०१
विश्वास-प्रस्तुतिः
सो᳘मो वै रा᳘जा यज्ञः᳘ प्रजा᳘पतिः॥
(स्त᳘) त᳘स्यैता᳘स्त᳘न्वो या᳘ ऽएता᳘ देव᳘ता या᳘ ऽएता ऽआ᳘हुतीर्ज्जुहो᳘ति॥
मूलम् - श्रीधरादि
सो᳘मो वै रा᳘जा यज्ञः᳘ प्रजा᳘पतिः॥
(स्त᳘) त᳘स्यैता᳘स्त᳘न्वो या᳘ ऽएता᳘ देव᳘ता या᳘ ऽएता ऽआ᳘हुतीर्ज्जुहो᳘ति॥
मूलम् - Weber
सो᳘मो वै रा᳘जा यज्ञः᳘ प्रजा᳘पतिः ॥
त᳘स्यैता᳘स्तॗन्वो या᳘ एता᳘ देव᳘ता या᳘ एता आ᳘हुतीर्जुहो᳘ति ॥
मूलम् - विस्वरम्
अथ ज्योतिष्टोमप्रायश्चित्तब्राह्मणम् ।
सोमो वै राजा यज्ञः प्रजापतिः । तस्यैतास्तन्वः । या एता देवताः । या एता आहुतीर्जुहोति ॥ १ ॥
हरिस्वामी
‘सोमो वै राजा’ । सोमप्रायश्चित्तब्राह्मणमेतत् । प्रायश्चित्तसम्बधार्थमेव पुनः सोमयागः प्रक्रियते । सोमो वै राजेति । सोमः अनतौधीषनां राजा । देवराजचंद्रमसो न न्यूनभूतः । तेनात्र यज्ञसामानाधिकरण्यान्मत्वर्थो लक्ष्यते । सोमसाधनको यज्ञः प्रजापतिरित्यधिदैवमित्यध्याहार्यम् । सोमसाधनको यज्ञः प्रजापतिः । तस्य एतास्तन्वः शरीराणि । या एता देवता वक्ष्यमाणाः परमेष्ठ्यादयः । प्रजापत्यात्मकस्य सोमस्येति विशेषाः । इत्यधिदेवम् ॥
याश्चैता आहुतीः । आहूयन्त इत्याहुतयः । परमेष्ठ्याद्याः ताः सोमद्रव्यात्मकस्य यज्ञस्य तन्वः । जुहोतीति क्रियात्मकस्य यज्ञस्य हवनक्रियास्तन्वः । एवं द्रव्यं देवता क्रिया च । पुनः यज्ञस्य द्रव्यदेवताक्रियाविशेषात्मिका एव प्रायश्चित्तीयास्तन्वः इत्युपन्यासः ॥ १ ॥
Eggeling
- Verily, Prajāpati, the sacrifice, is King Soma; and these deities to whom he offers, and these oblations which he offers, are forms of him.
मूलम् - Makoto
सो᳓मो वै᳓ रा᳓जा᳓ यज्ञः᳓ प्रजा᳓पतिः ।॥
त᳓स्यैता᳓स् तन्वो᳙ या᳓ एता᳓ देव᳓ता᳓ या᳓ एता᳓ आ᳓हुतीर् जुहो᳓ति ॥॥
०२
विश्वास-प्रस्तुतिः
स᳘ य᳘द्यज्ञ᳘स्यार्च्छेत्॥
(द्या) यान्तत्प्र᳘ति देव᳘ताम्म᳘न्येत ता᳘मनुसमी᳘क्ष्य जुहुयाद्य᳘दि दीक्षोपस᳘त्स्वाहवनी᳘ये य᳘दि प्र᳘सुत ऽआ᳘ग्नीद्ध्रे वि वा᳘ ऽएत᳘द्यज्ञस्य[[!!]] प᳘र्व्व स्रᳫँ᳭सते यद्ध्व᳘लति सा᳘ यैव त᳘र्हि त᳘त्र देव᳘ता भ᳘वति त᳘यै᳘वैत᳘द्देव᳘तया यज्ञ᳘म्भिषज्य᳘ति त᳘या देवत᳘या यज्ञ᳘म्प्रतिस᳘न्दधाति॥
मूलम् - श्रीधरादि
स᳘ य᳘द्यज्ञ᳘स्यार्च्छेत्॥
(द्या) यान्तत्प्र᳘ति देव᳘ताम्म᳘न्येत ता᳘मनुसमी᳘क्ष्य जुहुयाद्य᳘दि दीक्षोपस᳘त्स्वाहवनी᳘ये य᳘दि प्र᳘सुत ऽआ᳘ग्नीद्ध्रे वि वा᳘ ऽएत᳘द्यज्ञस्य[[!!]] प᳘र्व्व स्रᳫँ᳭सते यद्ध्व᳘लति सा᳘ यैव त᳘र्हि त᳘त्र देव᳘ता भ᳘वति त᳘यै᳘वैत᳘द्देव᳘तया यज्ञ᳘म्भिषज्य᳘ति त᳘या देवत᳘या यज्ञ᳘म्प्रतिस᳘न्दधाति॥
मूलम् - Weber
स᳘ य᳘द्यज्ञ᳘स्यार्छे᳟त् ॥
यां तत्प्र᳘ति देव᳘तां म᳘न्येत ता᳘मनुसमी᳘क्ष्य जुहुयाद्य᳘दि दीक्षोपस᳘त्स्वाहवनी᳘ये य᳘दि प्र᳘सुतऽआ᳘ग्नीध्रे वि वा᳘ऽएत᳘द्यज्ञ᳘स्य प᳘र्व स्रᳫंसते यद्ध्व᳘लति साॗ यैव त᳘र्हि त᳘त्र देव᳘ता भ᳘वति त᳘यैॗवैत᳘द्देव᳘तया यज्ञं᳘ भिषज्य᳘ति त᳘या देवत᳘या यज्ञं᳘ प्रतिसं᳘दधाति ॥
मूलम् - विस्वरम्
स यद्यज्ञस्यार्च्छेत् । यां तत्प्रति देवतां मन्येत । तामनुसमीक्ष्य जुहुयात् । यदि दीक्षोपसत्स्वाहवनीये । यदि प्रसुत आग्नीध्रे । वि वा एतत् यज्ञस्य पर्व स्रंसते- यत् ह्वलति । सा यैव तर्हि तत्र देवता भवति । तयैवैतत् देवतया यज्ञं भिषज्यति । तया देवतया यज्ञं प्रतिसंदधाति ॥ २ ॥
हरिस्वामी
‘स यद्यज्ञस्य’ । किं पुनर्नित्या एवैतास्तन्वः ? नेत्याह- यत्सोमयज्ञस्यांगम् आर्च्छेत् विनश्येत् । तदंगं तत्प्रति तस्मिन्नंगे यां देवतां परमेष्ठ्यादिकां मन्येत । “परमेष्ठ्यभिधीतः” (वा. सं. ८ । ५४) इत्यादेरागमात् । अवगच्छेच्च । तामनुपूर्वं सम्यक् ज्ञात्वा तस्यै देवतायै आज्याहुतिं जुहुयात् । यदि दीक्षोपवत्सु यज्ञस्य किंचिदार्च्छेत् तदा आहवनीये जुहुयात् । यदि तु प्रसुत्यायां तत आग्नीध्रीये । प्रायणीयादूर्ध्वं प्राक् सुत्यायाः क्व होतव्यं ? आहवनीये, कुतः ? “दीक्षोपसत्स्वाहवनीये” इत्यनुवादत एव प्राप्तत्वात् । एतावदेव ह्यनुविधीयते- “प्रसुत आग्नीध्रे” जुहोतीति । ततश्च सुत्यायामेव आग्नीध्रता प्राप्तेति । विस्रंसते वै एतद्यज्ञस्य पर्व अंगं यत् ह्वलति । स्वभावाद्विगुणं भवतीत्यर्थः । ततश्च ‘या’ एव पर्वपर्वणि अभिध्यानादौ देवता परमेष्ठ्यादिर्भवति । तस्या देवताया एतदेव कुर्वन् यज्ञं भिषज्यति संदधाति । इति संक्षेपवचनम् ॥ २ ॥
Eggeling
- If any part of the sacrifice were to fail, let him make an oblation with regard to that same deity for whom he may have intended (that part),–on the Āhavanīya, if it is during the initiation and the
Upasads; on the Āgnīdhra, if it is at the Soma-pressing;–for whatever joint of the sacrifice fails, that breaks; and whichever then is the deity in that (part of the sacrifice) through that deity he heals the sacrifice, through that one he makes the sacrifice complete again 1.
