०१

विश्वास-प्रस्तुतिः

सावित्र᳘ᳫँ᳘ ह स्मैतम्पू᳘र्व्वे पशुमा᳘लभन्ते॥
(न्ते᳘ ऽथै) अ᳘थैत᳘र्हि प्राजापत्यं यो᳘ ह्येव᳘ सविता स᳘ प्रजा᳘पतिरि᳘ति व्व᳘दन्तस्त᳘स्मात्सन्न्यु᳘प्याग्नींस्ते᳘न यजेरन्गृह᳘पतेरे᳘वाग्नि᳘षु य᳘येदञ्जा᳘घन्या प᳘त्नीः संयाज᳘यन्ति त᳘स्यान्नो᳘ ऽप्यसदि᳘ति ते त᳘तो यदानिका᳘मन्दी᳘क्षन्ते॥

मूलम् - श्रीधरादि

सावित्र᳘ᳫँ᳘ ह स्मैतम्पू᳘र्व्वे पशुमा᳘लभन्ते॥
(न्ते᳘ ऽथै) अ᳘थैत᳘र्हि प्राजापत्यं यो᳘ ह्येव᳘ सविता स᳘ प्रजा᳘पतिरि᳘ति व्व᳘दन्तस्त᳘स्मात्सन्न्यु᳘प्याग्नींस्ते᳘न यजेरन्गृह᳘पतेरे᳘वाग्नि᳘षु य᳘येदञ्जा᳘घन्या प᳘त्नीः संयाज᳘यन्ति त᳘स्यान्नो᳘ ऽप्यसदि᳘ति ते त᳘तो यदानिका᳘मन्दी᳘क्षन्ते॥

मूलम् - Weber

सावित्र᳘ᳫं᳘ ह स्मैतं पू᳘र्वे पशुमा᳘लभन्ते ॥
अ᳘थैत᳘र्हि प्राजापत्यं योॗ ह्येव᳘ सविता स᳘ प्रजा᳘पतिरि᳘ति व᳘दन्तस्त᳘स्मात्संन्यु᳘प्याग्नींस्ते᳘न यजेरन्गृह᳘पतेरेॗवाग्नि᳘षु य᳘येदं जा᳘घन्या प᳘त्नीः संयाज᳘यन्ति त᳘स्यां नो᳘ऽप्यसदि᳘ति ते त᳘तो यदानिका᳘मं दी᳘क्षन्ते ॥

मूलम् - विस्वरम्

सावित्रं ह स्मैतं पूर्वे पशुमालभन्ते । अथैतर्हि प्राजापत्यम् । यो ह्येव सविता स प्रजापतिरिति वदन्तः । तस्मात् संन्युप्याग्नीन् तेन यजेरन् । गृहपतेरेवाग्निषु । ययेदं जाघन्या पत्नीः संयाजयन्ति । तस्यां नोप्य ऽसदिति । ते ततो यदानिकामं दीक्षन्ते ॥ १ ॥

हरिस्वामी

‘सावित्रं ह’ अत्र ब्राह्मणे श्रीकामानां सत्रिणाम् एककल्पो गवामयनो ऽभिगम्यते । यज्ञक्रतूनां च संवत्सरस्य पक्षयोः समता । एतमिष्टकापशुं गवामयने सावित्रं पूर्वे सत्रिण आलभन्ते स्म, इति पुराकल्पः । अथ अधुना वर्तमाने युगे प्राजापत्यमेवालभन्ते । संवत्सरसत्रे ऽपि न केवलम्, इतरत्र साग्निचित्ये क्रतावित्यभिप्रायः । तस्मात् संन्युप्येति वक्ष्यमाणहेतुत्वेन परामर्शेन पूर्वोक्तस्य हेतुत्वानुपपत्तेः । यदि हि पूर्वैः सावित्र आलब्धः अधुना च प्राजापत्य आलभ्यते । ततः किमिति अग्नयः सन्ति । उपपत्तेः कस्तर्ह्यत्र हेतुः । वक्ष्यमाणं “ययेदं जाघन्या” इदं प्रसिद्धम् । पत्नीः संयाजयन्ति पत्नीसंयाजान् कुर्वंति । तस्यामपि जाघन्यां नः अस्माकं भागः स्यादित्येवम् । यस्मात् सत्रिणो गृहपतिव्यतिरिक्ताः अकामयन्त तस्मात् संवत्सरसदः नीचैः स्थापयित्वा अग्नीन् सर्वेषां सत्रिणां ‘संन्युप्याग्नीन्’ गृहपतेरेवाग्निषु जातं गृहपतेर्गार्हपत्ये प्रास्येत्यर्थः । गार्हपत्यसन्निवापेनैव सर्वेष्वग्निषु संन्युप्ता भवन्तीत्यभिप्रायः। गृहपतेरेवारण्योः सन्निवापोक्तिः । तथापि हि गृहपतेरेवाग्निषु संन्युप्ता एव भवन्ति । नानागार्हपत्यपक्षनिवृत्तिमात्रमेव ह्यत्र विवक्षितं वाक्यशेषात् । तेनेष्टकाश्चयनीया यजेरन् कस्मादेवं न संबध्यते । गृहपतेरेवाग्निषु यजेरन्निति नैवं संबध्यते सन्निवापवचनात् । संन्युप्ताः साधारणाश्च एते ऽग्नयो भवन्ति । कथं गृहपतेरेवेत्युच्यते । ‘ययेदं जाघन्येति’ कः अभिप्रायः । यदि किल अग्नयः संन्युप्येरन् । ततः पृथग्गार्हपत्या भवेयुः । तदा च गृहपतेरेव गार्हपत्ये जाघन्या पत्नीः संयाजयन्त्याज्यं नेतरे प्रतियजंत आसत इत्येष कल्पः स्यात् । तथा च सति जाघन्या सत्रिणो ऽन्तरिताः स्युरिति । ते सत्रिणस्ततः इष्टकापशोः परतो यदानिकामम् । निशब्दः संशब्दस्यार्थे यथा संगतः । एकार्थत्वासर्वेषां (कतेमाभवंतत्यदा वयं दीक्षाम इति ?) यदा दीक्षन्ते तदा निकामस्तदेत्येतस्मिन्नर्थे यदानिकाममित्यव्ययीभावसमासः ॥ १ ॥

Eggeling
  1. Of old, indeed, they were wont to seize this victim as one dedicated to Savitr̥, but now they seize it as one dedicated to Prajāpati, saying, ‘Savitr̥, in truth, is the same as Prajāpati.’ It is therefore after having thrown together the (sacrificial) fires that they ought to perform this (animal) sacrifice on the Gr̥hapati’s own fires, thinking, ‘May we also have a share in this tail (of the. victim) wherewith they are now making offering together to the wives

(of the gods).’ They then perform the initiation ceremony whenever they choose.

