०१
विश्वास-प्रस्तुतिः
य᳘द्बालाके॥
(क ऽइ) इद᳘न्त्रिवृदे᳘ति[[!!]] स᳘र्व्वम᳘न्यो ऽन्य᳘मभिसम्प᳘द्यमानम्। कथ᳘ᳫँ᳘ स्विद्यज्ञः पु᳘रुषः प्रजा᳘पतिर᳘न्यो ऽन्यन्ना᳘तिरिच्यन्त ऽएते[[!!]]॥
मूलम् - श्रीधरादि
य᳘द्बालाके॥
(क ऽइ) इद᳘न्त्रिवृदे᳘ति[[!!]] स᳘र्व्वम᳘न्यो ऽन्य᳘मभिसम्प᳘द्यमानम्। कथ᳘ᳫँ᳘ स्विद्यज्ञः पु᳘रुषः प्रजा᳘पतिर᳘न्यो ऽन्यन्ना᳘तिरिच्यन्त ऽएते[[!!]]॥
मूलम् - Weber
य᳘द्बालाके ॥
इदं᳘ त्रिवृ᳘दे᳘ति स᳘र्वमॗन्योऽन्य᳘मभिसम्प᳘द्यमानम् ॥
कथ᳘ᳫं᳘ स्विद्यज्ञः पु᳘रुषः प्रजा᳘पतिरॗन्योऽन्यं ना᳘तिरिच्यन्तऽएते᳟ ॥
मूलम् - विस्वरम्
“यद्बालाके त्रिवृदेति सर्वमन्योन्यमभिसंपद्यमानम् । कथं स्विद्यज्ञः पुरुषः प्रजापतिरन्यो ऽन्यं नातिरिच्यन्त एते ॥ १ ॥
हरिस्वामी
अथ ब्राह्मणद्वये गवामयनपुरुषप्रजापतीनां कलासाम्यमुच्यते- प्रश्नप्रतिवचनाभ्यां- यद्बालाक इति । श्लोकाः एते नव । बलाकस्यापत्यं बालाकिः । सपृष्ठ्यतो पृष्टान् अनिर्दिष्टः । हे बालाके! यदिदं अधियज्ञाध्यात्माधिदैवम् सर्वं त्रिवृत् अन्यो ऽन्यस्मिन् संपद्यमानम् । एतदनु स्वीक्रियते । ततः कथं यज्ञादयः अन्यो ऽन्यमतिरिक्ता भवन्तीति प्रश्नः ॥ १ ॥
Eggeling
- ‘Seeing that all this threefold universe keeps passing into one another, O Bālāki, how is it that
these,–to wit, the sacrifice, Man, and Prajāpati,–do not exceed one another?
मूलम् - Makoto
य᳓द् बा᳓ला᳓के ।॥
इदं᳓ त्रिवृ᳓द् ए᳓ति स᳓र्वम् अन्यो᳙ऽन्य᳓म् अभिसम्प᳓द्यमा᳓नम् ।॥
कथँ᳓ स्विद् यज्ञः᳓ पु᳓रुषः प्रजा᳓प्तिर् अन्यो᳙ऽन्यं ना᳓तिरिच्यन्त एते᳓ ॥॥
०२
विश्वास-प्रस्तुतिः
य᳘दूर्ध्वा स्तो᳘मा ऽअनुय᳘न्ति॥
यज्ञ᳘मभ्याव᳘र्तᳫँ᳭ सा᳘मभिः क᳘ल्पमानाः। कथ᳘ᳫँ᳘ स्वित्ते पु᳘रुषमा᳘विशन्ति कथ᳘म्प्राणैः᳘ सयु᳘जो भवन्ति॥
मूलम् - श्रीधरादि
य᳘दूर्ध्वा स्तो᳘मा ऽअनुय᳘न्ति॥
यज्ञ᳘मभ्याव᳘र्तᳫँ᳭ सा᳘मभिः क᳘ल्पमानाः। कथ᳘ᳫँ᳘ स्वित्ते पु᳘रुषमा᳘विशन्ति कथ᳘म्प्राणैः᳘ सयु᳘जो भवन्ति॥
मूलम् - Weber
य᳘दूर्ध्वा स्तो᳘मा अनुय᳘न्ति ॥
यज्ञ᳘मभ्याव᳘र्तᳫं सा᳘मभिः क᳘ल्पमानाः ॥
कथ᳘ᳫं᳘ स्वित्ते पु᳘रुषमा᳘विशन्ति कथं᳘ प्राणैः᳘ सयु᳘जो भवन्ति ॥
