०१
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्य्य᳘) य᳘देष᳘ दीर्घस᳘त्त्र्यग्निहोत्रं जु᳘ह्वत्प्रव᳘सन्म्रिये᳘त जुहुयु᳘रस्मा३इ ना३ ऽइ᳘ति तद्धै᳘के होत᳘व्व्यम्मन्यन्त ऽआ᳘गन्तोरि᳘ति त᳘दु त᳘था न᳘ कुर्य्याद᳘तस्थानो वा᳘ ऽएष त᳘स्मै य᳘देनᳫँ᳭ शवदह्या᳘या ऽइव जुहुयु᳘र्य्यज्ञा᳘य वा᳘ ऽएष ऽआ᳘हुतिभ्यस्तस्थानः स᳘ हैनम᳘मृष्यमाणस्तृप्प्र᳘ᳫँ᳘ सचते॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्य्य᳘) य᳘देष᳘ दीर्घस᳘त्त्र्यग्निहोत्रं जु᳘ह्वत्प्रव᳘सन्म्रिये᳘त जुहुयु᳘रस्मा३इ ना३ ऽइ᳘ति तद्धै᳘के होत᳘व्व्यम्मन्यन्त ऽआ᳘गन्तोरि᳘ति त᳘दु त᳘था न᳘ कुर्य्याद᳘तस्थानो वा᳘ ऽएष त᳘स्मै य᳘देनᳫँ᳭ शवदह्या᳘या ऽइव जुहुयु᳘र्य्यज्ञा᳘य वा᳘ ऽएष ऽआ᳘हुतिभ्यस्तस्थानः स᳘ हैनम᳘मृष्यमाणस्तृप्प्र᳘ᳫँ᳘ सचते॥
मूलम् - Weber
त᳘दाहुः ॥
य᳘देष᳘ दीर्घसॗत्त्र्यग्निहोत्रं जु᳘ह्वत्प्रव᳘सन्म्रिये᳘त जुहुयु᳘रस्मा३इ ना३ऽइ᳘ति तद्धै᳘के होत᳘व्यं मन्यन्तऽआ᳘गन्तोरि᳘ति त᳘दु त᳘था न᳘ कुर्याद᳘तस्थानो वा᳘ऽएष त᳘स्मै य᳘देनᳫं शवदह्या᳘याऽइव जुहुयु᳘र्यज्ञा᳘य वा᳘ऽएष आ᳘हुतिभ्यस्तस्थानः स᳘ हैनम᳘मृष्यमाणस्तृप्र᳘ᳫं᳘ सचते ॥
मूलम् - विस्वरम्
तदाहुः- यदेष दीर्घसत्र्यग्निहोत्रं जुह्वत् प्रवसन् म्रियेत । जुहुयुरस्मा ३ इ । ना ३ इति । तद्धैके होतव्यं मन्यन्ते । आगन्तोरिति । तदु तथा न कुर्यात् । अतस्थानो वा एष तस्मै । यदेनं शवदह्याया इव जुहुयुः । यज्ञाय वा एष आहुतिभ्यस्तस्थानः । स हैनममृष्यमाणस्तृप्रं सचते ॥ १ ॥
हरिस्वामी
तदाहुः- प्रोषितस्याग्निहोत्रिणः प्रेतस्य प्रागंत्यकर्मणः किं ? गृहे अग्निहोत्रं होतव्यम्, तच्चेष्टं निवान्याः पयसा होतव्यमित्येतत् एताभिर्द्वादशभिः कण्डिकाभिरुच्यते प्रसन्नप्रायाभिरेव । अस्मै इत्यत्र ऐकारस्य “विचार्यमाणानाम्”- (पा. सू. ८ । २ । ९७) इति प्लुतिः । “एचो ऽप्रगृह्यास्यादूराद्धूते पूर्वस्यार्द्धस्या ऽऽदुत्तरस्येदुतौ”- (पा. सू. ८ । २ । ९७) इति इभावः । ना ३ इत्यत्रापि “विचार्यमाणानाम्"- (पा. सू. ८ । २ । ९७) इत्येव प्लुतिः । आ आगन्तोः होतव्यमग्निहोत्रं मन्यन्ते । अतस्थानः । “प्रकाशनस्थेयाख्ययोश्च” (पा. सू. १ । ३ । ३३) इति प्रकाशने तिष्ठतेरात्मनेपदम् । आत्मानं तादुर्थ्येन प्रकाशितत्वात्तृप्रमिति वेदितवान् । न तस्थानः अतस्थानः । एषः अग्निराहवनीयः । गार्हपत्यस्य तदर्थत्वात् व्यपदेशः । अनित्यहोमत्वाच्च । कस्मै पुनः कर्मणे अतस्थान आहवनीयः ? अतः तस्मैपदेन आहवनीयस्य दाहायाह । शवदह्या “छन्दसि निष्टर्क्यदेवहूय०”- (पा. सू. ३ । १ । १२३) इत्यादिषु शवदह्या द्रष्टव्या । शवदह्यायै इव शवदाहायैव केवलाय ते एनमाहवनीयं जुहुयुः पुत्रादयः । समाप्ते ऽपि यावज्जीविके ऽग्निहोत्रे इत्येतस्मै कर्मण अतस्थान एष आत्मानमत्राधितवानित्यर्थः । तस्थे इति तस्थानः । यज्ञाय आहुतिभ्यः । क्रव्यादाभ्य आहुतिभ्यः इत्यर्थः । त्यक्तुरेव प्रेतत्वात् । स एवं सत्याहवनीयः अमृष्यमाणः । “मृष तितिक्षायाम्”- (धा. पा. चु. उ. ३१६) अमृष्यमाण एवमकार्ये नियोगे एनं प्रेतं तृप्रं तृपेर्हिंसार्थत्वात् दुःखं सचते सेवते । एवमेव यथा होमवेलायां तथा अन्वाहिताः इंधनैः समाहिताः संदीपिताः । अहूयमानाः शयीरन् निश्चेष्टाः सन्तः कालं प्रतीक्षेरन् निदधति आशरीरानयनात् । तं आहवनीयं आद्धते शरीरे निर्मंथन्ति गार्हपत्ये गच्छन् द्वारेण । निवान्यः संबन्धनीयः परवत्सो यस्याः सा निवानी अवत्सा गौः । तां एष्टवै गवेषणीयान् ब्रूयादादिशो निवान्यामानयतेति । कः पुनरेतत् कुर्यात् । यस्तस्य यजमानस्य प्राज्यतरो ज्येष्ठपुत्रो रिक्थहरः पिंडप्रदः संप्रीतिभाजनं च स एव कुर्यात् तस्योक्तं कर्म पूरयति । यत् यदि द्वौ रथौ मृदितौ भग्नौ समागच्छेतां सज्जनार्थं कुशलैः समीपमानीतौ स्यातामेव तयोरेकः स्यदयिति यजमानाय गमनक्षमः स्यादित्येवं वक्तारो भवन्ति जनाः । “प्राचीनावीती”- इत्यादयो विधनः “यज्ञोपवीती देवभ्यः” इत्यादयो ऽपि ये अप्राप्तार्थाः ते जीवदग्निहोत्रे विधय एव । ये तु प्राप्तार्था “अवज्योतयति" इत्यादयस्ते अर्थवादाः ॥ १-१२ ॥
Eggeling
- They also say, ‘If that performer of a long sacrificial session–to wit, he who (regularly) offers the Agnihotra–were to die whilst staying abroad, are they to sacrifice for him or not?’ Now, some indeed think that (his Agnihotra) should be offered till they get home 1; but let him not do so, for that (fire) does not submit thereto that they should offer to it, as for the burning of a dead body: it is rather to sacrifice and oblations that it submits, and, unable to endure it, it stays by him with impatience.
