०१

विश्वास-प्रस्तुतिः

अ᳘थ प्रातर्भ᳘स्मान्युद्धृ᳘त्य॥
गोम᳘येनालि᳘प्यार᳘ण्योरेवाग्नी᳘[[!!]] समारो᳘ह्य प्रत्य᳘वस्यति मथित्वा गा᳘र्हपत्यमुद्धृ᳘त्याहवनी᳘यमाहृ᳘त्यान्वाहार्य्यप᳘चनमग्न᳘ये पथिकृ᳘ते ऽष्टा᳘कपालम्पुरोडा᳘शन्नि᳘र्व्वपेत्त᳘स्यावृत्ता᳘ ऽएव᳘ सप्त᳘दश सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्रघ्नावा᳘ज्यभागौ व्विरा᳘जौ संय्या᳘ज्ये ऽअ᳘थैते᳘ याज्या ऽनुवा᳘क्ये व्वे᳘त्था हि᳘ व्वेधो ऽअ᳘ध्वनः पथ᳘श्च देवा᳘ञ्जसा। अ᳘ग्ने यज्ञे᳘षु सुक्रतवित्य᳘थ याज्या᳘ देवा᳘नाम᳘पि पं᳘थामगन्म य᳘च्छक्न᳘वाम तद᳘नुप्र᳘वोढुम्[[!!]]। अग्नि᳘र्व्विद्वान्त्स᳘ यजात्से᳘दु हो᳘तासो᳘ ऽअध्वरान्त्स᳘ ऽऋतू᳘न्कल्पयाती᳘त्यग्निर्व्वै᳘ पथिकृ᳘त्पथा᳘मपिनेता स᳘ ऽए᳘वैनं यज्ञपथम᳘पिनयत्येत᳘देव[[!!]] त᳘त्र क᳘र्म्म॥

मूलम् - श्रीधरादि

अ᳘थ प्रातर्भ᳘स्मान्युद्धृ᳘त्य॥
गोम᳘येनालि᳘प्यार᳘ण्योरेवाग्नी᳘[[!!]] समारो᳘ह्य प्रत्य᳘वस्यति मथित्वा गा᳘र्हपत्यमुद्धृ᳘त्याहवनी᳘यमाहृ᳘त्यान्वाहार्य्यप᳘चनमग्न᳘ये पथिकृ᳘ते ऽष्टा᳘कपालम्पुरोडा᳘शन्नि᳘र्व्वपेत्त᳘स्यावृत्ता᳘ ऽएव᳘ सप्त᳘दश सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्रघ्नावा᳘ज्यभागौ व्विरा᳘जौ संय्या᳘ज्ये ऽअ᳘थैते᳘ याज्या ऽनुवा᳘क्ये व्वे᳘त्था हि᳘ व्वेधो ऽअ᳘ध्वनः पथ᳘श्च देवा᳘ञ्जसा। अ᳘ग्ने यज्ञे᳘षु सुक्रतवित्य᳘थ याज्या᳘ देवा᳘नाम᳘पि पं᳘थामगन्म य᳘च्छक्न᳘वाम तद᳘नुप्र᳘वोढुम्[[!!]]। अग्नि᳘र्व्विद्वान्त्स᳘ यजात्से᳘दु हो᳘तासो᳘ ऽअध्वरान्त्स᳘ ऽऋतू᳘न्कल्पयाती᳘त्यग्निर्व्वै᳘ पथिकृ᳘त्पथा᳘मपिनेता स᳘ ऽए᳘वैनं यज्ञपथम᳘पिनयत्येत᳘देव[[!!]] त᳘त्र क᳘र्म्म॥

मूलम् - Weber

अ᳘थ प्रातर्भ᳘स्मान्युद्धृ᳘त्य ॥
गोम᳘येनालि᳘प्यार᳘ण्योरेॗवाग्नी᳘ समारो᳘ह्य प्रत्य᳘वस्यति मथित्वा गा᳘र्हपत्यमुद्धृ᳘त्याहवनी᳘यमाहृ᳘त्यान्वाहार्यप᳘चनमग्न᳘ये पथिकृ᳘तेऽष्टा᳘कपालं पुरोडा᳘शं नि᳘र्वपेत्त᳘स्यावृत्ता᳘ एव᳘ सप्त᳘दश सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्रघ्नावा᳘ज्यभागौ विरा᳘जौ संयाॗज्येऽअ᳘थैते᳘ याज्यानुवाॗक्ये वे᳘त्था हि᳘ वेधोऽअ᳘ध्वनः पथ᳘श्च देवा᳘ञ्जसा अ᳘ग्ने यज्ञे᳘षु सुक्रतवित्य᳘थ याज्या᳘ देवा᳘नाम᳘पि प᳘न्थामगन्म य᳘च्छक्न᳘वाम त᳘दनुप्र᳘वोढुम् अग्नि᳘र्विद्वान्त्स᳘ यज्ञात्से᳘द हो᳘ता सो᳘ऽअध्वरान्त्स᳘ ऋतू᳘न्कल्पयाती᳘त्यग्निर्वै᳘ पथिकृ᳘त्पथा᳘मपिनेता स᳘ एॗवैनं यज्ञपथमपिनयत्येत᳘देव᳘ त᳘त्र क᳘र्म ॥

मूलम् - विस्वरम्
हरिस्वामी

अथ प्रातर्भस्मान्युद्धृत्य, गोमयेनालिप्य, अरण्योरेवाग्नी समारोह्य प्रत्यवस्यति । मथित्वा गार्हपत्यम्, उद्धृत्याहवनीयम्, आहृत्यान्वाहार्यपचनम्, अग्नये 1 पथिकृते ऽष्टाकपालं पुरोडाशं निर्वपेत् । तस्यावृत् । ता एव सप्तदश सामिधेनीरनुब्रूयात् । वार्त्रघ्नावाज्यभागौ । विराजौ संयाज्ये । अथैते याज्यानुवाक्ये- “वेत्था हि वेधो अध्वनः पथश्च देवांजसा । अग्ने यज्ञेषु सुक्रतो”- इति । अथ याज्या- “देवानामपि पन्थामगन्म यच्छक्रवाम तदनु प्रवोढुम् । अग्निर्विद्वान्त्स यजात्सेदु होतासो अध्वरान्त्स ऋतून्कल्पयाति”- इति । अग्निर्वै पथिकृत् । पथामपि नेता । स एवैनं यज्ञपथमपिनयति । एतदेव तत्र कर्म ॥ १ ॥

Eggeling
  1. And, in the morning, having taken out the ashes, and smeared (the fire-places) with cow-dung, he lifts the two fires on the churning-sticks, and returns (to the offering-ground). Having then churned out the Gārhapatya, taken out the Āhavanīya, and brought the Anvāhārya-pacana (to the southern hearth), he should prepare a cake on eight potsherds to Agni Pathikr̥t (the path-maker). The course of procedure thereof (is as follows):–he should recite those same seventeen kindling-verses; the two butter-portions relate to the slaying of Vr̥tra 2; the saṁyājyās are two Virāj verses 2; and the invitatory and offering formulas are as follows:–(the anuvākyā, R̥g-veda VI, 16, 3), ‘For thou, most wise Agni, divine disposer, readily knowest the ways and paths at sacrifices;’ and the yājyā (R̥g-veda X, 2, 3), ‘We have entered upon the path of the gods to carry on what we can do: the wise Agni shall sacrifice,

he shall be the priest, he shall order the sacrifices and their seasons;’ for Agni is the path-maker, the guide of paths: he, verily, guides him upon the path of sacrifice. This, then, is the rite performed in that case.

मूलम् - Makoto

अ᳓थ प्रा᳓त᳓र् भ᳓स्मा᳓न्य् उद्धृ᳓त्य ।॥
गोम᳓येना᳓लि᳓प्या᳓र᳓ण्योर् एवा᳙ग्नी᳓ समा᳓रो᳓ह्य प्रत्य᳓वस्यति मथित्वा᳓ गा᳓र्हपत्यम् उद्धृ᳓त्या᳓हवनीयम् आ᳓हृ᳓त्या᳓न्वा᳓हा᳓र्यप᳓चनम् अग्न᳓ये पथिकृ᳓ते ऽष्टा᳓कपा᳓लं पुरोडा᳓शं नि᳓र्वपेत् त᳓स्या᳓वृ᳓त् ता᳓ एव᳓ सप्त᳓दश सा᳓मिधेनी᳓र् अ᳓नुब्रूया᳓द् वा᳓र्त्रघ्ना᳓व् आ᳓ज्यभा᳓गौ विरा᳓जौ संया᳓ज्ये᳙ अ᳓थैते᳓ या᳓ज्या᳓नुवा᳓क्ये᳙ वे᳓त्था᳓ हि᳓ वेधो᳓ अ᳓ध्वनः पथ᳓श् च देवा᳓ञ्जसा᳓ अ᳓ग्ने यज्ञे᳓षु सुक्रतव् इ᳓त्य् अ᳓थ या᳓ज्या᳓ देवा᳓ना᳓म् अ᳓पि प᳓न्था᳓म् अगन्म य᳓च् छक्न᳓वा᳓म त᳓द् अनुप्र᳓वोढुम् अग्नि᳓र् विद्वा᳓न्त् स᳓ यज्ञा᳓त् से᳓द् उ हो᳓ता᳓ सो᳓ अध्वरा᳓न्त् स᳓ ऋतू᳓न् कल्पया᳓ती᳓त्य् अग्नि᳓र् वै᳓ पथिकृ᳓त् पथा᳓म् अपिनेता᳓ स᳓ एवै᳙नं यज्ञपथ᳓म् अ᳓पिनयत्य् एत᳓द् एव᳓ त᳓त्र क᳓र्म ॥॥