मूलम् - Makoto

सा᳓वित्रँ᳓ ह स्मैतं᳓ पू᳓र्वे पशु᳓म् आ᳓लभन्ते ।॥
अ᳓थैत᳓र्हि प्रा᳓जा᳓पत्यं᳓ यो᳓ ह्य् ए᳙व᳓ सविता᳓ स᳓ प्रजा᳓पतिर् इ᳓ति व᳓दन्तस् त᳓स्मा᳓त् संन्यु᳓प्या᳓ग्नीं᳓स् ते᳓न यजेरन् गृह᳓पतेर् एवा᳙ग्नि᳓षु य᳓येदं᳓ जा᳓घन्या᳓ प᳓त्नीः संया᳓जयन्ति त᳓स्यां᳓ नो᳓ ऽप्य् असद् इ᳓ति ते᳓ त᳓तो यदा᳓निका᳓मं दी᳓क्षन्ते ॥॥

०२

विश्वास-प्रस्तुतिः

त᳘दु वा᳘ ऽआहुः॥
(र्न्ना᳘) ना᳘नाधिष्ण्या ऽएव᳘ स्युर्य्य᳘दि दीक्षित᳘स्योपत᳘पेत्पार्श्व᳘तो ऽग्निहोत्रञ्जु᳘ह्वद्वसेत्स य᳘द्यगदो भ᳘वति सᳫँ᳭सृ᳘ज्यैनम्पुनरु᳘पह्वयन्ते[[!!]] य᳘द्यु म्रिय᳘ते स्वै᳘रेव त᳘मग्नि᳘भिर्द्दहन्त्य᳘शवाग्निभिरि᳘तरे य᳘जमाना ऽआसत ऽइ᳘ति तद᳘हैवा᳘हिताग्नेः[[!!]] क᳘र्म्म समानधिष्ण्या᳘स्त्वेव᳘[[!!]] भवन्ति त᳘स्य त᳘देव ब्रा᳘ह्मणं य᳘त्पुरश्च᳘रणे॥

मूलम् - श्रीधरादि

त᳘दु वा᳘ ऽआहुः॥
(र्न्ना᳘) ना᳘नाधिष्ण्या ऽएव᳘ स्युर्य्य᳘दि दीक्षित᳘स्योपत᳘पेत्पार्श्व᳘तो ऽग्निहोत्रञ्जु᳘ह्वद्वसेत्स य᳘द्यगदो भ᳘वति सᳫँ᳭सृ᳘ज्यैनम्पुनरु᳘पह्वयन्ते[[!!]] य᳘द्यु म्रिय᳘ते स्वै᳘रेव त᳘मग्नि᳘भिर्द्दहन्त्य᳘शवाग्निभिरि᳘तरे य᳘जमाना ऽआसत ऽइ᳘ति तद᳘हैवा᳘हिताग्नेः[[!!]] क᳘र्म्म समानधिष्ण्या᳘स्त्वेव᳘[[!!]] भवन्ति त᳘स्य त᳘देव ब्रा᳘ह्मणं य᳘त्पुरश्च᳘रणे॥

मूलम् - Weber

त᳘दु वा᳘ऽआहुः ॥
ना᳘नाधिष्ण्या एव᳘ स्युर्य᳘दि दीक्षित᳘स्योपत᳘पेत्पा᳘र्श्वॗतोऽग्निहोत्रं जु᳘ह्वद्वसेत्स य᳘द्यगदो भ᳘वति सᳫंसृ᳘ज्यैनं पु᳘नरुपह्वयन्ते य᳘द्यु म्रिय᳘ते स्वै᳘रेव त᳘मग्नि᳘भिर्दहन्त्य᳘शवाग्निभिरि᳘तरे य᳘जमाना आसतऽइ᳘ति त᳘दहैवा᳘हिताग्नेः क᳘र्म समान᳘धिष्ण्याॗस्त्वेव 1 भवन्ति त᳘स्य त᳘देव ब्रा᳘ह्मणं य᳘त्पुरश्च᳘रणे ॥

मूलम् - विस्वरम्

तदु वा आहुः । नानाधिष्ण्या एव स्युः । यदि दीक्षितस्योपतपेत् । पार्श्वतः अग्निहोत्रं जुह्वत् वसेत् । स यद्यगदो भवति । संसृज्यैनं पुनरुपह्वयन्ते । यद्यु म्रियते । स्वैरेव तमग्निभिर्दहन्ति । अशवाग्निभिरितरे यजमाना आसत इति । तदहैवाहिताग्नेः कर्म । समानधिष्ण्यास्ते भवन्ति । तस्य तदेव ब्राह्मणं यत् पुरश्चरणे ॥ २ ॥