मूलम् - Makoto
य᳓द् आ᳓हुः ।॥
य᳓द् एष᳓ दीर्घसत्त्र्य् अ᳙ग्निहोत्रं᳓ जु᳓ह्वत् प्रव᳓सन् म्रिये᳓त जुहुयु᳓र् अस्मा᳓३इ ना᳓३ इ᳓ति त᳓द् धै᳓के होत᳓व्यं मन्यन्त आ᳓गन्तोर् इ᳓ति त᳓द् उ त᳓था᳓ न᳓ कुर्या᳓द् अ᳓तस्था᳓नो वा᳓ एष᳓ त᳓स्मै य᳓द् एनँ शवध्या᳓या᳓ इव जुहुयु᳓र् यज्ञा᳓य वा᳓ एष᳓ आ᳓हुतिभ्यस् तस्था᳓नः᳓ स᳓ हैनम् अ᳓मृष्यमा᳓णस् तृप्रँ᳓ सचते ॥॥
०२
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ है᳘क ऽआहुः॥
(रे) एव᳘मे᳘वान्वा᳘हिता ऽअ᳘हूयमानाः[[!!]] शयीरन्नि᳘ति त᳘दु त᳘था न᳘ कुर्य्याद᳘तस्थानो वा᳘ ऽएष त᳘स्मै य᳘देनᳫँ᳭ शवदह्या᳘या ऽइवेन्धीर᳘न्यज्ञा᳘य वा᳘ ऽएष आ᳘हुतिभ्यस्तस्थानः स᳘ हैनम᳘मृष्यमाणस्तृप्प्र᳘ᳫँ᳘ सचते॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ है᳘क ऽआहुः॥
(रे) एव᳘मे᳘वान्वा᳘हिता ऽअ᳘हूयमानाः[[!!]] शयीरन्नि᳘ति त᳘दु त᳘था न᳘ कुर्य्याद᳘तस्थानो वा᳘ ऽएष त᳘स्मै य᳘देनᳫँ᳭ शवदह्या᳘या ऽइवेन्धीर᳘न्यज्ञा᳘य वा᳘ ऽएष आ᳘हुतिभ्यस्तस्थानः स᳘ हैनम᳘मृष्यमाणस्तृप्प्र᳘ᳫँ᳘ सचते॥
मूलम् - Weber
अ᳘थ है᳘कऽआहुः ॥
एव᳘मेॗवान्वा᳘हिता अहूय᳘मानाः शयीरन्नि᳘ति त᳘दु त᳘था न᳘ कुर्याद᳘तस्थानो वा᳘ऽएष त᳘स्मै य᳘देनᳫं शवदह्या᳘याऽइवेन्धीरन्यज्ञा᳘य वा᳘ऽएष आ᳘हुतिभ्यस्तस्थानः स᳘ हैनम᳘मृष्यमाणस्तृप्र᳘ᳫं᳘ सचते ॥
मूलम् - विस्वरम्
अथ हैक आहुः । एवमेवान्वाहिता अहूयमानाः शयीरन्निति । तदु तथा न कुर्यात् । अतस्थानो वा एष तस्मै । यदेनं शवदह्याया इवेन्धीरन् । यज्ञाय वा एष आहुतिभ्यस्तस्थानः । स हैनममृष्यमाणस्तृप्रं सचते ॥ २ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And some, indeed, say, ‘They (the fires) should lie in the very same condition, kept up (with fuel) but without offering being made on them;’ but let him not do so, for that (fire) does not submit thereto that they should kindle it as for the burning of a dead body: it is rather to sacrifice and oblations that it submits, and, unable to endure it, it stays by him with impatience.
मूलम् - Makoto
अ᳓थ है᳓क आ᳓हुः ।॥
एव᳓म् एवा᳙न्वा᳓हिता᳓ अहूय᳓मा᳓नाः᳓ शयीरन्नि᳓ति त᳓दु त᳓था᳓ न᳓ कुर्या᳓द᳓तस्था᳓नः स᳓ हैनम᳓मृष्यमा᳓णस्तृप्रँ᳓ सचते ॥॥
०३
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ है᳘के ऽर᳘ण्योः॥
(र) अग्नी᳘ समारो᳘ह्य नि᳘दधति तमा᳘हृते नि᳘र्म्मन्थन्ति त᳘दु त᳘था न᳘ कुर्य्याद᳘तस्थानो वा᳘ ऽएष त᳘स्मै य᳘देनᳫँ᳭ शवदह्या᳘या ऽइव निर्म्म᳘न्थेयुर्य्यज्ञा᳘य वा᳘ ऽएष ऽआ᳘हुतिभ्यस्तस्थानः स᳘ हैनम᳘मृष्यमाणस्तृप्प्र᳘ᳫँ᳘ सचते॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ है᳘के ऽर᳘ण्योः॥
(र) अग्नी᳘ समारो᳘ह्य नि᳘दधति तमा᳘हृते नि᳘र्म्मन्थन्ति त᳘दु त᳘था न᳘ कुर्य्याद᳘तस्थानो वा᳘ ऽएष त᳘स्मै य᳘देनᳫँ᳭ शवदह्या᳘या ऽइव निर्म्म᳘न्थेयुर्य्यज्ञा᳘य वा᳘ ऽएष ऽआ᳘हुतिभ्यस्तस्थानः स᳘ हैनम᳘मृष्यमाणस्तृप्प्र᳘ᳫँ᳘ सचते॥
मूलम् - Weber
अ᳘थ है᳘केऽर᳘ण्योः ॥
अग्नी᳘ समारो᳘ह्य नि᳘दधति तमा᳘हृते नि᳘र्मन्थन्ति त᳘दु त᳘था 2 न᳘ कुर्याद᳘तस्थानो वा᳘ऽएष त᳘स्मै य᳘देनᳫं शवदह्या᳘याऽइव निर्म᳘न्थेयुर्यज्ञा᳘य वा᳘ऽएष आ᳘हुतिभ्यस्तस्थानः स᳘ हैनम᳘मृष्यमाणस्तृप्र᳘ᳫं᳘ सचते ॥
मूलम् - विस्वरम्
अथ हैके । अरण्योरग्नी समारोह्य निदधति तम् । आहृत निर्मन्थन्ति । तदु तथा न कुर्यात् । अतस्थानो वा एष तस्मै । यदेनं शवदह्याया इव निर्मन्थेयुः । यज्ञाय वा एष आहुतिभ्यस्तस्थानः । सहैनममृष्यमाणस्तृप्रं सचते ॥ ३ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And some, indeed, having lifted the two fires
on the churning-sticks, lay them down, and churn it (the new fire) out on his being brought (home); but let him not do so, for that (fire) does not submit thereto that they should churn it out as for the burning of a dead body: it is rather to sacrifice and oblations that it submits, and, unable to endure it, it stays by him with impatience.