मूलम् - Makoto
स᳓ य᳓द् यज्ञ᳓स्या᳓र्छे᳓त् ।॥
यां᳓ त᳓त् प्र᳓ति देव᳓तां᳓ म᳓न्येत ता᳓म् अनुसमी᳓क्ष्य जुहुया᳓द् य᳓दि दीक्षोपसत्स्व् आ᳓हवनी᳓ये य᳓दि प्र᳓सुत आ᳓ग्नीध्रे वि᳓ वा᳓ एत᳓द् यज्ञ᳓स्य प᳓र्व स्रँसते य᳓द् ध्व᳓लति सा᳓ यै᳙व त᳓र्हि त᳓त्र देव᳓ता᳓ भ᳓वति त᳓यैवै᳙त᳓द् देव᳓तया᳓ यज्ञं᳓ भिषज्य᳓ति त᳓या᳓ देवत᳓या᳓ यज्ञं᳓ प्रतिसं᳓दधा᳓ति ॥॥
०३
विश्वास-प्रस्तुतिः
स य᳘द्येनम्म᳘नसा ऽभि᳘ध्यातः॥
(तो) यज्ञो᳘ नोपन᳘मेत्परमेष्ठि᳘ने स्वाहे᳘ति जुहुयात्परमेष्ठी हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥ कांडस्यार्द्धम् २३०॥
मूलम् - श्रीधरादि
स य᳘द्येनम्म᳘नसा ऽभि᳘ध्यातः॥
(तो) यज्ञो᳘ नोपन᳘मेत्परमेष्ठि᳘ने स्वाहे᳘ति जुहुयात्परमेष्ठी हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥ कांडस्यार्द्धम् २३०॥
मूलम् - Weber
स य᳘द्येनं म᳘नसाभि᳘ध्यातः ॥
यज्ञोॗ नोपन᳘मेत्परमेष्ठि᳘ने स्वाहे᳘ति जुहुयात्परमेष्ठी हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
स यद्येनं मनसा ऽभिध्यातो यज्ञो नोपनमेत् । “परमेष्ठिने स्वाहा”- इति जुहुयात् परमेष्ठी हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ ३ ॥
हरिस्वामी
‘स यद्येनम्’ । विशेषवचनानि एतानि प्रसन्नानि । परमेष्ठी हि स यज्ञस्तदा भवति । अन्यया वा ऽऽहुत्या प्रतिबन्धकं पाप्मानं अपहन्ति यज्ञश्च तस्मिन्नपहते एनं यजमानं उपनमति ॥ ३-३७ ॥
Eggeling
मूलम् - Makoto
स᳓ य᳓द्य् एनं म᳓नसा᳓भि᳓ध्या᳓तः ।॥
यज्ञो᳓ नो᳙पन᳓मेत् परमेष्ठि᳓ने स्वा᳓हे᳓ति जुहुया᳓त् परमेष्ठी᳓ हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘द्येनम्वा᳘चा ऽभिव्या᳘हृतः॥
(तो) यज्ञो᳘ नोपन᳘मेत्प्रजा᳘पतये स्वाहे᳘ति जुहुयात्प्रजा᳘पतिर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘द्येनम्वा᳘चा ऽभिव्या᳘हृतः॥
(तो) यज्ञो᳘ नोपन᳘मेत्प्रजा᳘पतये स्वाहे᳘ति जुहुयात्प्रजा᳘पतिर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘द्येनं वाॗचाभिव्या᳘हृतः ॥
यज्ञोॗ नोपन᳘मेत्प्रजा᳘पतये स्वाहे᳘ति जुहुयात्प्रजा᳘पतिर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यद्येनं वाचा ऽभिव्याहृतो यज्ञो नोपनमेत् । “प्रजापतये स्वाहा”- इति जुहुयात् । प्रजापतिर्हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ ४ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if the sacrifice, bespoken by his speech 4 were not to incline to him, let him perform an oblation with, ‘To Prajāpati hail!’ for Prajāpati (the lord of creatures) he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓द्य् एनं वा᳓चा᳙भिव्या᳓हृतः ।॥
यज्ञो᳓ नो᳙पन᳓मेत् प्रजा᳓पतये स्वा᳓हे᳓ति जुहुया᳓त् प्रजा᳓पतिर् हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
०५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘स्य रा᳘जानम᳘च्छेत्त्वा᳘॥
नाह᳘रन्त ऽएयुर᳘न्धसे स्वाहे᳘ति जुहुयाद᳘न्धो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘स्य रा᳘जानम᳘च्छेत्त्वा᳘॥
नाह᳘रन्त ऽएयुर᳘न्धसे स्वाहे᳘ति जुहुयाद᳘न्धो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘स्य रा᳘जानम᳘छेत्वा᳟᳟ ॥
नाह᳘रन्त एयुर᳘न्धसे स्वाहे᳘ति जुहुयाद᳘न्धो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यस्य राजानमच्छेत्त्वा नाहरन्त एयुः । “अन्धसे स्वाहा”- इति जुहुयात् । अन्धो हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ ५ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if any one’s (people), having gone in quest of the King (Soma), do not come back bringing (Soma-plants), let him perform an oblation with, ‘To the plant hail!’ for the plant he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓स्य रा᳓जा᳓नम् अ᳓छेत्वा᳓ ।॥
ना᳙ह᳓रन्त एयुर् अ᳓न्धसे स्वा᳓हे᳓ति जुहुया᳓द् अ᳓न्धो हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
०६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि सातः[[!!]]॥
कि᳘ञ्चिदाप᳘द्येत सवित्रे स्वाहे᳘ति जुहुयात्सविता हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि सातः[[!!]]॥
कि᳘ञ्चिदाप᳘द्येत सवित्रे स्वाहे᳘ति जुहुयात्सविता हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि सातः᳟ ॥
किं᳘चिदाप᳘द्येत सवित्रे स्वाहे᳘ति जुहुयात्सविता हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि सातः किंचिदापद्येत । “सवित्रे स्वाहा”- इति जुहुयात् । सविता हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ ६ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if, when acquired, (his Soma). were to meet with any mishap, let him perform an oblation with, ‘To Savitr̥ hail!’ for Savitr̥ he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि सा᳓तः᳓ ।॥
किं᳓चिद् आ᳓प᳓द्येत सवित्रे᳓ स्वा᳓हे᳓ति जुहुया᳓त् सविता᳓ हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि दीक्षा᳘सु॥
कि᳘ञ्चिदाप᳘द्येत व्विश्व᳘कर्म्मणे स्वाहे᳘ति जुहुयाद्विश्व᳘कर्म्मा हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि दीक्षा᳘सु॥
कि᳘ञ्चिदाप᳘द्येत व्विश्व᳘कर्म्मणे स्वाहे᳘ति जुहुयाद्विश्व᳘कर्म्मा हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि दीक्षा᳘सु ॥
किं᳘चिदाप᳘द्येत विश्व᳘कर्मणे स्वाहे᳘ति जुहुयाद्विश्व᳘कर्मा हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि दीक्षासु किंचिदापद्येत । “विश्वकर्मणे स्वाहा”- इति जुहुयात् । विश्वकर्मा हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ ७ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if during the initiation (his Soma) were
to meet with any mishap, let him perform an oblation with, ‘To Viśvakarman hail!’ for Viśvakarman he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि दीक्षा᳓सु ।॥
किं᳓चिद् आ᳓प᳓द्येत विश्व᳓कर्मणे स्वा᳓हे᳓ति जुहुया᳓द् विश्व᳓कर्मा᳓ हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
०८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि सोमक्र᳘यण्याम्॥
(ङ्कि᳘) कि᳘ञ्चिदाप᳘द्येत पूष्णे स्वाहे᳘ति जुहुयात्पूषा हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि सोमक्र᳘यण्याम्॥
(ङ्कि᳘) कि᳘ञ्चिदाप᳘द्येत पूष्णे स्वाहे᳘ति जुहुयात्पूषा हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि सोमक्र᳘यण्याम् ॥
किं᳘चिदाप᳘द्येत पूष्णे स्वाहे᳘ति जुहुयात्पूषा हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि सोमक्रयण्यां किंचिदापद्येत । “पूष्णे स्वाहा”- इति जुहुयात् । पूषा हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ ८ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap in regard to the (cow) given in exchange for the Soma, let him perform an ablation with, ‘To Pūshan hail!’ for Pūshan he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि सोमक्र᳓यण्या᳓म् ।॥
किं᳓चिद् आ᳓प᳓द्येत पूष्णे᳓ स्वा᳓हे᳓ति जुहुया᳓त् पूषा᳓ हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
०९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि क्रया᳘योपोत्थितः[[!!]]॥
कि᳘ञ्चिदाप᳘द्येते᳘न्द्राय च मरु᳘द्भ्यश्च स्वाहे᳘ति जुहुयादि᳘न्द्रश्च हि स त᳘र्हि मरु᳘तश्च भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि क्रया᳘योपोत्थितः[[!!]]॥
कि᳘ञ्चिदाप᳘द्येते᳘न्द्राय च मरु᳘द्भ्यश्च स्वाहे᳘ति जुहुयादि᳘न्द्रश्च हि स त᳘र्हि मरु᳘तश्च भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि क्रया᳘योपो᳘त्थितः ॥
किं᳘चिदाप᳘द्येते᳘न्द्राय च मरु᳘द्भ्यश्च स्वाहे᳘ति जुहुयादि᳘न्द्रश्च हि स त᳘र्हि मरु᳘तश्च भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि क्रयायोपोत्थितः किंचिदापद्येत । “इन्द्राय च मरुद्भ्यश्च स्वाहा”- इति । जुहुयात् । इन्द्रश्च हि स तर्हि मरुतश्च भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ ९ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap when forthcoming for the purchase, let him perform an oblation with, ‘To Indra and the Maruts hail!’ for Indra and the Maruts he (Soma) then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि क्रया᳓योपो᳓त्थितः ।॥
किं᳓चिद् आ᳓प᳓द्येते᳓न्द्रा᳓य च मरु᳓द्भ्यश् च स्वा᳓हे᳓ति जुहुया᳓द् इ᳓न्द्रश् च हि᳓ स᳓ त᳓र्हि मरु᳓तश् च भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि पण्यमानः[[!!]]॥
कि᳘ञ्चिदाप᳘द्येता᳘सुराय स्वाहे᳘ति जुहुयाद᳘सुरो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि पण्यमानः[[!!]]॥
कि᳘ञ्चिदाप᳘द्येता᳘सुराय स्वाहे᳘ति जुहुयाद᳘सुरो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि पण्य᳘मानः ॥
किं᳘चिदाप᳘द्येता᳘सुराय स्वाहे᳘ति जुहुयाद᳘सुरो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि पण्यमानः किंचिदापद्येत । “असुराय स्वाहा”- इति जुहुयात् । असुरो हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ १० ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap whilst being bargained for, let him perform an oblation with, ‘To the Asura hail!’ for the Asura he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि पण्य᳓मा᳓नः ।॥
किं᳓चिद् आ᳓प᳓द्येता᳓सुरा᳓य स्वा᳓हे᳓ति जुहुया᳓द् अ᳓सुरो हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि क्रीतः[[!!]]॥
कि᳘ञ्चिदाप᳘द्येत मित्रा᳘य स्वाहे᳘ति जुहुयान्मित्रो हि स[[!!]] तर्हि᳘ भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि क्रीतः[[!!]]॥