मूलम् - विस्वरम्
यदूर्ध्वाः स्तोमा अनुयन्ति यज्ञमभ्यावर्तं सामभिः कल्पमानाः । कथं स्वित्ते पुरुषमाविशन्ति कथं प्राणैः सयुजो भवन्ति ॥ २ ॥
हरिस्वामी
यदूर्ध्वाः स्तोमाः । अनुयन्ति इति लिङ्वचनव्यत्ययः । ये ऊर्ध्वाः वर्द्धमानकाः स्तोमाः त्रिवृदादयः आनुपूर्व्येण यन्ति प्रवर्तन्ते । यज्ञमभ्यावर्तं आवृत्त्या इति च स्पष्टमित्यर्थः । सामभिः ससंख्येयैः । ये कल्पमानाः आत्मनो लभमानाः । कथं ते पुरुषमाविशंति ? उपासकैराश्रियमाणा अपि निरालम्बनत्वाद्दुरावेशा इत्यभिप्रायः । कथं च ‘प्राणैः’ पुरुषगतैः सयुजः सहयुक्ता अतिरिक्ता भवन्ति ॥ २ ॥
Eggeling
- Seeing that the upward Stomas follow the sacrifice, fitting themselves by repetitions with Sāmans, how do they enter man, and how do they become united with the vital airs?
मूलम् - Makoto
य᳓द् ऊर्द्वा᳓ स्तो᳓मा᳓ अनुय᳓न्ति ।॥
यज्ञ᳓म् अभ्या᳓व᳓र्तँ सा᳓मभिः क᳓ल्पमा᳓नाः᳓ ।॥
कथँ᳓ स्वित् ते᳓ पु᳓रुषम् आ᳓विशन्ति कथं᳓ प्रा᳓णैः᳓ सयु᳓जो भवन्ति ॥॥
०३
विश्वास-प्रस्तुतिः
प्रायणी᳘यो ऽतिरात्रः᳘॥
(श्च) चतुर्व्विᳫँ᳭शम᳘हश्चत्वा᳘रो ऽभिप्लवाः पृ᳘ष्ठ्य ऽइ᳘त्येते[[!!]]। कथ᳘ᳫँ᳘ स्वित्ते पु᳘रुषमा᳘विशन्ति कथ᳘म्प्राणैः᳘ सयु᳘जो भवन्ति॥
मूलम् - श्रीधरादि
प्रायणी᳘यो ऽतिरात्रः᳘॥
(श्च) चतुर्व्विᳫँ᳭शम᳘हश्चत्वा᳘रो ऽभिप्लवाः पृ᳘ष्ठ्य ऽइ᳘त्येते[[!!]]। कथ᳘ᳫँ᳘ स्वित्ते पु᳘रुषमा᳘विशन्ति कथ᳘म्प्राणैः᳘ सयु᳘जो भवन्ति॥
मूलम् - Weber
प्रायणी᳘योऽतिरात्रः᳘ ॥
चतुर्विᳫंश᳘महश्चत्वा᳘रोऽभिप्लवाः पृ᳘ष्ठ्य इ᳘त्येते᳘ 1 ॥
कथ᳘ᳫं᳘ स्वित्ते पु᳘रुषमा᳘विशन्ति कथं᳘ प्राणैः᳘ सयु᳘जो भवन्ति ॥
मूलम् - विस्वरम्
प्रायणीयो ऽतिरात्रश्चतुर्विंशमहश्चात्वारो ऽभिप्लवाः पृष्ठ्य इत्येते । कथं स्वित्ते पुरुषमाविशन्ति कथं प्राणैः सयुजो भवन्ति ॥ ३ ॥
हरिस्वामी
प्रायणीयः प्रायणीयादिरूपं न किंचित् पुरुषैर्दृश्यते इत्यभिप्रायः ॥ ३ ॥
Eggeling
- The Prāyaṇīya Atirātra, the Caturviṁśa day, the four Abhiplavas, and the Pr̥shṭḥya (shaḍaha):how do these enter man, and how do they become united with the vital airs?
