुचिर् अपुनर्वा᳓ अय᳓म् अभूद् ध᳓न्ता᳓स्येन्द्रियं᳓ वीर्यँ᳙ सोमपीथ᳓म् अन्ना᳓द्यँ ह᳓रा᳓णी᳓ति त᳓स्यैत᳓यैव᳓ सु᳓रयेन्द्रियं᳓ वीर्यँ᳙ सोमपीथ᳓म् अन्ना᳓द्यम् अहरत् स᳓ ह न्य᳙र्णः शिश्ये तं᳓ देवा᳓ उपसं᳓जग्मिरे श्रेष्ठो᳓ वै᳓ नो ऽय᳓म् अभूत् त᳓म् इमं᳓ पा᳓प्मा᳙विदद् ध᳓न्तेमं᳓ भिषज्या᳓मे᳓ति ॥॥
११
विश्वास-प्रस्तुतिः
ते ऽश्वि᳘नावब्रुवन्॥
(न्यु) युवम्वै᳘ ब्रह्मा᳘णौ भिष᳘जौ स्थो युव᳘मिम᳘म्भिषज्यतमि᳘ति ता᳘वब्रूताम᳘स्तु नौ भाग ऽइ᳘ति᳘ ते ऽब्रुवन्य᳘ ऽए᳘षो ऽजः स᳘ वां भाग ऽइ᳘ति तथे᳘ति त᳘स्मादाश्विनो᳘ धूम्रो᳘ भवति॥
मूलम् - श्रीधरादि
ते ऽश्वि᳘नावब्रुवन्॥
(न्यु) युवम्वै᳘ ब्रह्मा᳘णौ भिष᳘जौ स्थो युव᳘मिम᳘म्भिषज्यतमि᳘ति ता᳘वब्रूताम᳘स्तु नौ भाग ऽइ᳘ति᳘ ते ऽब्रुवन्य᳘ ऽए᳘षो ऽजः स᳘ वां भाग ऽइ᳘ति तथे᳘ति त᳘स्मादाश्विनो᳘ धूम्रो᳘ भवति॥
मूलम् - Weber
तेऽश्वि᳘नावब्रुवन् ॥
युवं वै᳘ ब्रह्मा᳘णौ भिष᳘जौ स्थो युव᳘मिमं᳘ भिषज्यतमि᳘ति ता᳘वब्रूताम᳘स्तु नौ भाग इ᳘तिॗ तेऽब्रुवन्य᳘ एॗषोऽजः स᳘ वां भाग इ᳘ति तथे᳘ति त᳘स्मादाश्विनो᳘ धूम्रो᳘ भवति ॥
मूलम् - विस्वरम्
ते ऽश्विनावब्रुवन् । युवं वै ब्रह्माणौ भिषजौ स्थः । युवमिमं भिषज्यतमिति । तावब्रूताम् । अस्तु नौ भाग इति । ते ऽब्रुवन् । य एषो ऽजः, स वां भाग इति । तथेति । तस्मादाश्विनो धूम्रो भवति ॥ ११ ॥
हरिस्वामी
तस्मादाश्विनो धूम्रो भवतीत्यादीनि उत्पत्तिवाक्यानि पशुयागांगानि ॥ ११-१३ ॥
Eggeling
- They said to the two Aśvins, ‘Ye are Brahman physicians: heal ye this one!’ They replied, ‘Let there be a guerdon for us!’ They spake, ‘That he-goat there shall be your guerdon.’ They said, ‘So be it!’ and hence the smoke-coloured (he-goat) is sacred to the two Aśvins.