मूलम् - Makoto
अ᳓थ है᳓के ऽर᳓ण्योः ।॥
अग्नी᳓ समा᳓रो᳓ह्य नि᳓दधति त᳓म् आ᳓हृते नि᳓र्मन्थन्ति त᳓द् उ त᳓था᳓ न᳓ कुर्या᳓द् अ᳓तस्था᳓नो वा᳓ एष᳓ त᳓स्मै य᳓द् एनँ शवध्या᳓या᳓ इव निर्म᳓न्थेयुर् यज्ञा᳓य वा᳓ एष᳓ आ᳓हुतिभ्यस् तस्था᳓नः᳓ स᳓ हैनम् अ᳓मृष्यमा᳓णस् तृप्रँ᳓ सचते ॥॥
०४
विश्वास-प्रस्तुतिः
(त ऽइ) इत्थ᳘मेव᳘ कुर्य्यात्॥
(न्नि) निवा᳘न्यवत्सामे᳘ष्टवै᳘ ब्रूयात्त᳘स्यै प᳘यसा जुहुयादा᳘र्त्तम्वा᳘ ऽएतत्प᳘यो य᳘न्निवा᳘न्यवत्साया ऽआ᳘र्त्तमेत᳘दग्निहोत्रं य᳘न्मृत᳘स्य तदा᳘र्त्तेनैव तदा᳘र्त्तन्निष्कृ᳘त्य श्रे᳘यान्भवति᳘॥
मूलम् - श्रीधरादि
(त ऽइ) इत्थ᳘मेव᳘ कुर्य्यात्॥
(न्नि) निवा᳘न्यवत्सामे᳘ष्टवै᳘ ब्रूयात्त᳘स्यै प᳘यसा जुहुयादा᳘र्त्तम्वा᳘ ऽएतत्प᳘यो य᳘न्निवा᳘न्यवत्साया ऽआ᳘र्त्तमेत᳘दग्निहोत्रं य᳘न्मृत᳘स्य तदा᳘र्त्तेनैव तदा᳘र्त्तन्निष्कृ᳘त्य श्रे᳘यान्भवति᳘॥
मूलम् - Weber
इत्थ᳘मेव᳘ कुर्यात् ॥
निवा᳘न्यवत्सामे᳘ष्टवै᳘ ब्रूयात्त᳘स्यै प᳘यसा जुहुयादा᳘र्तं वा᳘ऽएतत्प᳘यो य᳘न्निवा᳘न्यवत्सायाऽआ᳘र्तमेत᳘दग्निहोत्रं य᳘न्मृत᳘स्य तदा᳘र्तेनैव तदा᳘र्तं निष्कृ᳘त्य श्रे᳘यान्भवति ॥
मूलम् - विस्वरम्
इत्थमेव कुर्यात् । निवान्यवत्सामेष्टवै ब्रूयात् । तस्यै पयसा जुहुयात् । आर्तं वा एतत्पयः । यन्निवान्यवत्सायाः । आर्तमेतदग्निहोत्रम् । यन्मृतस्य तत् । आर्तेनैव तदार्त्तं निष्कृत्य श्रेयान् भवति ॥ ४ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- Let him rather proceed thus:–let him hid them seek for a cow suckling an adopted calf, and let him make offering with milk from her; for tainted is that milk which comes from a cow suckling an adopted calf, and tainted is the Agnihotra of one who is dead: by thus removing the tainted by the tainted, he becomes more glorious.
मूलम् - Makoto
इत्थ᳓म् एव᳓ कुर्या᳓त् ।॥
निवा᳓न्यवत्सा᳓म् ए᳓ष्टवै᳓ ब्रूया᳓त् त᳓स्यै प᳓यसा᳓ जुहुया᳓द् आ᳓र्तं वा᳓ एत᳓त् प᳓यो य᳓न् निवा᳓न्यवत्सा᳓या᳓ आ᳓र्तम् एत᳓द् अग्निहोत्रं᳓ य᳓न् मृत᳓स्य त᳓द् आ᳓र्तेनैव᳓ त᳓द् आ᳓र्तं निष्कृ᳓त्य श्रे᳓या᳓न् भवति ॥॥
०५
विश्वास-प्रस्तुतिः
तद᳘प्युप᳘मा ऽस्ति॥
यद्द्वौ र᳘थौ मृदितौ᳘ समाग᳘च्छेताᳫँ᳭ स्या᳘दे᳘वान्यतरः स्य᳘दयिति॥
मूलम् - श्रीधरादि
तद᳘प्युप᳘मा ऽस्ति॥
यद्द्वौ र᳘थौ मृदितौ᳘ समाग᳘च्छेताᳫँ᳭ स्या᳘दे᳘वान्यतरः स्य᳘दयिति॥
मूलम् - Weber
तद᳘प्युपॗमास्ति ॥
यद्द्वौ र᳘थौ मृदितौ᳘ समाग᳘छेताᳫं स्या᳘देॗवान्यतरः स्य᳘दाये᳘ति ॥
मूलम् - विस्वरम्
तदपि उपमा ऽस्ति । यत् द्वौ रथौ मृदितौ समागच्छेताम् । स्यादेवान्यतरः स्वदयिति ॥ ५ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- Concerning this there also is a simile:–if two smashed cars were to (be made to) unite there would be at least one (fit) for driving.
मूलम् - Makoto
त᳓द् अ᳓प्य् उपमा᳙स्ति ।॥
य᳓द् द्वौ᳓ र᳓थौ मृदितौ᳓ समा᳓ग᳓छेताँ᳓ स्या᳓द् एवा᳙न्यतरः᳓ स्य᳓दा᳓ये᳓ति ॥॥
०६
विश्वास-प्रस्तुतिः
त᳘स्य वा᳘ ऽएत᳘स्याग्निहोत्र᳘स्योपचारः᳘॥
प्प्राचीनावीती᳘ दोहयति यज्ञोपवीती वै᳘ देवे᳘भ्यो दोहयत्य᳘थैव᳘म्पितृणाम्[[!!]]॥
मूलम् - श्रीधरादि
त᳘स्य वा᳘ ऽएत᳘स्याग्निहोत्र᳘स्योपचारः᳘॥
प्प्राचीनावीती᳘ दोहयति यज्ञोपवीती वै᳘ देवे᳘भ्यो दोहयत्य᳘थैव᳘म्पितृणाम्[[!!]]॥
मूलम् - Weber
त᳘स्य वा᳘ऽएत᳘स्याग्निहोत्र᳘स्योपचारः᳘ ॥
प्राचीनावीती᳘ दोहयति यज्ञोपवीती वै᳘ देवे᳘भ्यो दोहयत्य᳘थैवं᳘ पितॄणा᳟म् ॥
मूलम् - विस्वरम्
तस्य वा एतस्याग्निहोत्रस्योपचारः । प्राचीनावीती दोहयति । यज्ञोपवीती वै देवेभ्यो दोहयति । अथैवं पितृणाम् ॥ ६ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- The procedure of this same Agnihotra (is as follows):–He causes her to be milked whilst eastward invested 3; for, sacrificially invested, one gets (the Agnihotra-cow) milked for the gods, but in the case of the Fathers it is done thus.
मूलम् - Makoto
त᳓स्य वा᳓ एत᳓स्या᳓ग्निहोत्र᳓स्योपचा᳓रः᳓ ।॥
प्रा᳓चीना᳓वीती᳓ दोहयति यज्ञोपवीती᳓ वै᳓ देवे᳓भ्यो दोहयत्य् अ᳓थैवं᳓ पित्क़्णा᳓म् ॥॥
०७
विश्वास-प्रस्तुतिः
(न्ना᳘) ना᳘ङ्गारेष्व᳘धिश्रयति॥
यद्धा᳘ङ्गारेष्वधिश्र᳘येद्देवत्रा᳘ कुर्य्याद्गा᳘र्हपत्यादुष्णं भ᳘स्म दक्षिणा᳘ निरु᳘ह्य त᳘स्मिन्नेनद᳘धिश्रयति पितृदेव᳘त्यमे᳘वैनत्त᳘त्करोति॥
मूलम् - श्रीधरादि
(न्ना᳘) ना᳘ङ्गारेष्व᳘धिश्रयति॥
यद्धा᳘ङ्गारेष्वधिश्र᳘येद्देवत्रा᳘ कुर्य्याद्गा᳘र्हपत्यादुष्णं भ᳘स्म दक्षिणा᳘ निरु᳘ह्य त᳘स्मिन्नेनद᳘धिश्रयति पितृदेव᳘त्यमे᳘वैनत्त᳘त्करोति॥
मूलम् - Weber
ना᳘ङ्गारेष्व᳘धिश्रयति ॥
यद्धा᳘ङ्गारेष्वधिश्र᳘येद्देवत्रा᳘ कुर्याद्गा᳘र्हपत्यादुष्णं भ᳘स्म दक्षिणा᳘ निरु᳘ह्य त᳘स्मिन्नेनद᳘धिश्रयति पितृदेव᳘त्यमेॗवैनत्त᳘त्करोति ॥
मूलम् - विस्वरम्
नांगारेष्वधिश्रयति । यद्धांगारेष्वधिश्रयेत् । देवत्रा कुर्यात् । गार्हपत्यादुष्णं भस्म दक्षिणा निरुह्य । तस्मिन्नेनदधिश्रयति । पितृदेवत्यमेवैनत् तत्करोति ॥ ७ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- He does not put (the milk) on the (burning) coals 4; for were he to put it on coals he would be doing (what is done) for the gods: having shifted some hot cinders from the Gārhapatya towards the right (south) side, he puts it thereon, and thus makes it to be sacred to the Fathers.