०२

विश्वास-प्रस्तुतिः

त᳘दाहुः॥ (र्य्य᳘) य᳘स्याग्न᳘यः सᳫँ᳭सृज्ये᳘रन्किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘ति स य᳘दि पर᳘स्ताद᳘हं न भीयात्त᳘द्विद्यात्पर᳘स्तान्मा शुक्रमा᳘गन्नु᳘पमा᳘न्देवाः प्रा᳘भूवञ्छ्रे᳘यान्भविष्यामी᳘ति य᳘द्यु ऽअस्य हृ᳘दय᳘म्व्येव᳘ लिखे᳘दग्न᳘ये व्वि᳘विचये ऽष्टा᳘कपालम्पुरोडा᳘शन्नि᳘र्व्वपेत्त᳘स्यावृ᳘त्ता᳘ ऽएव᳘ सप्तदश[[!!]] सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्रघ्नावा᳘ज्यभागौ व्विरा᳘जौ संय्या᳘ज्ये ऽअ᳘थैते᳘ याज्या ऽनुवा᳘क्ये वि᳘ ते व्वि᳘ष्वग्वा᳘तजूतासो ऽअग्ने भा᳘मासः शुचे शु᳘चयश्चरन्ति। तुविम्म्रक्षा᳘सो दिव्या न᳘वग्वा व्व᳘ना व्वनन्ति धृषता᳘ रुज᳘न्त ऽइत्य᳘थ या᳘ज्या त्वा᳘मग्ने मा᳘नुषीरीडते व्वि᳘शो होत्राविदम्वि᳘विचिᳫँ᳭[[!!]] रत्नधा᳘तमम्। गु᳘हा स᳘न्तᳫँ᳭ सुभग व्विश्व᳘दर्शतन्तुविष्वण᳘सᳫँ᳭ सुय᳘जङ्घृतश्रि᳘यमित्य᳘थो ह यो᳘ द्विषतो भ्रा᳘तृव्व्याद्व्यावि᳘वृत्सेत त᳘त्काम ऽएत᳘या यजेत वि᳘ है᳘वास्माद्वर्त्तत ऽएत᳘देव त᳘त्र क᳘र्म्म॥

मूलम् - श्रीधरादि

त᳘दाहुः॥ (र्य्य᳘) य᳘स्याग्न᳘यः सᳫँ᳭सृज्ये᳘रन्किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘ति स य᳘दि पर᳘स्ताद᳘हं न भीयात्त᳘द्विद्यात्पर᳘स्तान्मा शुक्रमा᳘गन्नु᳘पमा᳘न्देवाः प्रा᳘भूवञ्छ्रे᳘यान्भविष्यामी᳘ति य᳘द्यु ऽअस्य हृ᳘दय᳘म्व्येव᳘ लिखे᳘दग्न᳘ये व्वि᳘विचये ऽष्टा᳘कपालम्पुरोडा᳘शन्नि᳘र्व्वपेत्त᳘स्यावृ᳘त्ता᳘ ऽएव᳘ सप्तदश[[!!]] सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्रघ्नावा᳘ज्यभागौ व्विरा᳘जौ संय्या᳘ज्ये ऽअ᳘थैते᳘ याज्या ऽनुवा᳘क्ये वि᳘ ते व्वि᳘ष्वग्वा᳘तजूतासो ऽअग्ने भा᳘मासः शुचे शु᳘चयश्चरन्ति। तुविम्म्रक्षा᳘सो दिव्या न᳘वग्वा व्व᳘ना व्वनन्ति धृषता᳘ रुज᳘न्त ऽइत्य᳘थ या᳘ज्या त्वा᳘मग्ने मा᳘नुषीरीडते व्वि᳘शो होत्राविदम्वि᳘विचिᳫँ᳭[[!!]] रत्नधा᳘तमम्। गु᳘हा स᳘न्तᳫँ᳭ सुभग व्विश्व᳘दर्शतन्तुविष्वण᳘सᳫँ᳭ सुय᳘जङ्घृतश्रि᳘यमित्य᳘थो ह यो᳘ द्विषतो भ्रा᳘तृव्व्याद्व्यावि᳘वृत्सेत त᳘त्काम ऽएत᳘या यजेत वि᳘ है᳘वास्माद्वर्त्तत ऽएत᳘देव त᳘त्र क᳘र्म्म॥

मूलम् - Weber

त᳘दाहुः ॥ य᳘स्याग्न᳘यः सᳫंसृज्ये᳘रन्किं त᳘त्र क᳘र्म का प्रा᳘यश्चित्तिरि᳘ति स य᳘दि पर᳘स्ताद्द᳘हन्नभीयात्त᳘द्विद्यात्पर᳘स्तान्मा शुक्रमा᳘गन्नु᳘प मां᳘ देवाः प्रा᳘भूवञ्छ्रे᳘यान्भविष्यामी᳘ति य᳘द्युऽअस्य हृ᳘दॗयं व्येव᳘ लिखे᳘दग्न᳘ये वि᳘विचयेऽष्टा᳘कपालं पुरोडा᳘शं नि᳘र्वपेत्त᳘स्यावृ᳘त्ता᳘ एव᳘ सप्त᳘दश सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्रघ्नावा᳘ज्यभागौ विरा᳘जौ संयाॗज्येऽअ᳘थैते᳘ याज्यानुवाॗक्ये वि᳘ ते वि᳘ष्वग्वा᳘तजूतासोऽअग्ने भा᳘मासः शुचे शु᳘चयश्चरन्ति तुविम्रक्षा᳘सो 3 दिव्या न᳘वग्वा व᳘नावनन्ति धृषता᳘ रुज᳘न्त इत्य᳘थ याॗज्या त्वा᳘मग्ने मा᳘नुषीरीडते वि᳘शो होत्रावि᳘दं वि᳘विचिᳫं रत्नधा᳘तमम् गु᳘हा स᳘न्तᳫं सुभग विश्व᳘दर्शतं तुविष्वण᳘सᳫं सुय᳘जं घृतश्रि᳘यमित्य᳘थो ह यो᳘ द्विषतो भ्रा᳘तृव्याद्व्यावि᳘वृत्सेत त᳘त्काम एत᳘या यजेत वि᳘ हैॗवास्माद्वर्तत एत᳘देव त᳘त्र क᳘र्म ॥

मूलम् - विस्वरम्
हरिस्वामी

तदाहुः- यस्याग्नयः संसृज्येरन् 4 । किं तत्र कर्म । का प्रायश्चित्तिरिति । स यदि परस्तादहं न भीयात् । तद्विद्यात् । परस्तान्मा शुक्रमागन्नुप मां देवाः प्राभूवन् श्रेयान् भविष्यामि इति । यद्यु अस्य हृदयं व्येव लिखेत् । अग्नये 5 विविचये ऽष्टाकपालं पुरोडाशं निर्वपेत् । तस्यावृत् । ता एव सप्तदश सामिधेनीरनुब्रूयात् । वार्त्रघ्नावाज्यभागौ । विराजौ संयाज्ये । अथैते याज्यानुवाक्ये- “वि ते विप्वग्वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति । तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः”- इति । अथ याज्या- “त्वामग्ने मानुषीरीडते विशो होत्राविदं विविचिँ‍ रत्नधातमम् । गुहा संतँ सुभग विश्वदर्शतं तुविष्वणसँ सुयजं घृतश्रियम्”- इति । अथो ह यो द्विषतो भ्रातृव्याद्व्याविवृत्सेत । तत्काम एतया यजेत । वि हैवास्माद्वर्तते । एतदेव तत्र कर्म ॥ २ ॥

Eggeling
  1. They also say, ‘If any one’s fires were to come in contact with each other, what rite and what expiation would there be in that case?’ If this burning (fire) were to come (to the other) from behind, he may know that light has come to him from beyond; that the gods have helped him, and that he will become more glorious. But if his heart should at all misgive him, let him prepare a cake on eight potsherds for Agni Vivici (the discerning). The course of procedure thereof (is as follows):–he should recite those same seventeen kindling-verses; the two butter-portions relate to the slaying of Vr̥tra; the saṁyājyās are two Virāj verses; and the invitatory and offering formulas are as follows:–(the anuvākyā, R̥g-veda VI, 6, 3), ‘Thy brilliant, wind-sped flames, bright Agni, spread in every direction: the divine ninefold destroyers overpower the woods, boldly crushing them;’ and the yājyā (R̥g-veda V, 8, 3), ‘The tribes of men glorify thee, Agni, the discerning knower of offerings, and most liberal dispenser of treasures; thee, O wealthy one, dwelling in secret, yet visible to all, loud-sounding offerer of sacrifice, glorying in ghee!’ And if any one should desire to rid himself of his spiteful enemy, let him, with that object in view, perform this offering, and he verily will rid himself of him. This; then, is the rite performed in that case.
मूलम् - Makoto

त᳓द् आ᳓हुः ।॥
य᳓स्या᳓ग्न᳓यः सँसृज्ये᳓रन् किं᳓ त᳓त्र क᳓र्म का᳓ प्रा᳓यश्चित्तिर् इ᳓ति स᳓ य᳓दि पर᳓स्ता᳓द् द᳓हन्न् अभीया᳓त् त᳓द् विद्या᳓त् पर᳓स्ता᳓न् मा᳓ शुक्र᳓म् आ᳓गन्न् उ᳓प मां᳓ देवाः᳓ प्रा᳓भूवञ् छ्रे᳓या᳓न् भविष्या᳓मी᳓ति य᳓द्य् उ अस्य हृ᳓दयं व्य् ए᳙व᳓ लिखे᳓द् अग्न᳓ये वि᳓विचये ऽष्टा᳓कपा᳓लं पुरोडा᳓शं नि᳓र्वपेत् त᳓स्या᳓वृ᳓त् ता᳓ एव᳓ सप्त᳓दश सा᳓मिधेनी᳓र् अ᳓नुब्रूया᳓द् वा᳓र्त्रघ्ना᳓व् आ᳓ज्यभा᳓गौ विरा᳓जौ संया᳓ज्ये᳙ अ᳓थैते᳓ या᳓ज्या᳓नुवा᳓क्ये᳙ वि᳓ ते वि᳓ष्वग् वा᳓ता᳓जूता᳓सो अग्ने भा᳓मा᳓सः शुचे शुचयश् चरन्ति तुविम्रक्षा᳓सो दिव्या᳓ न᳓वग्वा᳓ व᳓ना᳓वनन्ति धृषता᳓ रुज᳓न्त इ᳓त्य् अ᳓थ या᳓ज्या᳙ त्वा᳓म् अग्ने मा᳓नुषीर् ईडते वि᳓शो होत्रा᳓वि᳓दं वि᳓विचिँ रत्नधा᳓तमम् गु᳓हा᳓ स᳓न्तँ सुभग विश्व᳓दर्शतं तुविष्वण᳓सँ सुय᳓जं घृतश्रि᳓यम् इ᳓त्य् अ᳓थो ह यो᳓ द्विषतो᳓ भ्रा᳓तृव्या᳓द् व्या᳓वि᳓वृत्सेत त᳓त्का᳓म एत᳓या᳓ यजेत वि᳓ हैवा᳙स्मा᳓द् वर्तत एत᳓द् एव᳓ त᳓त्र क᳓र्म ॥॥