हरिस्वामी

‘तदु वा आहुः’ । ‘नानाधिष्ण्या एव स्युः’ इति कल्पांतरोपन्यासः । तेषां समान आहवनीयो भवति । नानागार्हपत्याः इत्येष कल्पः स्यादित्यर्थः । यदि दीक्षितस्योपतपेदिति । (दीक्षितास्तौ नांसं कंदारमेव परिवृत्तं भविष्यतीत्युपपत्तिवचने ।) यदि दीक्षितस्य किंचिदंगं व्याधिना उपतपेत् । ततः स तत एव प्रत्यात्मिकात् गार्हपत्यादाहवनीयमुद्धृत्य पार्श्वे आहवनीये अग्निहोत्रं जुह्वत् वसेत् । यदि अगदः आरोग्यं भवति । ततः संसृज्याग्निं गार्हपत्यं स्वस्थानमानीयेत्यर्थः । एनमातुरं पुनरुपह्वयंते यागेन याजयंते । यदि तु स म्रियते । ततः संसृष्टैरग्निभिः तत्पुत्रादयो दहंति । इतरे तु सत्रिणः अशवाग्निभिः शुद्धैरेव यजमानाः संतु । आसत इति संकटपरिहारः । तदहैवाहिताग्नेः कर्म । तदेतत् यथोक्तं आहिताग्नेरेव । (सत्रस्य विना सत्राकर्म उक्तम् ?) न सत्रिणः । अस्य हि गार्हपत्ये भिन्ने ऽपि आहवनीयादिसर्वं संसृष्टमेवास्ते । तत्र कुत इतरे अशवाग्निभिर्यजमाना आसीरन् । समानधिष्ण्याः साधारणगार्हपत्या एव ते सर्वे सत्रिणो भवंति । यथोक्तेन सन्निवापेन तस्य तु समानधिष्ण्यत्वम् । तस्य तदेव ब्राह्मणं यत्पुरश्चरणे । सत्रान्ते अग्निब्राह्मणे । तदपेक्षया सत्रान्तः पुरश्चरणमुच्यते ॥ २ ॥

Eggeling
  1. Here now they say, ‘They ought to have separate hearths; and if one of the initiates were to be taken ill let him stay aside offering the Agnihotra. If he gets well again, they bring (the fires) together and invite him to join them; but if he dies they burn him by his own (three) fires 2 without an (ordinary) fire for (burning) a dead body; and the other sacrificers sit (through the sacrificial session);–such at least is the performance in the case of one who keeps up his sacrificial fires; but, indeed, they have their hearths in common: the theological explication of this is the same as in regard to the preparatory ceremonial 3.’
मूलम् - Makoto

त᳓द् उ वा᳓ आ᳓हुः ।॥
ना᳓ना᳓धिष्ण्या᳓ एव᳓ स्युर् य᳓दि दीक्षित᳓स्योपत᳓पेत् पा᳓र्श्वतो᳙ ऽग्निहोत्रं᳓ जु᳓ह्वद् वसेत् स᳓ य᳓द्य् अगदो᳓ भ᳓वति सँसृ᳓ज्यैनं पु᳓नर् उ᳓पह्वयन्ते य᳓द्य् उ म्रिय᳓ते स्वै᳓र् एव᳓ त᳓म् अग्नि᳓भिर् दहन्त्य् अ᳓शवा᳓ग्निभिर् इ᳓तरे य᳓जमा᳓ना᳓ आ᳓सत इ᳓ति त᳓द् अ᳓हैवा᳓हिता᳓ग्नेः क᳓र्म समा᳓न᳓धिष्ण्या᳓स् त्व् ए᳙व᳓ भवन्ति त᳓स्य त᳓द् एव᳓ ब्रा᳓ह्मणं य᳓त् पुरश्च᳓रणे ॥॥

०३

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य्य᳘) य᳘त्सम्वत्सरा᳘य सम्वत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषामग्निहोत्रम᳘नन्तरितं भवती᳘ति व्व्रतेने᳘ति ब्रूयात्॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य्य᳘) य᳘त्सम्वत्सरा᳘य सम्वत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषामग्निहोत्रम᳘नन्तरितं भवती᳘ति व्व्रतेने᳘ति ब्रूयात्॥

मूलम् - Weber

त᳘दाहुः ॥
य᳘त्संवत्सरा᳘य संवत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषामग्निहोत्रम᳘नन्तरितं भवती᳘ति व्रतेने᳘ति ब्रूयात् ॥

मूलम् - विस्वरम्

तदाहुः- यत् संवत्सराय संवत्सरसदो दीक्षन्ते । कथमेषामग्निहोत्रमनन्तरितं भवतीति । व्रतेनेति ब्रूयात् ॥ ३ ॥

हरिस्वामी

‘तदाहुर्यत्’ प्रसन्नप्रायमतः परम् । यत् यदा संवत्सराय सत्रात्मकाय संवत्सरं सीदन्ति यांति इति संवत्सरसदः संवत्सरसत्रिणः दीक्षंते तदा कथमेषां सत्रिणां अग्निहोत्रं नित्यं सत् अनंतरितं सत्रे ऽन्तर्गतमाप्तं भवतीति प्रश्नः । को ऽभिप्रायः ? “दीक्षितो न ददाति न यजते न जुहोति नानृतं वदति” इति सर्वाण्येव नित्यानि कर्माणि दीक्षितस्य पर्युदस्तानि । ततश्च सत्रिणो बहुतराश्च यागा हीयेरन् इति । व्रतेनेति ब्रुवति । दीक्षितव्रतेनाग्निहोत्रमनंतरितं भवति । तत्र ह्युक्तम् । “एष ह्यस्यात्र यज्ञो भवत्येतद्धविर्यथा पुरा ऽग्निहोत्रम्” इति ॥ ३ ॥ ४ ॥

Eggeling
  1. They also say, ‘Seeing that the performers of a year’s session become initiated for a year, how does their Agnihotra come to be uninterrupted?’ Let him reply, ‘By the fast-milk.’
मूलम् - Makoto

त᳓द् आ᳓हुः ।॥
य᳓त् संवत्सरा᳓य संवत्सरस᳓दो दी᳓क्षन्ते कथ᳓म् एषा᳓म् अग्निहोत्र᳓म् अ᳓नन्तरितं भवती᳓ति व्रते᳓ने᳓ति ब्रूया᳓त् ॥॥

०४

विश्वास-प्रस्तुतिः

(त्त᳘) तदाहुः[[!!]]॥
(र्य्य᳘) य᳘त्सम्वत्सरा᳘य सम्वत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषाम्पौर्ण्णमास᳘ᳫँ᳘ हविर᳘नन्तरितम्भवतीत्या᳘ज्येन च पुरोडा᳘शेन चे᳘ति ब्रूयात्॥

