०१

विश्वास-प्रस्तुतिः

देवा᳘ ह वै᳘ सह᳘स्रसम्वत्सराय दिदीक्षिरे॥
ते᳘षाम्प᳘ञ्च शता᳘नि सम्वत्सरा᳘णां पर्य्य᳘वेतान्यासुर᳘थेदᳫँ᳭ स᳘र्व्वमेव᳘ शश्राम ये स्तो᳘मा या᳘नि पृष्ठा᳘नि या᳘नि च्छ᳘न्दाᳫँ᳭सि॥

मूलम् - श्रीधरादि

देवा᳘ ह वै᳘ सह᳘स्रसम्वत्सराय दिदीक्षिरे॥
ते᳘षाम्प᳘ञ्च शता᳘नि सम्वत्सरा᳘णां पर्य्य᳘वेतान्यासुर᳘थेदᳫँ᳭ स᳘र्व्वमेव᳘ शश्राम ये स्तो᳘मा या᳘नि पृष्ठा᳘नि या᳘नि च्छ᳘न्दाᳫँ᳭सि॥

मूलम् - Weber

देवा᳘ ह वै᳘ सह᳘स्रसंवत्सराय दिदीक्षिरे 1
ते᳘षां प᳘ञ्च शता᳘नि संवत्सरा᳘णां पर्य᳘वेतान्यासुर᳘थेदᳫं स᳘र्वमेव᳘ शश्राम ये स्तो᳘मा या᳘नि पृष्ठा᳘नि या᳘नि छ᳘न्दाᳫंसि ॥

मूलम् - विस्वरम्

प्रायश्चित्तसत्रम् ।

देवा ह वै सहस्रसंवत्सराय दिदीक्षिरे । तेषां पंच शतानि संवत्सराणां पर्यवेतान्यासुः । अथेदं सर्वमेव शश्राम । ये स्तोमा यानि पृष्ठानि यानि च्छंदांसि ॥ १ ॥

हरिस्वामी

‘देवा ह वै’ । प्रसन्नमेतत् । अनेन ब्राह्मणेन प्रायश्चित्तसत्रं विधीयते । तत्र च दर्शनम् । सहस्रसंवत्सरस्य तत्प्रतिमा दीक्षोपसत्सुत्याभिश्च सहस्रसंवत्सरस्य पूर्वार्द्धमध्योत्तमार्द्धा अवाप्यंते तैरेव च दीक्षादिभिरग्न्यवर्यमहदुक्थ्या आप्यंत इति प्रासंगिकेतिहासमुपजीव्य सप्तदशस्य प्रजापतेर्देवा द्रष्टार अयातयामत्वं तदुपासनफलम् । अधिदैवाध्यात्मप्रतिष्ठा उपासनफलवदेतत् पृष्ठमेव द्वादशाहस्य अंजः स्वल्पः सदृशः सवो यस्य सः अंजःसवः । ‘ते हि स्तोमाः’ इति सादृश्योपपादनम् ॥ १-१० ॥

Eggeling
  1. The gods were once performing the initiation ceremony for a (sacrificial session) of a thousand years. When five hundred years had passed with them, everything here was worn out–to wit, Stomas, and Pr̥shṭḥas, and metres (texts).
मूलम् - Makoto

देवा᳓ ह वै᳓ सह᳓स्रसंवत्सरा᳓य दिदीक्षेरे ।॥
ते᳓षां᳓ प᳓ञ्च शता᳓नि संवत्सरा᳓णां᳓ पर्य᳓वेता᳓न्य् आ᳓सुर् अ᳓थेदँ᳓ स᳓र्वम् एव᳓ शश्रा᳓म ये᳓ स्तो᳓मा᳓ या᳓नि पृष्ठा᳓नि या᳓नि छ᳓न्दाँ᳓सि ॥॥

०२

विश्वास-प्रस्तुतिः

त᳘तो देवाः᳘॥
(ऽ) एत᳘द्यज्ञस्या᳘यातयामापश्यंस्तेना᳘यातयाम्ना या व्वे᳘दे᳘ व्व्यष्टिरा᳘सीत्तां᳘ व्व्याश्नुवता᳘यातयामा वा᳘ ऽअस्य व्वे᳘दा ऽअ᳘यातयाम्न्या हास्य त्रय्या᳘ व्विद्यया᳘ ऽऽर्त्विज्यं कृतं᳘ भवति य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - श्रीधरादि

त᳘तो देवाः᳘॥
(ऽ) एत᳘द्यज्ञस्या᳘यातयामापश्यंस्तेना᳘यातयाम्ना या व्वे᳘दे᳘ व्व्यष्टिरा᳘सीत्तां᳘ व्व्याश्नुवता᳘यातयामा वा᳘ ऽअस्य व्वे᳘दा ऽअ᳘यातयाम्न्या हास्य त्रय्या᳘ व्विद्यया᳘ ऽऽर्त्विज्यं कृतं᳘ भवति य᳘ ऽएव᳘मेतद्वे᳘द॥

मूलम् - Weber

त᳘तो देवाः᳘ ॥
एत᳘द्यज्ञस्या᳘यातयामापश्यंस्तेना᳘यातयाम्ना 2 या वे᳘देॗ व्यष्टिरा᳘सीत्तां ॗ व्याश्नुवता᳘यातयामा वा᳘ऽअस्य वे᳘दा अ᳘यातयाम्न्या हास्य त्रय्या᳘ विद्यया᳘र्त्विज्यं कृतं᳘ भवति य᳘ एव᳘मेतद्वे᳘द ॥

