०१

विश्वास-प्रस्तुतिः

पु᳘रुषᳫँ᳭ ह नारायण᳘म्प्रजा᳘पतिरुवाच॥
य᳘जस्वयजस्वे᳘ति स᳘ होवाच य᳘जस्वयजस्वे᳘ति वाव त्वम्मा᳘मात्थ त्रि᳘रयक्षि व्व᳘सवः प्रातःसवने᳘नागू रुद्रा मा᳘ध्यन्दिनेन स᳘वनेनादित्या᳘स्तृतीयसवनेना᳘थ म᳘म यज्ञवा᳘स्त्वेव᳘ यज्ञवास्ता᳘वे᳘वाह᳘मास ऽइ᳘ति॥

मूलम् - श्रीधरादि

पु᳘रुषᳫँ᳭ ह नारायण᳘म्प्रजा᳘पतिरुवाच॥
य᳘जस्वयजस्वे᳘ति स᳘ होवाच य᳘जस्वयजस्वे᳘ति वाव त्वम्मा᳘मात्थ त्रि᳘रयक्षि व्व᳘सवः प्रातःसवने᳘नागू रुद्रा मा᳘ध्यन्दिनेन स᳘वनेनादित्या᳘स्तृतीयसवनेना᳘थ म᳘म यज्ञवा᳘स्त्वेव᳘ यज्ञवास्ता᳘वे᳘वाह᳘मास ऽइ᳘ति॥

मूलम् - Weber

पु᳘रुषᳫं ह नारायणं᳘ प्रजा᳘पतिरुवाच ॥
य᳘जस्व-यजस्वे᳘ति स᳘ होवाच य᳘जस्व-यजस्वे᳘ति वाव त्वं मा᳘मात्थ त्रि᳘रयक्षि व᳘सवः प्रातःसवने᳘नागू रुद्राः मा᳘ध्यन्दिनेन स᳘वनेनादित्या᳘स्तृतीयसवनेना᳘थ म᳘म यज्ञवाॗस्त्वेव᳘ यज्ञवास्ता᳘वेॗवाह᳘मासऽइ᳘ति ॥

मूलम् - विस्वरम्

पुरुषं ह नारायणं प्रजापतिरुवाच यजस्वयजस्वति । स होवाच । यजस्वयजस्वेति वाव त्वं मामात्थ । त्रिरयक्षि । वसवः प्रातःसवनेनागुः । रुद्रा माध्यंदिनेन सवनेन । आदित्यास्तृतीयसवनेन । अथ मम यज्ञवास्त्वेव । यज्ञवास्तावेवाहमास इति ॥ १ ॥

हरिस्वामी

‘पुरुषं’ ह अनेनापि ब्राह्मणेन संवत्सरसत्रे पवमानत्रये उद्गातुरन्वारम्भविधेयतावचनम् । संस्थासु च जपाः । तत्र च प्रजापतिरुवाचेति । ‘अधिषि’ अयक्षि । “डुधाञ् धारणपोषणयोः”- (धा. पा. जु. उ. १०) इत्यस्य धातोरनद्यतने भूते काले लुट् । हितवान् स्थापितवान् । सर्वमित्यर्थः । अक्षिताः अक्षीणाः ॥ १-११ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनशतपथब्राह्मणभाष्ये द्वादशकांडे तृतीये ऽध्याये चतुर्थं ब्राह्मणम् ॥ १२ । ३ । ४ ॥

Eggeling
  1. Prajāpati once upon a time spake unto Purusha

Nārāyaṇa, ‘Offer sacrifice! offer sacrifice!’ He spake, ‘Verily, thou sayest to me, “Offer sacrifice! offer sacrifice!” and thrice have I offered sacrifice: by the morning-service the Vasus went forth, by the midday-service the Rudras, and by the evening-service the Ādityas; now I have but the offering-place 1, and on the offering-place I am sitting.’

