०१

विश्वास-प्रस्तुतिः

अ᳘थ ह स्माह ना᳘को मौ᳘द्गल्यः॥
(ल्यो) मरिष्य᳘न्तञ्चेद्य᳘जमानम्म᳘न्येत य᳘त्रै᳘वास्मा ऽआश᳘सनञ्जोषितᳫँ᳭[[!!]] स्यात्त᳘दर᳘ण्योरग्नी᳘ समारो᳘ह्य न्निर्म्म᳘थ्य जु᳘ह्वद्वसेत्स᳘ य᳘दा ऽस्मा᳘ल्लोकाद्य᳘जमानः प्रे᳘यात्[[!!]]॥

मूलम् - श्रीधरादि

अ᳘थ ह स्माह ना᳘को मौ᳘द्गल्यः॥
(ल्यो) मरिष्य᳘न्तञ्चेद्य᳘जमानम्म᳘न्येत य᳘त्रै᳘वास्मा ऽआश᳘सनञ्जोषितᳫँ᳭[[!!]] स्यात्त᳘दर᳘ण्योरग्नी᳘ समारो᳘ह्य न्निर्म्म᳘थ्य जु᳘ह्वद्वसेत्स᳘ य᳘दा ऽस्मा᳘ल्लोकाद्य᳘जमानः प्रे᳘यात्[[!!]]॥

मूलम् - Weber

अ᳘थ ह स्माह ना᳘को मौ᳘द्गल्यः ॥
मरिष्य᳘न्तं चेद्य᳘जमानं म᳘न्येत य᳘त्रैॗवास्मा᳘ऽआश᳘सनं जोषितᳫं स्यात्त᳘दर᳘ण्योरग्नी᳘ समारो᳘ह्य निर्म᳘थ्य जु᳘ह्वद्वसेत्स᳘ यॗदास्मा᳘ल्लोकाद्य᳘जमानः प्रेया᳟त् 1

मूलम् - विस्वरम्

अथ ह स्माह नाको मौद्गल्यः । मरिष्यंतं चेद्यजमानं मन्येत । यत्रैवास्मा आशसनं जोषितं स्यात् । तदरण्योरग्नी समारोह्य निर्मथ्य जुह्वद्वसेत् । स यदा ऽस्माल्लोकाद्यजमानः प्रेयात् ॥ १ ॥

हरिस्वामी

‘अथ ह स्माह’ । अप्रोषितस्यैव प्रेतस्य अंत्यकर्म । अत्र ब्राह्मणे प्रसन्नम् । प्रसन्नमेव प्रायः उच्यते । तत्राद्ययोः कण्डिकयोः । समारूढनिर्मथितैः अग्निभिर्दग्धव्यः इत्येष कल्प उपन्यस्य निरस्यते नाको नाम मुद्गलस्यापत्यं स आह स्म । यदि मरिष्यंतं प्रत्यासन्नमरणं यजमानं मन्येत पुत्रादिरंत्यकर्मयोग्यम् । अतो ऽरण्योरग्नी समारोह्य यत्रैव देशे अस्मै यजमानाय आशसनं दाहस्थानं जोषितं आचितं स्यात् । इह स्थाने यत्र मृतः तत्र स्थाने निर्मथ्य जुह्वत् वसेत् । यावत्स प्रेयात् । स यदा ऽस्मात् लोकात् यजमानः पुष्करेण लोकान्तरं गच्छेत् ॥ १ ॥

Eggeling
  1. Now, Nāka Maudgalya once said, ‘If he believe the Sacrificer to be about to die, let him take

up the two fires in the churning-sticks, and, having churned out (a new fire), let him continue offering (the Agnihotra) at whatever place may have commended itself to him for the immolation 2. And if the Sacrificer should then depart this world,–

मूलम् - Makoto

अ᳓थ ह स्मा᳓ह ना᳓को मौ᳓द्गल्यः ।॥
मरिष्य᳓न्तं चे᳓द् य᳓जमा᳓नं म᳓न्येत य᳓त्रैवा᳙स्मा᳓ आ᳓श᳓सनं जोषितँ᳓ स्या᳓त् त᳓द् अर᳓ण्योर् अग्नी᳓ समा᳓रो᳓ह्य निर्म᳓थ्य जु᳓ह्वद् वसेत् स᳓ यदा᳙स्मा᳓ल् लोका᳓द् य᳓जमा᳓नः प्रेया᳓त् ॥॥

०२

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थैनम᳘न्तरेणाग्नींश्चि᳘तिञ्चित्वा[[!!]]॥
त᳘मग्नि᳘भिः समु᳘पोषेदि᳘ति त᳘दु त᳘था न᳘ कुर्य्याद᳘तस्थानो वा᳘ ऽएष त᳘स्मै य᳘देनᳫँ᳭ शवदह्या᳘या ऽइ᳘व जुहुयुर्य्यज्ञा᳘य वा᳘ ऽएष ऽआ᳘हुतिभ्यस्तस्थानः स᳘ हैनम᳘मृष्यमाणस्तृप्प्र᳘ᳫँ᳘ सचते॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थैनम᳘न्तरेणाग्नींश्चि᳘तिञ्चित्वा[[!!]]॥
त᳘मग्नि᳘भिः समु᳘पोषेदि᳘ति त᳘दु त᳘था न᳘ कुर्य्याद᳘तस्थानो वा᳘ ऽएष त᳘स्मै य᳘देनᳫँ᳭ शवदह्या᳘या ऽइ᳘व जुहुयुर्य्यज्ञा᳘य वा᳘ ऽएष ऽआ᳘हुतिभ्यस्तस्थानः स᳘ हैनम᳘मृष्यमाणस्तृप्प्र᳘ᳫँ᳘ सचते॥

मूलम् - Weber

अ᳘थैनम᳘न्तरेणाग्नींश्चि᳘तिं चित्वा᳟ ॥
त᳘मग्निभिः समु᳘पोषेदि᳘ति त᳘दु त᳘था न᳘ कुर्याद᳘तस्थानो वा᳘ऽएष त᳘स्मै य᳘देनᳫं शवदह्या᳘याऽइव जुहुयुर्यज्ञा᳘य वा᳘ऽएष आ᳘हुतिभ्यस्तस्थानः स᳘ हैनम᳘मृष्यमाणस्तृप्रᳫं सचते ॥

मूलम् - विस्वरम्

अथैनमन्तरेणाग्नींश्चितिं चित्वा । तमग्निभिः समुपोषेदिति । तदु तथा न कुर्यात् । अतस्थानो वा एष तस्मै । यदेनं शवदह्याया इव जुहुयुः । यज्ञाय वा एषः । आहुतिभ्यस्तस्थान स हैनममृष्यमाणस्तृप्रं सचते ॥ २ ॥

हरिस्वामी

अथ तदा एनं अंतरेणाग्नीन् चितिं काष्ठमयीं चित्वा । तमिति तत्रेत्यर्थे लिंगविभक्तिव्यत्ययः । तत्राग्निभिः संदहेदिति ॥ २ ॥

Eggeling
  1. Let him build a pile for him 3 in the midst of his fires, and, by burning him, unite him with his fires.’ But let him not do this; for, verily, that (fire) does not submit thereto that they should make offering to it as for the burning of a dead body: it is rather to sacrifice and oblations that it submits, and, unable to endure it, it stays by him with impatience.
मूलम् - Makoto

अ᳓थैनम् अ᳓न्तरेणा᳓ग्नींश् चि᳓तिं चित्वा᳓ ।॥
त᳓म् ॥
अग्नि᳓भिः॥
समु᳓पोषेद् इ᳓ति त᳓द् उ त᳓था᳓ न᳓ कुर्या᳓द् अ᳓तस्था᳓नो वा᳓ एष᳓ त᳓स्मै य᳓द् एनँ शवदह्या᳓या᳓ इव जुहुयुर् यज्ञा᳓य वा᳓ एष᳓ आ᳓हुतिभ्यस् तस्था᳓नः᳓ स᳓ हैनम् अ᳓मृष्यमा᳓णस् तृप्रँ᳓ सचते ॥॥