मूलम् - Makoto
ना᳓ङ्गा᳓रेष्व् अ᳓धिश्रयति ।॥
य᳓द् धा᳓ङ्गा᳓रेष्व् अधिश्र᳓येद् देवत्रा᳓ कुर्या᳓द् गा᳓र्हपत्या᳓द् उष्णं᳓ भ᳓स्म दक्षिणा᳓ निरु᳓ह्य त᳓स्मिन्न् एनद् अ᳓धिश्रयति पितृदेव᳓त्यम् एवै᳙नत् त᳓त् करोति ॥॥
०८
विश्वास-प्रस्तुतिः
ना᳘वज्योतयति᳘ नापः᳘ प्रत्या᳘नयति॥
य᳘द्धावज्योत᳘येद्य᳘दपः᳘ प्रत्यान᳘येद्देवत्रा᳘ कुर्य्यान्न त्रिः᳘ प्रतिष्ठा᳘पᳫँ᳭ हरति यत्त्रिः᳘ प्रतिष्ठा᳘पᳫँ᳭ ह᳘रेद्देवत्रा᳘ कुर्य्यात्सकृ᳘देव᳘ निक᳘र्षन्हरति पितृदे᳘वत्यमेवैन᳘त्तत्करोति[[!!]]॥
मूलम् - श्रीधरादि
ना᳘वज्योतयति᳘ नापः᳘ प्रत्या᳘नयति॥
य᳘द्धावज्योत᳘येद्य᳘दपः᳘ प्रत्यान᳘येद्देवत्रा᳘ कुर्य्यान्न त्रिः᳘ प्रतिष्ठा᳘पᳫँ᳭ हरति यत्त्रिः᳘ प्रतिष्ठा᳘पᳫँ᳭ ह᳘रेद्देवत्रा᳘ कुर्य्यात्सकृ᳘देव᳘ निक᳘र्षन्हरति पितृदे᳘वत्यमेवैन᳘त्तत्करोति[[!!]]॥
मूलम् - Weber
ना᳘वज्योतयतिॗ नापः᳘ प्रत्या᳘नयति ॥
य᳘द्धावज्योत᳘येद्य᳘दपः᳘ प्रत्यान᳘येद्देवत्रा᳘ कुर्यान्न त्रिः᳘ प्रतिष्ठा᳘पᳫं हरति यत्त्रिः᳘ प्रतिष्ठा᳘पᳫं ह᳘रेद्देवत्रा᳘ कुर्यात्सकृ᳘देव᳘ निक᳘र्षन्हरति पितृदे᳘वत्यॗमेवैनत्त᳘त्करोति ॥
मूलम् - विस्वरम्
नावज्योतयति । नापः प्रत्यानयति । यद्धावज्योतयेत्, यदपः प्रत्यानयेत् । देवत्रा कुर्यात् । न त्रिः प्रतिष्ठापं हरति । यत् त्रिः प्रतिष्ठापं हरेत् । देवत्रा कुर्यात् । सकृदेव निकर्षन् हरति । पितृदेवत्यमेवैनत् तत्करोति ॥ ८ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- He does not cause the light (of a burning straw) to fall upon it, nor does he pour water to it; for were he to make the light fall on it, and to pour water to it, he would be doing-(what is done) for the gods. He does not take it off thrice, setting it down each time 5; for were he take it off thrice, setting it down each time, he would be doing (what is done) for the gods: only once he takes it off drawing it downwards 6, and thus makes it to be sacred to the Fathers.
मूलम् - Makoto
ना᳓वज्योतयति ना᳙पः᳓ प्रत्या᳓नयति ।॥
य᳓द् धा᳓वज्योत᳓येद् य᳓द् अपः᳓ प्रत्या᳓न᳓येद् देवत्रा᳓ कुर्या᳓न् न᳓ त्रिः᳓ प्रतिष्ठा᳓पँ हरति य᳓त् त्रिः᳓ प्रतिष्ठा᳓पँ ह᳓रेद् देवत्रा᳓ कुर्या᳓त् सकृ᳓द् एव᳓ निक᳓र्षन् हरति पितृदे᳓वत्यम् एवै᳙नत् त᳓त् करोति ॥॥
०९
विश्वास-प्रस्तुतिः
नो᳘न्नेष्यामी᳘त्याह॥
न᳘ चतुरु᳘न्नयति य᳘द्धोन्नेष्यामी᳘ति[[!!]] ब्रूयाद्य᳘च्चतु᳘रुन्न᳘येद्देवत्रा᳘ कुर्य्यात्सकृ᳘देव᳘ तूष्णी᳘न्न्यक्प᳘र्य्यस्यति पितृदेव᳘त्यमे᳘वैनत्त᳘त्करोति᳘॥
मूलम् - श्रीधरादि
नो᳘न्नेष्यामी᳘त्याह॥
न᳘ चतुरु᳘न्नयति य᳘द्धोन्नेष्यामी᳘ति[[!!]] ब्रूयाद्य᳘च्चतु᳘रुन्न᳘येद्देवत्रा᳘ कुर्य्यात्सकृ᳘देव᳘ तूष्णी᳘न्न्यक्प᳘र्य्यस्यति पितृदेव᳘त्यमे᳘वैनत्त᳘त्करोति᳘॥
मूलम् - Weber
नो᳘न्नेष्यामी᳘त्याह ॥
न᳘ चतुरु᳘न्नयति यद्धो᳘न्नेष्यामी᳘ति ब्रूयाद्य᳘च्चतु᳘रुन्न᳘येद्देवत्रा᳘ कुर्यात्सकृ᳘देव᳘ तूष्णींॗ न्यक्प᳘र्यस्यति पितृदेव᳘त्यमेॗवैनत्त᳘त्करोति᳟᳟ ॥
मूलम् - विस्वरम्
नोन्नेष्यामीत्याह । न चतुरुन्नयति । यद्धोन्नेष्यामीति ब्रूयात् । यच्चतुरुन्नयेत् । देवत्रा कुर्यात् । सकृदेव तूष्णीं न्यक् पर्यस्यति । पितृदेवत्यमेवैनत् तत्करोति ॥ ९ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- He does not say, ‘I will ladle out 7!’ nor does he ladle out (the milk) four times; for were he to say ‘I will ladle out!’ and were he to ladle out four times, he would be doing (what is done) for the gods: only once he silently turns it upside down (into the spoon), and thus makes it to be sacred to the Fathers.