मूलम् - श्रीधरादि

(त्त᳘) तदाहुः[[!!]]॥
(र्य्य᳘) य᳘त्सम्वत्सरा᳘य सम्वत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषाम्पौर्ण्णमास᳘ᳫँ᳘ हविर᳘नन्तरितम्भवतीत्या᳘ज्येन च पुरोडा᳘शेन चे᳘ति ब्रूयात्॥

मूलम् - Weber

त᳘दाहुः ॥
य᳘त्संवत्सरा᳘य संवत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषां पौर्णमास᳘ᳫं᳘ हविर᳘नन्तर्हितं भवतीत्या᳘ज्येन च पुरोडा᳘शेन चे᳘ति ब्रूयात् ॥

मूलम् - विस्वरम्

तदाहुः- यत्संवत्सराय संवत्सरसदो दीक्षन्ते । कथमेषां पौर्णमासं हविरनन्तरितं भवतीति । आज्येन च पुरोडाशेन चेति ब्रूयात् ॥ ४ ॥

हरिस्वामी

[व्याख्यानं तृतीये]

Eggeling
  1. They also say, ‘Seeing that the performers of a year’s session become initiated for a year, how does their Full-moon oblation come to be uninterrupted?’ Let him reply, ‘By the ghee and the sacrificial cake.’
मूलम् - Makoto

त᳓द् आ᳓हुः ।॥
य᳓त् संवत्सरा᳓य संवत्सरस᳓दो दी᳓क्षन्ते कथ᳓म् एषां᳓ पौर्णमा᳓सँ᳓ हवि᳓र् अ᳓नन्तर्हितं भवतीत्य् आ᳓ज्येन च पुरोडा᳓शेन चे᳓ति ब्रूया᳓त् ॥॥

०५

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘दाहुः॥
(र्य्य᳘) य᳘त्सम्वत्सरा᳘य सम्वत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषाम्पितृयज्ञो᳘ ऽनन्तरितो भवती᳘त्यौपासनैरि᳘ति ब्रूयात्॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘दाहुः॥
(र्य्य᳘) य᳘त्सम्वत्सरा᳘य सम्वत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषाम्पितृयज्ञो᳘ ऽनन्तरितो भवती᳘त्यौपासनैरि᳘ति ब्रूयात्॥

मूलम् - Weber

त᳘दाहुः ॥
य᳘त्संवत्सरा᳘य संवत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषां पितृयज्ञो᳘ऽनन्तरितो भवती᳘त्यौपासनैरि᳘ति ब्रूयात् ॥

मूलम् - विस्वरम्

तदाहुः- यत्संवत्सराय संवत्सरसदो दीक्षन्ते । कथमेषां पितृयज्ञो ऽनन्तरितो भवतीति । औपासनैरिति ब्रूयात् ॥ ५ ॥

हरिस्वामी

औपासनैः पुरोडाशमात्रा अनुदकाः पिंडपितृयज्ञवत् यथास्वं चमसेषु उप अस्यंते इत्युपासनानि, तेषु भवानि कर्माणि औपासनानि । तैः पितृयज्ञो ऽनंतरितो भवति ॥ ५ ॥ ६ ॥

Eggeling
  1. They also say, ‘Seeing that the performers of a year’s session become initiated for a year, how does their New-moon oblation come to be uninterrupted?’ Let him reply, ‘By the sour curds and the cake.’
मूलम् - Makoto

त᳓द् आ᳓हुः ।॥
य᳓त् संवत्सरा᳓य संवत्सरस᳓दो दी᳓क्षन्ते कथ᳓म् एषां᳓ पितृयज्ञो᳓ ऽनन्तरितो भवती᳓त्य् औपा᳓सनै᳓र् इ᳓ति ब्रूया᳓त् ॥॥

०६

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘दाहुः॥
(र्य्य᳘) य᳘त्सम्वत्सरा᳘य सम्वत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषामामावास्य᳘ᳫँ᳘ हविर᳘नन्तरितम्भवती᳘ति दध्ना᳘ च पुरोडा᳘शेन चे᳘ति ब्रूयात्॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘दाहुः॥
(र्य्य᳘) य᳘त्सम्वत्सरा᳘य सम्वत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषामामावास्य᳘ᳫँ᳘ हविर᳘नन्तरितम्भवती᳘ति दध्ना᳘ च पुरोडा᳘शेन चे᳘ति ब्रूयात्॥

मूलम् - Weber

त᳘दाहुः ॥
य᳘त्संवत्सरा᳘य संवत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषामामावास्य᳘ᳫं᳘ हविर᳘नन्तरितं भवती᳘ति दध्ना᳘ च पुरोडा᳘शेन चे᳘ति ब्रूयात् ॥

मूलम् - विस्वरम्

तदाहुः- यत्संवत्सराय संवत्सरसदो दीक्षन्ते । कथमेषामामावास्यं हविरनन्तरितं भवतीति । दध्ना च पुरोडाशेन चेतिं ब्रूयात् ॥ ६ ॥

हरिस्वामी

[व्याख्यानं पञ्चमे]

Eggeling
  1. They also say, ‘Seeing that the performers of a year’s session become initiated for a year, how does their offering to the Fathers come to be uninterrupted?’ Let him reply,’ By the Aupāsana (rites 4).’
मूलम् - Makoto

त᳓द् आ᳓हुः ।॥
य᳓त् संवत्सरा᳓य संवत्सरस᳓दो दी᳓क्षन्ते कथ᳓म् एषा᳓म् आ᳓मा᳓वा᳓स्यँ᳓ हवि᳓र् अ᳓नन्तरितं भवती᳓ति दध्ना᳓ च पुरोडा᳓शेन चे᳓ति ब्रूया᳓त् ॥॥

