०१
विश्वास-प्रस्तुतिः
त᳘दाहुः॥ (र्य्य) यत्पू᳘र्व्वस्यामा᳘हुत्याᳫँ᳭ हुता᳘याम᳘थाग्नि᳘रनुग᳘च्छेत्किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘ति यम्प्र᳘तिवेशᳫँ᳭ श᳘कलम्विन्देत्त᳘मभ्य᳘स्याभि᳘जुहुयाद्दा᳘रौ दारावग्निरि᳘ति व्व᳘दन्दा᳘रौ दारौ᳘ ह्ये᳘वाग्ग्निर्य्य᳘द्यु ऽअस्य हृ᳘दयं᳘ व्व्येव᳘ लिखेद्धि᳘रण्यमभि᳘जुहुयादग्नेर्व्वा᳘ ऽएतद्रे᳘तो यद्धि᳘रण्यं य᳘ ऽउ वै᳘ पुत्रः स᳘ पिता यः᳘ पिता स᳘ पुत्रस्त᳘स्माद्धि᳘रण्यमभि᳘जुहुयादेत᳘देव[[!!]] त᳘त्र क᳘र्म॥
मूलम् - श्रीधरादि
त᳘दाहुः॥ (र्य्य) यत्पू᳘र्व्वस्यामा᳘हुत्याᳫँ᳭ हुता᳘याम᳘थाग्नि᳘रनुग᳘च्छेत्किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘ति यम्प्र᳘तिवेशᳫँ᳭ श᳘कलम्विन्देत्त᳘मभ्य᳘स्याभि᳘जुहुयाद्दा᳘रौ दारावग्निरि᳘ति व्व᳘दन्दा᳘रौ दारौ᳘ ह्ये᳘वाग्ग्निर्य्य᳘द्यु ऽअस्य हृ᳘दयं᳘ व्व्येव᳘ लिखेद्धि᳘रण्यमभि᳘जुहुयादग्नेर्व्वा᳘ ऽएतद्रे᳘तो यद्धि᳘रण्यं य᳘ ऽउ वै᳘ पुत्रः स᳘ पिता यः᳘ पिता स᳘ पुत्रस्त᳘स्माद्धि᳘रण्यमभि᳘जुहुयादेत᳘देव[[!!]] त᳘त्र क᳘र्म॥
मूलम् - Weber
त᳘दाहुः ॥ यत्पू᳘र्वस्यामा᳘हुत्याᳫं हुता᳘याम᳘थाग्नि᳘रनुग᳘छेत्किं त᳘त्र क᳘र्म का प्रा᳘यश्चित्तिरि᳘ति यं प्र᳘तिवेशᳫं श᳘कलं विन्देत्त᳘मभ्य᳘स्याभि᳘जुहुयाद्दा᳘रौ-दारावग्निरि᳘ति व᳘दन्दा᳘रौ-दारौॗ ह्येॗवाग्निर्य᳘द्युऽअस्य हृ᳘दॗयं व्येव᳘ लिखेद्धि᳘रण्यमभि᳘जुहुयादग्नेर्वा᳘ऽएतद्रे᳘तो यद्धि᳘रण्यं य᳘ उ वै᳘ पुत्रः स᳘ पिता यः᳘ पिता स᳘ पुत्रस्त᳘स्माद्धि᳘रण्यमभि᳘जुहुयादेत᳘देव᳘ त᳘त्र क᳘र्म ॥
मूलम् - विस्वरम्
तदाहुः- यत् पूर्वस्यामाहुत्यां 1 हुतायाम् । अथाग्निरनुगच्छेत् । किं तत्र कर्म । का प्रायश्चित्तिरिति । यं प्रतिवेशं शकलं विंदेत् । तमभ्यस्याभिजुहुयात् । “दारौ दारावग्निः”- इति । वदन् । दारौ दारौ ह्येवाग्निम् । यद्यु अस्य हृदयं व्येव लिखेत् । हिरण्यमभिजुहुयात् । अग्नेर्वा एतद्रेतः, यद्धिरण्यम् । य उ वै पुत्रः, स पिता । यः पिता, स पुत्रः । तस्माद्धिरण्यमभिजुहुयात् । एतदेव तत्र कर्म ॥ १ ॥
हरिस्वामी
…
Eggeling
- They also say, ‘If the fire were to go out after the first libation has been offered, what rite and what expiation would there be in that case?’ Having thrown down (on the fire-place) any log of wood he may find lying near by 2, let him offer thereon, saying, ‘In every (piece of) wood there is a fire,’ for, indeed, there is a fire in every (piece of) wood. But if his heart should at all misgive him, he may offer upon gold; for gold, doubtless, is Agni’s seed; and the father is the same as the son, and the son is the same as the father: he may therefore offer upon gold. This, then, is the rite performed in that case.