कि᳘ञ्चिदाप᳘द्येत मित्रा᳘य स्वाहे᳘ति जुहुयान्मित्रो हि स[[!!]] तर्हि᳘ भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि क्रीतः᳟ ॥
किं᳘चिदाप᳘द्येत मित्रा᳘य स्वाहे᳘ति जुहुयान्मित्रो हि स᳘ तर्हि᳘ भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि क्रीतः किंचिदापद्येत । “मित्राय स्वाहा”- इति जुहुयात् । मित्रो हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ ११ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap after he has been bought, let him perform an oblation with, ‘To Mitra hail!’ for Mitra he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि कीर्तः᳓ ।॥
किं᳓चिद् आ᳓प᳓द्येत मित्रा᳓य स्वा᳓हे᳓ति जुहुया᳓न् मित्रो᳓ हि᳓ स᳓ तर्हि᳓ भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
१२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘द्यूरावा᳘सन्नः॥
कि᳘ञ्चिदाप᳘द्येत व्वि᳘ष्णवे शिपिविष्टा᳘य स्वाहे᳘ति जुहुयाद्वि᳘ष्णुर्हि स त᳘र्हि शिपिविष्टो भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘द्यूरावा᳘सन्नः॥
कि᳘ञ्चिदाप᳘द्येत व्वि᳘ष्णवे शिपिविष्टा᳘य स्वाहे᳘ति जुहुयाद्वि᳘ष्णुर्हि स त᳘र्हि शिपिविष्टो भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘द्यूरावा᳘सन्नः ॥
किं᳘चिदाप᳘द्येत वि᳘ष्णवे शिपिविष्टा᳘य स्वाहे᳘ति जुहुयाद्वि᳘ष्णुर्हि स त᳘र्हि शिपिविष्टो भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यद्यूरावासन्नः किंचिदापद्येत । “विष्णवे शिपिविष्टाय स्वाहा”- इति जुहुयात् । विष्णुर्हि स तर्हि शिपिविष्टो भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ १२ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap whilst seated on (the Sacrificer’s) lap 5, let him perform an oblation with, ‘To Vishṇu Śipivishṭa hail!’ for Vishṇu Śipivishṭa he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓द्य् ऊरा᳓वा᳓सन्नः ।॥
किं᳓चिद् आ᳓पद्येत वि᳓ष्णवे शिपिविष्टा᳓य स्वा᳓हे᳓ति जुहुया᳓द् वि᳓ष्णुर्हि᳓ स᳓ त᳓र्हि शिपिवि᳓ष्टो भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
१३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि पर्य्युह्य᳘माणः॥
कि᳘ञ्चिदाप᳘द्येत व्वि᳘ष्णवे नर᳘न्धिषाय स्वाहे᳘ति जुहुयाद्वि᳘ष्णुर्हि स त᳘र्हि नर᳘न्धिषो भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि पर्य्युह्य᳘माणः॥
कि᳘ञ्चिदाप᳘द्येत व्वि᳘ष्णवे नर᳘न्धिषाय स्वाहे᳘ति जुहुयाद्वि᳘ष्णुर्हि स त᳘र्हि नर᳘न्धिषो भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि पर्युह्य᳘माणः ॥
किं᳘चिदाप᳘द्येत वि᳘ष्णवे नरं᳘धिषाय स्वाहे᳘ति जुहुयाद्वि᳘ष्णुर्हि स त᳘र्हि नरं᳘धिषो भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि पर्युह्यमाणः किंचिदापद्येत । “विष्णवे नरंधिषाय स्वाहा"- इति जुहुयात् । विष्णुर्हि स तर्हि नरन्धिषो भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ १३ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap whilst being driven about, let him perform.
an oblation with, ‘To Vishṇu Narandhisha hail! for Vishṇu Narandhisha he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि पर्युह्य᳓मा᳓णः ।॥
किं᳓चिद् आ᳓पद्येत वि᳓ष्णवे नरं᳓धिषा᳓य स्वा᳓हे᳓ति जुहुया᳓द् वि᳓ष्णुर् हि᳓ स᳓ त᳓र्हि नरं᳓धिषो भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
१४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ यद्या᳘गतः॥
कि᳘ञ्चिदाप᳘द्येत सो᳘माय स्वाहे᳘ति जुहुयात्सो᳘मो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ यद्या᳘गतः॥
कि᳘ञ्चिदाप᳘द्येत सो᳘माय स्वाहे᳘ति जुहुयात्सो᳘मो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ यद्या᳘गतः ॥
किं᳘चिदाप᳘द्येत सो᳘माय स्वाहे᳘ति जुहुयात्सो᳘मो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यद्यागतः किंचिदापद्येत । “सोमाय स्वाहा”- इति जुहुयात् । सोमो हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ १४ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap when he has reached (the hall), let him perform an oblation with, ‘To Soma hail!’ for Soma he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓द्य् आ᳓गतः ।॥
किं᳓चिद् आ᳓प᳓द्येत सो᳓मा᳓य स्वा᳓हे᳓ति जुहुया᳓त् सो᳓मो हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
१५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘द्यासन्द्यामा᳘सन्नः॥
कि᳘ञ्चिदाप᳘द्येत व्व᳘रुणाय स्वाहे᳘ति जुहुयाद्व᳘रुणो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘द्यासन्द्यामा᳘सन्नः॥
कि᳘ञ्चिदाप᳘द्येत व्व᳘रुणाय स्वाहे᳘ति जुहुयाद्व᳘रुणो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘द्यासन्द्यामा᳘सन्नः ॥
किं᳘चिदाप᳘द्येत व᳘रुणाय स्वाहे᳘ति जुहुयाद्व᳘रुणो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यद्यासंद्यामासन्नः किंचिदापद्येत । “वरुणाय स्वाहा”- इति जुहुयात् । वरुणो हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ १५ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap when seated on the throne, let him perform an oblation with, ‘To Varuṇa hail!’ for Varuṇa he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓द्य् आ᳓सन्द्या᳓म् आ᳓सन्नः ।॥
किं᳓चिद् आ᳓प᳓द्येत व᳓रुणा᳓य स्वा᳓हे᳓ति जुहुया᳓द् व᳓रुणो हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
१६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ यद्या᳘ग्नीद्ध्रगतः॥
कि᳘ञ्चिदाप᳘द्येताग्न᳘ये स्वाहे᳘ति जुहुयादग्निर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ यद्या᳘ग्नीद्ध्रगतः॥
कि᳘ञ्चिदाप᳘द्येताग्न᳘ये स्वाहे᳘ति जुहुयादग्निर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ यद्या᳘ग्नीध्रगतः ॥
किं᳘चिदाप᳘द्येताग्न᳘ये स्वाहे᳘ति जुहुयादग्निर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यद्याग्नीध्रगतः किंचिदापद्येत । “अग्नये स्वाहा”- इति जुहुयात् । अग्निर्हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ १६ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap whilst staying in the Āgnīdhra, let him perform an oblation with, ‘To Agni hail!’ for Agni he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓द्य् आ᳓ग्नीध्रगतः ।॥
किं᳓चिद् आ᳓प᳓द्येता᳓ग्न᳓ये स्वा᳓हे᳓ति जुहुया᳓द् अग्नि᳓र् हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
१७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि हविर्द्धा᳘नगतः॥
कि᳘ञ्चिदाप᳘द्येते᳘न्द्राय स्वाहे᳘ति जुहुयादि᳘न्द्रो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि हविर्द्धा᳘नगतः॥
कि᳘ञ्चिदाप᳘द्येते᳘न्द्राय स्वाहे᳘ति जुहुयादि᳘न्द्रो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि हविर्धा᳘नगतः ॥
किं᳘चिदाप᳘द्येते᳘न्द्राय स्वाहे᳘ति जुहुयादि᳘न्द्रो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि हविर्द्धानगतः किंचिदापद्येत । “इन्द्राय स्वाहा”- इति जुहुयात् । इन्द्रो हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ १७ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap whilst staying in the Havirdhāna, let him perform an oblation with, ‘To Indra hail!’ for Indra he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि हविर्धा᳓नगतः ।॥
किं᳓चिद् आ᳓प᳓द्येते᳓न्द्रा᳓य स्वा᳓हे᳓ति जुहुया᳓द् इ᳓न्द्रो हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
१८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘द्युपावह्रिय᳘माणः॥
कि᳘ञ्चिदाप᳘द्येता᳘थर्व्वणे स्वाहे᳘ति जुहुयाद᳘थर्व्वा हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘द्युपावह्रिय᳘माणः॥
कि᳘ञ्चिदाप᳘द्येता᳘थर्व्वणे स्वाहे᳘ति जुहुयाद᳘थर्व्वा हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘द्युपावह्रिय᳘माणः ॥
किं᳘चिदाप᳘द्येता᳘थर्वणे स्वाहे᳘ति जुहुयाद᳘थर्वा हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदुपावह्रियमाणः किंचिदापद्येत । “अथर्वणे स्वाहा”- इति जुहुयात् । अथर्वा हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ १८ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap whilst being taken down (from the ear), let him perform an oblation with, ‘To Atharvan hail!’ for Atharvan he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓द्य् उपा᳓वह्रिय᳓मा᳓णः ।॥
किं᳓चिद् आ᳓प᳓द्येता᳓थर्वणे स्वा᳓हे᳓ति जुहुया᳓द् अ᳓थर्वा᳓ हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
१९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘द्यᳫँ᳭शु᳘षु᳘ न्युप्तः॥
कि᳘ञ्चिदाप᳘द्येत व्वि᳘श्वेभ्यो देवे᳘भ्यः स्वाहे᳘ति जुहुयाद्वि᳘श्वे हि स त᳘र्हि देवा[[!!]] भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘द्यᳫँ᳭शु᳘षु᳘ न्युप्तः॥
कि᳘ञ्चिदाप᳘द्येत व्वि᳘श्वेभ्यो देवे᳘भ्यः स्वाहे᳘ति जुहुयाद्वि᳘श्वे हि स त᳘र्हि देवा[[!!]] भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘द्यᳫंशु᳘षुॗ न्युप्तः ॥
किं᳘चिदाप᳘द्येत वि᳘श्वेभ्यो देवे᳘भ्यः स्वाहे᳘ति जुहुयाद्वि᳘श्वे हि स त᳘र्हि देवा᳘ भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यद्यंशुषु न्युप्तः किंचिदापद्येत । “विश्वेभ्यो देवेभ्यः स्वाहा"- इति जुहुयात् । विश्वे हि स तर्हि देवा भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ १९ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap when thrown down (on the pressing-board) in (the shape of) the Soma-stalks, let him perform an oblation with, ‘To the All-gods hail!’ for the All-gods he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓द्य् अँशु᳓षु न्यु᳙प्तः ।॥