०७

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘दाहुः॥
(र्य्य᳘) य᳘त्सम्वत्सरा᳘य सम्वत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषामाग्ग्रयणेष्टिर᳘नन्तरिता भवती᳘ति सौम्ये᳘न चरुणे᳘ति ब्रूयात्॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘दाहुः॥
(र्य्य᳘) य᳘त्सम्वत्सरा᳘य सम्वत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषामाग्ग्रयणेष्टिर᳘नन्तरिता भवती᳘ति सौम्ये᳘न चरुणे᳘ति ब्रूयात्॥

मूलम् - Weber

त᳘दाहुः ॥
य᳘त्संवत्सरा᳘य संवत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषामाग्रयणेष्टिर᳘नन्तरिता भवती᳘ति सौम्ये᳘न चरुणे᳘ति ब्रूयात् ॥

मूलम् - विस्वरम्

तदाहुः- यत्संवत्सराय संवत्सरसदो दीक्षन्ते । कथमेषामाग्रयणेष्टिरनन्तरिता भवतीति । सौम्येन चरुणेति ब्रूयात् ॥ ७ ॥

हरिस्वामी

सौम्येन चरुणा तार्तीयसवनिकेन ॥ ७ ॥

Eggeling
  1. They also say, ‘Seeing that the performers of a year’s session become initiated for a year, how does their offering of firstfruits come to be uninterrupted?’ Let him reply, ‘By Soma’s pap 5.’
मूलम् - Makoto

त᳓द् आ᳓हुः ।॥
य᳓त् संवत्सरा᳓य संवत्सरस᳓दो दी᳓क्षन्ते कथ᳓म् एषा᳓म् आ᳓ग्रयणेष्टि᳓र् अ᳓नन्तरिता᳓ भवती᳓ति सौम्ये᳓न चरु᳓णे᳓ति ब्रूया᳓त् ॥॥

०८

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘दाहुः॥
(र्य्य᳘) य᳘त्सम्वत्सरा᳘य सम्वत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषाञ्चातुर्म्मास्यान्य᳘नन्तरितानि भवन्ती᳘ति पय᳘स्यये᳘ति ब्रूयात्॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘दाहुः॥
(र्य्य᳘) य᳘त्सम्वत्सरा᳘य सम्वत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषाञ्चातुर्म्मास्यान्य᳘नन्तरितानि भवन्ती᳘ति पय᳘स्यये᳘ति ब्रूयात्॥

मूलम् - Weber

त᳘दाहुः ॥
य᳘त्संवत्सरा᳘य संवत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषां चातुर्मास्यान्य᳘नन्तरितानि भवन्ती᳘ति पयॗस्यये᳘ति ब्रूयात् ॥

मूलम् - विस्वरम्

तदाहुः- यत्संवत्सराय संवत्सरसदो दीक्षन्ते । कथमेषां चातुर्मास्यान्यनन्तरितानि भवन्तीति । पयस्ययेति ब्रूयात् ॥ ८ ॥

हरिस्वामी

पयस्यया प्रातःसवनीया ऽनूबंध्यास्थाने या पयस्या सा अनित्यत्वादत्र गृह्यते । भवंत्येता अस्य उपासकस्य स्वाग्नेः विकल्पके ॥ ८-१० ॥

Eggeling
  1. They also say, ‘Seeing that the performers of a year’s session become initiated for a year, how do their seasonal offerings come to be uninterrupted?’ Let him reply, ‘By the Payasyā 6.’
मूलम् - Makoto

त᳓द् आ᳓हुः ।॥
य᳓त् संवत्सरा᳓य संवत्सरस᳓दो दी᳓क्षन्ते कथ᳓म् एषां᳓ चा᳓तुर्मा᳓स्या᳓न्य् अ᳓नन्तरिता᳓नि भवन्ती᳓ति पयस्य᳙ये᳓ति ब्रूया᳓त् ॥॥

०९

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘दाहुः॥
(र्य्य᳘) य᳘त्सम्वत्सरा᳘य सम्वत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषाम्पशुबन्धो᳘ ऽनन्तरितो भवती᳘ति पशु᳘ना च पुरोडा᳘शेन चे᳘ति ब्रूयात्॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘दाहुः॥
(र्य्य᳘) य᳘त्सम्वत्सरा᳘य सम्वत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषाम्पशुबन्धो᳘ ऽनन्तरितो भवती᳘ति पशु᳘ना च पुरोडा᳘शेन चे᳘ति ब्रूयात्॥

मूलम् - Weber

त᳘दाहुः ॥
य᳘त्संवत्सरा᳘य संवत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषां पशुबन्धो᳘ऽनन्तरितो भवती᳘ति पशु᳘ना च पुरोडा᳘शेन चे᳘ति ब्रूयात् ॥

मूलम् - विस्वरम्

तदाहुः- यत्संवत्सराय संवत्सरसदो दीक्षन्ते । कथमेषां पशुबन्धो ऽनन्तरितो भवतीति । पशुना च पुरोडाशेन चेति ब्रूयात् ॥ ९ ॥

हरिस्वामी

[व्याख्यानं अष्टमे]

Eggeling
  1. They also say, ‘Seeing that the performers of a year’s session become initiated for a year, how does their animal sacrifice come to be uninterrupted?’ Let him reply, ‘By the animal and the cake 7.’
मूलम् - Makoto

त᳓द् आ᳓हुः ।॥
य᳓त् संवत्सरा᳓य संवत्सरस᳓दो दी᳓क्षन्ते कथ᳓म् एषां᳓ पशुबन्धो᳓ ऽनन्तरितो भवती᳓ति पशु᳓ना᳓ च पुरोडा᳓शेन चे᳓ति ब्रूया᳓त् ॥॥

१०

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘दाहुः॥
(र्य्य᳘) य᳘त्सम्वत्सरा᳘य सम्वत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषाᳫँ᳭ सोमो᳘ ऽनन्तरितो भवती᳘ति स᳘वनैरि᳘ति ब्रूयात्॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘दाहुः॥
(र्य्य᳘) य᳘त्सम्वत्सरा᳘य सम्वत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषाᳫँ᳭ सोमो᳘ ऽनन्तरितो भवती᳘ति स᳘वनैरि᳘ति ब्रूयात्॥