०३

विश्वास-प्रस्तुतिः

(त ऽइ) इत्थ᳘मेव[[!!]] कुर्य्यात्॥
(त्ति) तिस्र᳘ ऽएव᳘ स्थाली᳘रेष्टवै᳘ ब्रूयात्ता᳘सु गोम᳘यानि च शु᳘म्बलानि चावधा᳘य ना᳘ना त्रि᳘ष्वग्नि᳘षु प्र᳘वृञ्ज्यात्ते ये त᳘तः सन्तापा᳘दग्न᳘यो जा᳘येरंस्तै᳘रेनं दहेयुस्तथा᳘ ह तै᳘रेव᳘ दग्धो भ᳘वति᳘ नो प्रत्य᳘क्षमिव॥

मूलम् - श्रीधरादि

(त ऽइ) इत्थ᳘मेव[[!!]] कुर्य्यात्॥
(त्ति) तिस्र᳘ ऽएव᳘ स्थाली᳘रेष्टवै᳘ ब्रूयात्ता᳘सु गोम᳘यानि च शु᳘म्बलानि चावधा᳘य ना᳘ना त्रि᳘ष्वग्नि᳘षु प्र᳘वृञ्ज्यात्ते ये त᳘तः सन्तापा᳘दग्न᳘यो जा᳘येरंस्तै᳘रेनं दहेयुस्तथा᳘ ह तै᳘रेव᳘ दग्धो भ᳘वति᳘ नो प्रत्य᳘क्षमिव॥

मूलम् - Weber

इत्थ᳘मेव᳘ कुर्यात् ॥
तिस्र᳘ एव᳘ स्थाली᳘रेष्टवै᳘ ब्रूयात्ता᳘सु गोम᳘यानि च शुम्बलानि वावधा᳘य ना᳘ना त्रि᳘ष्वग्नि᳘षु प्र᳘वृञ्ज्यात्ते ये त᳘तः संतापा᳘दग्न᳘यो जा᳘येरंस्तै᳘रेनं दहेयुस्तथा᳘ह तै᳘रेव᳘ दग्धो भ᳘वतिॗ नो प्रत्य᳘क्षमिव ॥

मूलम् - विस्वरम्

इत्थमेव कुर्यात् । तिस्र एव स्थालीरेष्टवै ब्रूयात् । तासु गोमयानि च शुंबलानि चावधाय । नाना त्रिष्वग्निषु प्रवृंज्यात् । ते ये ततः सन्तापादग्नयो जायेरन् । तैरेनं दहेयुः । तथो ह तैरेव दग्धो भवति । नो प्रत्यक्षमिव ॥ ३ ॥

हरिस्वामी

इत्थमेव संताप्यैरग्निभिर्दग्धव्यः ते चैवमुत्पाद्याः इत्येतत् अत्र कंडिकाद्वये उच्यते । शुंबलानि तृणानि अल्पतृणानि ॥ ३ ॥ ४ ॥

Eggeling
  1. He should rather proceed thus:–let him bid them seek three pots, and, having put therein either (dried) cowdung or straw 4, let him place them separately on the (three) fires; and let them then burn him by means of the fires produced from that blaze: in this way he is indeed burned by (these) fires, though not visibly, so to speak.
मूलम् - Makoto

इत्थ᳓म् एव᳓ कुर्या᳓त् ।॥
तिस्र᳓ एव᳓ स्था᳓ली᳓र् ए᳓ष्टवै᳓ ब्रूया᳓त् ता᳓सु गोम᳓या᳓नि च शुम्बला᳓नि वा᳓वधा᳓य ना᳓ना᳓ त्रि᳓ष्व् अग्नि᳓षु प्र᳓वृञ्ज्या᳓त् ते᳓ ये᳓ त᳓तः संता᳓पा᳓द् अग्न᳓यो जा᳓येरंस् तै᳓र् एनं दहेयुस् त᳓था᳓ह तै᳓र् एव᳓ दग्धो᳓ भ᳓वति नो᳙ प्रत्य᳓क्षम् इव ॥॥

०४

विश्वास-प्रस्तुतिः

त᳘स्माद᳘प्येतदृषिणा ऽभ्य᳘नूक्तम्॥
यो᳘ ऽअग्नि᳘रग्नेरद्ध्य᳘जायत शो᳘कात्पृथिव्व्या᳘ ऽउत᳘ वा दिवस्प᳘रि। ये᳘न प्प्रजा᳘ व्विश्व᳘कर्म्मा जजा᳘न त᳘मग्ने हे᳘डः प᳘रि ते वृणक्त्वि᳘ति यथर्क्त᳘था ब्रा᳘ह्मणम्॥

मूलम् - श्रीधरादि

त᳘स्माद᳘प्येतदृषिणा ऽभ्य᳘नूक्तम्॥
यो᳘ ऽअग्नि᳘रग्नेरद्ध्य᳘जायत शो᳘कात्पृथिव्व्या᳘ ऽउत᳘ वा दिवस्प᳘रि। ये᳘न प्प्रजा᳘ व्विश्व᳘कर्म्मा जजा᳘न त᳘मग्ने हे᳘डः प᳘रि ते वृणक्त्वि᳘ति यथर्क्त᳘था ब्रा᳘ह्मणम्॥

मूलम् - Weber

त᳘स्माद᳘प्येतदृषिणाभ्य᳘नूक्तम् ॥
यो᳘ अग्नि᳘रग्नेरध्य᳘जायत शो᳘कात्पृथिव्या उत᳘ वा दिवस्प᳘रि ये᳘न प्रजा᳘ विश्व᳘कर्मा जजा᳘न त᳘मग्ने हे᳘डः प᳘रि ते वृणक्त्वि᳘ति यथऽर्क्त᳘था ब्रा᳘ह्मणम् ॥

मूलम् - विस्वरम्

तस्मादपि एतत् ऋषिणा ऽभ्यनूक्तम्- “यो अग्निरग्नेरध्यजायत शोकात्पृथिव्या उत वा दिवस्परि । येन प्रजा विश्वकर्मा जजान तमग्ने हेडः परि ते वृणक्तु”- (वा. सं. १३ । ४५) इति । यथा ऋक् तथा ब्राह्मणम् ॥ ४ ॥

हरिस्वामी

[व्याख्यानं तृतीये]

Eggeling
  1. Wherefore, also, it has been said by the R̥shi (Vāj. S. XIII, 45 5), ‘The Agni who was born from Agni, from the pain of the earth or be it of the sky; whereby Viśvakarman begat

living beings, him, O Agni, may thy wrath spare!’ As the verse, so its explanation.