किं᳓चिद् आ᳓प᳓द्येत वि᳓श्वेभ्यो देवे᳓भ्यः स्वा᳓हे᳓ति जुहुया᳓द् वि᳓श्वे हि᳓ स᳓ त᳓र्हि देवा᳓ भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
२०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘द्याप्याय्य᳘मानः॥
कि᳘ञ्चिदाप᳘द्येत व्वि᳘ष्णव ऽआप्प्री᳘तपा᳘य स्वाहे᳘ति जुहुयाद्वि᳘ष्णुर्हि स त᳘र्ह्याप्प्रीतपा भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘द्याप्याय्य᳘मानः॥
कि᳘ञ्चिदाप᳘द्येत व्वि᳘ष्णव ऽआप्प्री᳘तपा᳘य स्वाहे᳘ति जुहुयाद्वि᳘ष्णुर्हि स त᳘र्ह्याप्प्रीतपा भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘द्याप्याय्य᳘मानः ॥
किं᳘चिदाप᳘द्येत वि᳘ष्णवऽआप्रीतपा᳘य स्वाहे᳘ति जुहुयाद्वि᳘ष्णुर्हि स त᳘र्ह्याप्रीतपा भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यद्याप्याय्यमानः किंचिदापद्येत । “विष्णव आप्रीतपाय स्वाहा”- इति जुहुयात् । विष्णुर्हि स तर्ह्याप्रीतपा भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ २० ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap whilst being invigorated (moistened), let him perform an oblation with, ‘To Vishṇu Āprītapā hail!’ for Vishṇu Āprītapā (the protector of the appeased) he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓द्य् आ᳓प्या᳓य्य᳓मा᳓नः ।॥
किं᳓चिद् आ᳓प᳓द्येत वि᳓ष्णव आ᳓प्रीतपा᳓य स्वा᳓हे᳓ति जुहुया᳓द् विष्णुर् हि᳓ स᳓ त᳓र्ह्य् आ᳓प्रीतपा᳓ भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
२१
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘द्यभिषूय᳘माणः॥
कि᳘ञ्चिदाप᳘द्येत यमा᳘य स्वाहे᳘ति जुहुयाद्यमो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘द्यभिषूय᳘माणः॥
कि᳘ञ्चिदाप᳘द्येत यमा᳘य स्वाहे᳘ति जुहुयाद्यमो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘द्यभिषूय᳘माणः ॥
किं᳘चिदाप᳘द्येत यमा᳘य स्वाहे᳘ति जुहुयाद्यमो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यद्यभिषूयमाणः किंचिदापद्येत । “यमाय स्वाहा”- इति जुहुयात् । यमो हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ २१ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap whilst being pressed, let him perform an oblation with, ‘To Yama hail!’ for Yama he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓द्य् अभिषूय᳓मा᳓णः ।॥
किं᳓चिद् आ᳓प᳓द्येत यमा᳓य स्वा᳓हे᳓ति जुहुया᳓द् यमो᳓ हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
२२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि सम्भ्रिय᳘माणः॥
कि᳘ञ्चिदाप᳘द्येत व्वि᳘ष्णवे स्वाहे᳘ति जुहुयाद्वि᳘ष्णुर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि सम्भ्रिय᳘माणः॥
कि᳘ञ्चिदाप᳘द्येत व्वि᳘ष्णवे स्वाहे᳘ति जुहुयाद्वि᳘ष्णुर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि सम्भ्रिय᳘माणः ॥
किं᳘चिदाप᳘द्येत वि᳘ष्णवे स्वाहे᳘ति जुहुयाद्वि᳘ष्णुर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि संम्रियमाणः किञ्चिदापद्येत । “विष्णवे स्वाहा”- इति जुहुयात् । विष्णुर्हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ २२ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap whilst being gathered together 6, let him perform an oblation with, ‘To Vishṇu hail!’ for Vishṇu he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि सम्भ्रिय᳓मा᳓णः ।॥
किं᳓चिद् आ᳓प᳓द्येत वि᳓ष्णवे स्वा᳓हे᳓ति जुहुया᳓द् वि᳓ष्णुर् हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
२३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि पूय᳘मानः॥
कि᳘ञ्चिदाप᳘द्येत व्वाय᳘वे स्वाहे᳘ति जुहुयाद्वायुर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि पूय᳘मानः॥
कि᳘ञ्चिदाप᳘द्येत व्वाय᳘वे स्वाहे᳘ति जुहुयाद्वायुर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि पूय᳘मानः ॥
किं᳘चिदाप᳘द्येत वाय᳘वे स्वाहे᳘ति जुहुयाद्वायुर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि पूयमानः किंचिदापद्येत । “वायवे स्वाहा”- इति जुहुयात् । वायुर्हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ २३ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap whilst being purified (strained), let him perform an oblation with, ‘To Vāyu hail!’ for Vāyu he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि पूय᳓मा᳓नः ।॥
किं᳓चिद् आ᳓प᳓द्येत वा᳓य᳓वे स्वा᳓हे᳓ति जुहुया᳓द् वा᳓यु᳓र् हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
२४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि पूतः[[!!]]॥
कि᳘ञ्चिदाप᳘द्येत शुक्रा᳘य स्वाहे᳘ति जुहुयाच्छुक्रो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि पूतः[[!!]]॥
कि᳘ञ्चिदाप᳘द्येत शुक्रा᳘य स्वाहे᳘ति जुहुयाच्छुक्रो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि पूतः᳟ ॥
किं᳘चिदाप᳘द्येत शुक्रा᳘य स्वाहे᳘ति जुहुयाछुक्रो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि पूतः किंचिदापद्येत । “शुक्राय स्वाहा”- इति जुहुयात् । शुक्रो हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ २४ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap when purified, let him perform an oblation with, ‘To Śukra hail!’ for Śukra (the clear one) he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि पूतः᳓ ।॥
किं᳓चिद् आ᳓प᳓द्येत शुक्रा᳓य स्वा᳓हे᳓ति जुहुया᳓छुक्रो᳓ हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
२५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि क्षीरश्रीः[[!!]]॥
कि᳘ञ्चिदाप᳘द्येत शुक्रा᳘य स्वाहे᳘ति जुहुयाच्छुक्रो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि क्षीरश्रीः[[!!]]॥
कि᳘ञ्चिदाप᳘द्येत शुक्रा᳘य स्वाहे᳘ति जुहुयाच्छुक्रो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि क्षीरश्रीः᳟ ॥
किं᳘चिदाप᳘द्येत शुक्रा᳘य स्वाहे᳘ति जुहुयाछुक्रो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि क्षीरश्रीः किंचिदापद्येत । “शुक्राय स्वाहा”- इति जुहुयात् । शुक्रो हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ २५ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap when mixed with milk, let him perform an oblation with, ‘To Śukra hail!’ for Śukra he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि क्षीरश्रीः᳓ ।॥
किं᳓चिद् आ᳓प᳓द्येत शुक्रा᳓य स्वा᳓हे᳓ति जुहुया᳓छुक्रो᳓ हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
२६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि सक्तुश्रीः[[!!]]॥
कि᳘ञ्चिदाप᳘द्येत मन्थि᳘ने स्वाहे᳘ति जुहुयान्मन्थी हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि सक्तुश्रीः[[!!]]॥
कि᳘ञ्चिदाप᳘द्येत मन्थि᳘ने स्वाहे᳘ति जुहुयान्मन्थी हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि सक्तुश्रीः᳟ ॥
किं᳘चिदाप᳘द्येत मन्थि᳘ने स्वाहे᳘ति जुहुयान्मन्थी हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि सक्तुश्रीः किंचिदापद्येत । “मंथिने स्वाहा”- इति जुहुयात् । मंथी हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ २६ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any
mishap when mixed with barley-meal, let him perform an oblation with, ‘To Manthin hail!’ for Manthin (Soma mixed with meal) he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि सक्तुश्रीः᳓ ।॥
किं᳓चिद् आ᳓प᳓द्येत मन्थि᳓ने स्वा᳓हे᳓ति झुया᳓न् मन्थी᳓ हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
२७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि चमसेषू᳘न्नीतः॥
कि᳘ञ्चिदाप᳘द्येत व्वि᳘श्वेभ्यो देवे᳘भ्यः स्वाहे᳘ति जुहुयाद्वि᳘श्वे हि स त᳘र्हि देवा[[!!]] भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि चमसेषू᳘न्नीतः॥
कि᳘ञ्चिदाप᳘द्येत व्वि᳘श्वेभ्यो देवे᳘भ्यः स्वाहे᳘ति जुहुयाद्वि᳘श्वे हि स त᳘र्हि देवा[[!!]] भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि चमसेषू᳘न्नीतः ॥
किं᳘चिदाप᳘द्येत वि᳘श्वेभ्यो देवे᳘भ्यः स्वाहे᳘ति जुहुयाद्वि᳘श्वे हि स त᳘र्हि देवा᳘ भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि चमसेषून्नीतः किंचिदापद्येत । “विश्वेभ्यो देवेभ्यः स्वाहा”- इति जुहुयात् । विश्वे हि स तर्हि देवा भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ २७ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap when drawn into the cups, let him perform an oblation with, ‘To the All-gods hail!’ for the All-gods he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि चमसेषू᳓न्नीतः ।॥
किं᳓चिद् आ᳓प᳓द्येत वि᳓श्वेभ्यो देवे᳓भ्यः स्वा᳓हे᳓ति जुह्या᳓द् वि᳓श्वे हि᳓ स᳓ त᳓र्हि देवा᳓ भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
२८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि हो᳘मायो᳘द्यतः॥
कि᳘ञ्चिदाप᳘द्येता᳘सवे स्वाहे᳘ति जुहुयाद᳘सुर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि हो᳘मायो᳘द्यतः॥
कि᳘ञ्चिदाप᳘द्येता᳘सवे स्वाहे᳘ति जुहुयाद᳘सुर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि हो᳘मायो᳘द्यतः ॥