मूलम् - विस्वरम्

ततो देवा एतद्यज्ञस्यायातयामापश्यन् । तेनायातयाम्ना या वेदे व्यष्टिरासीत्- तां व्याश्नुवत । अयातयामा वा अस्य वेदाः । अयातयाम्न्या हास्य त्रय्या विद्यया आर्त्विज्यं कृतं भवति । य एवमेतद्वेद ॥ २ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. The gods then perceived that unexhausted element of the sacrifice, and by means of that unexhausted element they obtained what success there was in the Veda; and, verily, for him who thus knows this, the Vedas are unexhausted, and the work of the officiating priests is pet-formed with the unexhausted threefold science.
मूलम् - Makoto

त᳓तो देवाः᳓ ।॥
एत᳓द् यज्ञ᳓स्या᳓या᳓तया᳓मा᳓पश्यंस् ते᳓ना᳓या᳓तया᳓म्ना᳓ या᳓ वे᳓दे व्य᳙ष्टिर् आ᳓सीत् तां᳓ व्या᳙श्नुवता᳓या᳓तया᳓मा᳓ वा᳓ अस्य वे᳓दा᳓ अ᳓या᳓तया᳓म्न्या᳓ हा᳓स्य त्रय्या᳓ विद्य᳓या᳓र्त्विज्यं कृतं᳓ भवति य᳓ एव᳓म् एत᳓द् वे᳓द ॥॥

०३

विश्वास-प्रस्तुतिः

त᳘देत᳘द्यज्ञस्या᳘यातया᳘म[[!!]]॥
(मौ) ओश्रावया᳘स्तु श्रौ᳘षड्य᳘ज येय᳘जामहे व्वौ᳘षडि᳘ति ता᳘साम्वा᳘ ऽएता᳘साम्पञ्चानाम्व्या᳘हृतीनाᳫँ᳭ सप्त᳘दशाक्ष᳘रा᳘ण्योश्रावये᳘ति च᳘तुरक्षरम᳘स्तु श्रौ᳘षडि᳘ति च᳘तुरक्षरं यजे᳘ति᳘ द्व्यक्षरं येय᳘जामह ऽइ᳘ति प᳘ञ्चाक्षर᳘म्[[!!]]॥

मूलम् - श्रीधरादि

त᳘देत᳘द्यज्ञस्या᳘यातया᳘म[[!!]]॥
(मौ) ओश्रावया᳘स्तु श्रौ᳘षड्य᳘ज येय᳘जामहे व्वौ᳘षडि᳘ति ता᳘साम्वा᳘ ऽएता᳘साम्पञ्चानाम्व्या᳘हृतीनाᳫँ᳭ सप्त᳘दशाक्ष᳘रा᳘ण्योश्रावये᳘ति च᳘तुरक्षरम᳘स्तु श्रौ᳘षडि᳘ति च᳘तुरक्षरं यजे᳘ति᳘ द्व्यक्षरं येय᳘जामह ऽइ᳘ति प᳘ञ्चाक्षर᳘म्[[!!]]॥

मूलम् - Weber

त᳘देत᳘द्यज्ञस्या᳘यातयाम᳟ ॥
ओ श्रावया᳘स्तु श्रौ᳘षड्य᳘ज ये य᳘जामहे वौ᳘षडि᳘ति ता᳘सां वा᳘ऽएता᳘सां पञ्चानां व्या᳘हृतीनाᳫं सप्त᳘दशाक्ष᳘राॗण्यो श्रावये᳘ति च᳘तुरक्षरम᳘स्तु श्रौ᳘षडि᳘ति च᳘तुरक्षरं यजे᳘तिॗ द्व्यक्षरं ये य᳘जामहऽइ᳘ति प᳘ञ्चाक्षरम्᳟᳟ ॥

मूलम् - विस्वरम्

तदेतद्यज्ञस्यायातयाम । ओश्रावयास्तु श्रौषड्यज येयजामहे वौषडिति । तासां वा एतासां पंचानां व्याहृतीनां सप्तदशाक्षराणि । ओश्रावयेति चतुरक्षरम् । अस्तु श्रौषडिति चतुरक्षरम् । यजेति द्व्यक्षरम् । येयजामह इति पंचाक्षरम् ॥ ३ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. Now, this is that unexhausted element of the sacrifice:–o-śrāvaya, astu śraushaṭ, yaja, ye yajāmahe, and vaushaṭ 3. In these five utterances there are seventeen syllables:–o-śrāvaya consists of four syllables, astu śraushaṭ of four syllables, yaja of two syllables, ye yajāmahe of five syllables;
मूलम् - Makoto

त᳓द् एत᳓द् यज्ञ᳓स्या᳓या᳓तया᳓म ।॥
ओ᳙ श्रा᳓वया᳓स्तु श्रौ᳓षड् य᳓ज ये᳓ य᳓जा᳓महे वौ᳓षड् इ᳓ति ता᳓सां᳓ वा᳓ एता᳓सां᳓ पञ्चा᳓नां᳓ व्या᳓हृतीनाँ᳓ सप्त᳓दशा᳓क्ष᳓रा᳓ण्यो᳙ श्रा᳓वये᳓ति च᳓तुरक्षरम् अ᳓स्तु श्रौ᳓षड् इ᳓ति च᳓तुरक्षरं यजे᳓ति द्व्य᳙क्षरं ये᳓ य᳓जा᳓मह इ᳓ति प᳓ञ्चा᳓क्षरम् ॥॥