मूलम् - Makoto
त᳓द् आ᳓हुः ।॥
य᳓त् पू᳓र्वस्या᳓म् आ᳓हुत्याँ᳓ हुता᳓या᳓म् अ᳓था᳓ग्नि᳓र् अनुग᳓छेत् किं᳓ त᳓त्र क᳓र्म का᳓ प्रा᳓यश्चित्तिर् इ᳓ति यं᳓ प्र᳓तिवेशँ श᳓कलं विन्दे᳓त् त᳓म् अभ्य᳓स्या᳓भि᳓जुहुया᳓द् दा᳓रौदा᳓रा᳓व् अग्नि᳓र् इ᳓ति व᳓दन् दा᳓रौदा᳓रौ ह्य् ए᳙वा᳙ग्नि᳓र् य᳓द्य् उ अस्य हृ᳓दयं व्य् ए᳙व᳓ लिखेद् धि᳓रण्यम् अभि᳓जुहुया᳓द् अग्ने᳓र् वा᳓ एत᳓द् रे᳓तो य᳓द् धि᳓रण्यं य᳓ उ वै᳓ पुत्रः᳓ स᳓ पिता᳓ यः᳓ पिता᳓ स᳓ पुत्र᳓स् त᳓स्मा᳓द् धि᳓रण्यम् अभि᳓जुहुया᳓द् एत᳓द् एव᳓ त᳓त्र क᳓र्म ॥॥
०२
विश्वास-प्रस्तुतिः
त᳘दाहुः॥ (र्य्य᳘) य᳘स्याहवनी᳘य ऽउ᳘द्धृतः पु᳘रा ऽग्निहोत्रा᳘दनुग᳘च्छेत्किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘ति गा᳘र्हपत्यादे᳘वैनम्प्रा᳘ञ्चमुद्धृ᳘त्योपसमाधा᳘याग्निहोत्र᳘ञ्जुहुयात्स[[!!]] यद्य᳘पि शत᳘मेव कृ᳘त्वः पु᳘नः पुनरु᳘द्धृतो ऽनुग᳘च्छेद्गा᳘र्हपत्यादे᳘वैनम्प्रा᳘ञ्चमुद्धृ᳘त्योपसमाधा᳘याग्निहोत्र᳘ञ्जुहुयादेत᳘देव[[!!]] त᳘त्र क᳘र्म्म॥ (अर्द्धः प्रपाठकः कं० ४८)॥
मूलम् - श्रीधरादि
त᳘दाहुः॥ (र्य्य᳘) य᳘स्याहवनी᳘य ऽउ᳘द्धृतः पु᳘रा ऽग्निहोत्रा᳘दनुग᳘च्छेत्किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘ति गा᳘र्हपत्यादे᳘वैनम्प्रा᳘ञ्चमुद्धृ᳘त्योपसमाधा᳘याग्निहोत्र᳘ञ्जुहुयात्स[[!!]] यद्य᳘पि शत᳘मेव कृ᳘त्वः पु᳘नः पुनरु᳘द्धृतो ऽनुग᳘च्छेद्गा᳘र्हपत्यादे᳘वैनम्प्रा᳘ञ्चमुद्धृ᳘त्योपसमाधा᳘याग्निहोत्र᳘ञ्जुहुयादेत᳘देव[[!!]] त᳘त्र क᳘र्म्म॥ (अर्द्धः प्रपाठकः कं० ४८)॥
मूलम् - Weber
त᳘दाहुः ॥ य᳘स्याहवनी᳘य उ᳘द्धृतः पुॗराग्निहोत्रा᳘दनुग᳘छेत्किं त᳘त्र क᳘र्म का प्रा᳘यश्चित्तिरि᳘ति गा᳘र्हपत्या᳘देॗवैनं प्रा᳘ञ्चमुद्धृ᳘त्योपसमाधा᳘याग्निहोत्रं᳘ जुहुयात्स यद्य᳘पि शत᳘मेव कृ᳘त्वः पु᳘नःपुनरु᳘द्धृतोऽनुग᳘छेद्गा᳘र्हपत्यादेॗवैनं प्रा᳘ञ्चमुद्धृ᳘त्योपसमाधा᳘याग्निहोत्रं᳘ जुहुयादेतदे᳘व त᳘त्र क᳘र्म ॥
मूलम् - विस्वरम्
तदाहुः- यस्याहवनीय उद्धृतः । पुरा ऽग्निहोत्रादनुगच्छेत् 1 । किं तत्र कर्म । का प्रायश्चित्तिरिति । गार्हपत्यादेवैनं प्रांचमुद्धृत्य, उपसमाधाय, अग्निहोत्रं जुहुयात् । स यद्यपि शतमेव कृत्वः पुनः पुनरुद्धृतो ऽनुगच्छेत् । गार्हपत्यादेवैनं प्रांचमुद्धृत्योपसमाधायाग्निहोत्रं जुहुयात् । एतदेव तत्र कर्म ॥ २ ॥
हरिस्वामी
…
Eggeling
- They also say, ‘If, after being taken out (from the Gārhapatya), the Āhavanīya were to go out
before the Agnihotra (has been offered), what rite and what expiation would there be in that case?’ Let him take it out (again) from the Gārhapatya (and bring it) forward, and, having laid it down (on the Āhavanīya hearth), let him offer the Agnihotra thereon. And were it to go out again and again, after being taken out even a hundred times, let him take it out (again) from the Gārhapatya, and, having laid it down, let him offer the Agnihotra thereon. This, then, is the rite performed in that case.
मूलम् - Makoto
त᳓द् आ᳓हुः ।॥
य᳓स्या᳓हवनी᳓य उ᳓द्धृतः पुरा᳙ग्निहोत्रा᳓द् अनुग᳓छेत् किं᳓ त᳓त्र क᳓र्म का᳓ प्रा᳓यश्चित्तिर् इ᳓ति गा᳓र्हपत्या᳓द् एवै᳙नं प्रा᳓ञ्चम् उद्धृ᳓त्योपसमा᳓धा᳓या᳓ग्निहोत्रं᳓ जुहुया᳓त् स᳓ य᳓द्य् अ᳓पि शत᳓म् एव᳓ कृत्वः᳓ पु᳓नःपुनर् उ᳓द्धृतो ऽनुग᳓छेद् गा᳓र्हपत्या᳓द् एवै᳙नं प्रा᳓ञ्चम् उद्धृ᳓त्योपसमा᳓धा᳓या᳓ग्निहोत्रं᳓ जुहुया᳓द् एत᳓द् एव᳓ त᳓त्र क᳓र्म ॥॥
०३
विश्वास-प्रस्तुतिः