मूलम् - Makoto

त᳓स्मा᳓द् अ᳓प्य् एत᳓द् र्᳓̥̄षिणा᳓भ्य᳓नूक्तम् ।॥
यो᳓ अग्नि᳓र् अग्ने᳓र् अ᳓ध्य् अ᳓जा᳓यत शोका᳓त् पृथिव्या᳓ उत᳓ वा᳓ दिव᳓स् प᳓रि ये᳓न प्रजा᳓ विश्व᳓कर्मा᳓ जजा᳓न त᳓म् अग्ने हे᳓डः प᳓रि ते वृणक्त्व् इ᳓ति य᳓थ᳓र्क् त᳓था᳓ ब्रा᳓ह्मणम् ॥॥

०५

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थैनम्विपुरीष᳘ङ्कृ᳘त्वा॥
(त्वा ऽस्या) अस्याम्पु᳘रीषम्प्र᳘तिष्ठापयति पु᳘रीषम्वा᳘ ऽइयन्तत्पु᳘रीष ऽए᳘वैतत्पु᳘रीषन्दधाति या᳘ ह वा᳘ ऽअस्यैषा᳘ वृकला स᳘पुरीषा त᳘स्यै ह व्वि᳘दग्धायै सृगालः सं᳘भवति ने᳘त्सृगालः᳘ संभ᳘वदि᳘ति त᳘दु त᳘था न᳘ कुर्य्यात्क्षो᳘धुका हास्य प्रजा᳘ भवति त᳘मन्तरतः᳘ प्रक्षाल्या᳘ज्येना᳘न्न्वनक्ति मेध्यमे᳘वैनन्त᳘त्करोति[[!!]]॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थैनम्विपुरीष᳘ङ्कृ᳘त्वा॥
(त्वा ऽस्या) अस्याम्पु᳘रीषम्प्र᳘तिष्ठापयति पु᳘रीषम्वा᳘ ऽइयन्तत्पु᳘रीष ऽए᳘वैतत्पु᳘रीषन्दधाति या᳘ ह वा᳘ ऽअस्यैषा᳘ वृकला स᳘पुरीषा त᳘स्यै ह व्वि᳘दग्धायै सृगालः सं᳘भवति ने᳘त्सृगालः᳘ संभ᳘वदि᳘ति त᳘दु त᳘था न᳘ कुर्य्यात्क्षो᳘धुका हास्य प्रजा᳘ भवति त᳘मन्तरतः᳘ प्रक्षाल्या᳘ज्येना᳘न्न्वनक्ति मेध्यमे᳘वैनन्त᳘त्करोति[[!!]]॥

मूलम् - Weber

अ᳘थैनं विपुरीषं᳘ कृ᳟᳟त्वा ॥
अस्यां पु᳘रीषं प्र᳘तिष्ठापयति पु᳘रीषं वा᳘ऽइयं तत्पु᳘रीषऽएॗवैतत्पु᳘रीषं दधाति या᳘ ह वा᳘ऽअस्यैषा᳘ वृकला स᳘पुरीषा त᳘स्यै ह वि᳘दग्धायै सृगालः स᳘म्भवति ने᳘त्सृगालः᳘ सम्भ᳘वदि᳘ति त᳘दु त᳘था न᳘ कुर्यात्क्षो᳘धुका 6 हास्य प्रजा᳘ भवति त᳘मन्तरतः᳘ प्रक्षाल्या᳘ज्येना᳘न्वनक्ति मे᳘ध्यमेवैनत्त᳘त्करोति ॥

मूलम् - विस्वरम्

अथैनं विपुरीषं कृत्वा अस्यां पुरीषं प्रतिष्ठापयति । पुरीषं वा इयम् । तत्पुरीष एवैतत्पुरीषं दधाति । या ह वा अस्यैषा वृकला सपुरीषा । तस्यै ह विदग्धायै सृगालः संभवति । नेत् सृगालः संभवदिति । तदु तथा न कुर्यात् । क्षोधुका हास्य प्रजा भवति । तमंतरतः प्रक्षाल्य, आज्येनान्वनक्ति । मेध्यमेवैनं तत्करोति ॥ ५ ॥

हरिस्वामी

अथैनं विपुरीषं एनं यजमानं कृत्वा अस्यां पृथिव्यां पुरुषं प्रतिष्ठापयति । या ह वै अस्य यजमानस्य । एषा वृकला वृत्ता क्षत्रा कला वृकला । सपुरीषा अंत्रात्मिका । तस्यै तस्याः विदग्धायाः सकाशात् सृगालः संभवति । तत्त्वाहारेण पृष्ठतरेण (उकोत्रेन ?) सृगालः संभवतीति युक्तं, नेत्सृगालः संभवत् शरीरजन्म परिहरणीयमित्यभिप्रायः । क्षोधुका “क्षुध बुभुक्षायाम्” (धा. पा. दि. प. ८४) अल्पान्ना बुभुक्षाशीला प्रजा भवति । यं विपुरीषं कुर्वंति । यदि तु विपुरीषं कुर्यात् । ततः तमंतरतः प्रक्षाल्य, आज्येनान्वनक्ति ॥ ५ ॥ ६ ॥

Eggeling
  1. Now, in the first place, he cleanses him of all foul matter, and causes the foul matter to settle on this (earth); for this (earth) is indeed foul matter: he thus consigns foul matter to foul matter. For, indeed, from that intestine of his, filled with foul matter, when it is burnt, a jackal is produced: (hence he removes it), ’lest a jackal should be produced.’ But let him not do this, or his family will be liable to starve. Having washed him out inside, he anoints him with ghee, and thus makes it (the body) sacrificially pure.
मूलम् - Makoto

अ᳓थैनं विपुरीषं᳓ कृत्वा᳓ ।॥
अस्यां᳓ पु᳓रीषं प्र᳓तिष्ठा᳓पयति पु᳓रीषं वा᳓ इयं᳓ त᳓त् पु᳓रीष एवै᳙त᳓त् पु᳓रीषं दधा᳓ति या᳓ ह वा᳓ अस्यैषा᳓ वृकला᳓ स᳓पुरीषा᳓ त᳓स्यै ह वि᳓दग्धा᳓यै सृगा᳓लः᳓ स᳓म्भवति ने᳓त् सृगा᳓लः᳓ सम्भ᳓वद् इ᳓ति त᳓द् उ त᳓था᳓ न᳓ कुर्या᳓त् क्षो᳓धुका᳓ हा᳓स्य प्रजा᳓ भवति त᳓म् अन्तरतः᳓ प्रक्षा᳓लया᳓ज्येना᳓न्वनक्ति मे᳓ध्यम् ॥
एवै᳙नत्॥
त᳓त् करोति ॥॥

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थास्य सप्त᳘सु प्राणायतने᳘षु॥
सप्त᳘ हिरण्यशकलान्प्र᳘त्यस्यति ज्यो᳘तिर्व्वा᳘ ऽअमृ᳘तᳫँ᳭ हि᳘रण्यं ज्यो᳘तिरे᳘वास्मिंस्त᳘दमृ᳘तन्दधाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थास्य सप्त᳘सु प्राणायतने᳘षु॥
सप्त᳘ हिरण्यशकलान्प्र᳘त्यस्यति ज्यो᳘तिर्व्वा᳘ ऽअमृ᳘तᳫँ᳭ हि᳘रण्यं ज्यो᳘तिरे᳘वास्मिंस्त᳘दमृ᳘तन्दधाति॥

मूलम् - Weber

अ᳘थास्य सप्त᳘सु प्राणायतने᳘षु ॥
सप्त᳘ हिरण्यशकलान्प्र᳘त्यस्यति ज्यो᳘तिर्वा᳘ऽअमृ᳘तᳫं हि᳘रण्यं ज्यो᳘तिरेॗवास्मिंस्त᳘दमृ᳘तं दधाति ॥

मूलम् - विस्वरम्

अथास्य सप्तसु प्राणायतनेषु सप्त हिरण्यशकलान् प्रास्यति । ज्योतिर्वा अमृतं हिरण्यम् । ज्योतिरेवास्मिंस्तदमृतं दधाति ॥ ६ ॥

हरिस्वामी

[व्याख्यानं पञ्चमे]

Eggeling
  1. He then inserts seven chips of gold in the seven seats of his vital airs; for gold is light and immortality: he thus bestows light and immortality on him.
मूलम् - Makoto

अ᳓था᳓स्य सप्त᳓सु प्रा᳓णा᳓यतने᳓षु ।॥
सप्त᳓ हिरण्यशकला᳓न् प्र᳓त्यस्यति ज्यो᳓तिर् वा᳓ अमृ᳓तँ हि᳓रण्यं ज्यो᳓तिर् एवा᳙स्मिंस् त᳓द् अमृ᳓तं दधा᳓ति ॥॥