०४

विश्वास-प्रस्तुतिः

(न्द्व्य) द्व्यक्षरो व्वषट्कारः[[!!]]॥
स᳘ ऽएष᳘ सप्तदशः᳘ प्रजा᳘पतिरधिदेवतं᳘ चाध्यात्म᳘ञ्च प्र᳘तिष्ठितः स यो᳘ हैव᳘मेत᳘ᳫँ᳘ सप्तदश᳘म्प्रजा᳘पतिमधिदेवत᳘ञ्चाध्यात्म᳘ञ्च प्र᳘तिष्ठितम्वे᳘द प्र᳘तितिष्ठति प्रज᳘या पशु᳘भिरस्मिं᳘ल्लो᳘के ऽमृतत्वे᳘नामु᳘ष्मिन्॥

मूलम् - श्रीधरादि

(न्द्व्य) द्व्यक्षरो व्वषट्कारः[[!!]]॥
स᳘ ऽएष᳘ सप्तदशः᳘ प्रजा᳘पतिरधिदेवतं᳘ चाध्यात्म᳘ञ्च प्र᳘तिष्ठितः स यो᳘ हैव᳘मेत᳘ᳫँ᳘ सप्तदश᳘म्प्रजा᳘पतिमधिदेवत᳘ञ्चाध्यात्म᳘ञ्च प्र᳘तिष्ठितम्वे᳘द प्र᳘तितिष्ठति प्रज᳘या पशु᳘भिरस्मिं᳘ल्लो᳘के ऽमृतत्वे᳘नामु᳘ष्मिन्॥

मूलम् - Weber

द्व्यक्षरो वषट्का᳘रः᳟॥
स᳘ एष᳘ सप्तदशः᳘ प्रजा᳘पतिरधिदेवतं᳘ चाध्यात्मं᳘ च प्र᳘तिष्ठितः स यो᳘ हैव᳘मेतᳫं सप्तदशं᳘ प्रजा᳘पतिमधिदेवतं᳘ चाध्यात्मं᳘ च प्र᳘तिष्ठितं वे᳘द प्र᳘तितिष्ठति प्रज᳘या पशु᳘भिरस्मिं᳘लोॗकेऽमृतत्वे᳘नामु᳘ष्मिन् ॥

मूलम् - विस्वरम्

द्व्यक्षरो वषट्कारः । स एष सप्तदशः प्रजापतिः अधिदेवतं चाध्यात्मं च प्रतिष्ठितः । स यो हैवमेतं सप्तदशं प्रजापतिमधिदेवतं चाध्यात्मं च प्रतिष्ठितं वेद । प्रतितिष्ठति प्रजया पशुभिरस्मिन् लोके । अमृतत्वेनामुष्मिन् ॥ ४ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. And the Vashaṭ-call consists of two syllables. This is the seventeenfold Prajāpati, as established in the deity and in the body, and, verily, whosoever thus knows that seventeenfold Prajāpati, as established in the deity and in the body, establishes himself by offspring and cattle in this, and by immortality in the other, world.
मूलम् - Makoto

द्व्य᳙क्षरो वषट्का᳓रः᳓ ।॥
स᳓ एष᳓ सप्तदशः᳓ प्रजा᳓पतिर् अधिदेवतं᳓ चा᳓ध्या᳓त्मं᳓ च प्र᳓तिष्ठितः स᳓ यो᳓ हैव᳓म् एतँ᳓ सप्तदशं᳓ प्रजा᳓पतिम् अधिदेवतं᳓ चा᳓ध्या᳓त्मं᳓ च प्र᳓तिष्ठितं वे᳓द प्र᳓तितिष्ठति प्रज᳓या᳓ पशु᳓भिर् अस्मिं᳓ लोके᳙ ऽमृतत्वे᳓ना᳓मु᳓ष्मिन् ॥॥

०५

विश्वास-प्रस्तुतिः

(ष्मिंस्ते) ते[[!!]] ह देवा᳘ ऽऊचुः॥
(रु᳘) उ᳘प तं᳘ यज्ञक्रतु᳘ञ्जानीत यः᳘ सह᳘स्रसम्वत्सरस्य प्रतिमा को हि त᳘स्मै मनुष्यो[[!!]] यः᳘ सह᳘स्रसम्वत्सरेण समाप्नुयादि᳘ति॥

मूलम् - श्रीधरादि

(ष्मिंस्ते) ते[[!!]] ह देवा᳘ ऽऊचुः॥
(रु᳘) उ᳘प तं᳘ यज्ञक्रतु᳘ञ्जानीत यः᳘ सह᳘स्रसम्वत्सरस्य प्रतिमा को हि त᳘स्मै मनुष्यो[[!!]] यः᳘ सह᳘स्रसम्वत्सरेण समाप्नुयादि᳘ति॥

मूलम् - Weber

ते᳘ ह देवा᳘ ऊचुः ॥
उ᳘प तं᳘ यज्ञक्रतुं᳘ जानीत यः᳘ सह᳘स्रसंवत्सरस्य प्रतिमा को हि त᳘स्मै मनुॗष्यो यः᳘ सह᳘स्रसंवत्सरेण समाप्नुयादि᳘ति ॥

मूलम् - विस्वरम्

ते ह देवा ऊचुः । उप तं यज्ञक्रतुं जानीत । यः सहस्रसंवत्सरस्य प्रतिमा । को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण समाप्नुयादिति ॥ ५ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. The gods then spake, ‘Find ye out that sacrificial performance which shall be a substitute for one of a thousand years; for what man is equal thereto that he could get through with (a performance of) a thousand years?’
मूलम् - Makoto