मूलम् - Makoto
ते᳙ ऽश्वि᳓ना᳓व् अब्रुवन् ।॥
युवं᳓ वै᳓ ब्रह्मा᳓णौ भिष᳓जौ स्थो युव᳓म् इमं᳓ भिषज्यतम् इ᳓ति ता᳓व् अब्रूता᳓म् अ᳓स्तु नौ भा᳓ग᳓ इ᳓ति ते᳙ ऽब्रुवन् य᳓ एषो᳙ ऽजः᳓ स᳓ वां᳓ भा᳓ग᳓ इ᳓ति त᳓थे᳓ति त᳓स्मा᳓द् आ᳓श्विनो᳓ धूम्रो᳓ भवति ॥॥
१२
विश्वास-प्रस्तुतिः
ते᳘ स᳘रस्वतीमब्रुवन्॥
(वंस्त्वं) त्वम्वै भै᳘षज्यमसि त्व᳘मिम᳘म्भिषज्ये᳘ति᳘ सा ऽब्रवीद᳘स्तु मे भाग ऽइ᳘ति᳘ ते ऽब्रुवन्य᳘ ऽएषो᳘ ऽविः स᳘ ते भाग ऽइ᳘ति त᳘थेति त᳘स्मात्सारस्वतो᳘ मेषो᳘ भवति॥
मूलम् - श्रीधरादि
ते᳘ स᳘रस्वतीमब्रुवन्॥
(वंस्त्वं) त्वम्वै भै᳘षज्यमसि त्व᳘मिम᳘म्भिषज्ये᳘ति᳘ सा ऽब्रवीद᳘स्तु मे भाग ऽइ᳘ति᳘ ते ऽब्रुवन्य᳘ ऽएषो᳘ ऽविः स᳘ ते भाग ऽइ᳘ति त᳘थेति त᳘स्मात्सारस्वतो᳘ मेषो᳘ भवति॥
मूलम् - Weber
ते᳘ स᳘रस्वतीमब्रुवन् ॥
त्वं वै भै᳘ष्ज्यमसि त्व᳘मिमं᳘ भिषज्ये᳘तिॗ साब्रवीद᳘स्तु मे भाग इ᳘तिॗ तेऽब्रुवन्य᳘ एषो᳘ऽविः स᳘ ते भाग इ᳘ति त᳘थेति त᳘स्मात्सारस्वतो᳘ मेषो᳘ भवति ॥
मूलम् - विस्वरम्
ते सरस्वतीमनुब्रुवन् । त्वं वै भैषज्यमसि । त्वामिमं भिषज्येति । सा ऽब्रवीत् । अस्तु मे भाग इति । ते ऽब्रुवन् । य एषो ऽविः, स ते भाग इति । तथेति । तस्मात्सारस्वतो मेषो भवति ॥ १२ ॥
हरिस्वामी
तावश्विनौ च सरस्वती च यथा यथा स्रुतं तत्सर्वं नमुचेः सकाशादाहृत्य तदिन्द्रे पुनरदधुः । तदा त्विंद्रः पुनः स्थापितः । तद् वदन्ति स्म । ततस्तमिन्द्रं पाप्मनस्त्रातवन्तः (अत्रास्माहि तावत्तोपयामेति । यस्मादेवविमधुसुत्रमां सौत्रामणीनेत्राजापता । प्रकृतास्त्रयः । पयधगास्तदनन्तरमेव स्ववचनात् ?) ॥ १२-१४ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे सप्तमे ऽध्याये प्रथमं ब्राह्मणम् ॥ १२ । ७ । १ ॥
Eggeling
- They (the gods) said to Sarasvatī, ‘Verily, thou art healing medicine: heal thou this one!’ She replied, ‘Let there be a guerdon for me!’ They spake, ‘That ram there shall be thy guerdon!’ She said, ‘So be it!’ and therefore the ram is sacred to Sarasvatī.
मूलम् - Makoto
ते᳓ स᳓रस्वतीम् अब्रुवन् ।॥
त्वं᳓ वै᳓ भै᳓ष्ज्यम् असि त्व᳓म् इमं᳓ भिषज्ये᳓ति सा᳙ब्रवीद् अ᳓स्तु मे भा᳓ग᳓ इ᳓ति ते᳙ ऽब्रुवन् य᳓ एषो᳓ ऽविः स᳓ ते भा᳓ग᳓ इ᳓ति त᳓थे᳓ति त᳓स्मा᳓त् सा᳓रस्वतो᳓ मेषो᳓ भवति ॥॥
१३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाब्रुवन्॥
(न्ने) एता᳘वद्वा᳘ ऽअस्मि᳘न्नेत᳘र्हि या᳘वदय᳘मृष᳘भो᳘ ऽस्यै᳘वाय᳘मस्त्वि᳘ति तथे᳘ति त᳘स्मादैन्द्र᳘ ऽऋषभो᳘ भवति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाब्रुवन्॥
(न्ने) एता᳘वद्वा᳘ ऽअस्मि᳘न्नेत᳘र्हि या᳘वदय᳘मृष᳘भो᳘ ऽस्यै᳘वाय᳘मस्त्वि᳘ति तथे᳘ति त᳘स्मादैन्द्र᳘ ऽऋषभो᳘ भवति॥
मूलम् - Weber
अ᳘थाब्रुवन् ॥
एता᳘वद्वा᳘ऽअस्मि᳘न्नेत᳘र्हि या᳘वदय᳘मृषॗभोॗऽस्यैॗवाय᳘मस्त्वि᳘ति तथे᳘ति त᳘स्मादैन्द्र᳘ ऋषभो᳘ भवति ॥
मूलम् - विस्वरम्
अथाब्रुवन् । एतावद्वा अस्मिन् एतर्हि । यावत् अयमृषभः । अस्यैवायमस्त्विति । तथेति । तस्मादैन्द्र ऋषभो भवति ॥ १३ ॥
हरिस्वामी
[व्याख्यानं द्वादशे]
Eggeling
- They then spake, ‘Verily, there is even now as much in him (Indra) as that -bull: that one shall belong to him himself.’ They said, ‘So be it!’ and therefore the bull is sacred to Indra.