मूलम् - Makoto

पु᳓रुषँ ह ना᳓रा᳓यणं᳓ प्रजा᳓पतिर् उवा᳓च ।॥
य᳓जस्वयजस्वे᳓ति स᳓ होवा᳓च य᳓जस्वयजस्वे᳓ति वा᳓व᳓ त्वं᳓ मा᳓म् आ᳓त्थ त्रि᳓र् अयक्षि व᳓सवः प्रा᳓तःसवने᳓ना᳓गू रुद्राः᳓ मा᳓ध्यन्दिनेन स᳓वनेना᳓दित्या᳓स् तृतीयसवनेना᳓थ म᳓म यज्ञवा᳓स्त्व् ए᳙व᳓ यज्ञवा᳓स्ता᳓व् एवा᳙ह᳓म् आ᳓स इ᳓ति ॥॥

०२

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
य᳘जस्वै᳘वाहम्वै᳘ ते त᳘द्वक्ष्यामि य᳘था त ऽउक्थ्या᳘नि मणि᳘रिव सू᳘त्र ऽओ᳘तानि भविष्य᳘न्ति सूत्रमिव[[!!]] वा मणावि᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
य᳘जस्वै᳘वाहम्वै᳘ ते त᳘द्वक्ष्यामि य᳘था त ऽउक्थ्या᳘नि मणि᳘रिव सू᳘त्र ऽओ᳘तानि भविष्य᳘न्ति सूत्रमिव[[!!]] वा मणावि᳘ति॥

मूलम् - Weber

स᳘ होवाच ॥
य᳘जस्वैॗवाहं वै᳘ ते त᳘द्वक्ष्यामि य᳘था तऽउक्था᳘नि मणि᳘रिव सू᳘त्रऽओ᳘तानि भविष्य᳘न्ति सू᳘त्रमिव वा मणावि᳘ति ॥

मूलम् - विस्वरम्

स होवाच । यजस्वैव । अहं वै ते तद्वक्ष्यामि । यथा त उक्थ्यानि मणिरिव सूत्र ओतानि भविष्यन्ति । सूत्रमिव वा मणाविति ॥ २ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. He spake, ‘Offer yet sacrifice! I will tell thee such a thing that thy hymns shall be strung as a pearl on a thread, or a thread through a pearl.’
मूलम् - Makoto

स᳓ होवा᳓च ।॥
य᳓जस्वैवा᳙हं᳓ वै᳓ ते त᳓द् वक्ष्या᳓मि य᳓था᳓ त उक्था᳓नि मणि᳓र् इव सू᳓त्र ओ᳓ता᳓नि भविष्य᳓न्ति सू᳓त्रम् इव वा᳓ मणा᳓व् इ᳓ति ॥॥

०३

विश्वास-प्रस्तुतिः

त᳘स्मा ऽउ हैत᳘दुवाच॥
प्रातःसवने᳘ बहिष्पवमान᳘ ऽउद्गाता᳘रमन्वा᳘रभासै श्ये᳘नो ऽसि गायत्र᳘च्छन्दा ऽअ᳘नु त्वा᳘ ऽऽरभे स्वस्ति᳘ मा स᳘म्पारयेति[[!!]]॥

मूलम् - श्रीधरादि

त᳘स्मा ऽउ हैत᳘दुवाच॥
प्रातःसवने᳘ बहिष्पवमान᳘ ऽउद्गाता᳘रमन्वा᳘रभासै श्ये᳘नो ऽसि गायत्र᳘च्छन्दा ऽअ᳘नु त्वा᳘ ऽऽरभे स्वस्ति᳘ मा स᳘म्पारयेति[[!!]]॥

मूलम् - Weber

त᳘स्माऽउ हैत᳘दुवाच ॥
प्रातःसवने᳘ बहिष्पवमान᳘ऽउद्गाता᳘रमन्वा᳘रभासै श्येॗनोऽसि गायत्र᳘छन्दा अ᳘नु त्वा᳘रभे स्वस्ति᳘ मा स᳘म्पारये᳟ति ॥