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनमं᳘तरेणाग्नींश्चि᳘तिञ्चित्वा᳘॥
कृष्णाजिनमुत्तरलोम प्राची᳘नग्ग्रीवम्प्रस्ती᳘र्य्य त᳘स्मिन्नेन᳘मुत्तान᳘न्निपा᳘द्य जुहू᳘ङ्घृते᳘न पूर्णा᳘न्दक्षिणे᳘ पाणावा᳘दधाति सव्व्य᳘ ऽउपभृ᳘तमु᳘रसि ध्रुवाम्मु᳘खे ऽग्निहोत्रह᳘वणीन्ना᳘सिकयोः स्रु᳘वौ क᳘र्ण्णयोः प्प्राशित्रह᳘रणे शीर्षं᳘श्चमस᳘म्प्रणीताप्रण᳘यनम्पार्श्व᳘योः शू᳘र्प्पे ऽउद᳘रे पात्री᳘ᳫँ᳘[[!!]] समवत्तधा᳘नीम्पृषदाज्य᳘वतीᳫँ᳭ शिश्नस्या᳘न्ते श᳘म्म्यामाण्ड᳘योर᳘न्ते वृषास्वा᳘वन्व᳘गुलू᳘खलं च मु᳘सलञ्चा᳘न्तरेणोरू᳘ ऽअन्या᳘नि यज्ञपात्रा᳘णि द᳘क्षिणे पाणौ स्फ्यम्[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनमं᳘तरेणाग्नींश्चि᳘तिञ्चित्वा᳘॥
कृष्णाजिनमुत्तरलोम प्राची᳘नग्ग्रीवम्प्रस्ती᳘र्य्य त᳘स्मिन्नेन᳘मुत्तान᳘न्निपा᳘द्य जुहू᳘ङ्घृते᳘न पूर्णा᳘न्दक्षिणे᳘ पाणावा᳘दधाति सव्व्य᳘ ऽउपभृ᳘तमु᳘रसि ध्रुवाम्मु᳘खे ऽग्निहोत्रह᳘वणीन्ना᳘सिकयोः स्रु᳘वौ क᳘र्ण्णयोः प्प्राशित्रह᳘रणे शीर्षं᳘श्चमस᳘म्प्रणीताप्रण᳘यनम्पार्श्व᳘योः शू᳘र्प्पे ऽउद᳘रे पात्री᳘ᳫँ᳘[[!!]] समवत्तधा᳘नीम्पृषदाज्य᳘वतीᳫँ᳭ शिश्नस्या᳘न्ते श᳘म्म्यामाण्ड᳘योर᳘न्ते वृषास्वा᳘वन्व᳘गुलू᳘खलं च मु᳘सलञ्चा᳘न्तरेणोरू᳘ ऽअन्या᳘नि यज्ञपात्रा᳘णि द᳘क्षिणे पाणौ स्फ्यम्[[!!]]॥

मूलम् - Weber

अ᳘थैनम᳘न्तरेणाग्नींश्चि᳘तिं चित्वा᳘ ॥
कृष्णाजिनमुत्तरलोम प्राची᳘नग्रीवं प्रस्ती᳘र्य त᳘स्मिन्नेनमुत्तानं᳘ निपा᳘द्य जुहूं᳘᳘ घृते᳘न पूर्णां᳘ दक्षिणे᳘ पाणावा᳘दधाति सव्य᳘ऽउपभृ᳘तमु᳘रसि ध्रुवां मु᳘खेऽग्निहोत्रहवणीं ना᳘सिकयोः स्रुवौ क᳘र्णयोः प्राशित्रह᳘रणे शीर्षं᳘श्चमसं᳘ प्रणीताप्राण᳘यनं पार्श्व᳘योः शू᳘र्पेऽउद᳘रे पा᳘त्री᳘ᳫं᳘ समवत्तधा᳘नीं पृषदाज्य᳘वतीᳫं शिश्नस्या᳘न्ते श᳘म्यामाण्ड᳘योर᳘न्ते वृषारवा᳘वन्व᳘गुलू᳘खलं 7 च मु᳘सलं चा᳘न्तरेणोरू᳘ऽअन्या᳘नि यज्ञपात्रा᳘णि दक्षिणे᳘ पाणौ स्फ्य᳟म् ॥

मूलम् - विस्वरम्

अथैनमंतरेणाग्नीन् चितिं चित्वा । कृष्णाजिनमुत्तरलोम प्राचीनग्रीवं प्रस्तीर्य । तस्मिन्नेनमुत्तानं निपाद्य । जुहूं घृतेन पूर्णां दक्षिणे पाणावादधाति । सव्य उपभृतम् । उरसि ध्रुवाम् । मुखे ऽग्निहोत्रहवणीम् । नासिकयोः स्रुवौ । कर्णयोः प्राशित्रहरणे । शीर्षंश्चमसं प्रणीताप्रणयनम् । पार्श्वयोः शूर्पे । उदरे पात्रीं समवत्तधानीं पृषदाज्यवतीम् । शिश्नस्यांते शम्याम् । आंडयोरंते वृषास्वौ । अन्वमुलूखलं च मुसलं च । अंतरेणोरू अन्यानि यज्ञपात्राणि । दक्षिणे पाणौ स्फ्यम् ॥ ७ ॥

हरिस्वामी

शूर्पे द्वे ऐष्टिकं शूर्पं करंभपात्रशूर्पं च । उदरे पात्रीम् इडापात्रीम् । समवत्तं धीयते यस्यामिति समवत्तधानी तां पृषदाज्यवतीं च । शिश्नस्यांते समीपे शम्याम् । आंडयोः समीपे वृषास्वौ अरणी । वृषा उत्तरारणिः आसीतास्मिन्नित्यास्वः अधरारणिः । तावन्वक् उलूखलं च मुसलं च ॥ ७ ॥

Eggeling
  1. Having then built a pile for him in the midst of his fires, and spread out a black antelope skin with the hairy side upwards, and the neck-part towards the east, he lays him down thereon with the face looking upwards, and puts the juhū-spoon filled with ghee on his right, and the upabhr̥t on his left hand, the dhruvā on the breast, the Agnihotra-ladle on the mouth, two dipping-spoons on the nostrils, two prāśitra-haraṇas 8 on the ears, the cup used for carrying forward the lustral water on the head, two winnowing-baskets at the sides, on the belly the vessel used for holding the cuttings (of the iḍā), filled with clotted ghee, the wedge (yoke-pin) beside the male organ, two mallets beside the testicles, and behind them the mortar and pestle,

the other sacrificial vessels between the thighs; and the wooden sword on the right hand.