०३

विश्वास-प्रस्तुतिः

य᳘द्वय᳘मितोद᳘हन्न भीयात्[[!!]]॥
(त्त᳘) त᳘द्विद्यादभि᳘ द्विष᳘न्तम्भ्रा᳘तृव्व्यम्भविष्यामि श्रे᳘यान्भविष्यामी᳘ति य᳘द्यु ऽअस्य हृ᳘दयं᳘[[!!]] व्येव᳘ लिखे᳘दग्न᳘ये सम्वर्ग्गा᳘याष्टा᳘कपालम्पुरोडा᳘शन्नि᳘र्व्वपेत्त᳘स्यावृत्ता᳘ ऽएव᳘ सप्त᳘दश सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्र᳘घ्नावा᳘ज्यभागौ व्विरा᳘जौ संय्या᳘ज्ये ऽअ᳘थैते᳘ याज्या ऽनुवा᳘क्ये प᳘रस्या ऽअ᳘धि सम्वतो᳘ ऽवराँ२ ऽअभ्या᳘तर। य᳘त्राहम᳘स्मि ताँ᳘२ ऽअवेत्य᳘थ या᳘ज्या मा᳘ नो ऽअस्मि᳘न्महाधने प᳘रावर्ग्भारभृ᳘द्यथा। सम्व᳘र्ग्गᳫँ᳭ स᳘ᳫँ᳘ रयि᳘ञ्जयेत्य᳘थो ह यो᳘ द्विषतो भ्रा᳘तृव्व्यात्सम्वि᳘वृक्षेत त᳘त्काम ऽएत᳘या यजेत स᳘ᳫँ᳘ है᳘वास्माद्वृङ्क्त ऽएत᳘देव त᳘त्र क᳘र्म्म॥

मूलम् - श्रीधरादि

य᳘द्वय᳘मितोद᳘हन्न भीयात्[[!!]]॥
(त्त᳘) त᳘द्विद्यादभि᳘ द्विष᳘न्तम्भ्रा᳘तृव्व्यम्भविष्यामि श्रे᳘यान्भविष्यामी᳘ति य᳘द्यु ऽअस्य हृ᳘दयं᳘[[!!]] व्येव᳘ लिखे᳘दग्न᳘ये सम्वर्ग्गा᳘याष्टा᳘कपालम्पुरोडा᳘शन्नि᳘र्व्वपेत्त᳘स्यावृत्ता᳘ ऽएव᳘ सप्त᳘दश सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्र᳘घ्नावा᳘ज्यभागौ व्विरा᳘जौ संय्या᳘ज्ये ऽअ᳘थैते᳘ याज्या ऽनुवा᳘क्ये प᳘रस्या ऽअ᳘धि सम्वतो᳘ ऽवराँ२ ऽअभ्या᳘तर। य᳘त्राहम᳘स्मि ताँ᳘२ ऽअवेत्य᳘थ या᳘ज्या मा᳘ नो ऽअस्मि᳘न्महाधने प᳘रावर्ग्भारभृ᳘द्यथा। सम्व᳘र्ग्गᳫँ᳭ स᳘ᳫँ᳘ रयि᳘ञ्जयेत्य᳘थो ह यो᳘ द्विषतो भ्रा᳘तृव्व्यात्सम्वि᳘वृक्षेत त᳘त्काम ऽएत᳘या यजेत स᳘ᳫँ᳘ है᳘वास्माद्वृङ्क्त ऽएत᳘देव त᳘त्र क᳘र्म्म॥

मूलम् - Weber

य᳘द्वय᳘मितो द᳘हन्नभीया᳟त् ॥
त᳘द्विद्यादभि᳘ द्विष᳘न्तं भ्रा᳘तृव्यं भविष्यामि श्रे᳘यान्भविष्यामी᳘ति य᳘द्युऽअस्य हृ᳘दॗयं व्येव᳘ लिखे᳘दग्न᳘ये संवर्गा᳘याष्टा᳘कपालं पुरोडा᳘शं नि᳘र्वपेत्त᳘स्यावृत्ता᳘ एव᳘ सप्त᳘दश सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्रघ्नावा᳘ज्यभागौ विरा᳘जौ संयाॗज्येऽअ᳘थैते᳘ याज्यानुवाॗक्ये प᳘रस्याऽअ᳘धि संवतो᳘ऽवराᳫं२॥ऽअभ्या᳘तर 6 य᳘त्राहम᳘स्मि ता᳘ᳫं᳘२॥ऽअवेत्य᳘थ 7 याॗज्या मा᳘ नोऽअस्मि᳘न्महाधने प᳘रावर्ग्भारभृ᳘द्यथा सं᳘ व᳘र्गᳫं सᳫं रयिं᳘ जयेत्य᳘थो ह यो᳘ द्विषतो भ्रा᳘तृव्यात्संवि᳘वृक्षेत त᳘त्काम एत᳘या यजेत सᳫं हैॗवास्माद्वृङ्क्तऽएत᳘देव त᳘त्र क᳘र्म ॥

मूलम् - विस्वरम्
हरिस्वामी

यद्द्वयमितोदहं 8 न भीयात् । तद्विद्यात् । अभि द्विषंतं भातृव्यं भविष्यामि, श्रेयान् भविष्यामीति । यद्यु अस्य हृदयं व्येव लिखेत् । अग्नये संवर्गायाष्टाकपालं पुरोडाशं निर्वपेत् । तस्यावृत् । ता एव सप्तदश सामिधेनीरनुब्रूयात् । वार्त्रघ्नावाज्यभागौ । विराजौ संयाज्ये । अथैते याज्यानुवाक्ये- “परस्या अधि संवतो ऽवरा२ँ ऽअभ्यातर । यत्राहमस्मि ता२ँ ऽअव”- (वा. सं. ११ । ७१) इति । अथ याज्या- “मा नो अस्मिन्महाधने परावर्ग्भारभृद्यथा । संवर्गं संरयिं जय”- इति । अथो ह यो द्विषतो भ्रातृव्यात् संविवृक्षेत । तत्काम एतया यजेत । सं हैवास्मात् वृंक्ते । एतदेव तत्र कर्म ॥ ३ ॥

Eggeling
  1. If, however, this burning (fire) were to come from this side, he may know that he will overcome his spiteful enemy; that he will become more glorious. But if his heart should at all misgive him, let him prepare a cake on eight potsherds for Agni Saṁvarga (the despoiler). The course of procedure thereof (is as follows):–he should recite those same seventeen kindling-verses; the two butter-portions relate to the slaying of Vr̥tra, the saṁyājyās are two Virāj verses; and the invitatory and offering formulas are as follows:–(R̥g-veda VIII, 75, 15; Vāj. S. XI, 71), ‘From the far region cross thou over to the near: protect thou that wherein I am!’ and the yājyā (R̥g-veda VIII, 75, 12), ‘Desert us not in this great strife, like as the bearer of a load: win thou the spoil (saṁ vargaṁ jaya), win riches thou!’ And if any one desire to despoil his spiteful enemy, let him, with that object in view, perform this offering, and he verily will despoil him. This, then, is the rite performed in that case.
मूलम् - Makoto

य᳓द् व् अय᳓म् इतो᳓ द᳓हन्न् अभीया᳓त् ।॥
त᳓द् विद्या᳓द् अभि᳓ द्वि᳓षन्तं भ्रा᳓तृव्यं भविष्या᳓मि श्रे᳓या᳓न् भविष्या᳓मी᳓ति य᳓द्य् उ अस्य हृ᳓दयं व्य् ए᳙व᳓ लिखे᳓द् अग्न᳓ये संवर्गा᳓या᳓ष्टा᳓कपा᳓लं पुरोडा᳓शं नि᳓र्वपेत् त᳓स्या᳓वृ᳓त् ता᳓ एव᳓ सप्त᳓दश सा᳓मिधेनी᳓र् अ᳓नुब्रूया᳓द् वा᳓र्त्रघ्ना᳓व् आ᳓ज्यभा᳓गौ विरा᳓जौ संया᳓ज्ये᳙ अ᳓थैते᳓ या᳓ज्या᳓नुवा᳓क्ये᳙ प᳓रस्या᳓ अ᳓धि संवतो᳓ ऽवराँ᳓ अभ्या᳓तर य᳓त्रा᳓ह᳓म् अ᳓स्मि ताँ᳓ अवेत्य् अ᳓थ या᳓ज्या᳙ मा᳓ नो अस्मि᳓न् महा᳓धने प᳓रा᳓वर्ग्भा᳓रभृ᳓द् यथा᳓ स᳓ व᳓र्गँ सँ᳓ रयिं᳓ जयेत्य᳓थो ह यो᳓ द्विष्तो᳓ भ्रा᳓तृव्या᳓त् संवि᳓वृक्षेत त᳓त्का᳓म एत᳓या᳓ यजेत सँ᳓ हैवा᳙स्मा᳓द् वृङ्क्त एत᳓द् एव᳓ त᳓त्र क᳓र्म ॥॥