मूलम् - Makoto
अ᳓था᳓ब्रुवन् ।॥
एता᳓व् अद्वा᳓ अस्मि᳓न्न् एत᳓र्हि या᳓वद् अय᳓म् ऋषभो᳙ ऽस्यै᳙वा᳙यम् अस्त्व् इ᳓ति त᳓थे᳓ति त᳓स्मा᳓द् ऐन्द्र᳓ ऋषभो᳓ भवति ॥॥
१४
विश्वास-प्रस्तुतिः
ता᳘वश्वि᳘नौ च स᳘रस्वती च॥
(चे) इन्द्रिय᳘म्वी᳘र्य्यन्न᳘मुचेराहृ᳘त्य त᳘दस्मिन्पुनरदधुस्त᳘म्पाप्म᳘नो ऽत्रायन्त[[!!]] सु᳘त्रातम्बतैनम्पाप्म᳘नो ऽत्रास्मही᳘ति तद्वाव᳘ सौत्राम᳘ण्यभवत्त᳘त्सौत्रामण्यै᳘ सौत्रामणीत्वं त्रा᳘यते मृत्यो᳘रात्मा᳘नम᳘प पाप्मा᳘नᳫँ᳭ हते य᳘ ऽएव᳘मेत᳘त्सौत्रामण्यै᳘ सौत्रामणीत्वम्वे᳘द त्र᳘यस्त्रिᳫँ᳭शद्द᳘क्षिणा भवन्ति त्र᳘यस्त्रिᳫँ᳭शद्धि त᳘न्देव᳘ता ऽअ᳘भिषज्यंस्त᳘स्मादाहुर्भेषजन्द᳘क्षिणा ऽइ᳘ति॥
मूलम् - श्रीधरादि
ता᳘वश्वि᳘नौ च स᳘रस्वती च॥
(चे) इन्द्रिय᳘म्वी᳘र्य्यन्न᳘मुचेराहृ᳘त्य त᳘दस्मिन्पुनरदधुस्त᳘म्पाप्म᳘नो ऽत्रायन्त[[!!]] सु᳘त्रातम्बतैनम्पाप्म᳘नो ऽत्रास्मही᳘ति तद्वाव᳘ सौत्राम᳘ण्यभवत्त᳘त्सौत्रामण्यै᳘ सौत्रामणीत्वं त्रा᳘यते मृत्यो᳘रात्मा᳘नम᳘प पाप्मा᳘नᳫँ᳭ हते य᳘ ऽएव᳘मेत᳘त्सौत्रामण्यै᳘ सौत्रामणीत्वम्वे᳘द त्र᳘यस्त्रिᳫँ᳭शद्द᳘क्षिणा भवन्ति त्र᳘यस्त्रिᳫँ᳭शद्धि त᳘न्देव᳘ता ऽअ᳘भिषज्यंस्त᳘स्मादाहुर्भेषजन्द᳘क्षिणा ऽइ᳘ति॥
मूलम् - Weber
ता᳘वश्वि᳘नौ च स᳘रस्वती च ॥
इन्द्रियं᳘ वीॗर्यं न᳘मुचेराहृ᳘त्य त᳘दस्मिन्पु᳘नरदधुस्तं᳘ पाप्मॗनोऽत्रायन्त सु᳘त्रातं बतैनं पाप्म᳘नोऽत्रास्मही᳘ति तद्वाव᳘ सौत्रामॗण्यभवत्त᳘त्सौत्रामण्यै᳘ सौत्रामणीत्वं त्रा᳘यते मृत्यो᳘रात्मा᳘नम᳘प पाप्मा᳘नᳫं हते य᳘ एव᳘मेत᳘त्सौत्रामण्यै᳘ सौत्रामणीत्वं वे᳘द त्र᳘यस्त्रिᳫंशद्द᳘क्षिणा भवन्ति त्र᳘यस्त्रिᳫंशद्धि तं᳘ देव᳘ता अ᳘भिषज्यंस्त᳘स्मादाहुर्भेषजं द᳘क्षिणा इ᳘ति ॥ २ [७.१.] ॥ ॥
मूलम् - विस्वरम्
तावश्विनौ च सरस्वती च इंद्रियं वीर्यं नमुचेराहृत्य तदस्मिन्पुनरदधुः । तं पाप्मनो ऽत्रायंत । सुत्रातं बतैनं पाप्मनो ऽत्रास्महीति । तद्वाव सौत्रामण्यभवत् । तत्सौत्रामण्यै सौत्रामणीत्वम् । त्रायते मृत्योरात्मानम् । अप पाप्मानं हते । य एवमेतत्सौत्रामण्यै सौत्रामणीत्वं वेद । त्रयस्त्रिंशद्दक्षिणा 10 भवंति । त्रयस्त्रिंशद्धि तं देवता अभिषज्यन् । तस्मादाहुः । भेषजं दक्षिणा इति ॥ १४ ॥
हरिस्वामी
[व्याख्यानं द्वादशे]
Eggeling
- The two Aśvins and Sarasvatī, having taken the energy, or vital power, from Namuci, restored them to hire (Indra), and saved him from evil, ‘Truly, we have saved him from evil so as to be well-saved (sutrāta),’ they thought, and this became