मूलम् - विस्वरम्

तस्मा उ हैतदुवाच । प्रातःसवने 2 बहिष्पवमान उद्गातारमन्वारभासै । “श्येनो ऽसि गायत्रच्छन्दा अनु त्वा ऽऽरभे स्वस्ति मा संपारय”- इति ॥ ३ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. And he spake thus unto him, ‘At the (chanting of the) Bahishpavamāna, at the morning-service, thou shalt hold on to the Udgātr̥ from behind, saying, “Thou art a falcon formed of the Gāyatrī metre,–I hold on to thee: bear me unto well-being!”
मूलम् - Makoto

त᳓स्मा᳓ उ हैत᳓द् उवा᳓च ।॥
प्रा᳓तःसवने᳓ बहिष्पवमा᳓न᳓ उद्गा᳓ता᳓रम् अन्वा᳓रभा᳓सै श्येनो᳙ ऽसि गा᳓यत्र᳓छन्दा᳓ अ᳓नु त्वा᳓रभे स्वस्ति᳓ मा᳓ स᳓म्पा᳓रये᳓ति ॥॥

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ मा᳘ध्यन्दिने प᳘वमाने॥
(न ऽ) उद्गाता᳘रमन्वा᳘रभासै सुप᳘र्ण्णो ऽसि त्रिष्टु᳘प्छन्दा ऽअ᳘नु त्वा᳘ ऽऽरभे स्वस्ति᳘ मा स᳘म्पारयेति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ मा᳘ध्यन्दिने प᳘वमाने॥
(न ऽ) उद्गाता᳘रमन्वा᳘रभासै सुप᳘र्ण्णो ऽसि त्रिष्टु᳘प्छन्दा ऽअ᳘नु त्वा᳘ ऽऽरभे स्वस्ति᳘ मा स᳘म्पारयेति[[!!]]॥

मूलम् - Weber

अ᳘थ मा᳘ध्यन्दिने प᳘वमाने ॥
उद्गाता᳘रमन्वा᳘रभासै सुपॗर्णोऽसि त्रिष्टु᳘प्छन्दा अ᳘नु त्वा᳘रभे स्वस्ति᳘ मा स᳘म्पारये᳟ति ॥

मूलम् - विस्वरम्

अथ माध्यन्दिने पवमाने उद्गातारमन्वारभासै । “सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वा ऽऽरभे स्वस्ति मा संपारय”- इति ॥ ४ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. ‘And at the midday Pavamāna thou shalt hold on to the Udgātr̥ from behind, saying, “Thou art an eagle formed of the Trishṭubh metre,–I hold on to thee: bear me unto well-being! "
मूलम् - Makoto

अ᳓थ मा᳓ध्यन्दिने प᳓वमा᳓ने ।॥
उद्गा᳓ता᳓रम् अन्वा᳓रभा᳓सै सुपर्णो᳙ ऽसि त्रिष्टु᳓प्छन्दा᳓ अ᳓नु त्वा᳓रभे स्वस्ति᳓ मा᳓ स᳓ या᳓रये᳓ति ॥॥

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ तृतीयसवन ऽआ᳘र्भ्भवे प᳘वमाने॥
(न ऽ) उद्गाता᳘रमन्वा᳘रभासा ऽऋभुरसि[[!!]] ज᳘गच्छन्दा ऽअ᳘नु त्वा᳘ ऽऽरभे स्वस्ति᳘ मा स᳘म्पारयेति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ तृतीयसवन ऽआ᳘र्भ्भवे प᳘वमाने॥
(न ऽ) उद्गाता᳘रमन्वा᳘रभासा ऽऋभुरसि[[!!]] ज᳘गच्छन्दा ऽअ᳘नु त्वा᳘ ऽऽरभे स्वस्ति᳘ मा स᳘म्पारयेति[[!!]]॥

मूलम् - Weber

अ᳘थ तृतीयसवनऽआ᳘र्भवे प᳘वमाने ॥
उद्गाता᳘रमन्वा᳘रभासाऽऋभु᳘रसि ज᳘गच्छन्दा अ᳘नु त्वा᳘रभे स्वस्ति᳘ मा स᳘म्पारये᳟ति ॥