ते᳓ ह देवा᳓ ऊचुः ।॥
उ᳓प तं᳓ यज्ञक्रतुं᳓ जा᳓नीत यः᳓ सह᳓स्रसंवत्सरस्य प्रतिमा᳓ को᳓ हि᳓ त᳓स्मै मनुष्यो᳙ यः᳓ सह᳓स्रसंवत्सरेण समा᳓प्नुया᳓द् इ᳓ति ॥॥

०६

विश्वास-प्रस्तुतिः

ते᳘ व्विश्वजि᳘तमेव स᳘र्व्वपृष्ठम्॥
(म्पृ) पृ᳘ष्ठ्यस्य षडह᳘स्याञ्जःसव᳘मपश्यंस्ते हि स्तो᳘मा भ᳘वन्ति ता᳘नि पृ᳘ष्ठानि ता᳘नि च्छ᳘न्दाᳫँ᳭सि॥

मूलम् - श्रीधरादि

ते᳘ व्विश्वजि᳘तमेव स᳘र्व्वपृष्ठम्॥
(म्पृ) पृ᳘ष्ठ्यस्य षडह᳘स्याञ्जःसव᳘मपश्यंस्ते हि स्तो᳘मा भ᳘वन्ति ता᳘नि पृ᳘ष्ठानि ता᳘नि च्छ᳘न्दाᳫँ᳭सि॥

मूलम् - Weber

ते᳘ विश्वजि᳘तमेव स᳘र्वपृष्ठम् ॥
पृ᳘ष्ठ्यस्य षडह᳘स्याञ्जःसव᳘मपश्यंस्ते हि स्तो᳘मा भ᳘वन्ति ता᳘नि पृ᳘ष्ठानि ता᳘नि छ᳘न्दाᳫंसि ॥

मूलम् - विस्वरम्

ते विश्वजितमेव सर्वपृष्ठं पृष्ठ्यस्य षडहस्यांजःसवमपश्यन् । ते हि स्तोमा भवन्ति । तानि पृष्ठानि । तानि च्छन्दांसि ॥ ६ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. They saw the Viśvajit with all the Pr̥shṭḥas 4 to be an accelerated Soma-feast in lien of the Pr̥shṭḥya-shaḍaha, for there are those (same) Stomas, those Pr̥shṭḥas, and those metres.
मूलम् - Makoto

ते᳓ विश्वजि᳓तम् एव᳓ स᳓र्वपृष्ठम् ।॥
पृ᳓ष्ठ्यस्य षडह᳓स्या᳓ञ्जःसव᳓म् अपश्यंस् ते᳓ हि᳓ स्तो᳓मा᳓ भ᳓वन्ति ता᳓नि पृ᳓ष्ठा᳓नि ता᳓नि छ᳓न्दाँ᳓सि ॥॥

०७

विश्वास-प्रस्तुतिः

पृ᳘ष्ठ्यमेव᳘ षडह᳘म्॥
(न्द्वा) द्वादशाह᳘स्याञ्जःसव᳘मपश्यंस्ते हि स्तो᳘मा भ᳘वन्ति ता᳘नि पृ᳘ष्ठानि ता᳘नि च्छ᳘न्दाᳫँ᳭सि॥

मूलम् - श्रीधरादि

पृ᳘ष्ठ्यमेव᳘ षडह᳘म्॥
(न्द्वा) द्वादशाह᳘स्याञ्जःसव᳘मपश्यंस्ते हि स्तो᳘मा भ᳘वन्ति ता᳘नि पृ᳘ष्ठानि ता᳘नि च्छ᳘न्दाᳫँ᳭सि॥

मूलम् - Weber

पृ᳘ष्ठ्यमेव᳘ षडह᳘म् ॥
द्वादशाह᳘स्याञ्जःसव᳘मपश्यंस्ते हि स्तो᳘मा भ᳘वन्ति ता᳘नि पृ᳘ष्ठानि ता᳘नि छ᳘न्दाᳫंसि ॥

मूलम् - विस्वरम्

पृष्ठ्यमेव षडहं द्वादशाहस्यांजःसवमपश्यन् । ते हि स्तोमा भवन्ति । तानि पृष्ठानि । तानि च्छन्दांसि ॥ ७ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. They saw the Pr̥shṭḥya-shaḍaha to be an accelerated Soma-feast in lieu of the Dvādaśāha, for there are those (same) Stomas, those Pr̥shṭḥas, and those metres 5.
मूलम् - Makoto

पृ᳓ष्ठ्यम् एव᳓ षडह᳓म् ।॥
द्वा᳓दशा᳓ह᳓स्या᳓ञ्जःसव᳓म् अपश्यंस् ते᳓ हि᳓ स्तो᳓मा᳓ भ᳓वन्ति ता᳓नि पृ᳓ष्ठा᳓नि ता᳓नि छ᳓न्दाँ᳓सि ॥॥

०८

विश्वास-प्रस्तुतिः

द्वादशाह᳘मेव᳘॥
सम्वत्सर᳘स्याञ्जःसव᳘मपश्यंस्ते हि स्तो᳘मा भ᳘वन्ति ता᳘नि पृ᳘ष्ठानि ता᳘नि च्छ᳘न्दाᳫँ᳭सि॥

मूलम् - श्रीधरादि

द्वादशाह᳘मेव᳘॥
सम्वत्सर᳘स्याञ्जःसव᳘मपश्यंस्ते हि स्तो᳘मा भ᳘वन्ति ता᳘नि पृ᳘ष्ठानि ता᳘नि च्छ᳘न्दाᳫँ᳭सि॥

मूलम् - Weber

द्वादशाह᳘मेव᳘ ॥
संवत्सर᳘स्याञ्जःसव᳘मपश्यंस्ते हि स्तो᳘मा भ᳘वन्ति ता᳘नि पृ᳘ष्ठानि ता᳘नि छ᳘न्दाᳫंसि ॥