त᳘दाहुः॥ (र्य्य᳘) य᳘स्य गा᳘र्हपत्यो ऽनुग᳘च्छेत्किन्त᳘त्र कर्म्म᳘[[!!]] का प्रा᳘यश्चित्तिरि᳘ति तᳫँ᳭ है᳘क ऽउ᳘ल्मुकादेव नि᳘र्म्मन्थन्ति यतो वै पु᳘रुषस्यान्ततो न᳘श्यति त᳘तो वै स त᳘स्य प्रा᳘यश्चित्तिमिच्छत ऽइ᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्य्यादुल्मुकᳫँ᳭ ह वै᳘वादा᳘य च᳘रेयुरु᳘ल्मुकस्य वा ऽवव्व्र᳘श्चमित्थ᳘मेव᳘ कुर्य्यादु᳘ल्मुकाद᳘ङ्गारमादा᳘य त᳘मर᳘ण्योरभिवि᳘मथ्नीयादु᳘प ह तङ्का᳘ममाप्नोति य᳘ ऽउल्मुकम᳘थ्य ऽउ᳘पो तं᳘ यो ऽर᳘ण्योरेत᳘देव त᳘त्र क᳘र्म्म॥
मूलम् - श्रीधरादि
त᳘दाहुः॥ (र्य्य᳘) य᳘स्य गा᳘र्हपत्यो ऽनुग᳘च्छेत्किन्त᳘त्र कर्म्म᳘[[!!]] का प्रा᳘यश्चित्तिरि᳘ति तᳫँ᳭ है᳘क ऽउ᳘ल्मुकादेव नि᳘र्म्मन्थन्ति यतो वै पु᳘रुषस्यान्ततो न᳘श्यति त᳘तो वै स त᳘स्य प्रा᳘यश्चित्तिमिच्छत ऽइ᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्य्यादुल्मुकᳫँ᳭ ह वै᳘वादा᳘य च᳘रेयुरु᳘ल्मुकस्य वा ऽवव्व्र᳘श्चमित्थ᳘मेव᳘ कुर्य्यादु᳘ल्मुकाद᳘ङ्गारमादा᳘य त᳘मर᳘ण्योरभिवि᳘मथ्नीयादु᳘प ह तङ्का᳘ममाप्नोति य᳘ ऽउल्मुकम᳘थ्य ऽउ᳘पो तं᳘ यो ऽर᳘ण्योरेत᳘देव त᳘त्र क᳘र्म्म॥
मूलम् - Weber
त᳘दाहुः ॥ य᳘स्य गा᳘र्हपत्योऽनुग᳘छेत्किं त᳘त्र क᳘र्म का प्रा᳘यश्चित्तिरि᳘ति तᳫं है᳘कऽउ᳘ल्मुकादेव नि᳘र्मन्थन्ति यतो वै पु᳘रुषस्यान्ततो न᳘श्यति त᳘तो वै स त᳘स्य प्रा᳘यश्चित्तिमिछतऽइ᳘ति व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यादुल्मुकᳫं ह वै᳘ वादा᳘य च᳘रेयुरु᳘ल्मुकस्य वावव्र᳘श्चमित्थ᳘मेव᳘ कुर्यादु᳘ल्मुकाद᳘ङ्गारमादा᳘य त᳘मर᳘ण्योरभिवि᳘मथ्नीयादु᳘प ह तं का᳘ममाप्नोति य᳘ उल्मुकम᳘थ्यऽउ᳘पो तंॗ योऽर᳘ण्योरेत᳘देव त᳘त्र क᳘र्म ॥
मूलम् - विस्वरम्
तदाहुः- यस्य 3 गार्हपत्यो ऽनुगच्छेत् । किं तत्र कर्म । का प्रायश्चित्तिरिति । तं हैक उल्मुकादेव निर्मन्थन्ति । यतो वै पुरुषस्यांततो नश्यति । ततो वै स तस्य प्रायश्चित्तिमिच्छते इति वदन्तः । तदु तथा न कुर्यात् । उल्मुकं ह वैवादाय चरेयुः । उल्मुकस्य वा वव्रश्चम् । इत्थमेव कुर्यात् । उल्मुकादंगारमादाय । तमरण्योरभिविमथ्नीयात् । उप ह तं काममाप्नोति । य उल्मुकमध्ये । उपो तं, यो ऽरण्योः । एतदेव तत्र कर्म ॥ ३ ॥
हरिस्वामी
…
Eggeling
- They also say, ‘If the Gārhapatya were to go out, what rite and what expiation would there be in that case?’ Well, some churn it out from a firebrand, saying, ‘Whereby man’s (body) is destroyed in the end, it is therefrom he desires the expiation of this (mishap).’ Let him, however, not do this; but let them proceed by taking either a firebrand, or a piece from a firebrand;–let him do it in this way:–having taken a coal from a firebrand, let him crumble it on the two churning-sticks, for (in this way) he obtains both that desire which is contained in the (fire) churned out of a firebrand, and that which is contained in (the fire churned out from) the churning-sticks. This, then, is the rite performed in that case.
मूलम् - Makoto
त᳓द् आ᳓हुः ।॥
य᳓स्य गा᳓र्हपत्यो ऽनुग᳓छेत् किं᳓ त᳓त्र क᳓र्म का᳓ प्रा᳓यश्चित्तिर् इ᳓ति तं᳓ है᳓क उ᳓ल्मुका᳓द् एव᳓ नि᳓र्मन्थन्ति यतो᳓ वै᳓ पु᳓रुषस्या᳓न्ततो᳓ न᳓श्यति त᳓तो वै᳓ स᳓ त᳓स्य प्रा᳓यश्चित्तिम् इछत इ᳓ति व᳓दन्तस् त᳓द् उ त᳓था᳓ न᳓ कुर्या᳓द् उ᳓ल्मुकँ ह वै᳓ वा᳓दा᳓य च᳓रेयुर् उ᳓ल्मुकस्य वा᳓वव्र᳓श्चम् इत्थ᳓म् एव᳓ कुर्या᳓द् उ᳓ल्मुका᳓द् अ᳓ङ्गा᳓रम् आ᳓दा᳓य त᳓म् अर᳓ण्योर् अभिवि᳓मथ्नीया᳓द् उ᳓प ह तं᳓ का᳓मम् आ᳓प्नोति य᳓ उल्मुकम᳓थ्य उ᳓पो तं᳓ यो᳙ ऽर᳓ण्योर् एत᳓द् एव᳓ त᳓त्र क᳓र्म ॥॥