मूलम् - विस्वरम्

अथ तृतीयसवन आर्भवे पवमाने उद्गातारमन्वारभासै । “ऋभुरसि जगच्छन्दा अनु त्वा ऽऽरभे स्वस्ति मा संपारय”- इति ॥ ५ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. ‘And at the Ārbhava-pavamāna, at the evening-service, thou shalt hold on to the Udgātr̥ from behind, saying, “Thou art a R̥bhu formed of the Jagat metre,–I hold on to thee: bear me unto well-being!”
मूलम् - Makoto

अ᳓थ त्रितीयसवन᳓ आ᳓र्भवे प᳓वमा᳓ने ।॥
उद्गा᳓ता᳓रम् अन्वा᳓रभा᳓सा᳓ ऋभु᳓र् असि ज᳓गच्छन्दा᳓ अ᳓नु त्वा᳓रभे स्वस्ति᳓ मा᳓ स᳓म्पा᳓रये᳓ति ॥॥

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ स᳘ᳫँ᳘स्थितेषु सᳫँ᳭स्थितेषु स᳘वनेषु जपेः॥
(र्म) म᳘यि भ᳘र्ग्गो म᳘यि महो[[!!]] म᳘यि य᳘शो म᳘यि स᳘र्व्वमि᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ स᳘ᳫँ᳘स्थितेषु सᳫँ᳭स्थितेषु स᳘वनेषु जपेः॥
(र्म) म᳘यि भ᳘र्ग्गो म᳘यि महो[[!!]] म᳘यि य᳘शो म᳘यि स᳘र्व्वमि᳘ति॥

मूलम् - Weber

अ᳘थ स᳘ᳫं᳘स्थितेषु-सᳫंस्थितेषु स᳘वनेषु जपेः ॥
म᳘यि भ᳘र्गो म᳘यि म᳘हो म᳘यि य᳘शो म᳘यि स᳘र्वमि᳘ति ॥

मूलम् - विस्वरम्

अथ संस्थितेषु संस्थितेषु सवनेषु जपेः 3“मयि भर्गो माये महो मयि यशो मयि सर्वम्”- इति ॥ ६ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. ‘And at the close of each pressing thou shalt mutter, “In me be light, in me might, in me glory, in me everything!”’
मूलम् - Makoto

अ᳓थ सँ᳓स्थितेषुसँस्थितेषु स᳓वनेषु जपेः ।॥
म᳓यि भ᳓र्गो म᳓यि महो᳓ म᳓यि य᳓शो म᳓यि स᳓र्वम् इ᳓ति ॥॥

०७

विश्वास-प्रस्तुतिः

(त्य) अयम्वै᳘ लोका भ᳘र्ग्गः॥
(र्ग्गो ऽन्त) अन्तरिक्षलोको म᳘हो द्यौर्य्य᳘शो᳘ ये ऽन्ये᳘ लोकास्तत्स᳘र्व्वम्॥

मूलम् - श्रीधरादि

(त्य) अयम्वै᳘ लोका भ᳘र्ग्गः॥
(र्ग्गो ऽन्त) अन्तरिक्षलोको म᳘हो द्यौर्य्य᳘शो᳘ ये ऽन्ये᳘ लोकास्तत्स᳘र्व्वम्॥

मूलम् - Weber

अयं वै᳘ लोका भ᳘र्गः ॥
अन्तरिक्षलोको म᳘हो द्यौर्य᳘शोॗ येऽन्ये᳘ लोकास्तत्स᳘र्वम् ॥

मूलम् - विस्वरम्

अयं वै लोको भर्गः । अंतरिक्षलोको महः । द्यौर्यशः । ये ऽन्ये लोकास्तत्सर्वम् ॥ ७ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. Now light, indeed, is this (terrestrial) world, might the air-world, glory the heavens, and what other worlds there are, they are everything (else).
मूलम् - Makoto

अयं᳓ वै᳓ लोका᳓ भ᳓र्गः ।॥
अन्तरिक्षलोको᳓ म᳓हो द्यौ᳓र् य᳓शो ये᳙ ऽन्ये᳓ लोका᳓स् त᳓त् स᳓र्वम् ॥॥