मूलम् - Makoto
प्रा᳓यणी᳓यो ऽतिरा᳓त्रः᳓ ।॥
चतुर्विँश᳓म् अ᳓हश् चत्वा᳓रो ऽभिप्लवाः᳓ पृ᳓ष्ठ्य इ᳓त्य् एते᳓ ।॥
कथँ᳓ स्वित् ते᳓ पु᳓रुषम् आ᳓विशन्ति कथं᳓ प्रा᳓णैः᳓ सयु᳓जो भवन्ति ॥॥
०४
विश्वास-प्रस्तुतिः
अभिजि᳘ता स्व᳘रसामानः॥
(नो ऽभि᳘) अभि᳘क्लृप्ता ऽउभय᳘तो व्विषुव᳘न्तमु᳘पयन्ति। कथ᳘ᳫँ᳘ स्वित्ते पु᳘रुषमा᳘विशन्ति कथ᳘म्प्राणैः᳘ सयु᳘जो भवन्ति॥
मूलम् - श्रीधरादि
अभिजि᳘ता स्व᳘रसामानः॥
(नो ऽभि᳘) अभि᳘क्लृप्ता ऽउभय᳘तो व्विषुव᳘न्तमु᳘पयन्ति। कथ᳘ᳫँ᳘ स्वित्ते पु᳘रुषमा᳘विशन्ति कथ᳘म्प्राणैः᳘ सयु᳘जो भवन्ति॥
मूलम् - Weber
अभिजि᳘ता स्व᳘रसामानः ॥
अभि᳘क्लृप्ता उभय᳘तो विषुव᳘न्तमु᳘पयन्ति ॥
कथ᳘ᳫं᳘ स्वित्ते पु᳘रुषमा᳘विशन्ति कथं᳘ प्राणैः᳘ सयु᳘जो भवन्ती᳘ति ॥
मूलम् - विस्वरम्
अभिजिता स्वरसामानो ऽभिक्लृप्ता उभयतो विषुवन्तमुपयन्ति । कथं स्वित्ते पुरुषमाविशन्ति कथं प्राणैः सयुजो भवन्ति ॥ ४ ॥
हरिस्वामी
अभिजिता विश्वजिता वा इति विशेषः । अभिक्लृप्ताः परितो ह्यभिमुखीकृताः । अनुलोमा इत्यर्थः । उभयतः पुरस्तात् परस्ताच्च । विषुवन्तं मध्ये स्थितं उपगच्छन्ति । कथं स्वित्ते इति । न च अध्यात्मं किंचित् दृश्यते इत्यभिप्राय ॥ ४ ॥
Eggeling
- Fitted out with the Abhijit, the Svarasāmans join the Vishuvat on both sides:–how do these enter man, and how do they become united with the vital airs?