०४

विश्वास-प्रस्तुतिः

त᳘दाहुः॥ (र्य्य᳘) य᳘स्य व्वैद्युतो द᳘हेत्किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘ति त᳘द्विद्यादुप᳘रिष्टान्मा शुक्रमा᳘गन्नुप मा᳘न्देवाः प्रा᳘भूवञ्छ्रे᳘यान्भविष्यामी᳘ति य᳘द्यु ऽअस्य हृ᳘दय᳘म्व्येव᳘[[!!]] लिखे᳘दग्न᳘ये ऽप्सुम᳘ते ऽष्टा᳘कपालम्पुरोडा᳘शन्नि᳘र्व्वपेत्त᳘स्यावृत्ता᳘ ऽएव᳘ सप्त᳘दश सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्रघ्नावा᳘ज्यभागौ व्विरा᳘जौ संय्या᳘ज्ये ऽअ᳘थैते᳘ याज्या ऽनुवा᳘क्ये ऽअ᳘प्स्वग्ने स᳘धिष्ट᳘व सौ᳘षधीर᳘नुरुध्यसे। ग᳘र्भे स᳘ञ्जायसे पु᳘नरित्य᳘थ या᳘ज्या ग᳘र्भो ऽअस्यो᳘षधीनाङ्ग᳘र्भो व्व᳘नस्प᳘तीनाम्। ग᳘र्भा व्वि᳘श्वस्य भूतस्या᳘ग्ने ग᳘र्भो ऽअपा᳘मसी᳘ति शा᳘न्तिमे᳘वाभ्यामेत᳘द्वदति य᳘जमानस्य प्रजा᳘यै पशूना᳘महिᳫँ᳭साया ऽएत᳘देव त᳘त्र क᳘र्म्म॥

मूलम् - श्रीधरादि

त᳘दाहुः॥ (र्य्य᳘) य᳘स्य व्वैद्युतो द᳘हेत्किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘ति त᳘द्विद्यादुप᳘रिष्टान्मा शुक्रमा᳘गन्नुप मा᳘न्देवाः प्रा᳘भूवञ्छ्रे᳘यान्भविष्यामी᳘ति य᳘द्यु ऽअस्य हृ᳘दय᳘म्व्येव᳘[[!!]] लिखे᳘दग्न᳘ये ऽप्सुम᳘ते ऽष्टा᳘कपालम्पुरोडा᳘शन्नि᳘र्व्वपेत्त᳘स्यावृत्ता᳘ ऽएव᳘ सप्त᳘दश सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्रघ्नावा᳘ज्यभागौ व्विरा᳘जौ संय्या᳘ज्ये ऽअ᳘थैते᳘ याज्या ऽनुवा᳘क्ये ऽअ᳘प्स्वग्ने स᳘धिष्ट᳘व सौ᳘षधीर᳘नुरुध्यसे। ग᳘र्भे स᳘ञ्जायसे पु᳘नरित्य᳘थ या᳘ज्या ग᳘र्भो ऽअस्यो᳘षधीनाङ्ग᳘र्भो व्व᳘नस्प᳘तीनाम्। ग᳘र्भा व्वि᳘श्वस्य भूतस्या᳘ग्ने ग᳘र्भो ऽअपा᳘मसी᳘ति शा᳘न्तिमे᳘वाभ्यामेत᳘द्वदति य᳘जमानस्य प्रजा᳘यै पशूना᳘महिᳫँ᳭साया ऽएत᳘देव त᳘त्र क᳘र्म्म॥

मूलम् - Weber

त᳘दाहुः ॥ य᳘स्य वैद्युतो द᳘हेत्किं त᳘त्र क᳘र्म का प्रा᳘यश्चित्तिरि᳘ति त᳘द्विद्यादुप᳘रिष्टान्मा शुक्रमा᳘गन्नुप मां᳘ देवाः प्रा᳘भूवञ्छ्रे᳘यान्भविष्यामी᳘ति य᳘द्युऽअस्य हृ᳘दॗयं व्येव᳘ लिखे᳘दग्न᳘येऽप्तुमतेऽष्टा᳘कपालं पुरोडा᳘शं नि᳘र्वपेत्त᳘स्यावृत्ता᳘ एव᳘ सप्त᳘दश सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्रघ्नावा᳘ज्यभागौ विरा᳘जौ संयाॗज्येऽअ᳘थैते᳘ याज्यानुवाॗक्येऽअॗप्स्वग्ने स᳘धिष्ट᳘व सौ᳘षधीरनुरुध्यसे ग᳘र्भे स᳘न्जायसे पु᳘नरित्य᳘थ याॗज्या ग᳘र्भोऽअस्यो᳘षधीनां ग᳘र्भो व᳘नस्प᳘तीनाम् ग᳘र्भा वि᳘श्वस्य भूतस्या᳘ग्ने ग᳘र्भोऽअपा᳘मसी᳘ति शा᳘न्तिमेॗवाभ्यामेत᳘द्वदति य᳘जमानस्य प्रजा᳘यै पशूना᳘महिᳫंसायाऽएत᳘देव त᳘त्र क᳘र्म ॥

मूलम् - विस्वरम्
हरिस्वामी

तदाहुः- यस्य 8 वैद्युतो दहेत् । किं तत्र कर्म । का प्रायश्चित्तिरिति । तद्विद्यात् । उपरिष्टान्मा शुक्रमागन्नुप मां देवाः प्राभूवन् श्रेयान् भविष्यामि इति । यद्यु अस्य हृदयं व्येव लिखेत् । अग्नये ऽप्सुमते ऽष्टाकपालं पुरोडाशं निर्वपेत् । तस्यावृत् । ता एव सप्तदश सामिधेनीरनुब्रूयात् । वार्त्रघ्नावाज्यभागौ । विराजौ संयाज्ये । अथैते याज्या ऽनुवाक्ये- “अप्स्वग्ने सधिष्टव सौषधीरनुरुध्यसे । गर्भे सञ्जायसे पुनः”- इति । अथ याज्या- “गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् । गर्भो विश्वस्य भूतस्याग्ने गर्भो अपामसि”- (वा. सं. १२ । ३६-३७) इति । शांतिमेवाभ्यामेतद्वदति । यजमानस्य प्रजायै पशूनामहिंसायै । एतदेव तत्र कर्म ॥ ४ ॥

Eggeling
  1. They also say, ‘If the lightning were to burn any one’s (sacrificial fire), what rite and what expiation would there be in that case?’ Let him know that light has come to him from above; that the gods have helped him, and that he will become more glorious. But if his heart should at all misgive him, let him prepare a cake on eight pot sherds for Agni Apsumat (abiding in the waters). The course of procedure thereof (is as follows):he should recite those same seventeen kindling-verses; the two butter-portions relate to the slaying of Vr̥tra; the saṁyājyās are two Virāj verses; and the invitatory and offering formulas are as follows:

–(R̥g-veda VIII, 43, 9; Vāj. S. XII, 36), ‘In the waters, O Agni, is thy seat; as such thou clingest to plants: being in (their) womb, thou art born again;’ and the yājyā (Vāj. S. XII, 37), ‘Thou art the child of the herbs, the child of the trees, the. child of all that is, O Agni, thou art the child of the waters;’–he thereby bespeaks peace on the part of those two (fires) for the safety of the Sacrificer’s family and cattle. This, then, is the rite performed in that case.

मूलम् - Makoto

त᳓द् आ᳓हुः ।॥
य᳓स्य वैद्युतो᳓ द᳓हेत् किं᳓ त᳓त्र क᳓र्म का᳓ प्रा᳓यश्चित्तिर् इ᳓ति त᳓द् विद्या᳓द् उप᳓रिष्टा᳓न् मा᳓ शुक्रम् आ᳓गन्न् उ᳓प मां᳓ देवाः᳓ प्रा᳓भूवञ् छ्रे᳓या᳓न् भविष्या᳓मी᳓ति य᳓द्य् उ अस्य हृ᳓दयं व्य् ए᳙व᳓ लिखे᳓द् अग्न᳓ये ऽप्सुमते ऽष्टा᳓कपा᳓लं पुरोडा᳓शं नि᳓र्वपेत् त᳓स्या᳓वृ᳓त् ता᳓ एव᳓ सप्त᳓दश सा᳓मिधेनी᳓र् अ᳓नुब्रूया᳓द् वा᳓र्त्रघ्ना᳓व् आ᳓ज्यभा᳓गौ विरा᳓जौ संया᳓ज्ये᳙ अ᳓थैते᳓ या᳓ज्या᳓नुवा᳓क्ये᳙ अप्स्व् अ᳙ग्ने स᳓धिष् ट᳓व सौ᳓षधीर् अ᳓नुरुध्यसे ग᳓र्भे स᳓न् जा᳓यसे पु᳓नर् इ᳓त्य् अ᳓थ या᳓ज्या᳙ ग᳓र्भे अस्यो᳓षधीनां᳓ ग᳓र्भो व᳓नस्प᳓तीना᳓म् ग᳓र्भा᳓ वि᳓श्वस्य भूतस्या᳓ग्ने ग᳓र्भो अपा᳓म् असी᳓ति शा᳓न्तिम् एवा᳙भ्या᳓म् एत᳓द् वदति य᳓जमा᳓नस्य प्रजा᳓यै पशूना᳓म् अ᳓हिँसा᳓या᳓ एत᳓द् एव᳓ त᳓त्र क᳓र्म ॥॥

०५

विश्वास-प्रस्तुतिः

त᳘दाहुः॥ (र्य्य᳘) य᳘स्याग्न᳘यो ऽमेध्यै᳘रग्नि᳘भिः सᳫँ᳭सृज्ये᳘रन्किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘त्यग्न᳘ये शु᳘चये ऽष्टा᳘कपालम्पुरोडा᳘शन्नि᳘र्व्वपेत्त᳘स्यावृत्ता᳘ ऽएव᳘ सप्त᳘दश सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्रघ्नावा᳘ज्यभागौ व्विरा᳘जौ संय्या᳘ज्ये ऽअ᳘थैते᳘ याज्या ऽनुवा᳘क्ये ऽअग्निः शु᳘चिव्व्रततमः शु᳘चिर्व्विप्रः शु᳘चिः कविः᳘। शु᳘ची रोचत ऽआ᳘हुत ऽइत्य᳘थ याज्यो᳘दग्ने शु᳘चयस्त᳘व शुक्रा᳘ भ्राजन्त ऽईरते[[!!]]। त᳘व ज्यो᳘तीᳫँ᳭ष्यर्च्च᳘य ऽइ᳘ति शा᳘न्तिमे᳘वाभ्यामेत᳘द्वदति य᳘जमानस्य प्रजा᳘यै पशूना᳘महिᳫँ᳭साया ऽएत᳘देव त᳘त्र क᳘र्म्म॥