०८

विश्वास-प्रस्तुतिः

(म) अग्निर्व्वै भ᳘र्ग्गः॥
(र्ग्गो) व्वायुर्म्म᳘ह ऽआदित्यो य᳘शो᳘ ये ऽन्ये᳘ देवास्तत्स᳘र्व्वम्॥

मूलम् - श्रीधरादि

(म) अग्निर्व्वै भ᳘र्ग्गः॥
(र्ग्गो) व्वायुर्म्म᳘ह ऽआदित्यो य᳘शो᳘ ये ऽन्ये᳘ देवास्तत्स᳘र्व्वम्॥

मूलम् - Weber

अग्निर्वै भ᳘र्गः ॥
वायुर्म᳘ह आदित्यो य᳘शोॗ येऽन्ये᳘ देवास्तत्स᳘र्वम् ॥

मूलम् - विस्वरम्

अग्निर्वै भर्गः । वायुर्महः । आदित्यो यशः । ये ऽन्ये देवास्तत्सर्वम् ॥ ८ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. And light, indeed, is Agni, might Vāyu (the

wind), glory Āditya (the sun), and what other gods there are they are everything.

मूलम् - Makoto

अग्नि᳓र् वै᳓ भ᳓र्गः ।॥
वा᳓यु᳓र् म᳓ह आ᳓दित्यो᳓ य᳓शो ये᳙ ऽन्ये᳓ देवा᳓स् त᳓त् स᳓र्वम् ॥॥

०९

विश्वास-प्रस्तुतिः

(मृ) ऋग्वेदो वै भ᳘र्ग्गः॥
(र्गो) यजुर्व्वेदो म᳘हः सामवेदो[[!!]] य᳘शो᳘ ये ऽन्ये व्वे᳘दास्तत्स᳘र्व्वम्॥

मूलम् - श्रीधरादि

(मृ) ऋग्वेदो वै भ᳘र्ग्गः॥
(र्गो) यजुर्व्वेदो म᳘हः सामवेदो[[!!]] य᳘शो᳘ ये ऽन्ये व्वे᳘दास्तत्स᳘र्व्वम्॥

मूलम् - Weber

ऋग्वेदो वै भ᳘र्गः ॥
यजुर्वेदो म᳘हः सा᳘मवेदो य᳘शोॗ येऽन्ये वे᳘दास्तत्स᳘र्वम् ॥

मूलम् - विस्वरम्

ऋग्वेदो वै भर्गः । यजुर्वेदो महः । सामवेदो यशः । ये ऽन्ये वेदास्तत्सर्वम् ॥ ९ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. And light, indeed, is the R̥g-veda, might the Yajur-vela, glory the Sāma-veda, and what other Vedas there are they are everything.
मूलम् - Makoto

ऋग्वेदो᳓ वै᳓ भ᳓र्गः ।॥
यजुर्वेदो᳓ म᳓हः सा᳓मवेदो᳓ य᳓शो ये᳙ ऽन्ये᳓ वे᳓दा᳓स् त᳓त् स᳓र्वम् ॥॥

१०

विश्वास-प्रस्तुतिः

व्वाग्वै भ᳘र्ग्गः॥
प्राणो म᳘हश्च᳘क्षुर्य्य᳘शो᳘ ये ऽन्ये᳘ प्राणास्तत्स᳘र्व्वम्॥

मूलम् - श्रीधरादि

व्वाग्वै भ᳘र्ग्गः॥
प्राणो म᳘हश्च᳘क्षुर्य्य᳘शो᳘ ये ऽन्ये᳘ प्राणास्तत्स᳘र्व्वम्॥

मूलम् - Weber

वाग्वै भ᳘र्गः ॥
प्राणो म᳘हश्च᳘क्षुर्य᳘शोॗ येऽन्ये᳘ प्राणास्तत्स᳘र्वम् ॥

मूलम् - विस्वरम्

वाग्वै भर्गः । प्राणो महः । चक्षुर्यशः । ये ऽन्ये प्राणास्तत्सर्वम् ॥ १० ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. And light, indeed, is speech, might the breath, glory the eye, and what other vital airs there are they are everything.
मूलम् - Makoto