मूलम् - विस्वरम्

द्वादशाहमेव संवत्सरस्यांजःसवमपश्यन् । ते हि स्तोमा भवंति । तानि पृष्ठानि । तानि च्छंदांसि ॥ ८ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. They saw the Dvādaśāha to be an accelerated Soma-feast in lieu of (a session of) a year 6, for there are those (same) Stomas, those Pr̥shṭḥas, and those metres.
मूलम् - Makoto

द्वा᳓दशा᳓ह᳓म् एव᳓ ।॥
संवत्सर᳓स्या᳓ञ्जःसव᳓म् अपश्यंस् ते᳓ हि᳓ स्तो᳓मा᳓ भ᳓वन्ति ता᳓नि पृ᳓ष्ठा᳓नि ता᳓नि छ᳓न्दाँ᳓सि ॥॥

०९

विश्वास-प्रस्तुतिः

सम्वत्सर᳘मेव᳘॥
तापश्चित᳘स्या᳘ञ्जःसव᳘मपश्यंस्ते हि स्तो᳘मा भ᳘वन्ति ता᳘नि पृ᳘ष्ठानि ता᳘नि च्छ᳘न्दाᳫँ᳭सि॥

मूलम् - श्रीधरादि

सम्वत्सर᳘मेव᳘॥
तापश्चित᳘स्या᳘ञ्जःसव᳘मपश्यंस्ते हि स्तो᳘मा भ᳘वन्ति ता᳘नि पृ᳘ष्ठानि ता᳘नि च्छ᳘न्दाᳫँ᳭सि॥

मूलम् - Weber

संवत्सर᳘मेव᳘ ॥
तापश्चित᳘स्या᳘ञ्जःसव᳘मपश्यंस्ते हि स्तो᳘मा भ᳘वन्ति ता᳘नि पृ᳘ष्ठानि ता᳘नि छ᳘न्दाᳫंसि ॥

मूलम् - विस्वरम्

संवत्सरमेव तापश्चितस्यांजःसवमपश्यन् । ते हि स्तोमा भवन्ति । तानि पृष्ठानि । तानि च्छंदांसि ॥ ९ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. They saw the (session of a) year to be an accelerated Soma-feast in lieu of the Tāpaścita 7, for there are those (same) Stomas, those Pr̥shṭḥas, and those metres.
मूलम् - Makoto

संवत्सर᳓म् एव᳓ ।॥
ता᳓पश्चित᳓स्या᳓ञ्जःसव᳓मपश्यंस् ते᳓ हि᳓ स्तो᳓मा᳓ भ᳓वन्ति ता᳓नि पृ᳓ष्ठा᳓नि ता᳓नि छ᳓न्दाँ᳓सि ॥॥

१०

विश्वास-प्रस्तुतिः

तापश्चित᳘मेव᳘॥
सह᳘स्रसम्वत्सर᳘स्याञ्जःसव᳘मपश्यंस्ते हि स्तो᳘मा भ᳘वन्ति ता᳘नि पृ᳘ष्ठानि ता᳘नि च्छ᳘न्दाᳫँ᳭सि॥

मूलम् - श्रीधरादि

तापश्चित᳘मेव᳘॥
सह᳘स्रसम्वत्सर᳘स्याञ्जःसव᳘मपश्यंस्ते हि स्तो᳘मा भ᳘वन्ति ता᳘नि पृ᳘ष्ठानि ता᳘नि च्छ᳘न्दाᳫँ᳭सि॥

मूलम् - Weber

तापश्चित᳘मेव᳘ ॥
सह᳘स्रसंवत्सरस्याञ्जःसव᳘मपश्यंस्ते हि स्तो᳘मा भ᳘वन्ति ता᳘नि पृ᳘ष्ठानि ता᳘नि छ᳘न्दाᳫंसि ॥

मूलम् - विस्वरम्

तापश्चितमेव सहस्रसंवत्सरस्यांजःसवमपश्यन् । ते हि स्तोमा भवन्ति । तानि पृष्ठानि । तानि च्छंदांसि ॥ १० ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. They saw the Tāpaścita to be an accelerated Soma-feast in lieu of the thousand years’ performance, for there are those (same) Stomas, those Pr̥shṭḥas, and those metres.
मूलम् - Makoto

ता᳓पश्चित᳓म् एव᳓ ।॥
सह᳓स्रसंवत्सरस्या᳓ञ्जःसव᳓म् अपश्यंस् ते᳓ हि᳓ स्तो᳓मा᳓ भ᳓वन्ति ता᳓नि पृ᳓ष्ठा᳓नि ता᳓नि छ᳓न्दाँ᳓सि ॥॥

११

विश्वास-प्रस्तुतिः

स वै᳘ सम्वत्सर᳘न्दीक्षा᳘भिरे᳘ति॥
सम्वत्सर᳘मुपस᳘द्भिः सम्वत्सर᳘ᳫँ᳘ सुत्या᳘भिः॥

मूलम् - श्रीधरादि

स वै᳘ सम्वत्सर᳘न्दीक्षा᳘भिरे᳘ति॥
सम्वत्सर᳘मुपस᳘द्भिः सम्वत्सर᳘ᳫँ᳘ सुत्या᳘भिः॥

मूलम् - Weber

स वै᳘ संवत्सरं᳘ दीक्षा᳘भिरे᳘ति ॥
संवत्सर᳘मुपस᳘द्भिः संवत्सर᳘ᳫं᳘ सुत्या᳘भिः ॥

मूलम् - विस्वरम्

स वै संवत्सरं दीक्षाभिरेति । संवत्सरमुपसद्भिः । संवत्सरं सुत्याभिः ॥ ११ ॥

हरिस्वामी

‘स वै’ । द्वादश मासानिति बृहतीतत्फलोपासनावत्त्ववचनम् । ‘तद्वा एतत्त्रयम्’ इति अग्न्यर्क्यमहदुक्थ्योपासनवचनम् ॥ ११-१४ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यंदिनीयशतपथब्राह्मणभाष्ये द्वादशे कांडे तृतीये ऽध्याये तृतीयं ब्राह्मणम् ॥ १२ । ३ । ३॥

Eggeling
  1. He passes a year with the rites of initiation,

a year with the Upasads, and a year with the pressings of Soma.