मूलम् - Makoto

अ᳓थैनम् अ᳓न्तरेणा᳓ग्नीं᳓श् चि᳓तिं चित्वा᳓ ।॥
कृष्णा᳓जिन᳓म् उ᳓त्तरलोम प्रा᳓ची᳓नग्रीवं प्रस्ती᳓र्य त᳓स्मिन्न् एनम् उत्ता᳓नं᳓ निपा᳓द्य जुहूं᳓ घृते᳓न पूर्णां᳓ दक्षिणे᳓ पा᳓णा᳓व् आ᳓दधा᳓ति सव्य᳓ उपभृ᳓तम् उ᳓रसि ध्रुवां᳓ मु᳓खे ऽग्निहोत्रह᳓वणीं ना᳓सिकयोः स्रुवौ᳓ क᳓र्णयोः प्रा᳓शित्रह᳓रणे शीर्षं᳓श्चमसं᳓ प्रणीता᳓प्रा᳓ण᳓यनं पा᳓र्श्व᳓योः शू᳓र्पे उद᳓रे पा᳓त्रीँ᳓ समवत्तधा᳓नीं पृषदा᳓ज्य᳓वतीँ शिश्नस्या᳓न्ते श᳓म्या᳓मा᳓ण्ड᳓योर᳓न्ते वृषा᳓रवा᳓वन्व᳓गुलू᳓खलं च मु᳓सलं चा᳓न्तरेणोरू᳓ अन्या᳓नि यज्ञपा᳓त्रा᳓णि दक्षिणे᳓ पा᳓णौ᳓ स्फ्य᳓म् ॥॥

०८

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स᳘ ऽएष᳘ यज्ञायुधी य᳘जमानः॥
(नो) य᳘था बि᳘भ्यदामोष᳘मतीया᳘देव᳘मेव᳘ यो ऽस्य स्वर्ग्गे᳘ लोको᳘ भ᳘वति त᳘मभ्य᳘त्येति त᳘मेते᳘ सन्ताप्या᳘ ऽअग्न᳘यो य᳘था पुत्राः᳘ पित᳘रम्प्रोषु᳘षमा᳘गतᳫँ᳭ शिव᳘मुपस्पृश᳘न्त्येवᳫँ᳭ शिव᳘ᳫँ᳘ है᳘वैतमु᳘पस्पृशन्ति प्र᳘ है᳘वैनङ्कल्पयन्ति॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स᳘ ऽएष᳘ यज्ञायुधी य᳘जमानः॥
(नो) य᳘था बि᳘भ्यदामोष᳘मतीया᳘देव᳘मेव᳘ यो ऽस्य स्वर्ग्गे᳘ लोको᳘ भ᳘वति त᳘मभ्य᳘त्येति त᳘मेते᳘ सन्ताप्या᳘ ऽअग्न᳘यो य᳘था पुत्राः᳘ पित᳘रम्प्रोषु᳘षमा᳘गतᳫँ᳭ शिव᳘मुपस्पृश᳘न्त्येवᳫँ᳭ शिव᳘ᳫँ᳘ है᳘वैतमु᳘पस्पृशन्ति प्र᳘ है᳘वैनङ्कल्पयन्ति॥

मूलम् - Weber

स᳘ एष᳘ यज्ञायुधी य᳘जमानः ॥
य᳘था बि᳘भ्यदामोष᳘मतीया᳘देव᳘मेवॗ योऽस्य स्वर्गे᳘ 9 लोको᳘ भ᳘वति त᳘मभ्य᳘त्येति 10 त᳘मेते᳘ संताप्या᳘ अग्न᳘यो य᳘था पुत्राः᳘ पित᳘रं प्रोषु᳘षमागतᳫं शिव᳘मुपस्पृश᳘न्त्येव᳘ᳫं᳘ शिव᳘ᳫं᳘ हैॗवैतमु᳘पस्पृशन्ति प्र᳘ हैॗवैनं कल्पयन्ति ॥

मूलम् - विस्वरम्

स एष यज्ञायुधी यजमानः यथा बिभ्यदामोषमतीयात् । एवमेव । यो ऽस्य स्वर्गे लोको जितो भवति । तमभ्यत्येति । तमेते संताप्या अग्नयो यथा पुत्राः पितरं प्रोषुषमागतं शिवमुपस्पृशंति । एवं शिवं हैवैनमुपस्पृशंति । प्र हैवैनं कल्पयंति ॥ ८ ॥

हरिस्वामी

स एष यज्ञायुधीति । यज्ञायुधानि यज्ञसाधनानि तानि आयुधस्थानीयानि यस्य स यज्ञायुधी इति प्राप्ते उत्तरपदलोपः । आमोषम् । “मुष स्तेये” (धा. पा. क्र्या. प. ५८) आमुष्यंते ऽस्मिन्निति आमोषः अक्षेमः प्रदेशो यः । सः अस्य यजमानस्य कर्मभिर्लोको जितो भवति । ‘तमभ्यत्येति’ अतिक्रम्य एति । तमेते संतापजाः संताप्याः । प्रोषुषं प्रोषितम् । एवमुपस्पृशंतीति क्रियाविशेषणम् । एवं वै शांतमेव । एनमुपस्पृशंति अतो ऽत्र हिंसंतीत्यर्थः । प्रकृष्टमेवैनं स्वर्गे कल्पयंति ॥ ८ ॥

Eggeling
  1. Thus supplied with the sacrificial weapons (implements), that Sacrificer passes on to that place which has been won by him in heaven, even as if one who fears spoliation were to escape it; and, verily, those fires (which are) to be enkindled (will) lovingly touch him, even as sons lovingly touch their father when he comes home after staying abroad, and make everything ready for him 11.
मूलम् - Makoto

स᳓ एष᳓ यज्ञा᳓युधी᳓ य᳓जमा᳓नः ।॥
य᳓था᳓ बि᳓भ्यदा᳓मोष᳓मतीया᳓द् एव᳓म् एव᳓ यो᳙ ऽस्य स्वर्गे᳓ लोको᳓ भ᳓वति त᳓म् अभ्य᳓त्येति त᳓म् एते᳓ संता᳓प्या᳓ अग्न᳓यो य᳓था᳓ पुत्राः᳓ पित᳓रं प्रोषु᳓षम् आ᳓गतँ शिव᳓म् उपस्पृश᳓न्त्य् एवँ᳓ शिवँ᳓ हैवै᳙त᳓म् उ᳓पस्पृशन्ति प्र᳓ हैवै᳙नं कल्पयन्ति ॥॥

०९

विश्वास-प्रस्तुतिः

तं य᳘दि गा᳘र्हपत्यः पू᳘र्व्वः प्राप्नुयात्[[!!]]॥
(त्त᳘) त᳘द्विद्यात्प्रतिष्ठ᳘ ऽएनमग्निः पू᳘र्व्वः प्रा᳘पत्प्र᳘तिष्ठास्यति प्र᳘त्येव᳘ ते ऽस्मिं᳘ल्लोके᳘ स्थास्यन्ति᳘ ये ऽस्मात्प्रत्य᳘ञ्च ऽइति[[!!]]॥

मूलम् - श्रीधरादि

तं य᳘दि गा᳘र्हपत्यः पू᳘र्व्वः प्राप्नुयात्[[!!]]॥
(त्त᳘) त᳘द्विद्यात्प्रतिष्ठ᳘ ऽएनमग्निः पू᳘र्व्वः प्रा᳘पत्प्र᳘तिष्ठास्यति प्र᳘त्येव᳘ ते ऽस्मिं᳘ल्लोके᳘ स्थास्यन्ति᳘ ये ऽस्मात्प्रत्य᳘ञ्च ऽइति[[!!]]॥

मूलम् - Weber

तं य᳘दि गा᳘र्हपत्यः पू᳘र्वः प्राप्नुया᳟त् ॥
त᳘द्विद्यात्प्रतिष्ठ᳘ 12 एनमग्निः पू᳘र्वः प्रा᳘पत्प्र᳘तिष्ठास्यति प्र᳘त्येवॗ तेऽस्मिं᳘लोके᳘ स्थास्यन्तिॗ येऽस्मात्प्रत्य᳘ञ्च इ᳟ति ॥

मूलम् - विस्वरम्

तं यदि गार्हपत्यः पूर्वः प्राप्नुयात् । तद्विद्यात् । प्रतिष्ठ एनमग्निः पूर्वः प्रापत् । प्रतिष्ठास्यति । प्रत्येव ते ऽस्मिन् लोके स्थास्यंति । ये ऽस्मात्प्रत्यंच इति ॥ ९ ॥

हरिस्वामी

प्रतिष्ठः, नित्यस्थितत्वात् पृथिवीशक्तित्वात् प्रतिष्ठो गार्हपत्यः । ये पुत्रादयः अस्मात् यजमानात् प्रत्यंचः पृष्ठतः श्रिताः ॥ ९ ॥