०४
विश्वास-प्रस्तुतिः
त᳘दाहुः॥ (र्य्य᳘) य᳘स्याग्ना᳘वग्नि᳘मभ्युद्ध᳘रेयुः किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘तीश्वरौ वा᳘ ऽएतौ᳘ सम्पाद्या᳘शान्तौ य᳘जमानस्य प्रजा᳘ञ्च पशूं᳘श्च निर्द्द᳘हतस्त᳘दभि᳘मन्त्रयेत स᳘मितᳫँ᳭ स᳘ङ्कल्पेथाᳫँ᳭ स᳘म्प्रियौ रोचिष्णू[[!!]] सुमनस्य᳘मानौ। इ᳘षमू᳘र्ज्जमभि᳘सम्व᳘सानौ॥ स᳘म्वाम्म᳘नाᳫँ᳭सि स᳘म्व्रता स᳘मु चित्तान्या᳘करम् अ᳘ग्ने पुरीष्याधिपा᳘ भव त्व᳘न्न ऽइ᳘षमू᳘र्ज्जं य᳘जमानाय धेही᳘ति शा᳘न्तिमे᳘वाभ्यामेत᳘द्वदति य᳘जमानस्य प्रजा᳘यै पशूनाम᳘हिᳫँ᳭सायै॥
मूलम् - श्रीधरादि
त᳘दाहुः॥ (र्य्य᳘) य᳘स्याग्ना᳘वग्नि᳘मभ्युद्ध᳘रेयुः किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘तीश्वरौ वा᳘ ऽएतौ᳘ सम्पाद्या᳘शान्तौ य᳘जमानस्य प्रजा᳘ञ्च पशूं᳘श्च निर्द्द᳘हतस्त᳘दभि᳘मन्त्रयेत स᳘मितᳫँ᳭ स᳘ङ्कल्पेथाᳫँ᳭ स᳘म्प्रियौ रोचिष्णू[[!!]] सुमनस्य᳘मानौ। इ᳘षमू᳘र्ज्जमभि᳘सम्व᳘सानौ॥ स᳘म्वाम्म᳘नाᳫँ᳭सि स᳘म्व्रता स᳘मु चित्तान्या᳘करम् अ᳘ग्ने पुरीष्याधिपा᳘ भव त्व᳘न्न ऽइ᳘षमू᳘र्ज्जं य᳘जमानाय धेही᳘ति शा᳘न्तिमे᳘वाभ्यामेत᳘द्वदति य᳘जमानस्य प्रजा᳘यै पशूनाम᳘हिᳫँ᳭सायै॥
मूलम् - Weber
त᳘दाहुः ॥ य᳘स्याग्ना᳘वग्नि᳘मभ्युद्ध᳘रेयुः किं त᳘त्र क᳘र्म का प्रा᳘यश्चित्तिरि᳘तीश्वरौ वा᳘ऽएतौ᳘ सम्पद्या᳘शान्तौ य᳘जमानस्य प्रजां᳘ च पशूं᳘श्च निर्द᳘हस्त᳘दभि᳘मन्त्रयेत स᳘मितᳫं सं᳘कल्पेथाᳫं स᳘म्प्रियौ रोचिष्णू᳘ सुमनस्य᳘मानौ इ᳘षमू᳘र्जमभि᳘ संव᳘सानौ ॥ सं᳘ वां म᳘नाᳫंसि सं᳘ व्रता स᳘मु चित्तान्या᳘करम् अ᳘ग्ने पुरीष्याधिपा᳘ भव त्वं᳘ न इ᳘षमू᳘र्जं य᳘जमानाय धेही᳘ति शा᳘न्तिमेॗवाभ्यामेत᳘द्वदति य᳘जमानस्य प्रजा᳘यै पशूनाम᳘हिᳫंसायै ॥
मूलम् - विस्वरम्
तदाहुः- यस्याग्नावग्निमभ्युद्धरेयुः 3 । किं तत्र कर्म । का प्रायश्चित्तिरिति । ईश्वरौ वा एतौ संपाद्याशांतौ यजमानस्य प्रजां च पशूंश्च निर्द्दहतः । तदभिमन्त्रयेत । “समितँ संकल्पेथाँ संप्रियौ रोचिष्णू सुमनस्यमानौ । इषमूर्जमभिसंवसानौ ॥ सं वां मनाँसि संव्रता समु चित्तान्याकरम् । अग्ने पुरीष्याधिपा भव त्वन्न इषमूर्जं यजमानाय धेहि”- (वा. सं. १२ । ५७-५८) इति । शांतिमेवाभ्यामेतद्वदति । यजमानस्य प्रजायै पशूनामहिंसायै ॥ ४ ॥
हरिस्वामी
…
Eggeling
- They also say, ‘If they take out fire for any one and put it with (the burning Āhavanīya) fire, what rite and what expiation would there be in that case?’ When uniting, these two (fires), if unappeased, would indeed be liable to burn up the Sacrificer’s family and cattle: let him therefore utter upon them the text (Vāj. S. XII, 57, 58), ‘Unite ye two, and get ye on together, loving, radiant, well disposed, dwelling together for food and drink!–Together have I brought
your minds, together your rites, together your thoughts: O Agni Purīshya, be thou the overlord, and bestow thou food and drink upon our Sacrificer!’ He thereby bespeaks peace on the part of those two for the safety of the Sacrificer’s family and cattle.
मूलम् - Makoto
त᳓द् आ᳓हुः ।॥
य᳓स्या᳓ग्ना᳓व् अग्नि᳓म् अभ्युद्ध᳓रेयुः किं᳓ त᳓त्र क᳓र्म का᳓ प्रा᳓यश्चित्तिर् इ᳓तीश्वरौ᳓ वा᳓ एतौ᳓ सम्पद्या᳓शा᳓न्तौ य᳓जमा᳓नस्य प्रजां᳓ च पशूं᳓श् च निर्द᳓हस् त᳓द् अभि᳓मन्त्रयेत स᳓मितँ सं᳓कल्पेथाँ᳓ स᳓म्प्रियौ रोचिष्णू᳓ सुमनस्य᳓मा᳓नौ इ᳓षम् ऊ᳓र्जम् अभि᳓ संव᳓सा᳓नौ ॥ सं᳓ वां᳓ म᳓नाँ᳓सि सं᳓ व्रता᳓ स᳓म् उ चित्ता᳓न्य् आ᳓करम् अ᳓ग्ने पुरीष्या᳓धिपा᳓ भव त्वं᳓ न इ᳓षम् ऊ᳓र्जं य᳓जमा᳓ना᳓य धेही᳓ति शा᳓न्तिम् एवा᳙भ्या᳓म् एत᳓द् वदति य᳓जमा᳓नस्य प्रजा᳓यै पशूना᳓म् अ᳓हिँसा᳓यै ॥॥