मूलम् - Weber

त᳘दाहुः ॥
य᳘त्संवत्सरा᳘य संवत्सरस᳘दो दी᳘क्षन्ते कथ᳘मेषाᳫं सोमो᳘ऽनन्तरितो भवती᳘ति स᳘वनैरि᳘ति ब्रूयात् ॥

मूलम् - विस्वरम्

तदाहुः- यत् संवत्सराय संवत्सरसदो दीक्षंते । कथमेषां सोमो ऽनन्तरितो भवतीति । सवनैरिति ब्रूयात् ॥ १० ॥

हरिस्वामी

[व्याख्यानं अष्टमे]

Eggeling
  1. They also say, ‘Seeing that the performers of a year’s session become initiated for a year, how

does their Soma come to be uninterrupted?’ Let him reply, ‘By the Soma-pressings.’

मूलम् - Makoto

त᳓द् आ᳓हुः ।॥
य᳓त् संवत्सरा᳓य संवत्सरस᳓दो दी᳓क्षन्ते कथ᳓म् एषाँ᳓ सो᳓मो᳓ ऽनन्तरितो भवती᳓ति स᳓वनैर् इ᳓ति ब्रूया᳓त् ॥॥

११

विश्वास-प्रस्तुतिः

(त्ते) ते वा᳘ ऽएव᳘मेते᳘ यज्ञक्रत᳘वः॥
सम्वत्सरम᳘पियन्ति स यो᳘ हैव᳘मेतां᳘ यज्ञक्रतूना᳘ᳫँ᳘ सम्वत्सरे᳘ ऽपीतिम्वेदा᳘प्यस्य स्वर्ग्गे᳘ लोके᳘ भवति॥

मूलम् - श्रीधरादि

(त्ते) ते वा᳘ ऽएव᳘मेते᳘ यज्ञक्रत᳘वः॥
सम्वत्सरम᳘पियन्ति स यो᳘ हैव᳘मेतां᳘ यज्ञक्रतूना᳘ᳫँ᳘ सम्वत्सरे᳘ ऽपीतिम्वेदा᳘प्यस्य स्वर्ग्गे᳘ लोके᳘ भवति॥

मूलम् - Weber

ते वा᳘ऽएव᳘मेते᳘ यज्ञक्रत᳘वः ॥
संवत्सरम᳘पियन्ति स यो᳘ हैव᳘मेतां᳘ यज्ञक्रतूना᳘ᳫं᳘ संवत्सरे᳘ऽपीतिं वेदा᳘प्यस्य स्वर्गे᳘ लोके᳘ भवति ॥

मूलम् - विस्वरम्

ते वा एवमेते यज्ञक्रतवः संवत्सरमपियन्ति । स यो हैवमेतां यज्ञक्रतूनामपीतिं वेद । अप्यस्य स्वर्गे लोके भवति ॥ ११ ॥

हरिस्वामी

अपीतिमिति । संवत्सरसापेक्षयोः संबंधतुल्यत्वं वेदितव्यम् ॥ ११ ॥

Eggeling
  1. It is thus that these sacrificial rites enter into the year; and, verily, whosoever thus knows this entering of the sacrificial rites into the year becomes a sharer in the heavenly world.
मूलम् - Makoto

ते᳓ वा᳓ एव᳓म् एते᳓ यज्ञक्रत᳓वः ।॥
संवत्सर᳓म् अ᳓पियन्ति स᳓ यो᳓ हैव᳓म् एतां᳓ यज्ञक्रतूनाँ᳓ संवत्सरे᳓ ऽपीतिं वेदा᳓प्य् अस्य स्वर्गे᳓ लोके᳓ भवति ॥॥

१२

विश्वास-प्रस्तुतिः

सम्वत्सर᳘स्य सम᳘ता व्वेदितव्व्या[[!!]]॥
(व्व्यै᳘कं) ए᳘कम्पुर᳘स्ताद्विषुव᳘तो ऽतिरात्र᳘मुपयन्त्ये᳘कमुप᳘रिष्टात्त्र᳘यःपञ्चाशतम्पुर᳘स्ताद्विषुव᳘तो ऽग्निष्टोमा᳘नुपय᳘न्ति त्र᳘यःपञ्चाशतमुप᳘रिष्टाद्विᳫँ᳭शति᳘शतम्पुर᳘स्ताद्विषुव᳘त ऽउ᳘क्थ्यान्य᳘हान्युपय᳘न्ति[[!!]] विᳫँ᳭शति᳘शतमुप᳘रिष्टादि᳘ति नु य᳘ ऽउ᳘क्थ्यान्त्स्व᳘रसाम्न ऽउपयन्ति[[!!]]॥

मूलम् - श्रीधरादि

सम्वत्सर᳘स्य सम᳘ता व्वेदितव्व्या[[!!]]॥
(व्व्यै᳘कं) ए᳘कम्पुर᳘स्ताद्विषुव᳘तो ऽतिरात्र᳘मुपयन्त्ये᳘कमुप᳘रिष्टात्त्र᳘यःपञ्चाशतम्पुर᳘स्ताद्विषुव᳘तो ऽग्निष्टोमा᳘नुपय᳘न्ति त्र᳘यःपञ्चाशतमुप᳘रिष्टाद्विᳫँ᳭शति᳘शतम्पुर᳘स्ताद्विषुव᳘त ऽउ᳘क्थ्यान्य᳘हान्युपय᳘न्ति[[!!]] विᳫँ᳭शति᳘शतमुप᳘रिष्टादि᳘ति नु य᳘ ऽउ᳘क्थ्यान्त्स्व᳘रसाम्न ऽउपयन्ति[[!!]]॥