the Sautrāmaṇī: and this is the (saving) nature of the Sautrāmaṇī–it saves the self from death, and repels evil for whosoever thus knows that (saving) nature of the Sautrāmaṇī. There are (for this sacrifice) thirty-three Dakshiṇās (presents to priests), for thirty-three were the gods who healed him: whence they say, ‘Dakshiṇās are healing medicine.’
मूलम् - Makoto
ता᳓व् अश्वि᳓नौ च स᳓रस्वती च ।॥
इन्द्रियं᳓ वीर्यं᳙ न᳓मुचेर् आ᳓हृ᳓त्य त᳓द् अस्मिन् पु᳓नर् अदधुस् तं᳓ पा᳓प्मनो᳙ ऽत्रा᳓यन्त सुत्रा᳓तं बतैनं पा᳓प्म᳓नो ऽत्रा᳓स्मही᳓ति त᳓द् वा᳓व᳓ सौत्रा᳓मण्य् अ᳙भवत् त᳓त् सौत्रा᳓मण्यै᳓ सौत्रा᳓मणीत्वं᳓ त्रा᳓यते मृत्यो᳓र् आ᳓त्मा᳓नम् अ᳓प पा᳓प्मा᳓नँ हते य᳓ एव᳓म् एत᳓त् सौत्रा᳓मण्यै᳓ सौत्रा᳓मणीत्वं᳓ वे᳓द त्र᳓यस्त्रिँशद् द᳓क्षिणा᳓ भवन्ति त्र᳓यस्त्रिँशद् धि᳓ तं᳓ देव᳓ता᳓ अ᳓भिषज्यंस् त᳓स्मा᳓द् आ᳓हुर् भेषजं᳓ द᳓क्षिणा᳓ इ᳓ति ॥॥
-
214:1 ‘Exposed (liable) to witching,’ Delbrück, Altindische Syntax, p. 401. ↩︎
-
214:2 ‘Vīrya’ (virile power) is constantly used to explain ‘indriya.’ ↩︎
-
214:3 The words ‘kuvala, badara, and karkandhu’ are the names of three varieties of the jujube, or fruits of Zizyphus Jujuba, for a description of which see the comm. on Kāty. Śr. XIX, 17 seqq. According to Stewart and Brandis’ Forest Flora of North-West and Central India (p. 87), ’this species varies exceedingly, in the shape and size of the fruits, the shape and tomentum of the leaves, and general habit;’ ’the Zizyphi of North India want more investigation on the spot.’ . . . ‘Lakh is produced on this tree in Sindh, the Panjab, and Central India, The bark is used as dye-stuff; the root is a febrifuge in native pharmacy. A gum exudes from the trunk; and in Kangra a wild silkworm lives on the tree, the silk of which was much employed formerly to tie the barrel to the stock of the matchlock. But the tree is mainly cultivated for its fruit, which is more or less globose on the wild and commoner sorts, and ovoid or oblong on the cultivated and improved kinds.’ ↩︎
-
यत्स्ने᳘होस्त᳘० A.P. ↩︎
-
गर्दभः ॥५॥ ↩︎
-
त᳘नाभ्या॰ A.M.: see १३.२.२.४. ↩︎
-
स्त्रियां स्फिचौ कटिप्रोथावित्यमरः । ↩︎
-
न᳘मुचिरमुनर्वा᳘ M. ↩︎
-
त्रयस्त्रिँशतं दक्षिणा ददात्यनुशिशुं च वडवधेनुम् का. श्रौ. सू. १९ । ८८ । ↩︎