वा᳓ग् वै᳓ भ᳓र्गः ।॥
प्रा᳓णो᳓ म᳓हश् च᳓क्षुर् य᳓शो ये᳙ ऽन्ये᳓ प्रा᳓णा᳓स् त᳓त् स᳓र्वम् ॥॥

११

विश्वास-प्रस्तुतिः

त᳘द्विद्यात्॥
(त्स᳘) स᳘र्व्वांल्लोका᳘नात्म᳘न्नधिषि स᳘र्व्वेषु लोके᳘ष्वात्मा᳘नमधाᳫँ᳭ स᳘र्व्वान्देवा᳘नात्म᳘न्नधिषि स᳘र्व्वेषु देवे᳘ष्वात्मा᳘नमधाᳫँ᳭ स᳘र्व्वान्वे᳘दानात्म᳘न्नधिषि स᳘र्व्वेषु व्वे᳘देष्वात्मा᳘नमधाᳫँ᳭ स᳘र्व्वान्प्राणा᳘नात्म᳘न्नधिषि स᳘र्व्वेषु प्राणे᳘ष्वात्मा᳘नमधामित्य᳘क्षिता वै᳘ लोका ऽअ᳘क्षिता देवा ऽअ᳘क्षिता व्वे᳘दा ऽअ᳘क्षिताः प्राणा ऽअ᳘क्षितᳫँ᳭ स᳘र्व्वम᳘क्षिताद्ध वा ऽअ᳘क्षितमुपस᳘ङ्क्रामत्य᳘प पुनर्म्मृत्यु᳘ञ्जयति स᳘र्व्वमा᳘युरेति य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - श्रीधरादि

त᳘द्विद्यात्॥
(त्स᳘) स᳘र्व्वांल्लोका᳘नात्म᳘न्नधिषि स᳘र्व्वेषु लोके᳘ष्वात्मा᳘नमधाᳫँ᳭ स᳘र्व्वान्देवा᳘नात्म᳘न्नधिषि स᳘र्व्वेषु देवे᳘ष्वात्मा᳘नमधाᳫँ᳭ स᳘र्व्वान्वे᳘दानात्म᳘न्नधिषि स᳘र्व्वेषु व्वे᳘देष्वात्मा᳘नमधाᳫँ᳭ स᳘र्व्वान्प्राणा᳘नात्म᳘न्नधिषि स᳘र्व्वेषु प्राणे᳘ष्वात्मा᳘नमधामित्य᳘क्षिता वै᳘ लोका ऽअ᳘क्षिता देवा ऽअ᳘क्षिता व्वे᳘दा ऽअ᳘क्षिताः प्राणा ऽअ᳘क्षितᳫँ᳭ स᳘र्व्वम᳘क्षिताद्ध वा ऽअ᳘क्षितमुपस᳘ङ्क्रामत्य᳘प पुनर्म्मृत्यु᳘ञ्जयति स᳘र्व्वमा᳘युरेति य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - Weber

त᳘द्विद्यात् ॥
स᳘र्वांलोका᳘नात्म᳘न्नधिषि स᳘र्वेषु लोके᳘ष्वात्मा᳘नमधाᳫं सर्वा᳘न्देवा᳘नात्म᳘न्नधिषि स᳘र्वेषु देवे᳘ष्वात्मा᳘नमधाᳫं स᳘र्वान्वे᳘दानात्म᳘न्नधिषि स᳘र्वेषु वे᳘देष्वात्मा᳘नमधाᳫं स᳘र्वान्प्राणा᳘नात्म᳘न्नधिषि स᳘र्वेषु प्राणे᳘ष्वात्मा᳘नमधामित्य᳘क्षिता वै᳘ लोका अ᳘क्षिता देवा अ᳘क्षिता वे᳘दा अ᳘क्षिताः प्राणा अ᳘क्षितᳫं स᳘र्वम᳘क्षिताद्ध वाऽअ᳘क्षितमुपसं᳘क्रामत्य᳘प पुनर्मृत्युं᳘ जयति स᳘र्वमा᳘युरेति य᳘ एव᳘मेतद्वे᳘द ॥ १ [३.४.] ॥