किं᳘चिदाप᳘द्येता᳘सवे स्वाहे᳘ति जुहुयाद᳘सुर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि होमायोद्यतः किंचिदापद्येत । “असवे स्वाहा”- इति जुहुयात् । असुर्हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ २८ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap when ready for the libation, let him perform an oblation with, ‘To Asu hail!’ for Asu (the breath of life) he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि हो᳓मा᳓यो᳓द्यतः ।॥
किं᳓चिद् आ᳓पद्येता᳓सवे स्वा᳓हे᳓ति जुहुया᳓द् अ᳓सुर् हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
२९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि हूय᳘मानः॥
कि᳘ञ्चिदाप᳘द्येत रुद्रा᳘य स्वाहे᳘ति जुहुयाद्रु᳘द्रो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि हूय᳘मानः॥
कि᳘ञ्चिदाप᳘द्येत रुद्रा᳘य स्वाहे᳘ति जुहुयाद्रु᳘द्रो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि हूय᳘मानः ॥
किं᳘चिदाप᳘द्येत रुद्रा᳘य स्वाहे᳘ति जुहुयाद्रुद्रो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि हूयमानः किंचिदापद्येत । “रुद्राय स्वाहा”- इति जुहुयात् । रुद्रो हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ २९ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap whilst being offered, let him perform an oblation with, ‘To Rudra hail!’ for Rudra he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि हूय᳓मा᳓नः ।॥
किं᳓चिद् आ᳓प᳓द्येत रुद्रा᳓य स्वा᳓हे᳓ति जुह्या᳓द् रुद्रो᳓ हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
३०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘द्यभ्या᳘वृत्तः॥
कि᳘ञ्चिदाप᳘द्येत व्वा᳘ताय स्वाहे᳘ति जुहुयाद्वा᳘तो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘द्यभ्या᳘वृत्तः॥
कि᳘ञ्चिदाप᳘द्येत व्वा᳘ताय स्वाहे᳘ति जुहुयाद्वा᳘तो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘द्यभ्या᳘वृत्तः ॥
किं᳘चिदाप᳘द्येत वा᳘ताय स्वाहे᳘ति जुहुयाद्वा᳘तो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यद्यभ्यावृत्तः किंचिदापद्येत । “वाताय स्वाहा”- इति जुहुयात् । वातो हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ ३० ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap when he has returned 7, let him perform an oblation with, ‘To Vāta hail!’ for Vāta (the wind) he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓द्य् अभ्या᳓वृत्तः ।॥
किं᳓चिद् आ᳓प᳓द्येत वा᳓ता᳓य स्वा᳓हे᳓ति जुहुया᳓द् वा᳓तो हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
३१
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि प्र᳘तिख्यातः॥
कि᳘ञ्चिदाप᳘द्येत नृच᳘क्षसे स्वाहे᳘ति जुहुयान्नृचक्षा[[!!]] हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि प्र᳘तिख्यातः॥
कि᳘ञ्चिदाप᳘द्येत नृच᳘क्षसे स्वाहे᳘ति जुहुयान्नृचक्षा[[!!]] हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि प्र᳘तिख्यातः ॥
किं᳘चिदाप᳘द्येत नृच᳘क्षसे स्वाहे᳘ति जुहुयान्नृच᳘क्षा 8 हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि प्रतिख्यातः किंचिदापद्येत । नृचक्षसे स्वाहा"- इति जुहुयात् । नृचक्षा हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ ३१ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if, after being looked at, (his Soma) were to meet with any mishap, let him perform an oblation with, ‘To Nr̥cakshas hail!’ for Nr̥cakshas (man-viewing) he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि प्र᳓तिख्या᳓तः ।॥
किं᳓चिद् आ᳓प᳓द्येत नृच᳓क्षसे स्वा᳓हे᳓ति जुहुया᳓न् नृच᳓क्षा᳓ हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
३२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि भक्ष्य᳘माणः॥
कि᳘ञ्चिदाप᳘द्येत भक्षा᳘य स्वाहे᳘ति जुहुयाद्भक्षो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि भक्ष्य᳘माणः॥
कि᳘ञ्चिदाप᳘द्येत भक्षा᳘य स्वाहे᳘ति जुहुयाद्भक्षो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि भक्ष्य᳘माणः ॥
किं᳘चिदाप᳘द्येत भक्षा᳘य स्वाहे᳘ति जुहुयाद्भक्षो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि भक्ष्यमाणः किंचिदापद्येत । “भक्षाय स्वाहा” इति जुहुयात् । भक्षो हिस तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो न्यति ॥ ३२ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap whilst being consumed, let him perform an oblation with, ‘To Bhaksha hail!’ for Bhaksha
(drink) he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि भक्ष्य᳓मा᳓णः ।॥
किं᳓चिद् आ᳓पद्येत भक्षा᳓य स्वा᳓हे᳓ति जुहुया᳓द् भक्षो᳓ हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
३३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि नाराशᳫँ᳭से᳘षु सन्नः[[!!]]॥
कि᳘ञ्चिदाप᳘द्येत पितृ᳘भ्यो नाराशᳫँ᳭से᳘भ्यः स्वाहे᳘ति जुहुयात्पित᳘रो हि स त᳘र्हि नाराशᳫँ᳭सा भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि नाराशᳫँ᳭से᳘षु सन्नः[[!!]]॥
कि᳘ञ्चिदाप᳘द्येत पितृ᳘भ्यो नाराशᳫँ᳭से᳘भ्यः स्वाहे᳘ति जुहुयात्पित᳘रो हि स त᳘र्हि नाराशᳫँ᳭सा भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि नाराशᳫंसे᳘षु सन्नः᳟ ॥
किं᳘चिदाप᳘द्येत पितृ᳘भ्यो नाराशᳫंसे᳘भ्यः स्वाहे᳘ति जुहुयात्पित᳘रो हि स त᳘र्हि नाराशᳫंसा भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि नाराशंसेषु सन्नः किंचिदापद्येत । पितृभ्यो नाराशंसेभ्यः स्वाहा"- इति जुहुयात् । पितरो हि स तर्हि नाराशंसा भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ ३३ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap when contained in the Nārāśaṁsa (cups 9), let him perform an oblation with, ‘To the Nārāśaṁsa Fathers hail!’ for the Nārāśaṁsa (man-praising) Fathers he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि ना᳓रा᳓शँसे᳓षु सन्नः᳓ ।॥
किं᳓चिद् आ᳓प᳓द्येत पितृ᳓भ्यो ना᳓रा᳓शँसे᳓भ्यः स्वा᳓हे᳓ति जुहुया᳓त् पित᳓रो हि᳓ स᳓ त᳓र्हि ना᳓रा᳓शँसा᳓ भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
३४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘द्यवभृथायो᳘द्यतः॥
कि᳘ञ्चिदाप᳘द्येत सि᳘न्धवे स्वाहे᳘ति जुहुयात्सि᳘न्धुर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘द्यवभृथायो᳘द्यतः॥
कि᳘ञ्चिदाप᳘द्येत सि᳘न्धवे स्वाहे᳘ति जुहुयात्सि᳘न्धुर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘द्यवभृथायो᳘द्यतः ॥
किं᳘चिदाप᳘द्येत सि᳘न्धवे स्वाहे᳘ति जुहुयात्सि᳘न्धुर्हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यद्यवभृथायोद्यतः किंचिदापद्येत । “सिंधवे स्वाहा”- इति जुहुयात् । सिंधुर्हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ ३४ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap when ready for the purificatory bath 10, let him perform an oblation with, ‘To the Stream hail!’ for a stream he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓द्य् अवभृथा᳓यो᳓द्यतः ।॥
किं᳓चिद् आ᳓प᳓द्येत सि᳓न्धवे स्वा᳓हे᳓ति जुहुया᳓त् सि᳓न्धुर् हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
३५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘द्यभ्यवह्रिय᳘माणः॥
कि᳘ञ्चिदाप᳘द्येत समुद्रा᳘य स्वाहे᳘ति जुहुयात्समुद्रो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥ (शतम् ६२००)॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘द्यभ्यवह्रिय᳘माणः॥
कि᳘ञ्चिदाप᳘द्येत समुद्रा᳘य स्वाहे᳘ति जुहुयात्समुद्रो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥ (शतम् ६२००)॥
मूलम् - Weber
अ᳘थ य᳘द्यभ्यवह्रिय᳘माणः ॥
किं᳘चिदाप᳘द्येत समुद्रा᳘य स्वाहे᳘ति जुहुयात्समुद्रो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥ शतम् ६२०० ॥ ॥
मूलम् - विस्वरम्
अथ यद्यभ्यवह्रियमाणः किंचिदापद्येत । “समुद्राय स्वाहा"- इति जुहुयात् । समुद्रो हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ ३५ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap whilst being taken down (to the water), let him perform an oblation with, ‘To the Sea hail!’ for a sea he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓द्य् अभ्यवह्रिय᳓मा᳓णः ।॥
किं᳓चिद् आ᳓प᳓द्येत समुद्रा᳓य स्वा᳓हे᳓ति जुहुया᳓त् समुद्रो᳓ हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उ᳓पैनं यज्ञो᳓ नमति ॥॥
३६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दि प्र᳘प्लुतः॥
कि᳘ञ्चिदाप᳘द्येत सलिला᳘य स्वाहे᳘ति जुहुयात्सलिलो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दि प्र᳘प्लुतः॥
कि᳘ञ्चिदाप᳘द्येत सलिला᳘य स्वाहे᳘ति जुहुयात्सलिलो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫँ᳭ हत ऽउ᳘पैनं यज्ञो᳘ नमति॥
मूलम् - Weber
अ᳘थ य᳘दि प्र᳘प्लुतः ॥
किं᳘चिदाप᳘द्येत सलिला᳘य स्वाहे᳘ति जुहुयात्सलिलो हि स त᳘र्हि भ᳘वत्य᳘प पाप्मा᳘नᳫं हतऽउ᳘पैनं यज्ञो᳘ नमति ॥
मूलम् - विस्वरम्
अथ यदि प्रप्लुतः किंचिदापद्येत । “सलिलाय स्वाहा”- इति जुहुयात् । सलिलो हि स तर्हि भवति । अप पाप्मानं हते । उपैनं यज्ञो नमति ॥ ३६ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- And if (his Soma) were to meet with any mishap when immersed, let him perform an oblation with, ‘To the Flood hail!’ for a flood he then is: he repels evil, and the sacrifice inclines to him.