मूलम् - Makoto
नो᳓न्नेष्या᳓मी᳓त्य् आ᳓ह ।॥
न᳓ चतु᳓र् उ᳓न्नयति य᳓द् धो᳓न्नेष्या᳓मी᳓ति ब्रूया᳓द् य᳓च् चतु᳓र् उन्न᳓येद् देवत्रा᳓ कुर्या᳓त् सकृ᳓द् एव᳓ तूष्णीं᳓ न्य᳙क् प᳓र्यस्यति पितृदेव᳓त्यम् एवै᳙नत् त᳓त् करोति ॥॥
१०
विश्वास-प्रस्तुतिः
नोप᳘रिष्टात्समि᳘धमभ्य᳘स्य हरति॥
य᳘द्धोप᳘रिष्टात्समि᳘धमभ्य᳘स्य ह᳘रेद्देवत्रा᳘ कुर्य्यादध᳘स्तादुपा᳘स्य हरति पितृदेव᳘त्यमे᳘वैनत्त᳘त्करोति[[!!]]॥
मूलम् - श्रीधरादि
नोप᳘रिष्टात्समि᳘धमभ्य᳘स्य हरति॥
य᳘द्धोप᳘रिष्टात्समि᳘धमभ्य᳘स्य ह᳘रेद्देवत्रा᳘ कुर्य्यादध᳘स्तादुपा᳘स्य हरति पितृदेव᳘त्यमे᳘वैनत्त᳘त्करोति[[!!]]॥
मूलम् - Weber
नोप᳘रिष्टात्समि᳘धमभ्य᳘स्य हरति ॥
य᳘द्धोप᳘रिष्टात्समि᳘धमभ्य᳘स्य ह᳘रेद्देवत्रा᳘ कुर्यादध᳘स्तादुपा᳘स्य हरति पितृदेव᳘त्यमेॗवैनत्त᳘त्करोति᳟᳟ ॥
मूलम् - विस्वरम्
नोपरिष्टात् समिधमभ्यस्य हरति । यद्धोपरिष्टात् समिधमभ्यस्य हरेत् । देवत्रा कुर्यात् । अधस्तादुपास्य हरति । पितृदेवत्यमेवैनत् तत्करोति ॥ १० ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- He does not take it (to the Āhavanīya) whilst holding a kindling-stick over (the handle of the spoon 8); for were he to take it (there) whilst holding a kindling-stick over it, he would be doing (what is done) for the gods: he takes it whilst holding (a billet) underneath, and thus makes it to be sacred to the Fathers.
मूलम् - Makoto
नो᳙प᳓रिष्टा᳓त् समि᳓धम् अभ्य᳓स्य हरति ।॥
य᳓द् धोप᳓रिष्टा᳓त् समि᳓धम् अभ्य᳓स्य ह᳓रेद् देवत्रा᳓ कुर्या᳓द् अध᳓स्ता᳓द् उपा᳓स्य हरति पितृदेव᳓त्यम् एवै᳙नत् त᳓त् करोति ॥॥
११
विश्वास-प्रस्तुतिः
नो᳘त्तरेण गा᳘र्हपत्यमेति॥
यद्धो᳘त्तरेण गा᳘र्हपत्यमिया᳘द्देवत्रा᳘ कुर्य्याद्द᳘क्षिणेन गा᳘र्हपत्यमेति पितृदेव᳘त्यमे᳘वैनत्त᳘त्करोति[[!!]]॥
मूलम् - श्रीधरादि
नो᳘त्तरेण गा᳘र्हपत्यमेति॥
यद्धो᳘त्तरेण गा᳘र्हपत्यमिया᳘द्देवत्रा᳘ कुर्य्याद्द᳘क्षिणेन गा᳘र्हपत्यमेति पितृदेव᳘त्यमे᳘वैनत्त᳘त्करोति[[!!]]॥
मूलम् - Weber
नो᳘त्तरेण गा᳘र्हपत्यमेति ॥
यद्धो᳘त्तरेण गा᳘र्हपत्यमिया᳘द्देवत्रा᳘ कुर्याद्द᳘क्षिणेन गा᳘र्हपत्यमेति पितृदेव᳘त्यमेॗवैनत्त᳘त्करोति᳟᳟ ॥
मूलम् - विस्वरम्
नोत्तरेण गार्हपत्यमेति । यद्धोत्तरेण गार्हपत्यमियात् । देवत्रा कुर्यात् । दक्षिणेन गार्हपत्यमेति । पितृदेवत्यमेवैनत् तत्करोति ॥ ११ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- He does not pass along the north side of the Gārhapatya 9, for were he to pass along the north
side of the Gārhapatya he would be doing (what is done) for the gods: he passes along the south side of the Gārhapatya, and thus makes it to be sacred to the Fathers.
मूलम् - Makoto
नो᳓त्तरेण गा᳓र्हपत्यम् एति ।॥
य᳓द् धो᳓त्तरेण गा᳓र्हपत्यम् इया᳓द् देवत्रा᳓ कुर्या᳓द् द᳓क्षिणेन गा᳓र्हपत्यम् एति प्तृदेव᳓त्यम् एवै᳙नत् त᳓त् करोति ॥॥
१२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ या᳘न्यमू᳘न्युदीची᳘नाग्राणि तृ᳘णानि भ᳘वन्ति॥
दक्षिणा᳘ग्ग्राणि ता᳘नि करोति पितृदेव᳘त्यमे᳘वैनत्त᳘त्करोत्य᳘थाहवनी᳘ये समि᳘धमभ्याधा᳘य सव्यञ्जान्वा᳘च्य सकृ᳘देव᳘ तूष्णी᳘न्न्यक्प᳘र्य्यस्यति पितृदेव᳘त्यमे᳘वैनत्त᳘त्करोति[[!!]] नो᳘दिङ्गयति नो᳘पमृष्टेन प्रा᳘श्नाति नो᳘दुक्षति पितृदेव᳘त्यमे᳘वैनत्त᳘त्करोति[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ या᳘न्यमू᳘न्युदीची᳘नाग्राणि तृ᳘णानि भ᳘वन्ति॥
दक्षिणा᳘ग्ग्राणि ता᳘नि करोति पितृदेव᳘त्यमे᳘वैनत्त᳘त्करोत्य᳘थाहवनी᳘ये समि᳘धमभ्याधा᳘य सव्यञ्जान्वा᳘च्य सकृ᳘देव᳘ तूष्णी᳘न्न्यक्प᳘र्य्यस्यति पितृदेव᳘त्यमे᳘वैनत्त᳘त्करोति[[!!]] नो᳘दिङ्गयति नो᳘पमृष्टेन प्रा᳘श्नाति नो᳘दुक्षति पितृदेव᳘त्यमे᳘वैनत्त᳘त्करोति[[!!]]॥
मूलम् - Weber
अ᳘थ या᳘न्यमू᳘न्युदीची᳘नाग्राणि तृ᳘णानि भ᳘वन्ति ॥
दक्षिणा᳘ग्राणि ता᳘नि करोति पितृदेव᳘त्यमेॗवैनत्त᳘त्करोत्य᳘थाहवनी᳘ये समि᳘धमभ्याधा᳘य सव्यं जान्वा᳘च्य सकृ᳘देव᳘ तूष्णींॗ न्यक्प᳘र्यस्यति पितृदेव᳘त्यमेॗवैनत्त᳘त्करोति᳟᳟ नो᳘दिङ्गयति 10 नो᳘पमृष्टे न प्रा᳘श्नाति नो᳘दुक्षति पितृदेव᳘त्यमेॗवैनत्त᳘त्करोति᳟᳟ ॥
मूलम् - विस्वरम्
अथ यान्यमून्युदीचीनाग्राणि तृणानि भवन्ति दक्षिणाग्राणि तानि करोति । पितृदेवत्यमेवैनत् तत्करोति । अथाहवनीये समिधमभ्याधाय । सव्यं जान्वाच्य । सकृदेव तूष्णीं न्यक् पर्यस्यति । पितृदेवत्यमेवैनत् तत्करोति । नोदिंगयति । नोपमृष्टेन प्राश्नाति । नोदुक्षति । पितृदेवत्यमेवैनत् तत्करोति ॥ १२ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And that sacrificial grass which (ordinarily) is lying with its tops towards the north he lays so as to have its tops towards the south, and thus makes (the offering) to be sacred to the Fathers. And having put a kindling-stick on the Āhavanīya, and bent his left knee, he silently turns (the ladle) once upside down (pouring the milk into the fire) and thus makes it to be sacred to the Fathers. He neither shakes (the spoon) upwards 11, nor wipes it, nor does he eat (the milk left in the spoon), nor does he throw it out: he thus makes it to be sacred to the Fathers.