Eggeling
  1. If the Gārhapatya were to reach him first, one may know that the permanent fire has reached him first: that he will permanently establish himself, and that those behind him will permanently establish themselves in this world.
मूलम् - Makoto

तं᳓ य᳓दि गा᳓र्हपत्यः पू᳓र्वः प्रा᳓प्नुया᳓त् ।॥
त᳓द् विद्या᳓त् प्रतिष्ठ᳓ एनम् अग्निः पू᳓र्वः प्रा᳓पत् प्र᳓तिष्ठा᳓स्यति प्र᳓त्य् एव᳓ ते᳙ ऽस्मिं᳓ लोके᳓ स्था᳓स्यन्ति ये᳙ ऽस्मा᳓त् प्रत्य᳓ञ्च इ᳓ति ॥॥

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘द्याहवनी᳘यः॥
(स्त᳘) त᳘द्विद्यान्मुख्य᳘ ऽएनमग्निः पू᳘र्व्वः प्रा᳘पन्मुखतो᳘ लोका᳘नजैषीन्मुखमेव᳘[[!!]] ते ऽस्मिं᳘ल्लोके᳘ भविष्यन्ति᳘ ये ऽस्मात्प्रत्य᳘ञ्च ऽइति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘द्याहवनी᳘यः॥
(स्त᳘) त᳘द्विद्यान्मुख्य᳘ ऽएनमग्निः पू᳘र्व्वः प्रा᳘पन्मुखतो᳘ लोका᳘नजैषीन्मुखमेव᳘[[!!]] ते ऽस्मिं᳘ल्लोके᳘ भविष्यन्ति᳘ ये ऽस्मात्प्रत्य᳘ञ्च ऽइति[[!!]]॥

मूलम् - Weber

अ᳘थ य᳘द्याहवनी᳘यः ॥
त᳘द्विद्यान्मुख्य᳘ एनमग्निः पू᳘र्वः प्रा᳘पन्मुखतो᳘ लोका᳘नजैषीन्मु᳘खमेवॗ तेऽस्मिं᳘लोके᳘ भविष्यन्तिॗ येऽस्मात्प्रत्य᳘ञ्च इ᳟ति ॥

मूलम् - विस्वरम्

अथ यद्याहवनीयः । तद्विद्यात् । मुख्य एनमग्निः पूर्वः प्रापत् । मुखतो लोकानजैषीत् । मुखमेव ते ऽस्मिन् लोके भविष्यंति । ये ऽस्मात्प्रत्यंच इति ॥ १० ॥

हरिस्वामी

मुख्यस्थानीये पूर्वार्द्धे आहृतः आहवनीयः ॥ १० ॥

Eggeling
  1. And if the Āhavanīya were to do so, one may know that the foremost fire has reached him first: that he has been foremost in conquering the (other) world, and that those behind him will be foremost in this world.
मूलम् - Makoto

अ᳓थ य᳓द्य् आ᳓हवनी᳓यः ।॥
त᳓द् विद्या᳓न् मुख्य᳓ एनम् अग्निः᳓ पू᳓र्वः प्रा᳓पन् मुखतो᳓ लोका᳓न् अजैषीन् मु᳓खम् एव᳓ ते᳙ ऽस्मिं᳓ लोके᳓ भविष्यन्ति ये᳓ ऽस्मा᳓त् प्रत्य᳓ञ्च इ᳓ति ॥॥

११

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘द्यन्वाहार्य्यप᳘चनः॥
(स्त᳘) त᳘द्विद्यादन्नाद᳘ ऽएनमग्निः पू᳘र्व्वः प्रा᳘पद᳘न्नमत्स्यत्य᳘न्नमेव᳘ ते ऽस्मिं᳘ल्लो᳘के ऽत्स्यन्ति᳘ ये ऽस्मात्प्रत्य᳘ञ्च ऽइति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘द्यन्वाहार्य्यप᳘चनः॥
(स्त᳘) त᳘द्विद्यादन्नाद᳘ ऽएनमग्निः पू᳘र्व्वः प्रा᳘पद᳘न्नमत्स्यत्य᳘न्नमेव᳘ ते ऽस्मिं᳘ल्लो᳘के ऽत्स्यन्ति᳘ ये ऽस्मात्प्रत्य᳘ञ्च ऽइति[[!!]]॥

मूलम् - Weber

अ᳘थ य᳘द्यन्वाहार्यप᳘चनः ॥
त᳘द्विद्यादन्नाद᳘ एनमग्निः पू᳘र्वः प्रा᳘पद᳘न्नमत्स्यत्य᳘न्नमेव᳘ तेऽस्मिं᳘लोॗकेऽत्स्यन्तिॗ येऽस्मात्प्रत्य᳘ञ्च इ᳟ति ॥

मूलम् - विस्वरम्

अथ यद्यन्वाहार्यपचनः । तद्विद्यात् । अन्नाद एनमग्निः पूर्वः प्रापत् । अन्नमत्स्यति । अन्नमेव ते ऽस्मिन् लोके ऽत्स्यन्ति । ये ऽस्मात्प्रत्यंच इति ॥ ११ ॥

हरिस्वामी

‘अन्नादः’ पुरुषाणामन्नमन्वाहार्यमत्ति पचतीति अन्वाहार्यपचनः ॥ ११ ॥ १२ ॥

Eggeling
  1. And if the Anvāhāryapacana were to do so, one may know that the food-eating fire has reached him first: that he will eat food, and that those behind him will eat food (be prosperous) in this world.
मूलम् - Makoto

अ᳓थ य᳓द्य् अन्वा᳓हा᳓र्यप᳓चनः ।॥
त᳓द् विद्या᳓द् अन्ना᳓द᳓ एनम् अग्निः᳓ पू᳓र्वः प्रा᳓पद् अ᳓न्नम् अत्स्यत्य् अ᳓न्नम् एव᳓ ते᳙ ऽस्मिं᳓ लोके᳙ ऽत्स्यन्ति ये᳙ ऽस्मा᳓त् प्रत्य᳓ञ्च इ᳓ति ॥॥

१२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘दि सर्व्वे᳘[[!!]] सकृत्[[!!]]॥
(त्त᳘) त᳘द्विद्यात्कल्या᳘णं लोक᳘मजैषीदि᳘त्येता᳘न्यस्मिन्विज्ञा᳘नानि॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘दि सर्व्वे᳘[[!!]] सकृत्[[!!]]॥
(त्त᳘) त᳘द्विद्यात्कल्या᳘णं लोक᳘मजैषीदि᳘त्येता᳘न्यस्मिन्विज्ञा᳘नानि॥

मूलम् - Weber

अ᳘थ य᳘दि स᳘र्वे सकृ᳟त् ॥
त᳘द्विद्यात्कल्या᳘णं लोक᳘मजैषीदि᳘त्येता᳘न्यस्मिन्विज्ञा᳘नानि ॥

मूलम् - विस्वरम्

अथ यदि सर्वे सकृत् । तद्विद्यात् । कल्याणं लोकमजैषीदिति । एतान्यस्मिन् विज्ञानानि ॥ १२ ॥

हरिस्वामी

[व्याख्यानं एकादशे]

Eggeling
  1. And if they all (were to reach him) at the same time, one may know that he has conquered a blessed world. Such, then, are the distinctions in this respect.
मूलम् - Makoto

अ᳓थ य᳓दि स᳓र्वे सकृ᳓त् ।॥
त᳓द् विद्या᳓त् कल्या᳓णं लोक᳓म् अजैषीद् इ᳓त्य् एता᳓न्य् अस्मिन् विज्ञा᳓ना᳓नि ॥॥