मूलम् - Makoto
अभिजि᳓ता᳓ स्व᳓रसा᳓मा᳓नः ।॥
अभि᳓क्ल्̥^प्ता᳓ उभय᳓तो विषुव᳓न्तम् उ᳓पयन्ति ।॥
कथँ᳓ स्वित् ते᳓ पु᳓रुषम् आ᳓विशन्ति कथं᳓ प्रा᳓णैः᳓ सयु᳓जो भवन्ति ॥॥
०५
विश्वास-प्रस्तुतिः
त्रिवृ᳘त्प्रायाः॥
सप्तदशा᳘भिक्लृप्तास्त्रयस्त्रिᳫँ᳭शा᳘न्ताश्चतुरुत्तरे᳘ण। कथ᳘ᳫँ᳘ स्वित्ते पु᳘रुषमा᳘विशन्ति कथ᳘म्प्राणैः᳘ सयु᳘जो भवन्ती᳘ति॥
मूलम् - श्रीधरादि
त्रिवृ᳘त्प्रायाः॥
सप्तदशा᳘भिक्लृप्तास्त्रयस्त्रिᳫँ᳭शा᳘न्ताश्चतुरुत्तरे᳘ण। कथ᳘ᳫँ᳘ स्वित्ते पु᳘रुषमा᳘विशन्ति कथ᳘म्प्राणैः᳘ सयु᳘जो भवन्ती᳘ति॥
मूलम् - Weber
त्रिवृ᳘त्प्रायाः ॥
सप्तदशा᳘भिक्लृप्तास्त्रयस्त्रिᳫंशा᳘न्ताश्चतुरुत्तरे᳘ण ॥
कथ᳘ᳫं᳘ स्वित्ते पु᳘रुषमा᳘विशन्ति कथं᳘ प्राणैः᳘ सयु᳘जो भवन्ती᳘ति ॥
मूलम् - विस्वरम्
त्रिवृत्प्रायाः सप्तदशाभिक्लृप्तास्त्रयस्त्रिंशांताश्चतुरुत्तरेण । कथं स्वित्ते पुरुषमाविशन्ति कथं प्राणैः सयुजो भवन्ति” इति ॥ ५ ॥
हरिस्वामी
‘त्रिवृत्प्रायाः’ त्रिवृता प्रयन्ति प्रवर्तते इति त्रिवृत्प्रायाः । त्रिवृदादय इत्यर्थः । सप्तदशेन मध्ये स्थितेन अभिक्लृप्ताः अभिगताः ‘सप्तदशाभिक्लृप्ताः’ । सप्तदशमध्या इत्यर्थः । ‘त्रयस्त्रिंशांताः’ त्रयस्त्रिंशः अन्तो येषां ते त्रयस्त्रिंशांताः पार्ष्ठिका स्तोमाः । चतुरुत्तरेण स्तोमेन सह ये दशरात्रे वर्तन्ते । छन्दोमेषु हि चतुर्विंशचतुश्चत्वारिंशस्तोमाः । तेषु ये चतुरुत्तरस्तोमाः । तेषु दिवसेषु स्थिता इत्यर्थः । कथं स्वित्ते पुरुषमिति व्याख्यातम् ॥ ५ ॥
Eggeling
- Setting out with the Trivr̥t, fitted out with the (Pañcadaśa and) Saptadaśa, and ending with the Trayastriṁśa; with (the series of stomas increasing) successively by four (syllables 2):–how do these enter man, and how do they become united with the vital airs?’