मूलम् - Weber

संवत्सर᳘स्य सम᳘ता वेदितव्या᳟ ॥
ए᳘कं पुर᳘स्ताद्विषुव᳘तोऽतिरात्र᳘मुपयन्त्येकमुप᳘रिष्टात्त्र᳘यःपञ्चाशतं पुर᳘स्ताद्विषुव᳘तोऽग्निष्टोमा᳘नुपय᳘न्ति त्र᳘यःपञ्चाशतमुप᳘रिष्टाद्विᳫंशति᳘शतं पुर᳘स्ताद्विषुव᳘त उॗक्थ्यान्य᳘हान्यु᳘पयन्ति विᳫंशति᳘शतमुप᳘रिष्टादि᳘ति नु य᳘ऽउॗक्थ्यान्त्स्व᳘रसाम्न उपय᳟न्ति ॥

मूलम् - विस्वरम्

संवत्सरस्य समता वेदितव्या । एकं पुरस्तात् विषुवतो ऽतिरात्रमुपयन्ति । एकमुपरिष्टात् । त्रयःपञ्चाशतं पुरस्ताद्विषुवतो ऽग्निष्टोमानुपयन्ति । त्रयःपंचाशतमुपरिष्टात् । विंशतिशतं पुरस्तात् विषुवत उक्थ्यान्यहान्युपयन्ति । विंशतिशतमुपरिष्टात् । इति नु य उक्थ्यान् स्वरसाम्न उपयन्ति ॥ १२ ॥

हरिस्वामी

उपयन्ति इति विधिः समेन वा अस्योपासकस्यात्रायनेन कर्मानुष्ठानेन इतम् ईप्सितं नूनं भवति । य एवमेतद्वेद उपास्ते इति वचनात् ॥ १२ ॥ १३ ॥

Eggeling
  1. In the year there should be known to be uniformity:–one Atirātra they perform before, and one after, the Vishuvat; fifty three Agnishṭomas they perform before, and fifty-three after, the Vishuvat; one hundred and twenty Ukthya days they perform before, and one hundred and twenty after, the Vishuvat,–thus at least in the case of those who perform the Svarasāmans as Ukthyas.
मूलम् - Makoto

संवत्सर᳓स्य सम᳓ता᳓ वेदितव्या᳙ ।॥
ए᳓कं पुर᳓स्ता᳓द् विषुव᳓तो ऽतिरा᳓त्र᳓म् उपय᳓न्त्य् ए᳓कम् उप᳓रिष्टा᳓त् त्र᳓यःपञ्चा᳓शतं पुर᳓स्ता᳓द् विषुव᳓तो ऽग्निष्टोमा᳓न् उपय᳓न्ति त्र᳓यःपञ्चा᳓शतम् उप᳓रिष्टा᳓द् विँशति᳓शतं पुर᳓स्ता᳓द् विषुव᳓त उक्थ्या᳙न्य् अ᳓हा᳓न्य् उ᳓पयन्ति विँशति᳓शतम् उप᳓रिष्टा᳓द् इ᳓ति नु᳓ य᳓ उक्थ्या᳙न्त् स्व᳓रसा᳓म्न उपय᳓न्ति ॥॥

१३

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ᳘ ये ऽग्निष्टोमान्[[!!]]॥
(न्ष) ष᳘ट्पञ्चाशतम्पुर᳘स्ताद्विषुव᳘तो ऽग्निष्टोमा᳘नुपय᳘न्ति ष᳘ट्पञ्चाशतमुप᳘रिष्टात्सप्तदश᳘ᳫँ᳘ शत᳘म्पुर᳘स्ताद्विषुव᳘त ऽउ᳘क्थ्यान्य᳘हान्युपय᳘न्ति सप्तदश᳘मुप᳘रिष्टात्ष᳘ट्पुर᳘स्ताद्विषुव᳘तः षोडशि᳘न ऽउपय᳘न्ति ष᳘डुप᳘रिष्टात्त्रिᳫँ᳭श᳘तम्पुर᳘स्ताद्विषुव᳘तः षडहा᳘न्युपय᳘न्ति त्रिᳫँ᳭श᳘तमुप᳘रिष्टादेषा᳘ हास्य सम᳘ता समे᳘न ह वा᳘ ऽअस्या᳘ व्व्यृद्धेना᳘न्यूनेना᳘नतिरिक्तेना᳘यनेनेत᳘म्भवति य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ᳘ ये ऽग्निष्टोमान्[[!!]]॥
(न्ष) ष᳘ट्पञ्चाशतम्पुर᳘स्ताद्विषुव᳘तो ऽग्निष्टोमा᳘नुपय᳘न्ति ष᳘ट्पञ्चाशतमुप᳘रिष्टात्सप्तदश᳘ᳫँ᳘ शत᳘म्पुर᳘स्ताद्विषुव᳘त ऽउ᳘क्थ्यान्य᳘हान्युपय᳘न्ति सप्तदश᳘मुप᳘रिष्टात्ष᳘ट्पुर᳘स्ताद्विषुव᳘तः षोडशि᳘न ऽउपय᳘न्ति ष᳘डुप᳘रिष्टात्त्रिᳫँ᳭श᳘तम्पुर᳘स्ताद्विषुव᳘तः षडहा᳘न्युपय᳘न्ति त्रिᳫँ᳭श᳘तमुप᳘रिष्टादेषा᳘ हास्य सम᳘ता समे᳘न ह वा᳘ ऽअस्या᳘ व्व्यृद्धेना᳘न्यूनेना᳘नतिरिक्तेना᳘यनेनेत᳘म्भवति य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - Weber

अ᳘थॗ येऽग्निष्टोमा᳟न् ॥
ष᳘ट्पञ्चाशतं पुर᳘स्ताद्विषुव᳘तोऽग्निष्टोमा᳘नुपय᳘न्ति ष᳘ट्पञ्चाशतमुप᳘रिष्टात्सप्तदश᳘ᳫं᳘ शतं᳘ पुर᳘स्ताद्विषुव᳘त उॗक्थ्यान्य᳘हान्युपय᳘न्ति सप्तदश᳘मुप᳘रिष्टात्ष᳘ट् पुर᳘स्ताद्विषुव᳘तः षोडशि᳘न उपय᳘न्ति ष᳘डुप᳘रिष्टात्त्रिᳫंश᳘तं पुर᳘स्ताद्विषुव᳘तः षडहा᳘नुपय᳘न्ति त्रिᳫंश᳘तमुप᳘रिष्टादेषा᳘ हास्य सम᳘ता समे᳘न ह वा᳘ऽअस्या᳘व्यृद्धेना᳘न्यूनेना᳘नतिरिक्तेना᳘यनेनेतं᳘ भवति य᳘ एव᳘मेतद्वे᳘द ॥ २ [३.५.] ॥ तृतीयोऽध्यायः [७७.] ॥ ॥