मूलम् - Makoto
अ᳓थ या᳓न्य् अमू᳓न्य् उदीची᳓ना᳓ग्रा᳓णि तृ᳓णा᳓नि भ᳓वन्ति ।॥
दक्षिणा᳓ग्रा᳓णि ता᳓नि करोति पितृदेव᳓त्यम् एवै᳙नत् त᳓त् करोत्य् अ᳓था᳓हवनी᳓ये समि᳓धम् अभ्या᳓धा᳓य सव्यं᳓ जा᳓न्व् आ᳓च्य सकृ᳓द् एव᳓ तूष्णीं᳓ न्य᳙क् प᳓र्यस्यति पितृदेव᳓त्यम् एवै᳙नत् त᳓त् करोति नो᳓दिङ्गयति नो᳓पमृष्ते न᳓ प्रा᳓श्ना᳓ति नो᳓दुक्षति प्तृदेव᳓त्यम् एवै᳙नत् त᳓त् करोति ॥॥
१३
विश्वास-प्रस्तुतिः
त᳘दाहुः॥ (र्य्य᳘) य᳘देष᳘ दीर्घस᳘त्त्र्यग्निहोत्रञ्जु᳘ह्वत्प्रव᳘सन्म्रिये᳘त कथ᳘मेनमग्नि᳘भिः कुर्य्यु᳘रि᳘ति तᳫँ᳭ है᳘के ऽदग्ध्वा᳘ ऽऽहरन्ति तमा᳘हृतमग्नि᳘भिः स᳘ङ्घ्रापयन्ति त᳘दु त᳘था न᳘ कुर्य्याद्य᳘था ऽन्य᳘स्यां यो᳘नौ रे᳘तः सिक्तन्त᳘दन्य᳘स्यां प्रजि᳘जनयिषेत्तादृक्तद᳘स्थीन्येता᳘न्याहृ᳘त्य कृष्णाजिने न्यु᳘प्य पुरुषविधि᳘म्विधायो᳘र्ण्णाभिः प्रच्छाद्या᳘ज्येनाभिघार्य्य[[!!]] त᳘मग्नि᳘भिः समु᳘पोषेत्त᳘देनᳫँ᳭ स्वाद्यो᳘नेः प्र᳘जनयती᳘ति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥ (र्य्य᳘) य᳘देष᳘ दीर्घस᳘त्त्र्यग्निहोत्रञ्जु᳘ह्वत्प्रव᳘सन्म्रिये᳘त कथ᳘मेनमग्नि᳘भिः कुर्य्यु᳘रि᳘ति तᳫँ᳭ है᳘के ऽदग्ध्वा᳘ ऽऽहरन्ति तमा᳘हृतमग्नि᳘भिः स᳘ङ्घ्रापयन्ति त᳘दु त᳘था न᳘ कुर्य्याद्य᳘था ऽन्य᳘स्यां यो᳘नौ रे᳘तः सिक्तन्त᳘दन्य᳘स्यां प्रजि᳘जनयिषेत्तादृक्तद᳘स्थीन्येता᳘न्याहृ᳘त्य कृष्णाजिने न्यु᳘प्य पुरुषविधि᳘म्विधायो᳘र्ण्णाभिः प्रच्छाद्या᳘ज्येनाभिघार्य्य[[!!]] त᳘मग्नि᳘भिः समु᳘पोषेत्त᳘देनᳫँ᳭ स्वाद्यो᳘नेः प्र᳘जनयती᳘ति॥
मूलम् - Weber
त᳘दाहुः ॥ य᳘देष᳘ दीर्घसॗत्त्र्यग्निहोत्रं जु᳘ह्वत्प्रव᳘सन्म्रिये᳘त कथ᳘मेनमग्नि᳘भिः कुर्युरि᳘ति तᳫं है᳘के दग्ध्वा᳘हरन्ति तमा᳘हृतमग्नि᳘भिः सं᳘घ्रापयन्ति त᳘दु त᳘था न᳘ कुर्याद्य᳘थान्य᳘स्यां यो᳘नौ रे᳘तः सिक्तं त᳘दन्य᳘स्यां प्रजि᳘जनयिषेत्तादृक्तद᳘स्थीन्येता᳘न्याहृ᳘त्य कृष्णाजिने न्यु᳘प्य पुरुषविधि᳘ विधायो᳘र्णाभिः प्रछाद्या᳘ज्येनाभिघा᳘र्य त᳘मग्नि᳘भिः समु᳘पोषेत्त᳘देनᳫं स्वाद्यो᳘नेः प्र᳘जनयती᳘ति 12 ॥
मूलम् - विस्वरम्
तदाहुः- यदेष दीर्घसत्र्यग्निहोत्रं जुह्वत् प्रवसन् म्रियेत । कथमेनमग्निभिः कुर्युरिति । तं हैके ऽदग्ध्वा ऽऽहरन्ति । तमाहृतमग्निभिः संघ्रापयन्ति । तदु तथा न कुर्यात् । यथा ऽन्यस्यां योनौ रेतः सिक्तम् । तदन्यस्यां प्रजिजनयिषेत् । तादृक्तत् । अस्थीन्येतान्याहृत्य । कृष्णाजिने न्युप्य । पुरुषविधिं विधाय । ऊर्णाभिः प्रच्छाद्य । आज्येनाभिघार्य । तमग्निभिः समुपोषेत् । तदेनं स्वाद्योनेः प्रजनयतीति ॥ १३ ॥
हरिस्वामी
‘तदाहुर्यत्’ एताभिः पञ्चभिः कण्डिकाभिः अदग्ध्वा ऽऽहृतस्य दाहकल्प एकैः विधीयते । तस्यैव निरसनं कुर्वन्त्यन्ये । संघ्रापयन्ति “घ्रा गन्धोपादाने" (धा. पा. भ्वा. प. ९५१) दग्धप्राय एव । पुनर्मृता गृह्यन्तीत्येवं संघ्रापणेन लक्ष्यते । प्रजिजनयिषेत् । प्रजनयितुमिच्छेत् । तं समुपोषेत् । “उष दाहे” (धा. पा. भ्वा. प. ६९०) । “तं हैके प्रवसन्म्रियेत” इत्युक्तविधानमुक्तम् । अतः प्रवसति अन्ये (वृत्तं वधा ?) “दीर्घसत्त्र्यग्निहोत्रं जुह्वत्प्रवसन् म्रियेत कथमेनमग्निभिः कुर्युः” इत्येतावदनिविवर्तते ऽतश्च प्रोषितविषयो ऽयं पक्षः । तत्र पञ्चदाहपक्षान् दूषयित्वा “इत्थमेव कुर्यात्” (श. प. १२ । ५ । २ । ३) इत्युपसंहारे उल्मुक्येन स समत्तोः संभक्षयः (नुर्मास्वरः ?) । प्रदग्धोः प्रदग्धः । अभिमन्तोरभिमन्तुमर्हः । मध्ये अयमग्निर्ग्रामस्य अग्निसमूहस्य आशसनम् । “शसु हिंसायाम्” (धा. पा. भ्वा. प. ७२८) इति । आशस्यते आलभ्यते दह्यते प्रेतो ऽस्मिन्नित्याशसनम् । प्रियतमं पुत्रादिमेव आत्मनः रोत्स्यति मरणायति । तथा कात्यायनो ऽसूत्रयत् । “प्रोषितश्चेत्प्रेयात् प्राचीनावीती निवान्यां दुग्ध्वा दक्षिणतो ऽधिश्रियणोद्वासने । तत एव हरणम् । अधस्तात् समिधं धारयन् । उदगग्रान् कुशान् दक्षिणाग्रान् कृत्वा । सकृद्वा पितृवत् पर्यस्य । शरीराण्याहृत्य कृष्णाजिने पुरुषविधिं विधायोर्णाभिः प्रच्छाद्याज्येनाभिघार्य पूर्ववद्दाहः” (का. श्रौ. सू. २५ । १९८-२०३) इति ॥ १३- १७॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे पञ्चमे ऽध्याये प्रथमं ब्राह्मणम् ॥ १२ । ५ । १ ॥
Eggeling
- They also say, ‘If that performer of a long sacrificial session–to wit, he who (regularly) offers the Agnihotra–were to die whilst staying abroad, how would they supply him with his fires?’ Well, some, having burnt him, bring (the bones) home and make the fires smell him as he is brought; but let him not do this, for this would be as if he were to seek to cause the seed implanted in one womb to be born forth from another womb. Having brought home the bones, let him throw them on a black antelope skin, and arrange them in accordance with man’s form, and having covered them with wool and sprinkled with ghee, let him by burning unite him
with his fires: he thus causes him to be born from his own (maternal) womb.