मूलम् - Makoto

स᳓ वै᳓ संवत्सरं᳓ दीक्षा᳓भिर् ए᳓ति ।॥
संवत्सर᳓म् उपस᳓द्भिः संवत्सरँ᳓ सुत्या᳓भिः ॥॥

१२

विश्वास-प्रस्तुतिः

स य᳘त्सम्वत्सर᳘न्दीक्षा᳘भिरे᳘ति॥
पूर्व्वार्द्ध᳘मेव ते᳘न सह᳘स्रसम्वत्सरस्या᳘वरुन्द्धे᳘ ऽथ य᳘त्सम्वत्सर᳘मुपस᳘द्भिर्म्म᳘ध्यमेव ते᳘न सह᳘स्रसम्वत्सरस्या᳘वरुन्द्धे ऽथ[[!!]] य᳘त्सम्वत्सर᳘ᳫँ᳘ सुत्या᳘भिरुत्तमार्द्ध᳘मेव ते᳘न सह᳘स्रसम्वत्सरस्या᳘वरुन्द्धे॥

मूलम् - श्रीधरादि

स य᳘त्सम्वत्सर᳘न्दीक्षा᳘भिरे᳘ति॥
पूर्व्वार्द्ध᳘मेव ते᳘न सह᳘स्रसम्वत्सरस्या᳘वरुन्द्धे᳘ ऽथ य᳘त्सम्वत्सर᳘मुपस᳘द्भिर्म्म᳘ध्यमेव ते᳘न सह᳘स्रसम्वत्सरस्या᳘वरुन्द्धे ऽथ[[!!]] य᳘त्सम्वत्सर᳘ᳫँ᳘ सुत्या᳘भिरुत्तमार्द्ध᳘मेव ते᳘न सह᳘स्रसम्वत्सरस्या᳘वरुन्द्धे॥

मूलम् - Weber

स य᳘त्संवत्सरं᳘ दीक्षा᳘भिरे᳘ति ॥
पूर्वार्ध᳘मेव ते᳘न सह᳘स्रसंवत्सरस्या᳘वरुन्द्धे᳘ऽथ य᳘त्संवत्सर᳘मुपस᳘द्भिर्म᳘ध्यमेव ते᳘न सह᳘स्रसंवत्सरस्या᳘वरुन्द्धे᳘ऽथ य᳘त्संवत्सर᳘ᳫं᳘ सुत्या᳘भिरुत्तमार्ध᳘मेव ते᳘न सह᳘स्रसंवत्सरस्या᳘वरुन्द्धे ॥

मूलम् - विस्वरम्

स यत्संवत्सरं दीक्षाभिरेति । पूर्वार्द्धमेव तेन सहस्रसंवत्सरस्यावरुन्द्धे । अथ यत्संवत्सरमुपसद्भिः मध्यमेव तेन सहस्रसंवत्सरस्यावरुन्धे । अथ यत्संवत्सरं सुत्याभिः । उत्तरार्द्धमेव तेन सहस्रसंवत्सरस्थावरुन्धे ॥ १२ ॥

हरिस्वामी

[व्याख्यानं एकादशे]

Eggeling
  1. When he passes a year with the rites of initiation he thereby secures for himself the first part of the performance of a thousand years; and when he passes a year with the Upasads he thereby secures for himself the central part of the performance of a thousand years; and when he passes a year with the pressings he thereby secures for himself the last part of the performance of a thousand years.
मूलम् - Makoto

स᳓ य᳓त् संवत्सरं᳓ दीक्षा᳓भिर् ए᳓ति ।॥
पूर्वा᳓र्ध᳓म् एव᳓ ते᳓न सह᳓स्रसंवत्सरस्या᳓वरुन्द्धे᳓ ऽथ य᳓त् संवत्सर᳓म् उपस᳓द्भिर् म᳓ध्यम् एव᳓ ते᳓न सह᳓स्रसंवत्सरस्या᳓वरुन्द्धे᳓ ऽथ य᳓त् संवत्सरँ᳓ सुत्या᳓भिर् उत्तमा᳓र्ध᳓म् एव᳓ ते᳓न सह᳓स्रसंवत्सरस्या᳓वरुन्द्धे ॥॥

१३

विश्वास-प्रस्तुतिः

स वै द्वा᳘दश मा᳘सान्दीक्षा᳘भिरे᳘ति॥
द्वा᳘दशोपस᳘द्भिर्द्वा᳘दश सुत्या᳘भिस्तत्ष᳘ट्त्रिᳫँ᳭शत्ष᳘ट्त्रिᳫँ᳭शदक्षरा वै᳘ बृहती᳘ बृहत्या वै᳘ देवाः᳘ स्वर्ग्गे᳘ लोके᳘ ऽयतन्त बृहत्या᳘ स्वर्ग्गं᳘ लोक᳘माप्नुवंस्त᳘थो ऽए᳘वैष᳘ ऽएत᳘द्बृह᳘त्यैव᳘ स्वर्ग्गे᳘ लोके य᳘तते बृहत्या᳘ स्वर्ग्गं᳘ लोक᳘माप्नोत्य᳘थ यो᳘ बृहत्यां का᳘मस्त᳘मे᳘वैते᳘नैवम्विद᳘वरुन्द्धे॥