मूलम् - विस्वरम्

अथ ये ऽग्निष्टोमान् षट्पंचाशतं पुरस्तात् विषुवतो ऽग्निष्टोमानुपयंति । षट्पंचाशतमुपरिष्टात् । सप्तदशं शतं पुरस्तात् विषुवत उक्थ्यान्यहान्युपयंति । सप्तदशमुपरिष्टात् । षट्पुरस्ताद्विषुवतः षोडशिन उपयंति । षडुपरिष्टात् । त्रिंशतं पुरस्ताद्विषुवतः षडहान्युपयंति । त्रिंशतमुपरिष्टात् । एषा हास्य समता । समेन ह वा अस्या व्यृद्धेनान्यूनेनानतिरिक्तेनायनेनेतं भवति । य एवमेतद्वेद् ॥ १३ ॥

हरिस्वामी

[व्याख्यानं द्वादशे]

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकांडे तृतीये ऽध्याये पंचमं ब्राह्मणम् ॥ १२ । ३ । ५ ॥

नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन् हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥ १ ॥

श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥ २ ॥

भूभर्त्रा विक्रमार्केण क्लृप्तां कनकवेदिकाम् । दानायाध्यास्य कृतवान् श्रुत्यर्थविवृतिं हरिः ॥ ३ ॥

इति श्रीसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीनां श्रीहरिस्वामिनां कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे तृतीयो ऽध्यायः समाप्तः ॥ १२-३ ॥

Eggeling
  1. And in the case of those who (perform them) as Agnishṭomas, they perform fifty-six Agnishṭomas before, and fifty-six after, the Vishuvat; one hundred and seventeen Ukthya days they perform before, and one hundred and seventeen after, the Vishuvat; six Shoḍaśins they perform before, and six after, the Vishuvat; thirty Shaḍahas 8 they perform before, and thirty after, the Vishuvat:–such, then, is the uniformity of that (year), and, verily, he who thus knows this goes through a course of sacrificial performance which is uniform, and not ineffectual, neither defective nor redundant.
मूलम् - Makoto

अ᳓थ ये᳙ ऽग्निष्टोमा᳓न् ।॥
ष᳓ट्पञ्चा᳓शतं पुर᳓स्ता᳓द् विषुव᳓तो ऽग्निष्टोमा᳓न् उपय᳓न्ति ष᳓ट्पञ्चा᳓शतम् उप᳓रिष्टा᳓त् सप्तदशँ᳓ शतं᳓ पुर᳓स्ता᳓द् विषुव᳓त उक्थ्या᳙न्य् अ᳓हा᳓न्य् उपय᳓न्ति सप्तदश᳓म् उप᳓रिष्टा᳓त् ष᳓ट् पुर᳓स्ता᳓द् विषुव᳓तः षोडशि᳓न उपय᳓न्ति ष᳓ड् उप᳓रिष्टा᳓त् त्रिँश᳓तं पुर᳓स्ता᳓द् विषुव᳓तः षड् अहा᳓न् उपय᳓न्ति त्रिँश᳓तम् उप᳓रिष्टा᳓द् एषा᳓ हा᳓स्य सम᳓ता᳓ समे᳓न ह वा᳓ अस्या᳓वृद्धेना᳓न्यूनेना᳓नतिरिक्तेना᳓यनेनेतं᳓ भवति य᳓ एव᳓म् एत᳓द् वे᳓द ॥॥


  1. समानधिष्ण्या᳘स्त्वेव᳘ AP. ↩︎

  2. 175:1 This is the regular procedure in accordance with Gr̥hya rites, cf. Āśv. Gr̥hy. IV, 2, 11-13; whilst Pāraskara, III, 10, 11, merely says, ‘with the domestic fire they burn him who has established his (sacred) fire.’ ↩︎

  3. 175:2 For the ‘puraścaraṇa,’ see part iv, p. 337, note 2. ↩︎

  4. 176:1 Viz., by those rites which, during the time for which the Sacrificer is initiated, may be performed on his domestic (Āvasathya or Aupāsana) fire. Cf. Kāty. I, 1, 20. 21. Whether the domestic offerings to the Fathers (śrāddha) may be so performed seems doubtful. ↩︎

  5. 176:2 For the ordinary performance of the Āgrayaṇeshṭi, see part i, p. 370 seqq. According to Kāty. IV, 6, 11 seq. the performance of a year’s sattra is to mark the time at which the offering of first-fruits would otherwise have taken place by using new grain for his vrata-food, as well as for two Rauhiṇa cakes at the Upasads, and for the cakes offered in the animal sacrifice of the Soma days; and that a pap of new śyāmāka (millet) is to be offered to Soma at the proper season (during the rains, or autumn), and a pap of bamboo grain in summer. ↩︎

  6. 176:3 For this dish, made by the addition of fresh boiled milk to sour curds, see part i, p. 381, note 2. ↩︎

  7. 176:4 That is, by the animal offered on each successive Soma day, and the (savanīya) puroḍāśas offered subsequently; cf. IV, 2, 5, 14-22. ↩︎

  8. 177:1 That is, counting the Prāyaṇīya Atirātra, Caturviṁśa, Abhijit, and three Svarasāmans as one six-days’ performance, before the Vishuvat; and the three Svarasāmans, the Viśvajit, Goshṭoma, Āyushṭoma, four days of the Daśarātra (preceding and succeeding the central Shaḍaha), the Mahāvrata, and Udayanīya Atirātra as two six-days’ performances after the Vishuvat. ↩︎