मूलम् - श्रीधरादि

त᳘दाहुः॥ (र्य्य᳘) य᳘स्याग्न᳘यो ऽमेध्यै᳘रग्नि᳘भिः सᳫँ᳭सृज्ये᳘रन्किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘त्यग्न᳘ये शु᳘चये ऽष्टा᳘कपालम्पुरोडा᳘शन्नि᳘र्व्वपेत्त᳘स्यावृत्ता᳘ ऽएव᳘ सप्त᳘दश सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्रघ्नावा᳘ज्यभागौ व्विरा᳘जौ संय्या᳘ज्ये ऽअ᳘थैते᳘ याज्या ऽनुवा᳘क्ये ऽअग्निः शु᳘चिव्व्रततमः शु᳘चिर्व्विप्रः शु᳘चिः कविः᳘। शु᳘ची रोचत ऽआ᳘हुत ऽइत्य᳘थ याज्यो᳘दग्ने शु᳘चयस्त᳘व शुक्रा᳘ भ्राजन्त ऽईरते[[!!]]। त᳘व ज्यो᳘तीᳫँ᳭ष्यर्च्च᳘य ऽइ᳘ति शा᳘न्तिमे᳘वाभ्यामेत᳘द्वदति य᳘जमानस्य प्रजा᳘यै पशूना᳘महिᳫँ᳭साया ऽएत᳘देव त᳘त्र क᳘र्म्म॥

मूलम् - Weber

त᳘दाहुः ॥ य᳘स्याग्न᳘योऽमेध्यै᳘रग्नि᳘भिः सᳫंसृज्ये᳘रन्किं त᳘त्र क᳘र्म का प्रा᳘यश्चित्तिरि᳘त्यग्न᳘ये शु᳘चयेऽष्टा᳘कपालं पुरोडा᳘शं नि᳘र्वपेत्त᳘स्यावृत्ता᳘ एव᳘ सप्त᳘दश सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्रघ्नावा᳘ज्यभागौ विरा᳘जौ संयाॗज्येऽअ᳘थैते᳘ याज्यानुवाॗक्येऽअग्निः शु᳘चिव्रततमः शु᳘चिर्वि᳘प्रः शु᳘चिः कविः᳟ शु᳘ची रोचतऽआ᳘हुत इत्य᳘थ याज्यो᳘दग्ने शु᳘चयस्त᳘व शुक्रा भ्रा᳘जन्त ईरते त᳘व ज्यो᳘तीᳫंष्यर्च᳘य इ᳘ति शा᳘न्तिमेॗवाभ्यामेत᳘द्वदति य᳘जमानस्य प्रजा᳘यै पशूना᳘महिᳫंसायाऽएत᳘देव त᳘त्र क᳘र्म ॥

मूलम् - विस्वरम्
हरिस्वामी

तदाहुः- यस्याग्नयो ऽमेध्यैरग्निभिः 9 संसृज्येरन् । किं तत्र कर्म । का प्रायश्चित्तिरिति । अग्नये शुचये ऽष्टाकपालं पुरोडाशं निर्वपेत् । तस्यावृत् । ता एव सप्तदश सामिधेनीरनुब्रूयात् । वार्त्रघ्नावाज्यभागौ । विराजौ संयाज्ये । अथैते याज्यानुवाक्ये- “अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः । शुची रोचत आहुतः”- इति । अथ याज्या- “उदग्ने शुचयस्तव शुक्रा भ्राजंत ईरते । तव ज्योतींष्यर्चयः”- इति । शांतिमेवाभ्यामेतद्वदति । यजमानस्य प्रजायै पशूनामहिंसायै । एतदेव तत्र कर्म ॥ ५ ॥

Eggeling
  1. They also say, ‘If any one’s fires were to come in contact with impure (profane) fires, what rite and what expiation would there be in that case?’ Let him prepare a cake on eight potsherds for Agni Śuci (the bright),–the course of procedure thereof (is as follows):–he should recite those same seventeen kindling-verses; the two butter-portions relate to the slaying of Vr̥tra; the saṁyājyās are two Virāj verses; and the invitatory and offering formulas are as follows:–(R̥g-veda VIII, 44, 21), ‘Agni of brightest work, the bright priest, the bright sage, brightly he shineth with offering fed;’ and the yājyā (R̥g-veda VIII, 44, 17), ‘Up rise thy flames, the bright, the pure, the shining, thy lights, O Agni;’–he thereby bespeaks peace to those two (kinds of fires) for the safety of the Sacrificer’s family and cattle. This, then, is the rite performed in that case.
मूलम् - Makoto

त᳓दा᳓हुः ।॥
य᳓स्या᳓ग्न᳓यो ऽमेध्यै᳓रग्नि᳓भिः सँसृज्ये᳓रन्किं᳓ त᳓त्र क᳓र्म का᳓ प्रा᳓यश्चित्तिरि᳓त्यग्न᳓ये शु᳓चये ऽष्टा᳓कपा᳓लं पुरोडा᳓शं नि᳓र्वपेत्त᳓स्या᳓वृत्ता᳓ एव᳓ सप्त᳓दश सा᳓मिधेनी᳓र् अ᳓नुब्रूया᳓द् वा᳓र्त्रघ्ना᳓व् आ᳓ज्यभा᳓गौ विरा᳓जौ संया᳓ज्ये᳙ अ᳓थैते᳓ या᳓ज्या᳓नुवा᳓क्ये᳙ अग्निः᳓ शु᳓चिव्रततमः शु᳓चिर्वि᳓प्रः शु᳓चिः कविः᳓ ॥
शु᳓ची रोचत आ᳓हुत इ᳓त्य᳓थ या᳓ज्यो᳓दग्ने शु᳓चयस्त᳓व शुक्रा᳓ भ्रा᳓जन्त ईरते त᳓व ज्यो᳓तीँष्यर्च᳓य इ᳓ति शा᳓न्तिम् एवा᳙भ्या᳓म् एत᳓द् वदति य᳓जमा᳓नस्य प्रजा᳓यै पशूना᳓म् अ᳓हिँसा᳓या᳓ एत᳓द् एव᳓ त᳓त्र क᳓र्म ॥॥

०६

विश्वास-प्रस्तुतिः

त᳘दाहुः॥ (र्य्य᳘) य᳘स्याहवनी᳘यम᳘नुद्धृतमादि᳘त्यो ऽभ्यस्तमियात्किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘त्येते वै᳘ रश्म᳘यो व्वि᳘श्वे देवा᳘स्ते ऽस्मादपप्र᳘यन्ति त᳘दस्मै᳘ व्व्यृध्यते य᳘स्माद्देवा᳘ ऽअप प्रय᳘न्ति ताम᳘नु᳘ व्व्यृद्धिं य᳘श्च व्वे᳘द य᳘श्च न ता᳘ ऽउभा᳘वाहतुर᳘नुद्धृतमस्याभ्य᳘स्तमगादि᳘ति त᳘त्रेत्थ᳘ङ्कुर्य्याद्ध᳘रितᳫँ᳭ हि᳘रण्यन्दर्भे᳘ प्रब᳘ध्य पश्चाद्ध᳘र्त्तवै᳘ ब्रूयात्त᳘देत᳘स्य रूप᳘ङ्क्रियत य᳘ ऽएष त᳘पत्य᳘हर्व्वा᳘ ऽएष तद᳘ह्नो रूप᳘ङ्क्रियते पवि᳘त्रन्दर्भाः᳘ पव᳘यत्ये᳘वैनन्तद᳘थेध्म᳘मादी᳘प्य प्रा᳘ञ्चᳫँ᳭ ह᳘र्त्तवै᳘ ब्रूयाद्ब्राह्मण᳘ ऽआर्षेय ऽउ᳘द्धरेद्ब्राह्मणो वा᳘ ऽआर्षेयः स᳘र्व्वा देव᳘ताः स᳘र्व्वाभिरे᳘वैनन्त᳘द्देव᳘ताभिः स᳘मर्द्धयति त᳘मुपसमाधा᳘य प्रतिपरे᳘त्य गा᳘र्हपत्य ऽआ᳘ज्यमधिश्रि᳘त्योद्वा᳘स्योत्पू᳘यावे᳘क्ष्य चतुर्गृहीतमा᳘ज्यङ्गृहीत्वा᳘ समि᳘धमुपसंगृ᳘ह्य प्रा᳘ङुदा᳘द्रवत्य᳘थाहवनी᳘ये समि᳘धमभ्याधा᳘य द᳘क्षिणञ्जान्वा᳘च्य जुहोति व्वि᳘श्वेभ्यो देवे᳘भ्यः स्वाहे᳘ति स य᳘था ब्राह्मण᳘मावसथवासि᳘नङ्क्रुद्धं य᳘न्तमुक्षवे ह᳘तोपमन्त्र᳘येतैव᳘मे᳘वैतद्वि᳘श्वान्देवानु᳘पमन्त्रयते जान᳘न्ति हैनमु᳘प हैनमा᳘वर्त्तन्त ऽएत᳘देव तत्र᳘ क᳘र्म्म॥