१३

विश्वास-प्रस्तुतिः

ताम्वा᳘ ऽएताम्[[!!]]॥
य᳘जमानात्माहुति᳘मन्ततो᳘ जुहोति स᳘ यो ऽस्य स्वर्ग्गे᳘ लोको᳘ जितो भ᳘वति त᳘त ऽआहुतिम᳘यो ऽमृ᳘तः स᳘म्भवति॥

मूलम् - श्रीधरादि

ताम्वा᳘ ऽएताम्[[!!]]॥
य᳘जमानात्माहुति᳘मन्ततो᳘ जुहोति स᳘ यो ऽस्य स्वर्ग्गे᳘ लोको᳘ जितो भ᳘वति त᳘त ऽआहुतिम᳘यो ऽमृ᳘तः स᳘म्भवति॥

मूलम् - Weber

तां वा᳘ऽएता᳘म् 13
यजमानात्माहुति᳘मन्ततो᳘ 14 जुहोति सॗ योऽस्य स्वर्गे᳘ लोको᳘ जितो भ᳘वति त᳘त आहुतिम᳘योऽमृ᳘तः स᳘म्भवति ॥

मूलम् - विस्वरम्

तां वा एतां यजमानात्माहुतिमंततो जुहोति । स यो ऽस्य स्वर्गे लोको जितो भवति । तत आहुतिमयो ऽमृतः संभवति ॥ १३ ॥

हरिस्वामी

यजमानस्यात्मा शरीरम् । तदेवाहुतिः तां जुहोति । यः अस्य स्वर्गे लोकः स्थानं जितो भवति कर्मभिः । ततस्तत्र आहुतिपरिणाममयः अमृतः स्थिरशरीरः संभवति ॥ १३ ॥

Eggeling
  1. This, then, is that offering of the Sacrificer’s body which he performs at the end: front out of that place which has been won by him in heaven he arises immortal in the form of an oblation.
मूलम् - Makoto

तां᳓ वा᳓ एता᳓म् ।॥
यजमा᳓ना᳓त्मा᳓हुति᳓म् अन्ततो᳓ जुहोति स᳓ यो᳙ ऽस्य स्वर्गे᳓ लोको᳓ जितो᳓ भ᳓वति त᳓त आ᳓हुतिम᳓यो ऽमृ᳓तः स᳓म्भवति ॥॥

१४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ या᳘न्यश्मम᳘यानि च मृन्म᳘यानि च भ᳘वन्ति॥
ता᳘नि ब्राह्मणा᳘य दद्याच्छवोद्वह᳘मु ह त᳘म्मन्यन्ते यस्ता᳘नि प्रतिगृह्णा᳘त्यप᳘ ऽए᳘वैनान्यभ्य᳘वहरेयुरा᳘पो वा᳘ ऽअस्य स᳘र्व्वस्य प्रतिष्ठा त᳘देनम᳘प्स्वेव᳘ प्र᳘तिष्ठापयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ या᳘न्यश्मम᳘यानि च मृन्म᳘यानि च भ᳘वन्ति॥
ता᳘नि ब्राह्मणा᳘य दद्याच्छवोद्वह᳘मु ह त᳘म्मन्यन्ते यस्ता᳘नि प्रतिगृह्णा᳘त्यप᳘ ऽए᳘वैनान्यभ्य᳘वहरेयुरा᳘पो वा᳘ ऽअस्य स᳘र्व्वस्य प्रतिष्ठा त᳘देनम᳘प्स्वेव᳘ प्र᳘तिष्ठापयति॥

मूलम् - Weber

अ᳘थ या᳘न्यश्मम᳘यानि च मृन्म᳘यानि च भ᳘वन्ति ॥
ता᳘नि ब्राह्मणा᳘य दद्याच्छवोद्वह᳘मु ह तं᳘ मन्यन्ते यस्ता᳘नि प्रतिगृह्णा᳘त्यप᳘ एॗवैनान्यभ्य᳘वहरेयुरा᳘पो वा᳘ऽअस्य स᳘र्वस्य प्रतिष्ठा त᳘देनमॗप्स्वेव᳘ प्र᳘तिष्ठापयति ॥

मूलम् - विस्वरम्

अथ यान्यश्ममयानि च मृन्मयानि च भवन्ति । तानि ब्राह्मणाय दद्यात् । शवोद्वहमु ह तं मन्यन्ते । यस्तानि प्रतिगृह्णाति । अप एवैनान्यभ्यवहरेयुः । आपो वा अस्य सर्वस्य प्रतिष्ठा । तदेनमप्स्वेव प्रतिष्ठापयति ॥ १४ ॥

हरिस्वामी

अश्ममयानि दृषदुपलादीनि । लौहानि तप्योपरवादीनि । मुन्मयानि आज्यस्थाली उखा अग्निहोत्रस्थाली च । शवोद्वहम् । शवद्रव्यस्य उद्वहनरतं तं मन्यन्ते । न च सत्यां गतौ ब्राह्मणः संकटमापद्यत इत्यर्थः ॥ १४ ॥

Eggeling
  1. Whatever stone and earthen (vessels of the deceased) there are they may be given to a Brāhmaṇa 15; but, verily, he who accepts them is regarded as a remover of corpses. Let them rather throw these (vessels) into the water, for the waters are the foundation of all this (universe): he thus establishes him firmly on the waters.
मूलम् - Makoto

अ᳓थ या᳓न्य् अश्मम᳓या᳓नि च मृन्म᳓या᳓नि च भ᳓वन्ति ।॥
ता᳓नि ब्रा᳓ह्मणा᳓य दद्या᳓च् छवोद्वह᳓म् उ ह तं᳓ मन्यन्ते य᳓स् ता᳓नि प्रतिगृह्णा᳓त्य् अप᳓ एवै᳙ना᳓न्य् अभ्य᳓वहरेयुर् आ᳓पो वा᳓ अस्य᳓ स᳓र्वस्य प्रतिष्ठा᳓ त᳓द् एनम् अप्स्व् ए᳙व᳓ प्र᳓तिष्ठा᳓पयति ॥॥

१५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैतामा᳘हुतिञ्जुहोति॥
पुत्रो᳘ वा भ्रा᳘ता वा यो᳘ वा ऽन्यो᳘ ब्राह्मणः स्या᳘दस्मात्त्वम᳘धि जा᳘तो ऽसि त्व᳘दय᳘ञ्जायताम्पुनः[[!!]]। असौ᳘ स्वर्ग्गा᳘य लोका᳘य स्वाहेत्य᳘नपेक्षमे᳘त्याप ऽउ᳘पस्पृशन्ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैतामा᳘हुतिञ्जुहोति॥
पुत्रो᳘ वा भ्रा᳘ता वा यो᳘ वा ऽन्यो᳘ ब्राह्मणः स्या᳘दस्मात्त्वम᳘धि जा᳘तो ऽसि त्व᳘दय᳘ञ्जायताम्पुनः[[!!]]। असौ᳘ स्वर्ग्गा᳘य लोका᳘य स्वाहेत्य᳘नपेक्षमे᳘त्याप ऽउ᳘पस्पृशन्ति॥

मूलम् - Weber

अ᳘थैतामा᳘हुतिं जुहोति ॥
पुत्रो᳘ वा भ्रा᳘ता वा यो᳘ वान्यो᳘ ब्राह्मणः स्या᳘दस्मात्त्वम᳘धि जाॗतोऽसि त्व᳘दयं᳘ जायतां पु᳘नः असौ᳘ स्वर्गा᳘य लोका᳘य स्वाहे᳘त्यनपेक्षमे᳘त्याप उ᳘पस्पृशन्ति ॥ ब्राह्ममणम् ॥ ८ [५.२.] ॥ द्वितीयः प्रपाठकः ॥ कण्डिकासंख्या ९५ ॥ पञ्चमोऽध्यायः [७९.] ॥ ॥