मूलम् - Makoto
त्रिवृ᳓त्प्रा᳓याः᳓ ।॥
सत्पदशा᳓भिक्ल्̥^प्ता᳓स् त्रयस्त्रिँशा᳓न्ता᳓श् चतुरुत्तरे᳓ण ।॥
कथँ᳓ स्वित् ते᳓ पु᳓रुषम् आ᳓विशन्ति कथं᳓ प्रा᳓णैः᳓ सयु᳓जो भवन्ती᳓ति ॥॥
०६
विश्वास-प्रस्तुतिः
शि᳘रस्त्रिवृ᳘त्॥
(त्प) पञ्चद᳘शो ऽस्य ग्रीवा ऽउ᳘र ऽआहुः सप्तदशा᳘भिक्लृप्तम्। एकविᳫँ᳭श᳘मुद᳘रङ्कल्पयन्ति पार्श्वे प᳘र्शूस्त्रिणवे᳘ना᳘भि᳘क्लृप्ते॥
मूलम् - श्रीधरादि
शि᳘रस्त्रिवृ᳘त्॥
(त्प) पञ्चद᳘शो ऽस्य ग्रीवा ऽउ᳘र ऽआहुः सप्तदशा᳘भिक्लृप्तम्। एकविᳫँ᳭श᳘मुद᳘रङ्कल्पयन्ति पार्श्वे प᳘र्शूस्त्रिणवे᳘ना᳘भि᳘क्लृप्ते॥
मूलम् - Weber
शि᳘रस्त्रिवृ᳘त् ॥
पञ्चद᳘शोऽस्य ग्रीवा उ᳘र आहुः सप्तदशा᳘भिक्लृप्तम् ॥
एकविᳫंश᳘मुद᳘रं कल्पयन्ति पार्श्वे प᳘र्शूस्त्रिणवे᳘ना᳘भि᳘क्लृप्ते ॥
मूलम् - विस्वरम्
“शिरस्त्रिवृत् पंचदशो ऽस्य ग्रीवा उर आहुः सप्तदशाभिक्लृप्तम् । एकविंशमुदरं कल्पयन्ति पार्श्वे पर्शूस्त्रिणवेनाभिक्लृप्ते ॥ ६ ॥
हरिस्वामी
‘शिरस्त्रिवृत् इति ।’ ‘त्रिवृत्प्रायाः’ इत्येतस्य उत्तरम् । शिरः पुरुषस्य त्रिवृत् स्तोमः । तदपि त्रिष्टुबङ्गम् । अन्यानि स्पष्टानि च ॥ ६-९ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकांडे तृतीये ऽध्याये प्रथमं ब्राह्मणम् ॥ १२ । ३ । १ ॥
Eggeling
- The Trivr̥t is his head, the Pañcadaśa his neck; and the chest, they say, corresponds to the Saptadaśa; the Ekaviṁśa they make the belly, and
the two sides, by means of the Triṇava, correspond to the ribs.
मूलम् - Makoto
शि᳓रस्त्रिवृ᳓त् ।॥
पञ्चद᳓शो ऽस्य ग्रीवा᳓ उ᳓र आ᳓हुः सप्तदशा᳓भिक्ल्̥^प्तम् ।॥
एकविँश᳓मुद᳓रं कल्पयन्ति पा᳓र्श्वे᳓ प᳓र्शूस्त्रिणवे᳓ना᳓भि᳓क्ल्̥^प्ते ॥॥
०७
विश्वास-प्रस्तुतिः
अभिप्लवा᳘ ऽउभय᳘तो ऽस्य बाहू᳘॥
पृष्ठ्यम्पृ᳘ष्ठ्य ऽइ᳘ति धी᳘रा व्वदन्ति। अ᳘नूकमस्य चतुरुत्तरे᳘ण संवत्सरे᳘ ब्राह्मणाः᳘ कल्पयन्ति॥
मूलम् - श्रीधरादि
अभिप्लवा᳘ ऽउभय᳘तो ऽस्य बाहू᳘॥
पृष्ठ्यम्पृ᳘ष्ठ्य ऽइ᳘ति धी᳘रा व्वदन्ति। अ᳘नूकमस्य चतुरुत्तरे᳘ण संवत्सरे᳘ ब्राह्मणाः᳘ कल्पयन्ति॥
मूलम् - Weber
अभिप्लवा᳘ उभय᳘तोऽस्य बाहू᳘ ॥
पृष्ठं पृ᳘ष्ठ्य इ᳘ति धी᳘रा वदन्ति ॥
अ᳘नूकमस्य चतुरुत्तरे᳘ण संवत्सरे᳘ ब्राह्मणाः᳘ कल्पयन्ति ॥
मूलम् - विस्वरम्
अभिप्लवा उभयतो ऽस्य बाहू पृष्ठ्यं पृष्ठ्य इति धीरा वदन्ति । अनूकमस्य चतुरुत्तरेण संवत्सरे ब्राह्मणाः कल्पयन्ति ॥ ७ ॥
हरिस्वामी
[व्याख्यानं षष्ठे]
Eggeling
- The Abhiplavas on both sides (of the Vishuvat) are his arms, the Pr̥shṭḥya is the back,–so say the wise; and his spine the Brāhmaṇas fashion in the year by means of the (series of stomas increasing) successively by four (syllables).