मूलम् - Makoto
अ᳓थ य᳓दि प्र᳓प्लुतः ।॥
किं᳓चिद् आ᳓प᳓द्येत सलिला᳓य स्वा᳓हे᳓ति जुहुया᳓त् सलिलो᳓ हि᳓ स᳓ त᳓र्हि भ᳓वत्य् अ᳓प पा᳓प्मा᳓नँ हत᳓ उपैनं यज्ञो᳓ नमति ॥॥
३७
विश्वास-प्रस्तुतिः
ता᳘ वा᳘ ऽएताः[[!!]]॥
(श्च᳘) च᳘तुस्त्रिᳫँ᳭शतमाज्याहुती᳘र्ज्जुहोति त्र᳘यस्त्रिᳫँ᳭शद्वै᳘ देवाः᳘ प्रजा᳘पतिश्चतुस्त्रिᳫँ᳭श᳘ ऽएत᳘दु स᳘र्व्वैर्द्देवै᳘र्यज्ञ᳘म्भिषज्य᳘ति स᳘र्व्वैर्द्देवै᳘र्य्यज्ञ᳘म्प्रतिस᳘न्दधाति॥
मूलम् - श्रीधरादि
ता᳘ वा᳘ ऽएताः[[!!]]॥
(श्च᳘) च᳘तुस्त्रिᳫँ᳭शतमाज्याहुती᳘र्ज्जुहोति त्र᳘यस्त्रिᳫँ᳭शद्वै᳘ देवाः᳘ प्रजा᳘पतिश्चतुस्त्रिᳫँ᳭श᳘ ऽएत᳘दु स᳘र्व्वैर्द्देवै᳘र्यज्ञ᳘म्भिषज्य᳘ति स᳘र्व्वैर्द्देवै᳘र्य्यज्ञ᳘म्प्रतिस᳘न्दधाति॥
मूलम् - Weber
ता᳘ वा᳘ऽएताः᳟ ॥
च᳘तुस्त्रिᳫंशतमाज्याहुती᳘र्जुहोति त्र᳘यस्त्रिᳫंशद्वै᳘ देवाः᳘ प्रजा᳘पतिश्चतुस्त्रिᳫंश᳘ एत᳘दु स᳘र्वैर्देवै᳘र्यज्ञं᳘ भिषज्य᳘ति स᳘र्वैर्देवै᳘र्यज्ञं᳘ प्रतिसं᳘दधाति ॥
मूलम् - विस्वरम्
ता वा एताश्चतुस्त्रिंशतमाज्याहुतीर्जुहोति 11 । त्रयस्त्रिंशद्वै देवाः । प्रजापतिश्चतुस्त्रिंशः । एतदु सर्वैर्देवैर्यज्ञं भिषज्यति । सर्वैर्देवैर्यज्ञं प्रतिसंदधाति ॥ ३७ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- These, then, are the thirty-three oblations he performs; for there are thirty-three gods, and Prajāpati is the thirty-fourth: with the help of all the gods he thus heals the sacrifice, and with the help of all the gods he makes it complete again.
मूलम् - Makoto
ता᳓ वा᳓ एताः᳓ ।॥
च᳓तुस्त्रिँशतम् आ᳓ज्या᳓हुती᳓र् जुहोति त्र᳓यस्त्रिँशद् वै᳓ देवाः᳓ प्रजा᳓पतिश् चतुस्त्रिँश᳓ एत᳓द् उ स᳓र्वैर् देवै᳓र् यज्ञं᳓ भिषज्य᳓ति स᳓र्वैर् देवै᳓र् यज्ञं᳓ प्रतिसं᳓दधा᳓ति ॥॥
३८
विश्वास-प्रस्तुतिः
ता᳘ ब्र᳘ह्मैव᳘ जुहुयात्॥
(न्ना᳘) ना᳘ब्रह्मा ब्रह्मा वै᳘ यज्ञ᳘स्य दक्षिणत᳘ ऽआस्ते ब्रह्मा᳘ यज्ञ᳘न्दक्षिणतो᳘ गोपायति य᳘दि तु[[!!]] ब्रह्मा न᳘ व्विद्याद᳘पि य᳘ ऽएव क᳘श्च व्विद्यात्स᳘ जुहुयाद्ब्रह्मा᳘ण᳘न्त्वाम᳘न्त्र्य ब्रह्मणा᳘ ऽतिसृष्टस्ता᳘साम्वा᳘ ऽएता᳘साम्व्या᳘हृतीनाम्बन्धु᳘ता व्व᳘सिष्ठो ह व्विरा᳘जम्विदा᳘ञ्चकार ताᳫँ᳭ हे᳘न्द्रो ऽभि᳘दध्यौ॥
मूलम् - श्रीधरादि
ता᳘ ब्र᳘ह्मैव᳘ जुहुयात्॥
(न्ना᳘) ना᳘ब्रह्मा ब्रह्मा वै᳘ यज्ञ᳘स्य दक्षिणत᳘ ऽआस्ते ब्रह्मा᳘ यज्ञ᳘न्दक्षिणतो᳘ गोपायति य᳘दि तु[[!!]] ब्रह्मा न᳘ व्विद्याद᳘पि य᳘ ऽएव क᳘श्च व्विद्यात्स᳘ जुहुयाद्ब्रह्मा᳘ण᳘न्त्वाम᳘न्त्र्य ब्रह्मणा᳘ ऽतिसृष्टस्ता᳘साम्वा᳘ ऽएता᳘साम्व्या᳘हृतीनाम्बन्धु᳘ता व्व᳘सिष्ठो ह व्विरा᳘जम्विदा᳘ञ्चकार ताᳫँ᳭ हे᳘न्द्रो ऽभि᳘दध्यौ॥
मूलम् - Weber
ता᳘ ब्रॗह्मैव᳘ जुहुयात् ॥
ना᳘ब्रह्मा ब्रह्मा वै᳘ यज्ञ᳘स्य दक्षिणत᳘ आस्ते ब्रह्मा᳘ यज्ञं᳘ दक्षिणतो᳘ गोपायति य᳘दि तु᳘ ब्रह्मा न᳘ विद्याद᳘पि य᳘ एव क᳘श्च विद्यात्स᳘ जुहुयाद्ब्रह्मा᳘णंॗ त्वाम᳘न्त्र्य ब्रह्मणा᳘तिसृष्टस्ता᳘सां वा᳘ऽएता᳘सां व्या᳘हृतीनां बन्धु᳘ता व᳘सिष्ठो ह विरा᳘जं विदां᳘ चकार ताᳫं हे᳘न्द्रोऽभि᳘दध्यौ ॥
मूलम् - विस्वरम्
ता ब्रह्मैव जुहुयात् । नाब्रह्मा । ब्रह्मा वै यज्ञस्य दक्षिणत आस्ते । ब्रह्मा यज्ञं दक्षिणतो गोपायति । यदि तु ब्रह्मा न विद्यात् । अपि य एव कश्च विद्यात् । स जुहुयात् । ब्रह्माणं त्वामंत्र्य । ब्रह्मणा ऽतिसृष्टः । तासां वा एतासां व्याहृतीनां बन्धुता । वसिष्ठो ह विराजं विदांचकार । तां हेन्द्रो ऽभिदध्यौ ॥ ३८ ॥
हरिस्वामी
बन्धुता ब्राह्मणसमूहः । तां इन्द्रः अभिध्यातवान् । यदि मह्यं विराजं ब्रवीषि, तर्हि ममाहंजातीयं रूपं अहं त्वा दर्शयेयेति । तथा करोमि यथा मदीयं रूपं अवश्यं त्वां दर्शयेय तथा सर्वस्य यज्ञस्य प्रायश्चित्तिं च ब्रूयात् । त्वयोक्तं रूपं दर्शयिष्यामीति । किन्न्वेव त्वदीयरूपेण दृष्टेनेत्येतदाह- किं सः स्यात् । कीदृशः स स्यात् । यं मां स्वमध्यात्मं रूपं दर्शयेथाः । तत्राह- जीवस्वर्ग इति । जीवतां स्वर्गो जीवस्वर्गः तस्मिन् जीवस्वर्गे एव स प्रेयात् प्रगच्छेत् । तस्माल्लोकात् येन यत्र स्वर्गे शक्यं गन्तुम् । तत्र मद्दशां गच्छेदित्यर्थः । इयं वै पृथिवी दिग्भेदेन दशाक्षरात्मकं छन्दः विराजो ऽधिदैवतम् । इत्येतां विराजमुवाच । अग्निहोत्रमारभ्य दीर्घसत्रं ह वा एत उपयन्ति इति या एताः सौमिक्यः प्रायश्चित्तयः प्रकृतिप्रविष्टाः सन्ति । ताः चोदकपरंपरया संवत्सरसत्रेष्वतिदिष्टाः तत्र च महदुक्थ्यम्- उपांत्ये दिवसे । तेन एतदुक्तं भवति । आ संवत्सरसत्रेभ्य इति 12 ॥ ३८-४१ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकांडे षष्ठे ऽध्याये प्रथमं ब्राह्मणम् ॥ १ ॥
नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन् हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥
श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥
भूभर्त्रा विक्रमार्केण क्लृप्तां कनकवेदिकाम् । दानायाध्यास्य कृतवान् श्रुत्यर्थविवृतिं हरिः ॥
इति श्रीसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीनां श्रीहरिस्वामिनां कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे षष्ठो ऽध्यायः समाप्तः ॥ १२-६ ॥
उत्तरक्रतुनिरूपकं प्रकरणं समाप्तम् ॥
Eggeling
- The Brahman (superintending priest) himself should perform them, and no other than the Brahman; for the Brahman sits on the right (south)
side of the sacrifice, and protects the sacrifice on the right side. If, however, the Brahman should not know (these formulas and oblations), any one who knows them may perform them; but (let him do so) after applying for leave to the Brahman, and with his permission. Now as to the meaning of these (formulas). Vasishṭḥa knew the Virāj 13: Indra coveted it.