मूलम् - विस्वरम्

अथैतामाहुतिं जुहोति । पुत्रो वा भ्राता वा यो वा ऽन्यो ब्राह्मणः स्यात्- “अस्मात्त्वमधि जातो ऽसि त्वदयं जायतां पुनः । असौ स्वर्गाय लोकाय स्वाहा”- (वा. सं. ३५ । २२) इति । अनपेक्षमेत्य अप उपस्पृशंति ॥ १५ ॥

हरिस्वामी

अथैतामाहुतिं जुहोति । एतामिति सन्निहितपरामर्शात् पूर्वैव यजमानशरीराहुतिरिति केचित् । न तु साहुतित्वम् । पुत्रादेवोदितत्वात्तैरेव न दहेयुरिति दाहमात्रस्य चोदितत्वात् । अथ तस्यैव शरीरस्याहुतित्वमुच्यते । न तु आहुतित्वं पुत्रादयो विधीयन्ते । इति वाक्यं भिद्येत । तस्मात् प्राच्यैवैवमपूर्वाज्याहुतिर्विधीयते । तस्यां मांत्रवार्णिक्यग्निर्देवता द्रष्टव्या । अनपेक्षम् । अपेक्षं न भवति इति अनपेक्षम् अनवलोकम् । एत्य अपः उपस्पृशन्ति । तदेतत्सर्वं कात्यायनो ऽसूत्रयत्- “संदीपनवतीः प्रत्यग्न्यधिश्रयंत्युखाः । संतापजानग्नीनादाय सशरीरा दक्षिणा गच्छन्ति । अनसा । वितानँ साधयित्वा समे बहुलतृणे ऽन्तराग्नी चितिं चिनोति । उद्धृत्य क्षीरिणीः पुरुषाह्वतीः । विशाखशराश्मगन्धापृश्निपर्ण्यध्यांडाश्च । केशश्मश्रुनखलोमनिकृन्तनानि कृत्वा विपुरीषं चेच्छन् । केशादि निखाय सर्पिषा ऽन्तरक्त्वा चितावेनमादधाति कृष्णाजिनमास्तीर्य प्राक्शिरसम् । सप्तसु प्राणायतनेषु सप्त हिरण्य शकलान् प्रास्यति मुखे प्रथमम् । दक्षिणहस्ते जुहूँ सादयति घृतपूर्णाम् । स्फ्यं च । उपभृतँ सव्ये । उरसि ध्रुवाम् । मुखे ऽग्निहोत्रहवणीम् । नासिकयोः स्रुवौ 16 । कर्णयोः प्राशित्रहरणे शिरसि चमसं प्रणीताप्रणयनम् । कपालानि चैके । पाश्वयोः शूर्पे 17 । उदरे पात्रीँ समवत्तधानीं 18 पृषदाज्यवतीम्, शिश्ने शम्याम्, अरणी वृषणयोः । अन्तरोरू यज्ञपात्राण्यन्यानि । अप्स्ववहरणं मृन्मयाश्ममयानाम् । अयस्मयानि वा ब्राह्मणाय दद्यात् । आहुतिं जुहोति पुत्रो भ्राता ऽन्यो वा ब्राह्मणो ऽस्मात्त्वमधि जातो ऽसि त्वदयं जायतां पुनः । असौ स्वर्गाय लोकाय स्वाहेति । अनपेक्षमत्योपस्पृशंत्यपः । (का. श्रौ. सू. २५ । १६२ । १८३ । १८८ । १८९ ।) ॥ १५ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकांडे पञ्चमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (१२ । ५ । २) ॥

नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन्हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥ १ ॥

श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥ २ ॥

भूभर्त्रा विक्रमार्केण क्लृप्तां कनकवेदिकाम् । दानायाध्यास्य कृतवान् श्रुत्यर्थविवृतिं हरिः ॥ ३ ॥

इति श्रीसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीनां श्रीहरिस्वामिनां कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे पञ्चमो ऽध्यायः समाप्तः ॥ १२-५ ॥

Eggeling
  1. Either a son (of the deceased), or a brother, or some other Brāhmaṇa then performs that offering 19, with (Vāj. S. XXXV, 22), ‘From out of him thou (O Agni) art born: from out of thee let this N.N. be born again into the heavenly world, hail! They then go away without looking back. and touch water.
मूलम् - Makoto

अ᳓थैता᳓म् आ᳓हुतिं जुहोति ।॥
पुत्रो᳓ वा᳓ भ्रा᳓ता᳓ वा᳓ यो᳓ वा᳓न्यो᳓ ब्रा᳓ह्मणः᳓ स्या᳓द् अस्मा᳓त् त्व᳓म् अ᳓धि जा᳓तो᳙ ऽसि त्व᳓द् अयं᳓ जा᳓यतां᳓ पु᳓नः असौ᳓ स्वर्गा᳓य लोका᳓य स्वा᳓हे᳓त्य् अनपेक्ष᳓म् ए᳓त्या᳓प᳓ उ᳓पस्पृशन्ति ॥॥


  1. प्रे᳘यात् AP. ↩︎

  2. 202:1 Literally, at any place at which the cutting up may have commended itself to him (to take place). Whether this ‘cutting up’ is here to be taken figuratively of the burning of the corpse (dāhasthāne, Harisvāmin), or of the sacrifice of a barren cow, which may be performed in such a case, or of both, is not quite clear. ↩︎

  3. 202:2 The construction would rather seem to be,–let him build him (i.e. the dead body) up as a pile amidst his fires. ↩︎

  4. 202:3 The real meaning of ‘śumbala’ is not known,–acc. to the St. Petersb. Dict., some material which readily takes fire, such as straw or oakum. Harisvāmin takes it in the former sense,–tr̥ṇāny alpasaṁsthitāni. Cf. Kāty. XXV, 7, 12 (?dried cotton fibre or pods). ↩︎

  5. 202:4 Cf. VII, 5, 2, 21. ↩︎

  6. कुर्यात्क्षा᳘धुका A. ↩︎

  7. ?वृषारवा᳘वन्व᳘० A.P.M. ↩︎

  8. 203:1 That is, two bowls used for holding the Brahman’s ‘fore-portions’; see part i, p. 69, note 4. ↩︎

  9. योऽस्य स्वर्गो M. ↩︎

  10. त᳘मक्य᳘त्येति A. ↩︎

  11. 204:1 That is, they make everything comfortable for him, make him feel at home:–prakr̥shṭam evainaṁ svarge kalpayanti pratishṭḥitam; nityasthitatvāt pratishṭḥā gārhapatyaḥ; comm. ↩︎

  12. त᳘द्विद्यान्मुख्य᳘ A.P.M. ↩︎

  13. एतां । ↩︎

  14. य᳘जमा॰ A.P. ↩︎

  15. 205:1 According to Kāty. XXV, 7, 32, 33 the stone and earthen implements are to be thrown into the water; and metal ones may optionally be given to a Brahman (or likewise be thrown into the water). ↩︎

  16. एकः खादिर ऐष्टिकः, अपरो वैकंकतः अग्निहोत्रहोमार्थः । ↩︎

  17. एकमैष्टिकं द्वितीयं वारुणप्रघासिकं प्रतिप्रस्थातुः । अकृतचातुर्मास्ये तु ऐष्टिकमेव द्विधा क्रियते । ↩︎

  18. समवत्तधानी इडापात्री । ↩︎

  19. 205:2 According to Katy. XXV, 7, 34-37 a sterile cow may he offered prior to (or along with) the burning of the body: in which case the victim is to be killed by a blow behind the ear, and its kidneys are to be placed in the deceased’s hands, whilst his face is to be covered with the omentum or membrane enclosing the intestines. The final offering referred to in the above passage consists of an oblation of ghee. ↩︎