०५
विश्वास-प्रस्तुतिः
य᳘द्यु ऽअस्य हृ᳘दयं᳘[[!!]] व्येव[[!!]] लिखे᳘त्॥
(द) अग्न᳘ये ऽग्निम᳘ते ऽष्टा᳘कपालम्पुरोडा᳘शन्नि᳘र्व्वपेत्त᳘स्यावृ᳘त्सप्त᳘दश सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्रघ्नावा᳘ज्यभागौ व्विरा᳘जौ संया᳘ज्ये ऽअ᳘थैते᳘ याज्या ऽनुवा᳘क्ये ऽअग्नि᳘ना ऽग्निः स᳘मिध्यते कवि᳘र्ग्गृह᳘पतिर्य्यु᳘वा। हव्व्यवा᳘ड्जु᳘ह्वास्य ऽइत्य᳘थ या᳘ज्या त्व᳘ᳫँ᳘ ह्यग्ने ऽअग्नि᳘ना व्वि᳘प्रो व्वि᳘प्रेण स᳘न्त्सता[[!!]]। स᳘खा स᳘ख्या समिध्य᳘स ऽइ᳘ति शा᳘न्तिमे᳘वाभ्यामेत᳘द्वदति य᳘जमानस्य प्रजा᳘यै पशूनाम᳘हिᳫँ᳭साया ऽएत᳘देव त᳘त्र क᳘र्म्म॥
मूलम् - श्रीधरादि
य᳘द्यु ऽअस्य हृ᳘दयं᳘[[!!]] व्येव[[!!]] लिखे᳘त्॥
(द) अग्न᳘ये ऽग्निम᳘ते ऽष्टा᳘कपालम्पुरोडा᳘शन्नि᳘र्व्वपेत्त᳘स्यावृ᳘त्सप्त᳘दश सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्रघ्नावा᳘ज्यभागौ व्विरा᳘जौ संया᳘ज्ये ऽअ᳘थैते᳘ याज्या ऽनुवा᳘क्ये ऽअग्नि᳘ना ऽग्निः स᳘मिध्यते कवि᳘र्ग्गृह᳘पतिर्य्यु᳘वा। हव्व्यवा᳘ड्जु᳘ह्वास्य ऽइत्य᳘थ या᳘ज्या त्व᳘ᳫँ᳘ ह्यग्ने ऽअग्नि᳘ना व्वि᳘प्रो व्वि᳘प्रेण स᳘न्त्सता[[!!]]। स᳘खा स᳘ख्या समिध्य᳘स ऽइ᳘ति शा᳘न्तिमे᳘वाभ्यामेत᳘द्वदति य᳘जमानस्य प्रजा᳘यै पशूनाम᳘हिᳫँ᳭साया ऽएत᳘देव त᳘त्र क᳘र्म्म॥
मूलम् - Weber
य᳘द्युऽअस्य हृ᳘दॗयं व्येव᳘ लिखे᳘त् ॥
अग्न᳘येऽग्निम᳘तेऽष्टा᳘कपालं पुरोडा᳘शं नि᳘र्वपेत्त᳘स्यावृ᳘त्सप्त᳘दश सामिधेनीर᳘नुब्रूयाद्वा᳘र्त्रघ्नावा᳘ज्यभागौ विरा᳘जौ संयाॗज्येऽअ᳘थैते᳘ याज्यानुवाॗक्येऽअग्नि᳘नाग्निः स᳘मिध्यते कवि᳘र्गृह᳘पतिर्यु᳘वा हव्यवा᳘ड्जुॗह्वास्य इत्य᳘थ याॗज्या त्वॗᳫंॗ ह्यग्नेऽअग्नि᳘ना वि᳘प्रो वि᳘प्रेण स᳘न्त्सता᳟ स᳘खा स᳘ख्या समिध्य᳘सऽइ᳘ति शा᳘न्तिमेॗवाभ्यामेत᳘द्वदति य᳘जमानस्य प्रजा᳘यै पशूनाम᳘हिᳫंसायाऽएत᳘देव त᳘त्र क᳘र्म ॥
मूलम् - विस्वरम्
यद्यु अस्य हृदयं व्येव लिखेत् । अग्नये ऽग्निमते ऽष्टाकपालं पुरोडाशं निर्वपेत् । तस्यावृत् । सप्तदश सामिधेनीरनुब्रूयात् । वार्त्रघ्नावाज्यभागौ । विराजौ संयाज्ये । अथैते याज्यानुवाक्ये । “अग्निना ऽग्निः समिध्यते कांवेर्गृहपतिर्युवा । हव्यवाड् जुह्वास्यः”- इति । अथ याज्या । “त्वँ ह्यग्ने ऽअग्निना विप्रो विप्रेण सन्त्सता । सखा सख्या समिध्यसे”- इति । शांतिमेवाभ्यामेतद्वदति । यजमानस्य प्रजायै पशूनामहिंसायै । एतदेव तत्र कर्म ॥ ५ ॥
हरिस्वामी
…
Eggeling
- But if his heart should at all misgive him, let him prepare a cake on eight potsherds to Agni Agnimat (the fire possessed of a fire). The course of procedure thereof (is as follows):–he should recite seventeen kindling-verses; the two butter-portions relate to the slaying of Vr̥tra 4; the saṁyājyās 5 are two Virāj verses; and the invitatory and offering formulas (of the chief oblation) are as follows:–(the anuvākyā, R̥g-veda S. I, 12, 6), Agni is kindled by Agni, he, the sage, the youthful house-lord, the tongue-mouthed bearer of oblations;’ and the yājyā, ‘For thou, O Agni, art kindled by Agni, priest, as thou art, by a priest, friend by friend.’ He thereby bespeaks peace on the part of those two, for the safety of the Sacrificer’s family and cattle. This, then, is the rite performed in that case.