मूलम् - Makoto
त᳓द् आ᳓हुः ।॥
य᳓द् एष᳓ दीर्घसत्त्र्य् अ᳙ग्निहोत्रं᳓ जु᳓ह्वत् प्रव᳓सन् म्रिये᳓त कथ᳓म् एनम् अग्नि᳓भिः कुर्युर् इ᳓ति तँ᳓ है᳓के दग्ध्वा᳓हरन्ति त᳓म् आ᳓हृतम् अग्नि᳓भिः सं᳓घ्रा᳓पयन्ति त᳓द् उ त᳓था᳓ न᳓ कुर्या᳓द् य᳓था᳓न्य᳓स्यां᳓ यो᳓नौ रे᳓तः सिक्तं᳓ त᳓द् अन्य᳓स्य प्रजि᳓जनयिषेत् ता᳓दृ᳓क् त᳓द् अ᳓स्थीन्य् एता᳓न्य् आ᳓हृ᳓त्य कृष्णा᳓जिने᳓ न्यु᳓प्य पुरुषविधि᳓ विधा᳓यो᳓र्णा᳓भिः प्रछा᳓द्या᳓ज्येना᳓भिघा᳓र्य त᳓म् अग्नि᳓भिः समु᳓पोषेत् त᳓द् एनँ स्वा᳓द् यो᳓नेः प्र᳓जनयती᳓ति ॥॥
१४
विश्वास-प्रस्तुतिः
तᳫँ᳭ है᳘के ग्ग्रामाग्नि᳘ना दहन्ति॥
त᳘दु त᳘था न᳘ कुर्य्यादेष वै᳘ व्विश्वा᳘त्क्रव्व्या᳘दग्निः स᳘ हैनमीश्वरः स᳘पुत्रᳫँ᳭ स᳘पशुᳫँ᳭ स᳘मत्तोः॥
मूलम् - श्रीधरादि
तᳫँ᳭ है᳘के ग्ग्रामाग्नि᳘ना दहन्ति॥
त᳘दु त᳘था न᳘ कुर्य्यादेष वै᳘ व्विश्वा᳘त्क्रव्व्या᳘दग्निः स᳘ हैनमीश्वरः स᳘पुत्रᳫँ᳭ स᳘पशुᳫँ᳭ स᳘मत्तोः॥
मूलम् - Weber
तᳫं है᳘के ग्रामाग्नि᳘ना दहन्ति 13 ॥
त᳘दु त᳘था न᳘ कुर्यादेष वै᳘ विश्वा᳘त्क्रव्या᳘दग्निः स᳘ हैनमीश्वरः स᳘पुत्रᳫं स᳘पशुᳫं स᳘मत्तोः 14 ॥
मूलम् - विस्वरम्
तं हैके- ग्रामाग्निना दहन्ति । तदु तथा न कुर्यात् । एष वै विश्वात् क्रव्यादग्निः । स हैनमीश्वरः सपुत्रं सपशुं समत्तोः ॥ १४ ॥
हरिस्वामी
[व्याख्यानं त्रयोदशे]
Eggeling
- And some, indeed, burn him in (ordinary) fire (procured) in the village; but let him not do this, for such fire is a promiscuous eater, an eater of raw flesh: it would be capable of devouring him completely, together with his sons and his cattle.
मूलम् - Makoto
तँ᳓ है᳓के ग्रा᳓मा᳓ग्नि᳓ना᳓ दहन्ति ।॥
त᳓द् उ त᳓था᳓ न᳓ कुर्या᳓द् एष᳓ वै᳓ विश्वा᳓त् क्रव्या᳓द् अग्निः᳓ स᳓ हैनम् ईश्वरः᳓ स᳓पुत्रँ स᳓पशुँ स᳓मत्तोः ॥॥
१५
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ है᳘के प्रद᳘व्व्येन दहन्ति॥
त᳘दु त᳘था न᳘ कुर्य्यादेष वा ऽअ᳘शान्तो ऽग्निः स᳘ नैह᳘मीश्वरः स᳘पुत्रᳫँ᳭ स᳘पशुम्प्र᳘दग्धोः॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ है᳘के प्रद᳘व्व्येन दहन्ति॥
त᳘दु त᳘था न᳘ कुर्य्यादेष वा ऽअ᳘शान्तो ऽग्निः स᳘ नैह᳘मीश्वरः स᳘पुत्रᳫँ᳭ स᳘पशुम्प्र᳘दग्धोः॥
मूलम् - Weber
अ᳘थ है᳘के प्रद᳘व्येन दहन्ति ॥
त᳘दु त᳘था न᳘ कुर्यादेष वाऽअ᳘शान्तोऽग्निः स᳘ हैनमीश्वरः स᳘पुत्रᳫं स᳘पशुं प्र᳘दग्धोः ॥
मूलम् - विस्वरम्
अथ हैके- प्रदव्येन दहन्ति । तदु तथा न कुर्यात् । एष वा अशान्तो ऽग्निः । स हैनमीश्वरः सपुत्रं सपशुं प्रदग्धोः ॥ १५ ॥
हरिस्वामी
[व्याख्यानं त्रयोदशे]
Eggeling
- And some, indeed, burn him in a forest-fire; but let him not do this; for such fire is unappeased: it would be capable of burning him up together with his sons and his cattle.
मूलम् - Makoto
अ᳓थ है᳓के प्रद᳓व्येन दहन्ति ।॥
त᳓द् उ त᳓था᳓ न᳓ कुर्या᳓द् एष᳓ वा᳓ अ᳓शा᳓न्तो ऽग्निः᳓ स᳓ हैनम् ईश्वरः᳓ स᳓पुत्रँ स᳓पशुं प्र᳓दग्धोः ॥॥
१६
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ है᳘ कऽउल्मु᳘क्येन दहन्ति॥
त᳘दु त᳘था न᳘ कुर्य्यादेष वै᳘ रुद्रि᳘यो ऽग्निः स᳘ हैनमीश्वरः स᳘पुत्रᳫँ᳭ स᳘पशुमभि᳘मन्तोः॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ है᳘ कऽउल्मु᳘क्येन दहन्ति॥
त᳘दु त᳘था न᳘ कुर्य्यादेष वै᳘ रुद्रि᳘यो ऽग्निः स᳘ हैनमीश्वरः स᳘पुत्रᳫँ᳭ स᳘पशुमभि᳘मन्तोः॥
मूलम् - Weber
अ᳘थ है᳘कऽउल्मुॗक्येन दहन्ति ॥
त᳘दु त᳘था न᳘ कुर्यादेष वै᳘ रुद्रि᳘योऽग्निः स᳘ हैनमीश्वरः स᳘पुत्रᳫं स᳘पशुंमभि᳘मन्तोः ॥
मूलम् - विस्वरम्
अथ हैके- उल्मुक्येन दहंन्ति । तदु तथा न कुर्यात् । एष वै रुद्रियो ऽग्निः । स हैनमीश्वरः सपुत्रं सपशुमभिमन्तोः ॥ १६ ॥
हरिस्वामी
[व्याख्यानं त्रयोदशे]
Eggeling
- And some, indeed, burn him in a firebrand; but let him not do this; for such fire belongs to Rudra: it would be capable of destroying him together with his sons and his cattle.