मूलम् - श्रीधरादि

स वै द्वा᳘दश मा᳘सान्दीक्षा᳘भिरे᳘ति॥
द्वा᳘दशोपस᳘द्भिर्द्वा᳘दश सुत्या᳘भिस्तत्ष᳘ट्त्रिᳫँ᳭शत्ष᳘ट्त्रिᳫँ᳭शदक्षरा वै᳘ बृहती᳘ बृहत्या वै᳘ देवाः᳘ स्वर्ग्गे᳘ लोके᳘ ऽयतन्त बृहत्या᳘ स्वर्ग्गं᳘ लोक᳘माप्नुवंस्त᳘थो ऽए᳘वैष᳘ ऽएत᳘द्बृह᳘त्यैव᳘ स्वर्ग्गे᳘ लोके य᳘तते बृहत्या᳘ स्वर्ग्गं᳘ लोक᳘माप्नोत्य᳘थ यो᳘ बृहत्यां का᳘मस्त᳘मे᳘वैते᳘नैवम्विद᳘वरुन्द्धे॥

मूलम् - Weber

स वै द्वा᳘दश मा᳘सान्दीक्षा᳘भिरे᳘ति ॥
द्वा᳘दशोपस᳘द्भिर्द्वा᳘दश सुत्या᳘भिस्तत्ष᳘ट्त्रिᳫंशत्ष᳘ट्त्रिᳫंशदक्षरा वै᳘ बृहती᳘ बृहत्या वै᳘ देवाः᳘ स्वर्गे᳘ लोके᳘ऽयतन्त बृहत्या᳘ स्वर्गं᳘ लोक᳘माप्नुवंस्त᳘थोऽएॗवैष᳘ एत᳘द्बृहॗत्यैव᳘ स्वर्गे᳘ लोके य᳘तते बृहत्या᳘ स्वर्गं᳘ लोक᳘माप्नोत्य᳘थ यो᳘ बृहत्यां का᳘मस्त᳘मेॗवैते᳘नैवंविदवरुन्द्धे ॥

मूलम् - विस्वरम्

स वै द्वादश मासान्दीक्षाभिरेति द्वादशोपसद्भिः । द्वादश सुत्याभिः। तत्पट्त्रिंशत् । षट्त्रिंशदक्षरा वै बृहती । बृहत्या वै देवाः स्वर्गे लोके ऽयतंत । बृहत्या स्वर्गं लोकमाप्नुवन् । तथो एवैष एतद्बृहत्यैव स्वर्गे लोके यतते । बृहत्या स्वर्गं लोकमाप्नोति । अथ यो बृहत्यां कामः । तमेवैतेनैवंविदवरुन्धे ॥ १३ ॥

हरिस्वामी

[व्याख्यानं एकादशे]

Eggeling
  1. Twelve months he passes with the rites of initiation, twelve with the Upasads, and twelve with the pressings,–that makes thirty-six. Now the Br̥hatī (metre) consists of thirty-six syllables, and by means of the Br̥hatī the gods strove to reach heaven, and by means of the Br̥hatī they indeed attained heaven; and in like manner does this one, by means of the Br̥hatī, now strive to reach heaven, and by means of the Br̥hatī he indeed attains heaven; and whatever object of desire there is in the Br̥hatī, that he thereby secures for himself.
मूलम् - Makoto

स᳓ वै᳓ द्वा᳓दश मा᳓सा᳓न् दीक्षा᳓भिर् ए᳓ति ।॥
द्वा᳓दशोपस᳓द्भिर् द्वा᳓दश सुत्या᳓भिस् त᳓त् ष᳓ट्त्रिँशत्ष᳓ट्त्रिँशदक्षरा᳓ वै᳓ बृहती᳓ बृहत्या᳓ वै᳓ देवाः᳓ स्वर्गे᳓ लोके᳓ ऽयतन्त बृहत्या᳓ स्वर्गं᳓ लोक᳓म् आ᳓प्नुवंस् त᳓थो एवै᳙ष᳓ एत᳓द् बृहत्यै᳙व᳓ स्वर्गे᳓ लोके᳓ य᳓तते बृहत्या᳓ स्वर्गं᳓ लोक᳓म् आ᳓प्नोत्य् अ᳓थ यो᳓ बृहत्यां᳓ का᳓मस् त᳓म् एवै᳙ते᳓नैवंवि᳓द् अ᳓वरुन्द्धे ॥॥