मूलम् - Makoto
य᳓द्य् उ अस्य हृ᳓दयं व्य् ए᳙व᳓ लिखे᳓त् ।॥
अग्न᳓ये ऽग्निम᳓ते ऽष्टा᳓कपा᳓लं पुरोडा᳓शं नि᳓र्वपेत् त᳓स्या᳓वृ᳓त् सप्त᳓दश सा᳓मिधेनी᳓र् अ᳓नुब्रूया᳓द् वा᳓र्त्रघ्ना᳓व् आ᳓ज्यभा᳓गौ विरा᳓जौ संया᳓ज्ये᳙ अ᳓थैते᳓ या᳓ज्या᳓नुवा᳓क्ये᳙ अग्नि᳓ना᳓ग्निः᳓ स᳓मिध्यते कवि᳓र् गृह᳓पतिर् यु᳓वा᳓ हव्यवा᳓ड् जुह्वा᳙स्य इत्य् अ᳓थ या᳓ज्या᳙ त्वँ᳓ ह्य् अ᳙ग्ने अग्नि᳓ना᳓ वि᳓प्रो वि᳓प्रेण स᳓न्त् सता᳓ स᳓खा᳓ स᳓ख्या᳓ समिध्य᳓स इ᳓ति शा᳓न्तिम् एवा᳙भ्या᳓म् एत᳓द् वदति य᳓जमा᳓नस्य प्रजा᳓यति पशूना᳓म् अ᳓हिँसा᳓या᳓ एत᳓द् एव᳓ त᳓त्र क᳓र्म ॥॥
०६
विश्वास-प्रस्तुतिः
त᳘दाहुः॥ (र्य्य᳘) य᳘स्याहवनीये᳘ ऽननुगते गा᳘र्हपत्यो ऽनुग᳘च्छेत्किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘ति तᳫँ᳭ है᳘के त᳘त ऽएव प्रा᳘ञ्चमु᳘द्धरन्ति प्राणा वा᳘ ऽअग्न᳘यः प्राणा᳘ने᳘वास्मा ऽएतदु᳘द्धराम ऽइ᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्य्याद्यो᳘ हैनन्त᳘त्र ब्रूयात्प्रा᳘चो न्वा᳘ ऽअयं य᳘जमानस्य प्राणान्प्रा᳘रौत्सीन्मरि᳘ष्य᳘त्ययं य᳘जमान ऽइ᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥
मूलम् - श्रीधरादि
त᳘दाहुः॥ (र्य्य᳘) य᳘स्याहवनीये᳘ ऽननुगते गा᳘र्हपत्यो ऽनुग᳘च्छेत्किन्त᳘त्र क᳘र्म्म का प्रा᳘यश्चित्तिरि᳘ति तᳫँ᳭ है᳘के त᳘त ऽएव प्रा᳘ञ्चमु᳘द्धरन्ति प्राणा वा᳘ ऽअग्न᳘यः प्राणा᳘ने᳘वास्मा ऽएतदु᳘द्धराम ऽइ᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्य्याद्यो᳘ हैनन्त᳘त्र ब्रूयात्प्रा᳘चो न्वा᳘ ऽअयं य᳘जमानस्य प्राणान्प्रा᳘रौत्सीन्मरि᳘ष्य᳘त्ययं य᳘जमान ऽइ᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥
मूलम् - Weber
त᳘दाहुः ॥ य᳘स्याहवनीये᳘ऽननुगते गा᳘र्हपत्योऽऽनुग᳘छेत्किं त᳘त्र क᳘र्म का प्रा᳘यश्चित्तिरि᳘ति तᳫं है᳘के त᳘त एव प्रा᳘ञ्चमु᳘द्धरन्ति प्राणा वा᳘ऽअग्न᳘यः प्राणा᳘नेॗवास्माऽएतदु᳘द्धराम इ᳘ति व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्याद्यो᳘ हैनं त᳘त्र ब्रूयात्प्रा᳘चो न्वा᳘ऽअयं य᳘जमानस्य प्राणान्प्रा᳘रौत्सीन्मरिष्य᳘त्ययं य᳘जमान इ᳘तीश्वरो ह त᳘थैव᳘ स्यात् ॥
मूलम् - विस्वरम्
तदाहुः- यस्याहवनीये ऽननुगते 6 गार्हपत्यो ऽनुगच्छेत् । किं तत्र कर्म । का प्रायश्चित्तिरिति । तं हैके तत एव प्रांचमुद्धरन्ति । प्राणा वा अग्नयः । प्राणानेवास्मा एतदुद्धराम इति वदंतः । तदु तथा न कुर्यात् । यो हैनं तत्र ब्रूयात् । प्राचो न्वा अयं यजमानस्य प्राणान् प्रारौत्सीत् । मरिष्यत्ययं यजमानः । इति ईश्वरो ह तथैव स्यात् ॥ ६ ॥
हरिस्वामी
…
Eggeling
- They also say, ‘If any one’s Gārhapatya were to go out when the Āhavanīya has not gone out, what rite and what expiation would there be in that case?’ Now, some take (a new fire) out from that same (Āhavanīya hearth, and carry it) forwards 7,
saying, ‘The fires are the vital airs: it is the vital airs we thus take up for him.’ But let him not do this, for if, in that case, any one were to say of him, ‘Surely this one has obstructed the forward vital airs 8: this Sacrificer will die,’ then that would indeed be likely to come to pass.
मूलम् - Makoto
त᳓द् आ᳓हुः ।॥
य᳓स्या᳓हवनी᳓ये᳓ ऽननुगते गा᳓र्हपत्यो ऽनुग᳓छेत् किं᳓ त᳓त्र क᳓र्म का᳓ प्रा᳓यश्चित्तिर् इ᳓ति तँ᳓ है᳓के त᳓त एव᳓ प्रा᳓ञ्चम् उ᳓द्धरन्ति प्रा᳓णा᳓ वा᳓ अग्न᳓यः प्रा᳓णा᳓न् एवा᳙स्मा᳓ एत᳓द् उ᳓द्धरा᳓म इ᳓ति व᳓द्न्तस् त᳓द् उ त᳓था᳓ न᳓ कुर्या᳓द् यो᳓ हैनं त᳓त्र ब्रूया᳓त् प्रा᳓चो न्वा᳓ अयं᳓ य᳓जमा᳓नस्य प्रा᳓णा᳓न् प्रा᳓रौत्सीन् मरिष्य᳓त्य् अयं᳓ य᳓जमा᳓न इ᳓तीश्वरो ह त᳓थैव᳓ स्या᳓त् ॥॥
०७
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थ है᳘के प्रत्य᳘ञ्चमा᳘हरन्ति॥
प्राणोदाना᳘विमावि᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्य्यात्स्व᳘र्ग्ग्यं वा᳘ ऽएतद्य᳘दग्निहोत्रं यो᳘ हैनन्त᳘त्र ब्रूयात्प्र᳘ति न्वा᳘ ऽअय᳘ᳫँ᳘ स्वर्ग्गा᳘ल्लोकाद᳘वारुक्ष᳘न्नास्येद᳘ᳫँ᳘ स्व᳘र्ग्ग्यमिव भविष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थ है᳘के प्रत्य᳘ञ्चमा᳘हरन्ति॥
प्राणोदाना᳘विमावि᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्य्यात्स्व᳘र्ग्ग्यं वा᳘ ऽएतद्य᳘दग्निहोत्रं यो᳘ हैनन्त᳘त्र ब्रूयात्प्र᳘ति न्वा᳘ ऽअय᳘ᳫँ᳘ स्वर्ग्गा᳘ल्लोकाद᳘वारुक्ष᳘न्नास्येद᳘ᳫँ᳘ स्व᳘र्ग्ग्यमिव भविष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥
मूलम् - Weber
अ᳘थ है᳘के प्रत्य᳘ञ्चमा᳘हरन्ति ॥
प्राणोदाना᳘विमावि᳘ति व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यात्स्वॗर्ग्यं वा᳘ऽएतद्य᳘दग्निहोत्रं यो᳘ हैनं त᳘त्र ब्रूयात्प्र᳘ति न्वा᳘ऽअय᳘ᳫं᳘ स्वर्गा᳘ल्लोकाद᳘वारुक्षॗन्नास्येद᳘ᳫं᳘ स्वॗर्ग्यमिव भविष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात् ॥
मूलम् - विस्वरम्
अथ हैके प्रत्यंचमाहरन्ति । प्राणोदानाविमाविति वदंतः । तदु तथा न कुर्यात् । स्वर्ग्यं वा एतत्, यदग्निहोत्रम् । यो हैनं तत्र ब्रूयात् । प्रति न्वा अयं स्वर्गाल्लोकादवारुक्षत् । नास्येदं स्वर्ग्यमिव भविष्यति इति । ईश्वरो ह तथैव स्यात् ॥ ७ ॥
हरिस्वामी
…
Eggeling
- And some, indeed, take (the Āhavanīya) back (to the Gārhapatya 9), saying, ‘These two are the out-breathing and the up-breathing.’ But let him not do this; for conducive to heaven, indeed, is the Agnihotra; and if, in that case, any one were to say of him, ‘Surely, this one has descended again from the heavenly world: this (offering) will be in no wise conducive to heaven for him,’ then that would indeed be likely to come to pass.