मूलम् - Makoto
ता᳓ ब्रह्मै᳙व᳓ जुहुया᳓त् ।॥
ना᳓ब्रह्मा᳓ ब्रह्मा᳓ वै᳓ यज्ञ᳓स्य दक्षिणत᳓ आ᳓स्ते ब्रह्मा᳓ यज्ञं᳓ दक्षिणतो᳓ गोपा᳓यति य᳓दि तु᳓ ब्रह्मा᳓ न᳓ विद्या᳓द् अ᳓पि य᳓ एव᳓ क᳓श् च विद्या᳓त् स᳓ जुहुया᳓द् ब्रह्मा᳓णं त्वा᳙म᳓न्त्र्य ब्रह्मणा᳓तिसृष्टस् ता᳓सां᳓ वा᳓ एता᳓सां᳓ व्या᳓हृतीनां᳓ बन्धु᳓ता᳓ व᳓सिष्ठो ह विरा᳓जं विदां᳓ चका᳓र ताँ᳓ हे᳓न्द्रो ऽभि᳓दध्यौ ॥॥
३९
विश्वास-प्रस्तुतिः
स᳘ होवाच᳘॥
(ऽ) ऋषे[[!!]] व्विरा᳘जᳫँ᳭ ह वै᳘ व्वेत्थ ता᳘म्मे ब्रूही᳘ति स᳘ होवाच किम्म᳘म त᳘तः स्यादि᳘ति स᳘र्व्वस्य च ते यज्ञ᳘स्य प्प्रा᳘यश्चित्तिम्ब्रूया᳘ᳫँ᳘ रूप᳘ञ्च त्वा दर्शयेये᳘ति स᳘ होवाच यन्नु᳘ मे सर्व्वस्य यज्ञ᳘स्य प्प्रा᳘यश्चित्तिम्ब्रूयाः कि᳘मु स᳘ स्याद्यन्त्व᳘ᳫँ᳘ रूप᳘न्दर्श᳘येथा ऽइ᳘ति जीवस्वर्ग्ग᳘ ऽए᳘वास्मा᳘ल्लोकात्प्रे᳘यादि᳘ति॥
मूलम् - श्रीधरादि
स᳘ होवाच᳘॥
(ऽ) ऋषे[[!!]] व्विरा᳘जᳫँ᳭ ह वै᳘ व्वेत्थ ता᳘म्मे ब्रूही᳘ति स᳘ होवाच किम्म᳘म त᳘तः स्यादि᳘ति स᳘र्व्वस्य च ते यज्ञ᳘स्य प्प्रा᳘यश्चित्तिम्ब्रूया᳘ᳫँ᳘ रूप᳘ञ्च त्वा दर्शयेये᳘ति स᳘ होवाच यन्नु᳘ मे सर्व्वस्य यज्ञ᳘स्य प्प्रा᳘यश्चित्तिम्ब्रूयाः कि᳘मु स᳘ स्याद्यन्त्व᳘ᳫँ᳘ रूप᳘न्दर्श᳘येथा ऽइ᳘ति जीवस्वर्ग्ग᳘ ऽए᳘वास्मा᳘ल्लोकात्प्रे᳘यादि᳘ति॥
मूलम् - Weber
स᳘ होवाच ॥
ऋ᳘षे विरा᳘जᳫं ह वै᳘ वेत्थ तां᳘ मे ब्रूही᳘ति स᳘ होवाच किं म᳘म त᳘तः स्यादि᳘ति स᳘र्वस्य च ते यज्ञ᳘स्य प्रा᳘यश्चित्तिं ब्रूया᳘ᳫं᳘ रूपं᳘ च त्वा दर्शयेये᳘ति स᳘ होवाच यन्नु᳘ मे सर्व᳘स्य यज्ञ᳘स्य प्रा᳘यश्चित्तिं ब्रूयाः कि᳘मु स᳘ स्याद्यं त्वᳫं रूपं᳘ दर्श᳘येथा इ᳘ति जीवस्वर्ग᳘ एॗवास्मा᳘ल्लोकात्प्रे᳘यादि᳘ति ॥
मूलम् - विस्वरम्
स होवाच- ऋषे विराजं ह वै वेत्थ । तां मे ब्रूहीति । स होवाच- किं मम ततः स्यादिति । सर्वस्य च ते यज्ञस्य प्रायश्चित्तिं ब्रूयाम् । रूपं च त्वा दर्शयेय इति । स होवाच- यन्नु मे सर्वस्य यज्ञस्य प्रायश्चित्तिं ब्रूयाः । किमु स स्यात् । यं त्वं रूपं दर्शयेथा इति । जीवस्वर्ग एवास्माल्लोकात्प्रेयादिति ॥ ३९ ॥
हरिस्वामी
[व्याख्यानं अष्टत्रिंशत्तमे]
Eggeling
- He spake, ‘R̥shi, thou knowest the Virāj: teach me it!’ He replied, ‘What would therefrom accrue to me?’–‘I would teach thee the expiation for the whole sacrifice, I would show thee its form.’–He replied, ‘Well, but tell me, if thou wert to teach me the expiation for the whole sacrifice, what would become of him to whom thou wouldst show its form?’–‘Verily, he would depart from this world to the heaven of the living.’
मूलम् - Makoto
स᳓ होवा᳓च ।॥
र्᳓̥̄षे विरा᳓जँ ह वै᳓ वेत्थ तां᳓ मे ब्रूही᳓ति स᳓ होवा᳓च किं᳓ म᳓म त᳓तः स्या᳓द् इ᳓ति स᳓र्वस्य च ते यज्ञ᳓स्य प्रा᳓यश्चित्तिं ब्रूयाँ᳓ रूपं᳓ च त्वा᳓ दर्शयेये᳓ति स᳓ होवा᳓च य᳓न् नु᳓ मे सर्व᳓स्य यज्ञ᳓स्य प्रा᳓यश्चित्तिं ब्रूयाः᳓ कि᳓म् उ स᳓ स्या᳓द् यं᳓ त्वँ᳓ रूपं᳓ दर्श᳓येथा᳓ इ᳓ति जीवस्वर्ग᳓ एवा᳙स्मा᳓ल् लोका᳓त् प्रे᳓या᳓द् इ᳓ति ॥॥
४०
विश्वास-प्रस्तुतिः
त᳘तो हैतामृ᳘षिरि᳘न्द्राय व्विरा᳘जमुवाच॥
(चे) इयम्वै᳘ विराडि᳘ति त᳘स्मा᳘द्यो ऽस्यै भू᳘यिष्ठं ल᳘भते स᳘ ऽएव श्रे᳘ष्ठो भवति॥
मूलम् - श्रीधरादि
त᳘तो हैतामृ᳘षिरि᳘न्द्राय व्विरा᳘जमुवाच॥
(चे) इयम्वै᳘ विराडि᳘ति त᳘स्मा᳘द्यो ऽस्यै भू᳘यिष्ठं ल᳘भते स᳘ ऽएव श्रे᳘ष्ठो भवति॥
मूलम् - Weber
त᳘तो हैतामृ᳘षिरि᳘न्द्राय विरा᳘जमुवाच ॥
इयं वै᳘ विराडि᳘ति त᳘स्माॗद्योऽस्यै भू᳘यिष्ठं ल᳘भते स᳘ एव श्रे᳘ष्ठो भवति ॥
मूलम् - विस्वरम्
ततो हैतामृषिरिन्द्राय विराजमुवाच । इयं वै विराडिति । तस्माद्यो ऽस्यै भूयिष्ठं लभते । स एव श्रेष्ठो भवति ॥ ४० ॥
हरिस्वामी
[व्याख्यानं अष्टत्रिंशत्तमे]
Eggeling
- The R̥shi then taught Indra that Virāj;–but the Virāj, they say, is this (earth), whence he who possesses most thereof is the most powerful.