मूलम् - श्रीधरादि

त᳘दाहुः॥ (र्य्य᳘) य᳘स्याहवनी᳘यम᳘नुद्धृतमादि᳘त्यो ऽभ्यस्तमियात्किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘त्येते वै᳘ रश्म᳘यो व्वि᳘श्वे देवा᳘स्ते ऽस्मादपप्र᳘यन्ति त᳘दस्मै᳘ व्व्यृध्यते य᳘स्माद्देवा᳘ ऽअप प्रय᳘न्ति ताम᳘नु᳘ व्व्यृद्धिं य᳘श्च व्वे᳘द य᳘श्च न ता᳘ ऽउभा᳘वाहतुर᳘नुद्धृतमस्याभ्य᳘स्तमगादि᳘ति त᳘त्रेत्थ᳘ङ्कुर्य्याद्ध᳘रितᳫँ᳭ हि᳘रण्यन्दर्भे᳘ प्रब᳘ध्य पश्चाद्ध᳘र्त्तवै᳘ ब्रूयात्त᳘देत᳘स्य रूप᳘ङ्क्रियत य᳘ ऽएष त᳘पत्य᳘हर्व्वा᳘ ऽएष तद᳘ह्नो रूप᳘ङ्क्रियते पवि᳘त्रन्दर्भाः᳘ पव᳘यत्ये᳘वैनन्तद᳘थेध्म᳘मादी᳘प्य प्रा᳘ञ्चᳫँ᳭ ह᳘र्त्तवै᳘ ब्रूयाद्ब्राह्मण᳘ ऽआर्षेय ऽउ᳘द्धरेद्ब्राह्मणो वा᳘ ऽआर्षेयः स᳘र्व्वा देव᳘ताः स᳘र्व्वाभिरे᳘वैनन्त᳘द्देव᳘ताभिः स᳘मर्द्धयति त᳘मुपसमाधा᳘य प्रतिपरे᳘त्य गा᳘र्हपत्य ऽआ᳘ज्यमधिश्रि᳘त्योद्वा᳘स्योत्पू᳘यावे᳘क्ष्य चतुर्गृहीतमा᳘ज्यङ्गृहीत्वा᳘ समि᳘धमुपसंगृ᳘ह्य प्रा᳘ङुदा᳘द्रवत्य᳘थाहवनी᳘ये समि᳘धमभ्याधा᳘य द᳘क्षिणञ्जान्वा᳘च्य जुहोति व्वि᳘श्वेभ्यो देवे᳘भ्यः स्वाहे᳘ति स य᳘था ब्राह्मण᳘मावसथवासि᳘नङ्क्रुद्धं य᳘न्तमुक्षवे ह᳘तोपमन्त्र᳘येतैव᳘मे᳘वैतद्वि᳘श्वान्देवानु᳘पमन्त्रयते जान᳘न्ति हैनमु᳘प हैनमा᳘वर्त्तन्त ऽएत᳘देव तत्र᳘ क᳘र्म्म॥

मूलम् - Weber

त᳘दाहुः ॥ य᳘स्याहवनी᳘यम᳘नुद्धृतमादिॗत्योऽभ्यस्तमियात्किं त᳘त्र क᳘र्म का प्रा᳘यश्चित्तिरि᳘त्येते वै᳘ रश्म᳘यो वि᳘श्वे देवाॗस्तेऽस्मादपप्र᳘यन्ति त᳘दस्मैॗ व्यृध्यते य᳘स्माद्देवा᳘ अपप्रय᳘न्ति ताम᳘नुॗ व्यृद्धिं य᳘श्च वे᳘द य᳘श्च न ता᳘ऽउभा᳘वाहतुर᳘नुद्धृतमस्याभ्य᳘स्तमगादि᳘ति त᳘त्रेत्थं᳘ कुर्याद्ध᳘रितᳫं हि᳘रण्यं दर्भे᳘ प्रब᳘ध्य पश्चाद्ध᳘र्तवै᳘ ब्रूयात्त᳘देत᳘स्य रूपं᳘ क्रियते य᳘ एष त᳘पत्य᳘हर्वा᳘ऽएतद᳘ह्नो रूपं᳘ क्रियते पवि᳘त्रं दर्भाः᳘ पव᳘यत्येॗवैनं तद᳘थेध्म᳘मादी᳘प्य प्रा᳘ञ्चᳫं ह᳘र्तवै᳘ ब्रूयाद्ब्राह्मण᳘ आर्षेय उ᳘द्धरेद्ब्राह्मणो वा᳘ऽआर्षेयः स᳘र्वा देव᳘ताः स᳘र्वाभिरेॗवैनं त᳘द्देव᳘ताभिः स᳘मर्धयति त᳘मुपसमाधा᳘य प्रतिपरे᳘त्य गा᳘र्हपत्यऽआ᳘ज्यमधिश्रि᳘त्योद्वा᳘स्योत्पू᳘यावे᳘क्ष्य चतुर्गृहीतमा᳘ज्यं गृहीत्वा᳘ समि᳘धमुपसंगृ᳘ह्य प्रा᳘ङुदा᳘द्रवत्य᳘थाहवनी᳘ये समि᳘धमभ्याधा᳘य द᳘क्षिणं जान्वा᳘च्य जुहोति वि᳘श्वेभ्यो देवे᳘भ्यः स्वाहे᳘ति स य᳘था ब्राह्मण᳘मावसथवासि᳘नं क्रुद्धं य᳘न्तमुक्षवेह᳘तोपमन्त्र᳘येतैव᳘मेॗवैतद्वि᳘श्वान्देवानु᳘पमन्त्रयते जान᳘न्ति हैनमु᳘प हैनमा᳘वर्तन्तऽएत᳘देव तत्र᳘ क᳘र्म ॥

मूलम् - विस्वरम्
हरिस्वामी

तदाहुः- यस्याहवनीयमनुद्धृतमादित्यो ऽभ्यस्तमियात् । किं तत्र कर्म । का प्रायश्चित्तिरिति । एते वै रश्मयो विश्वे देवाः । ते ऽस्मादपप्रयन्ति । तदस्मै व्यृध्यते । यस्माद्देवा अपप्रयन्ति । तामनुव्यृद्धिं यश्च वेद । यश्च न । ता उभावाहतुः । अनुद्धृतमस्याभ्यस्तमगादिति । तत्रेत्थं कुर्यात् । हरितं हिरण्यं दर्भे प्रबध्य पश्चाद्धर्तवै ब्रूयात् । तदेतस्य रूपं क्रियते । य एष तपति । अहर्वा एषः । तदह्नो रूपं क्रियते । पवित्रं दर्भाः । पवयत्येवैनं तत् । अथेध्ममादीप्य प्रांचं हर्तवै ब्रूयात् । ब्राह्मण आर्षेय उद्धरेत् । ब्राह्मणो वा आर्षेयः सर्वा देवताः । सर्वाभिरेवैनं तद्देवताभिः समर्द्धयति । तमुपसमाधाय प्रतिपरेत्य गार्हपत्य आज्यमधिश्रित्य उद्वास्योत्पूयावेक्ष्य चतुर्गृहीतमाज्यं गृहीत्वा समिधमुपसंगृह्य प्राङुदाद्रवति । अथाहवनीये समिधमस्याधाय दक्षिणं जान्वाच्य जुहोति- “विश्वेभ्यो देवेभ्यः स्वाहा”- इति । स यथा ब्राह्मणमावसथवासिनं क्रुद्धं यंतमुक्षवे हतोपमन्त्रयेत । एवमेवैतत् विश्वान्देवानुपमन्त्रयते । जानन्ति हैनम् । उप हैनमावर्तंते । एतदेव तत्र कर्म ॥ ६ ॥

Eggeling
  1. They also say, ‘If the sun were to set on any one’s Āhavanīya not yet having been taken out, what rite and what expiation would there be in that case?’ Verily, those rays (of the sun) are the All-gods: they go from him, and that (Agnihotra) fails

him, because the gods go from him; and after that failure–whether he know it or know it not–those two (fires) say, ‘He (the sun) has set on his unlifted (fire).’ In such a case let him proceed thus:–having fastened a piece of yellow gold to a plant of darbha grass, let him order it to be taken towards the back (west): thus it is made of the form of him who shines yonder; and that (sun) being the day, it is made of the form of the day. And darbha plants are a means of purification 10: he thus purifies it thereby. Having then kindled some firewood, let him order it to be taken forward (to the Āhavanīya hearth). A Brāhmaṇa descended from a R̥shi should take it out, for a Brāhmaṇa descended from a R̥shi represents all the deities: it is thus with the help of all the deities that he causes it (the fire) to succeed. Having laid it down, he returns, and having placed ghee on the Gārhapatya, taken it off, purified it and looked down on it 11, he takes ghee by four ladlings, and, having seized a log, he hastens up to the front; and, having put the log on the Āhavanīya, he bends his right knee, and offers with, ‘To the All-gods, hail!’ Even as one would call (back) to him a Brāhmaṇa staying at one’s dwelling, when he goes away offended, by (presenting him with) a cow longing for the bull, so he thereby calls to him the All-gods; and they indeed acknowledge, and

turn to, him. This, then, is the rite performed in that case.