मूलम् - Makoto
अ᳓थ है᳓के प्रत्य᳓ञ्चम् आ᳓हरन्ति ।॥
प्रा᳓णोदा᳓ना᳓व् इमा᳓व् इ᳓ति व᳓दन्तस् त᳓द् उ त᳓था᳓ न᳓ कुर्या᳓त् स्वर्ग्यं᳙ वा᳓ एत᳓द् य᳓द् अग्निहोत्रं᳓ यो᳓ हैनं त᳓त्र ब्रूया᳓त् प्र᳓ति न्वा᳓ अयँ᳓ स्वर्गा᳓ल् लोका᳓द् अ᳓वा᳓रुक्षन् ना᳙स्येदँ᳓ स्वर्ग्य᳙म् इव भविष्यती᳓तीश्वरो᳓ ह त᳓थैव᳓ स्या᳓त् ॥॥
०८
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थ है᳘के ऽन्यङ्गा᳘र्हपत्यम्मन्थन्ति॥
त᳘दु त᳘था न᳘ कुर्य्याद्यो᳘ हैनन्त᳘त्र ब्रूया᳘दग्नेर्न्वा᳘ ऽअयम᳘धि द्विष᳘न्तम्भ्रा᳘तृव्व्यमजीजनत क्षि᳘प्प्रे ऽस्य द्विषन्भ्रा᳘तृव्व्यो जनिष्य᳘ते प्प्रिय᳘तमᳫँ᳭ रोत्स्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थ है᳘के ऽन्यङ्गा᳘र्हपत्यम्मन्थन्ति॥
त᳘दु त᳘था न᳘ कुर्य्याद्यो᳘ हैनन्त᳘त्र ब्रूया᳘दग्नेर्न्वा᳘ ऽअयम᳘धि द्विष᳘न्तम्भ्रा᳘तृव्व्यमजीजनत क्षि᳘प्प्रे ऽस्य द्विषन्भ्रा᳘तृव्व्यो जनिष्य᳘ते प्प्रिय᳘तमᳫँ᳭ रोत्स्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥
मूलम् - Weber
अ᳘थ है᳘केऽन्यं गा᳘र्हपत्यं मन्थन्ति ॥
त᳘दु त᳘था न᳘ कुर्याद्यो᳘ हैनं त᳘त्र ब्रूया᳘दग्नेर्न्वा᳘ऽअयम᳘धि 10 द्विष᳘न्तं भ्रा᳘तृव्यमजीजनत क्षिॗप्रेऽस्य द्विषन्भ्रा᳘तृव्यो जनिष्य᳘ते प्रिय᳘तमᳫं रोत्स्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात् ॥
मूलम् - विस्वरम्
अथ हैके ऽन्यं गार्हपत्यं मन्थन्ति । तदु तथा न कुर्यात् । यो हैनं तत्र ब्रूयात् । अग्नेर्न्वा अयमधिद्विषन्तं भ्रातृव्यमजीजनत । क्षिप्रे ऽस्य द्विषन् भ्रातृव्यो जनिष्यते । प्रियतमं रोत्स्यति । इति । ईश्वरो ह तथैव स्यात् ॥ ८ ॥
हरिस्वामी
…
Eggeling
- And some, indeed, churn out another Gārhapatya; but let him not do this, for if, in that case, any one were to say of him, ‘Surely, this one has raised a spiteful enemy from out of the fire 11: speedily a spiteful enemy will be raised to him; he (the Sacrificer) will weep 12 for him who is dearest to him,’ then that would indeed be likely to come to pass.
मूलम् - Makoto
अ᳓थ है᳓के ऽन्यं᳓ गा᳓र्हपत्यं मन्थन्ति ।॥
त᳓द् उ त᳓था᳓ न᳓ कुर्या᳓द् यो᳓ हैनं त᳓त्र ब्रूया᳓द् अग्ने᳓र् न्वा᳓ अय᳓म् अ᳓धि द्विष᳓न्तं भ्रा᳓तृव्यम् अजीजनत क्षिप्रे᳙ ऽस्य द्विष᳓न् भ्रा᳓तृव्यो जनिष्य᳓ते प्रिय᳓तमँ रोत्स्यती᳓तीश्वरो᳓ ह त᳓थैव᳓ स्या᳓त् ॥॥
०९
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थ है᳘के ऽनुगम᳘य्यान्य᳘म्म᳘न्थन्ति॥
त᳘स्याशा᳘न्नेयाद᳘पि यत्प᳘रिशिष्टम᳘भूत्त᳘दजीजसत᳘ नास्य दायाद᳘श्चन प᳘रिशेक्ष्यत ऽइ᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थ है᳘के ऽनुगम᳘य्यान्य᳘म्म᳘न्थन्ति॥
त᳘स्याशा᳘न्नेयाद᳘पि यत्प᳘रिशिष्टम᳘भूत्त᳘दजीजसत᳘ नास्य दायाद᳘श्चन प᳘रिशेक्ष्यत ऽइ᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥
मूलम् - Weber
अ᳘थ है᳘केऽनुगम᳘य्यान्यं᳘ मन्थन्ति ॥
त᳘स्याशांॗ नेयाद᳘पि यत्प᳘रिशिष्टम᳘भूत्त᳘दजीजसतॗ नास्य दायाद᳘श्चन प᳘रिशेक्ष्यतऽइ᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात् ॥
मूलम् - विस्वरम्
अथ हैके अनुगमय्यान्यं मन्थन्ति । तस्याशां नेयात् । अपि यत्परिशिष्टमभूत् । तदजीजसत । नास्य दायादश्चन परिशेक्ष्यत इति । ईश्वरो ह तथैव स्यात् ॥ ९ ॥
हरिस्वामी
…
Eggeling
- And some, again, extinguish (the Āhavanīya fire) and churn out another;–let him not yield to a desire for this; (for if, in that case, any one were to
say of him 13), ‘He has caused to be extinguished even what was left him: no heir will remain to him,’ then that would indeed be likely to come to pass.