मूलम् - Makoto
अ᳓थ है᳓क उल्मुक्ये᳙न दहन्ति ।॥
त᳓द् उ त᳓था᳓ न᳓ कुर्या᳓द् एष᳓ वै᳓ रुद्रि᳓यो ऽग्निः᳓ स᳓ हैनम् ईश्वरः᳓ स᳓पुत्रँ स᳓पशुम् अभि᳓मन्तोः ॥॥
१७
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ हैके᳘ ऽन्तरेणाग्नींश्चि᳘तिञ्चित्वा᳘॥
त᳘मग्नि᳘भिः समु᳘पोषन्त्येतद्वै य᳘जमानस्याय᳘तनं यद᳘न्तरेणाग्नीनि᳘ति त᳘दु त᳘था न᳘ कुर्य्याद्यो᳘ हैनन्त᳘त्र ब्रूयान्म᳘ध्ये न्वा᳘ ऽअयङ्ग्रा᳘मस्याश᳘सनमजीजनत क्षि᳘प्रे ऽस्याश᳘सनञ्जनिष्य᳘ते प्रिय᳘तमᳫँ᳭ रोत्स्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्या᳘त्॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ हैके᳘ ऽन्तरेणाग्नींश्चि᳘तिञ्चित्वा᳘॥
त᳘मग्नि᳘भिः समु᳘पोषन्त्येतद्वै य᳘जमानस्याय᳘तनं यद᳘न्तरेणाग्नीनि᳘ति त᳘दु त᳘था न᳘ कुर्य्याद्यो᳘ हैनन्त᳘त्र ब्रूयान्म᳘ध्ये न्वा᳘ ऽअयङ्ग्रा᳘मस्याश᳘सनमजीजनत क्षि᳘प्रे ऽस्याश᳘सनञ्जनिष्य᳘ते प्रिय᳘तमᳫँ᳭ रोत्स्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्या᳘त्॥
मूलम् - Weber
अ᳘थ हैके᳘ऽन्तरेणाग्नींश्चि᳘तिं चित्वा᳟ ॥
त᳘मग्नि᳘भिः समु᳘पोषन्त्येतद्वै य᳘जमानस्याय᳘तनं यद᳘न्तरेणाग्नीनि᳘ति त᳘दु त᳘था न᳘ कुर्याद्यो᳘ हैनं त᳘त्र ब्रूयान्म᳘ध्ये न्वा᳘ऽअयं ग्रा᳘मस्याश᳘सनमजीजनत क्षिॗप्रेऽस्याश᳘सनं 15 जनिष्य᳘ते प्रिय᳘तमᳫं रोत्स्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्या᳘त् ॥ ७ [५.१.] ॥ ॥
मूलम् - विस्वरम्
अथ हैके- अन्तरेणाग्नींश्चितिं चित्वा तमग्निभिः समुपोषन्ति । एतद्वै यजमानस्यायतनम् । यदन्तरेणाग्नीनिति । तदु तथा न कुर्यात् । यो हैनं तत्र ब्रूयात् । मध्ये न्वा अयं ग्रामस्याशसनमजीजनत । क्षिप्रे ऽस्याशसनं जनिष्यते । प्रियतमं रोत्स्यतीति । ईश्वरो ह तथैव स्यात् ॥ १७ ॥
हरिस्वामी
[व्याख्यानं त्रयोदशे]
Eggeling
- And some, indeed, build up a funeral pile in the midst of the (three) fires, and, by burning him, unite him with his fires, thinking, ‘There,–to wit, in the midst of his fires,–assuredly is the Sacrificer’s abode.’ But let him not do this; for if in that case any one were to say of him, ‘Verily, this one has caused a cutting up in the middle of the village: the cutting up of him will speedily come about 16: he will weep for his dearest;’ then that would indeed be likely to come to pass.
मूलम् - Makoto
अ᳓थ है᳓के᳓ ऽन्तरेणा᳓ग्नीं᳓श् चि᳓तिं चित्वा᳓ ।॥
त᳓म् अग्नि᳓भिः समु᳓पोषन्त्य् एत᳓द् वै᳓ य᳓जमा᳓नस्या᳓य᳓तनं य᳓द् अ᳓न्तरेणा᳓ग्नी᳓न् इ᳓ति त᳓द् उ त᳓था᳓ न᳓ कुर्या᳓द् यो᳓ हैनं त᳓त्र ब्रूया᳓न् म᳓ध्ये न्वा᳓ अयं᳓ ग्रा᳓मस्या᳓श᳓सनम् अजीजनत क्षिप्रे᳙ ऽस्या᳓श᳓सनं जनिष्य᳓ते प्रिय᳓तमँ रोत्स्यती᳓तीश्वरो᳓ ह त᳓थैव᳓ स्या᳓त् ॥॥
-
197:1 Prof. Delbrück, Altind. Syntax, p. 430, takes ‘āgantoḥ’ in the sense,–’(thinking) he may still come;’ but cf. Katy. XXV, 8, 9 with comm., according to which, in case of an Agnihotrin dying away from home, his people are–if the place of his death be somewhere near his home–to take the body there; but if it be far from home, they are to kindle a fire by ‘churning’ and burn the body, and having collected the bones and taken them home, they are there to perform the punardāha, or second cremation; and in either case the Agnihotra is to be performed regularly for the deceased, in the evening and morning, ’till the body or the bones arrive at the house (gr̥hāgamanaparyantam).’ The force of ‘iti’ here evidently is,–(thinking,) ‘we will do so until the home-coming.’ Harisvāmin rightly resolves ‘āgantoḥ’ by ‘ā āgantoḥ.’ ↩︎
-
नि᳘र्मंथंति त᳘था A. ↩︎
-
198:1 That is, wearing the Brāhmaṇical cord over the right shoulder, and under the left arm; instead of over the left shoulder, and under the right arm as is done at the sacrifice. ↩︎
-
198:2 For boiling the milk for the Agnihotra burning coals are shifted northwards from the Gārhapatya, and the pot placed thereon; see part i, p. 330, note. ↩︎
-
199:1 When a spoonful of water has been added to the Agnihotra-milk, and the light of a burning straw again thrown on it, the pot is taken up three several times and put down each time further north on the hot ashes; see part i, p. 331, note 1. ↩︎
-
199:2 That is, down from the ashes–towards the south (where the Fathers, or departed ancestors, are supposed to reside),–whilst in the case of the ordinary Agnihotra he would be shifting the pot more and more upwards, or northwards. Cf. Kāty. XXV, 8, 10. ↩︎
-
199:3 See XII, 4, 2, 8. ↩︎
-
199:4 See part i, p. 331, note 4. ↩︎
-
199:5 Possibly we ought to translate,–he does not go to the north side of the Gārhapatya (but to the south side)–that is, if he makes two oblations, not only on the Āhavanīya, but also on the Gārhapatya (as well as on the Dakshiṇāgni), in which case the Adhvaryu would be standing north (or rather north-west) of the fire. Cf. Kāty. IV, 14, 22-25. ↩︎
-
नो᳘हिंगति A. ↩︎
-
200:1 Ordinarily, after the second libation, the priest twice jerks the spoon upwards, and then lays it down on a bunch of grass. ↩︎
-
प्रजि᳘जनयिषे᳘त्ता॰ A.P.M. ↩︎
-
द᳘हं᳘ति A. ↩︎
-
स᳘मतोः A. स᳘मंतोः P. स᳘मत्तोः M. ↩︎
-
क्षि᳘प्रेऽस्याश᳘नं A. ↩︎
-
201:1 The burning of the dead body seems to be compared here with the cutting up of the victim which is done outside the sacrificial ground. Harisvāmin, indeed, takes ‘grāma’ here, not in the sense of ‘village,’ but in that of ‘agnisamūha’–in the midst of the (set of) sacrificial fires–which, if it were possible, would certainly make the comparison even more striking. ↩︎