मूलम् - Makoto

त᳓द् आ᳓हुः ।॥
य᳓स्या᳓हवनी᳓यम् अ᳓नुद्धृतम् आ᳓दित्यो᳙ ऽभ्यस्तमिया᳓त् किं᳓ त᳓त्र क᳓र्म का᳓ प्रा᳓यश्चित्तिर् इ᳓त्य् एते᳓ वै᳓ रश्म᳓यो वि᳓श्वे देवा᳓स् ते᳙ ऽस्मा᳓द् अपप्र᳓यन्ति त᳓द् अस्मै व्यृ᳙ध्यते य᳓स्मा᳓द् देवा᳓ अपप्रय᳓न्ति ता᳓म् अ᳓नु व्यृ᳙द्धिं य᳓श् च वे᳓द य᳓श् च न᳓ ता᳓ उभा᳓व् आ᳓हतुर् अ᳓नुद्धृतम् अस्या᳓भ्य᳓स्तमगा᳓द् इ᳓ति त᳓त्रेत्थं᳓ कुर्या᳓द् ध᳓रितँ हि᳓रण्यं दर्भे᳓ प्रब᳓ध्य पश्चा᳓द् ध᳓र्तवै᳓ ब्रूया᳓त् त᳓द् एत᳓स्य रूपं᳓ क्रियते य᳓ एष᳓ त᳓पत्य् अ᳓हर् वा᳓ एत᳓द् अ᳓ह्नो रूपं᳓ क्रियते पवि᳓त्रं दर्भाः᳓ पव᳓यत्य् एवै᳙नं त᳓द् अ᳓थेध्म᳓म् आ᳓दी᳓प्य प्रा᳓ञ्चँ ह᳓र्तवै᳓ ब्रूया᳓द् ब्रा᳓ह्मण᳓ आ᳓र्षेय᳓ उ᳓द्धरेद् ब्रा᳓ह्मणो᳓ वा᳓ आ᳓र्षेयः स᳓र्वा᳓ देव᳓ताः᳓ स᳓र्वा᳓भिर् एवै᳙नं त᳓द् देव᳓ता᳓भिः स᳓मर्धयति त᳓म् उपसमा᳓धा᳓य प्रतिपरे᳓त्य गा᳓र्हपत्य आ᳓ज्यम् अधिश्रि᳓त्योद्वा᳓स्योत्पू᳓या᳓वे᳓क्ष्य चतुर्गृहीतम् आ᳓ज्यं गृहीत्वा᳓ समि᳓धम् उपसंगृ᳓ह्य प्रा᳓ङ् उदा᳓द्रवत्य् अ᳓था᳓हवनी᳓ये समि᳓धम् अभ्या᳓धा᳓य द᳓क्षिणं जा᳓न्व् आ᳓च्य जुहोति वि᳓श्वेभ्यो देवे᳓भ्यः स्वा᳓हे᳓ति स᳓ य᳓था᳓ ब्रा᳓ह्मण᳓म् आ᳓वसथवा᳓सि᳓नं क्रुद्धं᳓ य᳓न्तम् उक्षवेह᳓तोपमन्त्र᳓येतैव᳓म् एवै᳙त᳓द् वि᳓श्वा᳓न् देवा᳓न् उ᳓पमन्त्रयते जा᳓न᳓न्ति हैनम् उ᳓प हैनम् आ᳓वर्तन्त एत᳓द् एव᳓ तत्र᳓ क᳓र्म ॥॥

०७

विश्वास-प्रस्तुतिः

त᳘दाहुः॥ (र्य्य᳘) य᳘स्याहवनी᳘यमनुद्धृतमादि᳘त्यो ऽभ्युदिया᳘त्किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘त्येते वै᳘ रश्म᳘यो व्वि᳘श्वे देवा᳘स्ते ऽस्मादूषिवा᳘ᳫँ᳘सो ऽपप्र᳘यन्ति त᳘दस्मै᳘ व्व्यृध्यते य᳘स्माद्देवा᳘ ऽअपप्रय᳘न्ति ताम᳘नु᳘व्व्यृद्धिं य᳘श्च व्वे᳘द य᳘श्च न ता᳘ ऽउभा᳘वाहतुर᳘नुद्धृतमस्याभ्यु᳘दगादि᳘ति त᳘त्रेत्थ᳘ङ्कुर्य्याद्रजतᳫँ᳭ हि᳘रण्यन्दर्भे᳘ प्रब᳘ध्य पुर᳘स्ताद्ध᳘र्त्तवै᳘ ब्रूयात्त᳘च्चन्द्र᳘मसो रूप᳘ङ्क्रियते रा᳘त्रिर्व्वै᳘ चन्द्र᳘मास्तद्रा᳘त्रे रूप᳘ङ्क्रियते पवि᳘त्रन्दर्भ्भाः᳘ पव᳘यत्ये᳘वैनन्तद᳘थेध्म᳘मादी᳘प्यान्व᳘ञ्चᳫँ᳭ ह᳘र्त्तवै᳘ ब्रूयाद्ब्राह्मण᳘ ऽआर्षेय ऽउ᳘द्धरेद्ब्राह्मणो वा᳘ ऽआर्षेयः स᳘र्व्वा देव᳘ताः स᳘र्व्वाभिरे᳘वैनन्त᳘द्देव᳘ताभिः स᳘मर्द्धयति त᳘मुपसमाधा᳘य प्रतिपरे᳘त्य गा᳘र्हपत्य ऽआ᳘ज्यमधिश्रि᳘त्योद्वा᳘स्योत्पू᳘यावे᳘क्ष्य यथागृहीतमा᳘ज्यं गृहीत्वा᳘ समि᳘धमुपसंगृ᳘ह्य प्रा᳘ङुदा᳘द्रवत्य᳘थाहवनी᳘ये समि᳘धमभ्याधा᳘य द᳘क्षिणं जान्वा᳘च्य जुहोति व्वि᳘श्वेभ्यो देवे᳘भ्यः स्वाहे᳘ति᳘ सो ऽसा᳘वेव ब᳘न्धुर्न्न᳘ ह वै त᳘त्र का᳘चना᳘र्तिर्न्न रि᳘ष्टिर्भवति य᳘त्रैषा प्रा᳘यश्चित्तिः क्रिय᳘त ऽएत᳘देव त᳘त्र क᳘र्म्म॥

मूलम् - श्रीधरादि

त᳘दाहुः॥ (र्य्य᳘) य᳘स्याहवनी᳘यमनुद्धृतमादि᳘त्यो ऽभ्युदिया᳘त्किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘त्येते वै᳘ रश्म᳘यो व्वि᳘श्वे देवा᳘स्ते ऽस्मादूषिवा᳘ᳫँ᳘सो ऽपप्र᳘यन्ति त᳘दस्मै᳘ व्व्यृध्यते य᳘स्माद्देवा᳘ ऽअपप्रय᳘न्ति ताम᳘नु᳘व्व्यृद्धिं य᳘श्च व्वे᳘द य᳘श्च न ता᳘ ऽउभा᳘वाहतुर᳘नुद्धृतमस्याभ्यु᳘दगादि᳘ति त᳘त्रेत्थ᳘ङ्कुर्य्याद्रजतᳫँ᳭ हि᳘रण्यन्दर्भे᳘ प्रब᳘ध्य पुर᳘स्ताद्ध᳘र्त्तवै᳘ ब्रूयात्त᳘च्चन्द्र᳘मसो रूप᳘ङ्क्रियते रा᳘त्रिर्व्वै᳘ चन्द्र᳘मास्तद्रा᳘त्रे रूप᳘ङ्क्रियते पवि᳘त्रन्दर्भ्भाः᳘ पव᳘यत्ये᳘वैनन्तद᳘थेध्म᳘मादी᳘प्यान्व᳘ञ्चᳫँ᳭ ह᳘र्त्तवै᳘ ब्रूयाद्ब्राह्मण᳘ ऽआर्षेय ऽउ᳘द्धरेद्ब्राह्मणो वा᳘ ऽआर्षेयः स᳘र्व्वा देव᳘ताः स᳘र्व्वाभिरे᳘वैनन्त᳘द्देव᳘ताभिः स᳘मर्द्धयति त᳘मुपसमाधा᳘य प्रतिपरे᳘त्य गा᳘र्हपत्य ऽआ᳘ज्यमधिश्रि᳘त्योद्वा᳘स्योत्पू᳘यावे᳘क्ष्य यथागृहीतमा᳘ज्यं गृहीत्वा᳘ समि᳘धमुपसंगृ᳘ह्य प्रा᳘ङुदा᳘द्रवत्य᳘थाहवनी᳘ये समि᳘धमभ्याधा᳘य द᳘क्षिणं जान्वा᳘च्य जुहोति व्वि᳘श्वेभ्यो देवे᳘भ्यः स्वाहे᳘ति᳘ सो ऽसा᳘वेव ब᳘न्धुर्न्न᳘ ह वै त᳘त्र का᳘चना᳘र्तिर्न्न रि᳘ष्टिर्भवति य᳘त्रैषा प्रा᳘यश्चित्तिः क्रिय᳘त ऽएत᳘देव त᳘त्र क᳘र्म्म॥

मूलम् - Weber

त᳘दाहुः ॥ य᳘स्याहवनी᳘यमनुद्धृतमादिॗत्योऽभ्युदिया᳘त्किं त᳘त्र क᳘र्म का प्रा᳘यश्चित्तिरि᳘त्येते वै᳘ रश्म᳘यो वि᳘श्वे देवाॗस्तेऽस्मादूषिवाᳫंसोऽपप्र᳘यन्ति त᳘दस्मैॗ व्यृध्यते य᳘स्माद्देवा᳘ अपप्रय᳘न्ति ताम᳘नुॗ व्यृद्धिं य᳘श्च वे᳘द य᳘श्च न ता᳘ऽउभा᳘वाहतुर᳘नुद्धृतमस्याभ्यु᳘दगादि᳘ति त᳘त्रेत्थं कुर्याद्रजतᳫं हि᳘रण्यं दर्भे᳘ प्रब᳘ध्य पुर᳘स्ताद्ध᳘र्तवै᳘ ब्रूयात्त᳘च्चन्द्र᳘मसो रूपं᳘ क्रियते रा᳘त्रिर्वै᳘ चन्द्र᳘मास्तद्रा᳘त्रे रूपं᳘ क्रियते पवि᳘त्रं दर्भाः᳘ पव᳘यत्येॗवैनं तद᳘थेध्म᳘मादी᳘प्यान्व᳘ञ्चᳫं ह᳘र्तवै᳘ ब्रूयाद्ब्राह्मण᳘ आर्षेय उ᳘द्धरेद्ब्राह्मणो वा᳘ऽआर्षेयः स᳘र्वा देव᳘ताः स᳘र्वाभिरेॗवैनं त᳘द्देव᳘ताभिः स᳘मर्धयति त᳘मुपसमाधा᳘य प्रतिपरे᳘त्य गा᳘र्हपत्यऽआ᳘ज्यमधिश्रि᳘त्योद्वा᳘स्योत्पू᳘यावे᳘क्ष्य यथागृहीतमा᳘ज्यं गृहीत्वा᳘ समि᳘धमुपसंगृ᳘ह्य प्रा᳘ङुदा᳘द्रवत्य᳘थाहवनी᳘ये समि᳘धमभ्याधा᳘य द᳘क्षिणं जान्वा᳘च्य जुहोति वि᳘श्वेभ्यो देवे᳘भ्यः स्वाहे᳘तिॗ सोऽसा᳘वेव ब᳘न्धुर्न᳘ ह वै त᳘त्र का᳘ चना᳘र्तिर्न रि᳘ष्टिर्भवति य᳘त्रैषा प्रा᳘यश्चित्तिः क्रिय᳘तऽएत᳘देव त᳘त्र कर्म ॥ ६ [४.४.] ॥ चतुर्थोऽध्यायः [७८.] ॥ ॥