मूलम् - Makoto
अ᳓थ है᳓के ऽनुगम᳓य्या᳓न्यं᳓ मन्थन्ति ।॥
त᳓स्या᳓शां᳓ ने᳙या᳓द् अ᳓पि य᳓त् प᳓रिशिष्टम् अ᳓भूत् त᳓द् अजीजसत ना᳙स्य दा᳓या᳓द᳓श्चन प᳓रिशेक्ष्यत इ᳓तीश्वरो᳓ ह त᳓थैव᳓ स्या᳓त् ॥॥
१०
विश्वास-प्रस्तुतिः
(दि) इत्थ᳘मेव᳘ कुर्य्यात्॥
(द) अर᳘ण्योरग्नी᳘ समारोह्यो᳘दङ्ङुदवसा᳘य निर्म्म᳘थ्य जु᳘ह्वद्वसेत्त᳘था ह न का᳘ञ्चन᳘ परिचक्षा᳘ङ्करो᳘ति नवावसान᳘ ऽउ ऽअस्याभितो रात्र᳘ᳫँ᳘ हुत᳘म्भवति॥
मूलम् - श्रीधरादि
(दि) इत्थ᳘मेव᳘ कुर्य्यात्॥
(द) अर᳘ण्योरग्नी᳘ समारोह्यो᳘दङ्ङुदवसा᳘य निर्म्म᳘थ्य जु᳘ह्वद्वसेत्त᳘था ह न का᳘ञ्चन᳘ परिचक्षा᳘ङ्करो᳘ति नवावसान᳘ ऽउ ऽअस्याभितो रात्र᳘ᳫँ᳘ हुत᳘म्भवति॥
मूलम् - Weber
इत्थ᳘मेव᳘ कुर्यात् ॥
अर᳘ण्योरग्नी᳘ समारोह्यो᳘दङ्ङुदवसा᳘य निर्म᳘थ्य जु᳘ह्वद्वसेत्त᳘था ह न कां᳘ चन᳘ परिचक्षां᳘ करो᳘ति नवावसान᳘ऽउऽअस्याभितोरात्र᳘ᳫं᳘ हुतं᳘ भवति ॥ ५ [४.३.] ॥ ॥
मूलम् - विस्वरम्
इत्थमेव कुर्यात् । अरण्योरग्नी समारोह्य उदङ्ङुदवसाय निर्मथ्य जुह्वद्वसेत् । तथा ह न कांचन परिचक्षां करोति । नवावसान उ अस्याभितो रात्रं हुतं भवति ॥ १० ॥
हरिस्वामी
…
Eggeling
- Let him rather proceed thus:–having lifted the two fires on the two churning-sticks 14, let him betake himself northwards, and, having churned out (the fire), let him remain there offering; for in this way he passes no censure on any one, and towards night offering is made by him at his new resting-place.
मूलम् - Makoto
इत्थ᳓म् एव᳓ कुर्या᳓त् ।॥
अर᳓ण्योर् अग्नी᳓ समा᳓रोह्यो᳓दङ्ङ् उदवसा᳓य निर्म᳓थ्य जु᳓ह्वद् वसेत् त᳓था᳓ ह न᳓ कां᳓ चन᳓ परिचक्षां᳓ करो᳓ति नवा᳓वसा᳓न᳓ उ अस्या᳓भितोरा᳓त्रँ᳓ हुतं᳓ भवति ॥॥
-
पूर्वाहुतौ हुतायां चेदाहवनीयो ऽनुगच्छेत्तदुक्तम् । काष्ठं हिरण्यं वा ऽभिजुहुयाच्छ्रुतेः । का. श्रौ. सू. २५ । ३१-३२ । ↩︎ ↩︎
-
187:1 Pratyāsanno viśatīti prativeśaḥ samīpasthaḥ, comm. ↩︎
-
गार्हपत्ये ऽनुगते भस्मना ऽरणी सँस्पृश्य मन्थनम् । का. श्रौ. सू. १५ । ३४ । ↩︎ ↩︎
-
189:1 That is, their Anuvākyās refer to Vr̥trahan. ↩︎
-
189:2 That is, the anuvākyā (invitatory formula) and yājyā (offering-formula) recited for the oblation to Agni Svishṭakr̥t. Cf. XIII, 4, 1, 13 note. ↩︎
-
आहवनीयजागरणे वा तत एवोद्धरणम् । आहृत्य वा । उपलराज्यागताद्वा । निर्मथ्य वा । समारोह्यसमारोह्य पूर्वमुपशमय्य पूर्ववद्धोमः । का. श्रौ. सू. २५ । ३५-३९ । ↩︎
-
189:3 That is to say, they make the still burning Āhavanīya their Gārhapatya and take out a new offering-fire which they lay down on a place to the eastward of the former Āhavanīya (the former Dakshiṇāgni being likewise transferred to a place south of the first third of the line between the new Gārhapatya and Āhavanīya, Katy. XXV, 3, 5 comm.). ↩︎
-
190:1 ? Or, has forced them forward. ↩︎
-
190:2 That is, they take the burning Āhavanīya fire back to the Gārhapatya hearth, and then take out therefrom a fresh Āhavanīya. ↩︎
-
अय᳘मधि AP. ↩︎
-
190:3 Viz. inasmuch as he takes out a new Āhavanīya from the newly kindled Gārhapatya, and puts it on the still burning Āhavanīya fire. ↩︎
-
190:4 Harisvāmin takes ‘rotsyati’ as from ‘rudh’–rodhena māraṇaṁ lakshyate, mārayishyatīty arthaḥ. ↩︎
-
191:1 There seems here to be an omission in the printed text, though MS. Ind. Off. 311, it is true, has the same reading. ↩︎
-
191:2 That is, by holding the sticks a moment near the fires. ↩︎