मूलम् - विस्वरम्

तद्विद्यात् सर्वान् लोकानात्मन्नधिषि । सर्वेषु लोकेषु आत्मानमधाम् । सर्वान् वेदान् आत्मन्नधिषि सर्वेषु वेदेष्वात्मानमधाम् । सर्वान् प्राणानात्मन्नधिषि । सर्वेषु प्राणेष्वात्मानमधामिति । अक्षिता वै लोकाः । अक्षिता देवाः । अक्षिता वेदाः । अक्षिताः प्राणाः । अक्षितं सर्वम् । अक्षिताद्ध वा अक्षितमुपसंक्रामति । अप पुनर्मृत्युं जयति । सर्वमायुरेति । य एवमेतद्वेद ॥ ११ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. Let him know this:–‘All the worlds have I placed within mine own self, and mine own self have I placed within all the worlds; all the gods have I placed within mine own self, and mine own self have I placed within all the gods; all the Vedas have I placed within mine own self, and mine own self have I placed within all the Vedas; all the vital airs have I placed within mine own self, and mine own self have I placed within the vital airs.’ For imperishable, indeed, are the worlds, imperishable the gods, imperishable the Vedas, imperishable the vital airs, imperishable is the All: and, verily, whosoever thus knows this, passes from the imperishable unto the imperishable, conquers recurrent death, and attains the full measure of life.
मूलम् - Makoto

त᳓द् विद्या᳓त् ।॥
स᳓र्वां᳓ लोका᳓न् आ᳓त्म᳓न्न् अधिषि स᳓र्वेषु लोके᳓ष्व् आ᳓त्मा᳓नम् अधाँ᳓ सर्वा᳓न् देवा᳓न् आ᳓त्म᳓न्न् अधिषि स᳓र्वेषु देवे᳓ष्व् आ᳓त्मा᳓नम् अधाँ᳓ स᳓र्वा᳓न् वे᳓दा᳓न् आ᳓त्म᳓न्न् अधिषि स᳓र्वेषु वे᳓देष्व् आ᳓त्मा᳓नम् अधाँ᳓ स᳓र्वा᳓न् प्रा᳓णा᳓न् आ᳓त्म᳓न्न् अधिषि स᳓र्वेषु प्रा᳓णे᳓ष्व् आ᳓त्मा᳓नम् अधा᳓म् इ᳓त्य् अ᳓क्षिता᳓ वै᳓ लोका᳓ अ᳓क्षिता᳓ देवा᳓ अ᳓क्षिता᳓ वे᳓दा᳓ अ᳓क्षिताः᳓ प्रा᳓णा᳓ अ᳓क्षितँ स᳓र्वम् अ᳓क्षिता᳓द् ध वा᳓ अ᳓क्षितम् उपसं᳓क्रा᳓मत्य् अ᳓प पुनर्मृत्युं᳓ जयति स᳓र्वम् आ᳓युर् एति य᳓ एव᳓म् एत᳓द् वे᳓द ॥॥


  1. 173:1 ? That is to say, those deities have taken possession of everything else. Cf. J. Muir, Orig. Sansk. Texts, vol. v, p. 377. ↩︎

  2. पवमानेषूद्गातारमन्वारभेरन् श्येनो ऽसि गायत्रच्छन्दा अनु त्वा ऽऽरभे स्वस्ति मा संपारय सुपर्णो ऽसि त्रिष्टुप्छन्दा ऋभुरसि जगच्छन्दा इतीतरयोः सवनयोः । का. श्रौ. सू. १३ । २ । ११ । ↩︎

  3. सवनांतेषु जपन्ति मयि भर्गो मयि महो मयि यशो मयि सर्वमिति । सर्वत्रैके यजतिशब्दात् । न प्रकरणात् । का. श्रौ. सू. १३ । २ । १२-१४ । ↩︎