मूलम् - विस्वरम्
हरिस्वामी

तदाहुः- यस्याहवनीयमनुद्धृतम् आदित्यो ऽभ्युदियात् । किं तत्र कर्म । का प्रायश्चित्तिरिति । एते वै रश्मयो विश्वे देवाः । ते ऽस्मादूषिवांसो ऽपप्रयंति । तदस्मै व्यृध्यते । यस्माद्देवा अपप्रयंति । तामनुव्यृद्धिं यश्च वेद । यश्च न । ता उभावाहतुः । अनुद्धृतमस्याभ्युदगादिति । तत्रेत्थं कुर्यात् । रजतं हिरण्यं दर्भे प्रबध्य पुरस्ताद्धर्तवै ब्रूयात् । तच्चंद्रमसो रूपं क्रियते । रात्रिर्वै चंद्रमाः । तद्रात्रे रूपं क्रियते । पवित्रं दर्भाः । पवयत्येवैनं तत् । अथेध्ममादीप्य अन्वंचं हर्तवै ब्रूयात् । ब्राह्मण आर्षेय उद्धरेत् । ब्राह्मणो वा आर्षेयः सर्वा देवताः । सर्वाभिरेवैनं तद्देवताभिः समर्द्धयति । तमुपसमाधाय प्रतिपरेत्य गार्हपत्य आज्यमधिश्रित्य उद्वास्योत्पूयावेक्ष्य यथागृहीतमाज्यं गृहीत्वा समिधमुपसंगृह्य प्राङुदाद्रवति । अथाहवनीये समिधमभ्याधाय दक्षिणं जान्वाच्य जुहोति- “विश्वेभ्यो देवेभ्यः स्वाहा”- इति । सो ऽसावेव बंधुः । न ह वै तत्र काचनार्तिः । न रिष्टिर्भवति । यत्रैषा प्रायश्चित्तिः क्रियते । एतदेव 12 तत्र कर्म ॥ ७ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे चतुर्थे ऽध्याये चतुर्थं ब्राह्मणम् ॥ (१२ । ४ । ४) ॥

नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन् हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥

श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥

भूभर्त्रा विक्रमार्केण क्लृप्तां कनकवेदिकाम् । दानायाध्यास्य कृतवान् श्रुत्यर्थविवृतिं हरिः ॥

इति श्रीसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीनां श्रीहरिस्वामिनां कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे चतुर्थो ऽध्यायः समाप्तः ॥ (१२-४) ॥

Eggeling
  1. They also say, ‘If the sun were to rise over any one’s Āhavanīya not having been taken out, what rite and what expiation would there be in that case?’ Verily, those rays are the All-gods; and, having dwelt there, they now go from him, and that (Agnihotra) fails him, because the gods go from him; and after that failure–whether he know it or know it not–those two (fires) say, ‘He (the sun) has risen on his unlifted (fire)’ In such a case let him proceed thus:–having fastened a piece of white gold (silver) to a plant of darbha grass, let him order it to be taken towards the front: thus it is made of the form of the moon; and, the moon being the night, it is made of the form of the night. And darbha plants are a means of purification: he thus purifies it thereby. Having then kindled some firewood, let him order it to be taken after (the piece of silver). A Brāhmaṇa descended from a R̥shi should take it out, for a Brāhmaṇa descended from a R̥shi represents all the deities: it is thus with the help of all the deities that he causes it (the fire) to succeed. Having laid it down, he returns, and, having placed ghee on the Gārhapatya, taken it off, purified it and looked down upon it, he takes ghee in the same way as it was taken before, and, having seized a log, he hastens up to the front; and, having put the log on the Āhavanīya, he bends his right knee and offers with, ‘To the All-gods, hail!’ The import is the same as before; and, verily, no hurt and no harm of any kind befalls where that expiation is made. This, then, is the rite performed in that case.
मूलम् - Makoto

त᳓द् आ᳓हुः ।॥
य᳓स्या᳓हवनी᳓यम् अ᳓नुद्धृतम् आ᳓दित्यो᳙ ऽभ्युदिया᳓त् किं᳓ त᳓त्र क᳓र्म का᳓ प्रा᳓यश्चित्तिर् इ᳓त्य् एते᳓ वै᳓ रश्म᳓यो वि᳓श्वे देवा᳓स् ते᳙ ऽस्मा᳓द् ऊषिवाँ᳓सो ऽपप्र᳓यन्ति त᳓द् अस्मै व्यृ᳙ध्यते य᳓स्मा᳓द् देवा᳓ अपप्रय᳓न्ति ता᳓म् अ᳓नु व्यृ᳙द्धिं य᳓श् च वे᳓द य᳓श् च न᳓ ता᳓ उभा᳓व् आ᳓हतुर् अ᳓नुद्धृतम् अस्या᳓भ्यु᳓दगा᳓द् इ᳓ति त᳓त्रेत्थं कुर्या᳓द् रजतँ᳓ हि᳓रण्यं दर्भे᳓ प्रब᳓ध्य पुर᳓स्ता᳓द् ध᳓र्तवै᳓ ब्रूया᳓त् त᳓च् चन्द्र᳓मसो रूपं᳓ क्रियते रा᳓त्रिर् वै᳓ चन्द्र᳓मा᳓स् त᳓द् रा᳓त्रे रूपं᳓ क्रियते पवि᳓त्रं दर्भाः᳓ पव᳓यत्य् एवै᳙नं त᳓द् अ᳓थेध्म᳓म् आ᳓दी᳓प्या᳓न्व᳓ञ्चँ ह᳓र्तवै᳓ ब्रूया᳓द् ब्रा᳓ह्मण᳓ आ᳓र्षेय᳓ उ᳓द्धरेत् ब्रा᳓ह्मणो᳓ वा᳓ आ᳓र्षेयः᳓ स᳓र्वा᳓ देव᳓ताः᳓ स᳓र्वा᳓भिर् एवै᳙नं त᳓द् देव᳓ता᳓भिः स᳓मर्धयति त᳓म् उपसमा᳓धा᳓य प्रतिपरे᳓त्य गा᳓र्हपत्य आ᳓ज्यम् अधिश्रि᳓त्योद्वा᳓स्योत्पू᳓या᳓वे᳓क्ष्य यथा᳓गृहीतम् आ᳓ज्यं गृहीत्वा᳓ समि᳓धम् उपसंगृ᳓ह्य प्रा᳓ङ् उदा᳓द्रवत्य् अ᳓था᳓हवनी᳓ये समि᳓धम् अभ्या᳓धा᳓य द᳓क्षिणं जा᳓न्व् आ᳓च्य जुहोति वि᳓श्वेभ्यो देवे᳓भ्यः स्वा᳓हे᳓ति सो᳙ ऽसा᳓व् एव᳓ ब᳓न्धुर् न᳓ ह वै᳓ त᳓त्र का᳓ चना᳓र्तिर् न᳓ रि᳓ष्टिर् भवति य᳓त्रैषा᳓ प्रा᳓यश्चित्तिः क्रिय᳓त एत᳓द् एव᳓ त᳓त्र कर्म᳓ ॥॥


  1. चक्रीवत्यग्नये पथिकृते । प्रज्ञातेष्ट्यतिपत्तौ च नियताप्त्वतिपत्तिश्रुतेः । स्तोत्रमोहे शस्त्रस्य च । जनमरणे च । उपपातसामर्थ्यात्स्वजने । नित्यत्वाच्च । चक्रीवान् रासभः । तदन्तरागमने इयम् । तदन्तरागमनं सर्वविषयमिति कर्कः । प्रज्ञाता नित्याः । का. श्रौ. सू. २५ । ७६-८२ । ↩︎

  2. 191:3 See notes on XIII, 4, 1, 13. ↩︎ ↩︎

  3. तुविंम्रक्षा᳘सो A.P. ↩︎

  4. संसर्गे नाद्रियेत । अग्नये विविचये मिथश्चेत् । का. श्रौ. सू. २५ । ८५-८७ । ↩︎

  5. संसर्गे नाद्रियेत । अग्नये विविचये मिथश्चेत् । का. श्रौ. सू. २५ । ८५-८७ । ↩︎

  6. ऽवरां३ऽ A. ऽ/वरां ।२॥ P. ↩︎

  7. तां३ऽ A. तां२ऽ P. ↩︎

  8. अग्नये संवर्गाय प्रदव्याच्चेत् । का. श्रौ. सू. २५ । ८८ । ↩︎ ↩︎

  9. अग्नये शुचये ऽशुच्यायतनाश्चेत् । का. श्रौ. सू. २५ । ९० । ↩︎

  10. 195:1 Viz. inasmuch as they are used as strainers; see I, 1, 3, 5; cf. also part i, p. 84, note 2. ↩︎

  11. 195:2 Whilst, on ordinary occasions, in clarifying butter for offering, the priest would first make the lady of the house look down on the ghee taken from the fire, before he himself (or the Sacrificer) does so (I, 3, 1, 19; 26); on the present occasion–as at offerings to the Fathers (Kāty. II, 7, 4 comm.)–the priest alone does so. ↩︎

  12. अजकर्णे वा दक्षिणे । अभोजनं तस्य । कुशस्तम्बे वा अनासनं तस्मिन् अप्सु वा ना ऽद्भ्यो बीभत्सेतेति श्रुतेः । अहुताभ्युदित उन्नीयातमितोरासति । हुत्वा भूरित्यनुमंत्रणम्, वरदानं च का. श्रौ. सू. । २५ । ६०-६८ । ↩︎