मूलम् - Makoto
त᳓तो हैता᳓म् र्᳓̥̄षिर् इ᳓न्द्रा᳓य विरा᳓जम् उवा᳓च ।॥
इयं᳓ वै᳓ विरा᳓ड् इ᳓ति त᳓स्मा᳓द् यो᳙ ऽस्यै भू᳓यिष्ठं ल᳓भते स᳓ एव᳓ श्रे᳓ष्ठो भवति ॥॥
४१
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ हैतामि᳘न्द्र ऽऋ᳘षये॥
प्प्रा᳘यश्चित्तिमुवाचाग्निहोत्राद᳘ग्ग्र ऽआ᳘महत᳘ ऽउक्थात्ता᳘ ह स्मैताः᳘ पुरा व्व्या᳘हृतीर्व्व᳘सिष्ठा ऽएव᳘ व्विदुस्त᳘स्माद्ध स्म पुरा᳘ व्वासिष्ठ᳘ ऽएव᳘ ब्रह्मा᳘ भवति य᳘त᳘स्त्वेना ऽअ᳘प्येत᳘र्हि य᳘ ऽएव क᳘श्चा᳘धीते त᳘तो᳘ ऽप्येत᳘र्हि य᳘ ऽएव क᳘श्च ब्रह्मा᳘ भवति स᳘ ह वै᳘ ब्रह्मा भ᳘वितुमर्हति स वा ब्र᳘ह्मन्नित्या᳘मन्त्रितः प्र᳘तिशृणुयाद्य᳘ ऽएव᳘मेता व्व्या᳘हृतीर्व्वे᳘द॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ हैतामि᳘न्द्र ऽऋ᳘षये॥
प्प्रा᳘यश्चित्तिमुवाचाग्निहोत्राद᳘ग्ग्र ऽआ᳘महत᳘ ऽउक्थात्ता᳘ ह स्मैताः᳘ पुरा व्व्या᳘हृतीर्व्व᳘सिष्ठा ऽएव᳘ व्विदुस्त᳘स्माद्ध स्म पुरा᳘ व्वासिष्ठ᳘ ऽएव᳘ ब्रह्मा᳘ भवति य᳘त᳘स्त्वेना ऽअ᳘प्येत᳘र्हि य᳘ ऽएव क᳘श्चा᳘धीते त᳘तो᳘ ऽप्येत᳘र्हि य᳘ ऽएव क᳘श्च ब्रह्मा᳘ भवति स᳘ ह वै᳘ ब्रह्मा भ᳘वितुमर्हति स वा ब्र᳘ह्मन्नित्या᳘मन्त्रितः प्र᳘तिशृणुयाद्य᳘ ऽएव᳘मेता व्व्या᳘हृतीर्व्वे᳘द॥
मूलम् - Weber
अ᳘थ हैतामि᳘न्द्र ऋ᳘षये ॥
प्रा᳘यश्चित्तिमुवाचाग्निहोत्राद᳘ग्रऽआ᳘ महत᳘ उक्थात्ता᳘ ह स्मैताः᳘ पुरा व्या᳘हृतीर्व᳘सिष्ठा एव᳘ विदुस्त᳘स्माद्ध स्म पुरा᳘ वासिष्ठ᳘ एव᳘ ब्रह्मा᳘ भवति य᳘तॗस्त्वेना अ᳘प्येत᳘र्हि य᳘ एव क᳘श्चाधीते ततो᳘ऽप्येत᳘र्हि य᳘ एव क᳘श्च ब्रह्मा᳘ भवति स ह वै᳘ ब्रह्मा भ᳘वितुमर्हति स वा ब्र᳘ह्मन्नित्या᳘मन्त्रितः 14 प्र᳘तिशृणुयाद्य᳘ एव᳘मेता व्या᳘हृतीर्वे᳘द ॥ ४१ ॥ १ [६.१.] ॥ षष्ठोऽध्यायः [८०.] ॥
मूलम् - विस्वरम्
अथ हैतामिंद्र ऋषये प्रायश्चित्तिमुवाच । अग्निहोत्रादग्र आ महत उक्थात् । ता ह स्मैताः पुरा व्याहृतीर्वसिष्ठा एव विदुः । तस्माद्ध स्म पुरा वासिष्ठ एव ब्रह्मा भवति । यतस्त्वेना अप्येतर्हि य एव कश्चाधीते । ततो ऽप्येतर्हि य एव कश्च ब्रह्मा भवति । स ह वै ब्रह्मा भवितुमर्हति । स वा ब्रह्मन्नित्यामन्त्रितः प्रतिशृणुयात् । य एवमेता व्याहृतीर्वेद ॥ ४१ ॥
समाप्तानि प्रायश्चित्तानि ॥
हरिस्वामी
[व्याख्यानं अष्टत्रिंशत्तमे]
Eggeling
- And Indra then taught the R̥shi this expiation from the Agnihotra up to the Great Litany. And formerly, indeed, the Vasishṭḥas alone knew these utterances, whence formerly only one of the Vasishṭḥa family became Brahman; but since nowadays anybody (may) study them, anybody (may) now become Brahman 15. And, indeed, he who thus knows these utterances is worthy to become
Brahman, or may reply, when addressed as ‘Brahman 16!’
मूलम् - Makoto
अ᳓थ हैता᳓म् इ᳓न्द्र र्᳓̥̄षये ।॥
प्रा᳓यश्चित्तिम् उवा᳓चा᳓ग्निहोत्रा᳓द् अ᳓ग्र आ᳓ महत᳓ उक्था᳓त् ता᳓ ह स्मैताः᳓ पुरा᳓ व्या᳓हृतीर् व᳓सिष्ठा᳓ एव᳓ विदुस् त᳓स्मा᳓द् ध स्म पुरा᳓ वा᳓सिष्ठ᳓ एव᳓ ब्रह्मा᳓ भवति य᳓तस् त्व् ए᳙ना᳓ अ᳓प्य् एत᳓र्हि य᳓ एव᳓ क᳓श् चा᳓धीते ततो᳓ ऽप्य् एत᳓र्हि य᳓ एव᳓ क᳓श् च ब्रह्मा᳓ भवति स᳓ ह वै᳓ ब्रह्मा᳓ भ᳓वितुम् अर्हति स᳓ वा᳓ ब्र᳓ह्मन्न् इ᳓त्य् आ᳓मन्त्रितः प्र᳓तिशृणुया᳓द् य᳓ एव᳓म् एता᳓ व्या᳓हृतीर् वे᳓द ॥॥
-
206:1 Cf. IV, 5, 7, 6. ↩︎
-
206:2 That is to say, if untoward circumstances were to arise threatening to prevent the intended Soma-sacrifice. The mental resolve (saṁkalpa), on the part of the Sacrificer, is the first act in the performance of a sacrifice. ↩︎
-
206:3 Or, it (the sacrifice), as Harisvāmin takes it. ↩︎
-
206:4 That is, after he has announced his intention to perform a Soma-sacrifice, by saying ‘Somena yakshye,’ ‘I will sacrifice by means of Soma.’ ↩︎
-
207:1 See III, 6, 3, 4. This particular ceremony is rather out of place here, as in its regular order it should come after paragraph 15. ↩︎
-
209:1 See III, 9, 4, 19, ‘Thrice he presses, and thrice he gathers (the beaten plants) together . . .’ ↩︎
-
210:1 Viz. to the Havirdhāna where the cups from which libations have been made are deposited on the mound (khara); cf. III, 1, 2, 24. ↩︎
-
जुहुयान्नृचक्षा A.P. ↩︎
-
211:1 See part ii, p. 154, note 1. ↩︎
-
211:2 The pressed-out Soma-husks are taken down to (and thrown into) the water where the Sacrificer is to bathe, see IV, 4, 5, 1 seqq. ↩︎
-
अत्रैताः परमेष्ठ्यादिसलिलान्ताश्चतुस्त्रिंशत्प्रायश्चित्ताहुतयो वाजसनेयसंहितायां (८ । ५४-५९) मंत्रेषु समाम्नाता इति बोध्यम् । ↩︎
-
महर्षिः कात्यायनः श्रुत्यनुयायिसूत्रजातमरीचत् । परमेष्ठ्यादींश्चतुस्त्रिँशतं जुहोति । घर्मधुग्घ्वाले चादोहे च । उदीच्या दोहस्थाने ऽन्यस्याः । शालाया वा पुरस्तात्प्राच्याः । पुच्छकांडाद्दक्षिणे ऽस्थनि हुत्वा दोहयेत् । पृषदाज्यस्कन्दने चैके । सोमेज्योपपाते चैकैकां यथाकालँ हुत्वा यज्ञस्य दोह इति वाचयति । आग्नीध्रीये सुत्यासु । का. श्रौ. सू. २५ । १३७-१४४ । ↩︎
-
212:1 That is, the ‘far-shining;’ or ‘far-ruling’ (metre). ↩︎
-
स वा ब्र᳘ह्म॰ A.P.M. Are we to read स᳘ वा or स वाव ? ↩︎
-
212:2 Professor Delbrück, Altindische Syntax, p. 570, takes this clause thus:–‘and therefore even now he who remains of them (i.e. of the Vasishṭḥa family) is (? becomes) Brahman.’ This rendering takes, however, no account of the ’tu’; and, indeed, it will hardly fit in with the relative clause which precedes it. ↩︎
-
213:1 That is to say, when, as superintending priest, he is addressed by another priest asking whether he may now begin some performance, or informing him that he is about to do so, he may give the desired direction. Such applications by the other priests begin with ‘O Brahman!’ cf. XIII, 1, 2, 4; and part i, p. 22, note 2. ↩︎