१४

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽएत᳘त्॥
(त्त्र) त्रय᳘ᳫँ᳘ सह᳘ क्रिय᳘ते ऽग्नि᳘र᳘र्क्क्यं मह᳘दुक्थ्यᳫँ᳭ स य᳘त्सम्वत्सर᳘न्दीक्षा᳘भिरे᳘ति सम्वत्सर᳘मुपस᳘द्भिस्ते᳘नास्याग्न्यर्क्का᳘वाप्तौ᳘ भवतो᳘ ऽथ य᳘त्सम्वत्सर᳘ᳫँ᳘ सुत्या᳘भिरेति[[!!]] ते᳘नो ऽए᳘वास्य मह᳘दुक्थ्य᳘माप्तं᳘ भवति स वा᳘ ऽएष᳘ ऽएव᳘ सह᳘स्रसम्वत्सरस्य प्रतिमा यत्तापश्चित᳘ ऽएष᳘[[!!]] प्रजा᳘नाम्प्र᳘जात्यै य᳘त्तापश्चितः[[!!]]॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽएत᳘त्॥
(त्त्र) त्रय᳘ᳫँ᳘ सह᳘ क्रिय᳘ते ऽग्नि᳘र᳘र्क्क्यं मह᳘दुक्थ्यᳫँ᳭ स य᳘त्सम्वत्सर᳘न्दीक्षा᳘भिरे᳘ति सम्वत्सर᳘मुपस᳘द्भिस्ते᳘नास्याग्न्यर्क्का᳘वाप्तौ᳘ भवतो᳘ ऽथ य᳘त्सम्वत्सर᳘ᳫँ᳘ सुत्या᳘भिरेति[[!!]] ते᳘नो ऽए᳘वास्य मह᳘दुक्थ्य᳘माप्तं᳘ भवति स वा᳘ ऽएष᳘ ऽएव᳘ सह᳘स्रसम्वत्सरस्य प्रतिमा यत्तापश्चित᳘ ऽएष᳘[[!!]] प्रजा᳘नाम्प्र᳘जात्यै य᳘त्तापश्चितः[[!!]]॥

मूलम् - Weber

तद्वा᳘ऽएत᳘त् ॥
त्रय᳘ᳫं᳘ सह᳘ क्रिय᳘तेऽग्नि᳘रॗर्क्यं मह᳘दुक्थᳫं स य᳘त्संवत्सरं᳘ दीक्षा᳘भिरे᳘ति संवत्सर᳘मुपस᳘द्भिस्ते᳘नास्याग्न्यर्का᳘वाप्तौ᳘ भवतो᳘ऽथ य᳘त्संवत्सर᳘ᳫं᳘ सुत्या᳘भिरे᳘ति ते᳘नोऽएॗवास्य मह᳘दुक्थ᳘माप्तं᳘ भवति स वा᳘ऽएष᳘ एव᳘ सह᳘स्रसंवत्सरस्य प्रतिमा य᳘त्तापश्चित᳘ एष᳘ प्रजा᳘नां प्र᳘जात्यै य᳘त्तापश्चितः᳟ ॥ ११ [३.३.] ॥ प्रथमः प्रपाठकः ॥ कण्डिकासंख्या १३२ ॥ ॥

मूलम् - विस्वरम्

तद्वा एतत्त्रयं सह क्रियते । अग्निरर्क्यं महदुक्थ्यम् । स यत्संवत्सरं दीक्षाभिरेति; संवत्सरमुपसद्भिः । तेनास्याग्न्यर्कावाप्तौ भवतः । अथ यत्संवत्सरं सुत्याभिरेति, तेनो एवास्य महदुक्थ्यमाप्तं भवन्ति । स वा एष एव सहस्रसंवत्सरस्य प्रतिमा, यत्तापश्चितः । एष प्रजानां प्रजात्यै । यत्तापश्चितः ॥ १४ ॥

हरिस्वामी

[व्याख्यानं एकादशे]

Eggeling
  1. But, indeed, there is that triad that is performed together,–the Agni (fire-altar), the Arkya, and the Mahad Uktham (great litany). When he passes a year with the rites of initiation, and a year with the Upasads, thereby the Agni and the Arka are secured by him; and when he passes a year with the pressings, thereby the Mahad Uktham is secured by him: this, then, to wit, the Tāpaścita, is the substitute for the performance of a thousand years, and this, to wit, the Tāpaścita, conduces to the procreation of creatures.
मूलम् - Makoto

त᳓द् वा᳓ एत᳓त् ।॥
त्रयँ᳓ सह᳓ क्रिय᳓ते ऽग्नि᳓र् अर्क्यं᳙ मह᳓द् उक्थँ᳓ स᳓ य᳓त् संवत्सरं᳓ दीक्षा᳓भिर् ए᳓ति संवत्सर᳓म् उपस᳓द्भिस् ते᳓ना᳓स्या᳓ग्न्यर्का᳓व् आ᳓प्तौ᳓ भवतो᳓ ऽथ य᳓त् संवत्सरँ᳓ सुत्या᳓भिर् ए᳓ति ते᳓नो एवा᳙स्य मह᳓द् उक्थ᳓म् आ᳓प्तं᳓ भवति स᳓ वा᳓ एष᳓ एव᳓ सह᳓स्रसंवत्सरस्य प्रतिमा᳓ य᳓त् ता᳓पश्चित᳓ एष᳓ प्रजा᳓नां᳓ प्र᳓जा᳓त्यै य᳓त् ता᳓पश्चितः᳓ ॥॥


  1. दीक्षिरे A. ↩︎

  2. ०स्तेना᳘यातयाम्नायातययाम्ना वे᳘दे᳘ A. ↩︎

  3. 170:2 For these sacrificial calls, see part i, p. 142, note 2. ↩︎

  4. 171:1 For such a day’s performance with all the Pr̥shṭḥa-sāmans, see part iii, introd., p. xx seq. ↩︎

  5. 171:2 The Dvādaśāha, or twelve-days’ performance, includes a Pr̥shṭḥya-shaḍaha as its second to seventh days. ↩︎

  6. 171:3 The one year’s session includes a Daśarātra, or ten-days’ performance, forming the central part of the Dvādaśāha; and the first and last days of the latter being, like those of the Gavām ayanam, a prāyaṇīya and udayanīya Atiratra. ↩︎

  7. 171:4 See part iv, p. 317, note 2. ↩︎