मूलम् - Makoto
अभिप्लवा᳓ उभय᳓तो ऽस्य बा᳓हू᳓ ।॥
पृष्ठं᳓ पृ᳓ष्ठ्य इ᳓ति धी᳓रा᳓ वदन्ति ।॥
अ᳓नूकम् अस्य चतुरुत्तरे᳓ण संवत्सरे᳓ ब्रा᳓ह्मणाः᳓ कल्पयन्ति ॥॥
०८
विश्वास-प्रस्तुतिः
क᳘र्ण्णावस्याभिजि᳘द्विश्वजिच्च[[!!]]॥
(च्चा᳘) अ᳘क्ष्या बाहुः स्व᳘रसामाभिक्लृप्ते। न᳘स्यम्प्राण᳘म्विषुव᳘न्तमाहु᳘र्गो ऽआयुषी[[!!]] प्राणा᳘वेताव᳘वाञ्चौ॥
मूलम् - श्रीधरादि
क᳘र्ण्णावस्याभिजि᳘द्विश्वजिच्च[[!!]]॥
(च्चा᳘) अ᳘क्ष्या बाहुः स्व᳘रसामाभिक्लृप्ते। न᳘स्यम्प्राण᳘म्विषुव᳘न्तमाहु᳘र्गो ऽआयुषी[[!!]] प्राणा᳘वेताव᳘वाञ्चौ॥
मूलम् - Weber
क᳘र्णावस्याभिजि᳘द्विश्वजि᳘च्च ॥
अ᳘क्ष्यावाहुः स्व᳘रसामाभिक्लृप्ते ॥
न᳘स्यं प्राणं᳘ विषुव᳘न्तमाहु᳘र्गोऽआयु᳘षी प्राणा᳘वेताव᳘वाञ्चौ ॥
मूलम् - विस्वरम्
कर्णावस्याभिजिद्विविश्वजिच्चाक्ष्या बाहुः स्वरसामा ऽभिक्लृप्ते । नस्यं प्राणं विषुवन्तमाहुर्गोआयुषी प्राणावेताववांचौ ॥ ८ ॥
हरिस्वामी
[व्याख्यानं षष्ठे]
Eggeling
- The Abhijit and Viśvajit are his ears; and his eyes, they say, correspond to the Svarasāmans; the Vishuvat, they say, is the breath of the nostrils; and the Go and Āyus are those two downward breathings.
मूलम् - Makoto
क᳓र्णा᳓व् अस्या᳓भिजि᳓द् विश्वजि᳓च् च ।॥
अ᳓क्ष्या᳓व् आ᳓हुः स्व᳓रसा᳓मा᳓भिक्ल्̥^प्ते ।॥
न᳓स्यं प्रा᳓णं᳓ विषुव᳓न्तम् आ᳓हु᳓र् गोऽआ᳓यु᳓षी प्रा᳓णा᳓व् एता᳓व् अ᳓वा᳓ञ्चौ ॥॥
०९
विश्वास-प्रस्तुतिः
अ᳘ङ्गान्यस्य दशरात्र᳘माहुः॥
(र्मु᳘) मुखम्महाव्व्रत᳘ᳫँ᳘[[!!]] सम्वत्सरे᳘ ब्राह्मणाः᳘ कल्पयन्ति। स᳘र्व्वस्तोमᳫँ᳭ स᳘र्व्वसामानमेत᳘ᳫँ᳘ सम्वत्सर᳘मध्यात्मम्प्र᳘विष्टम्। समन्धी᳘र ऽआत्म᳘ना कल्पयित्वा᳘ ब्रध्न᳘स्यास्ते व्विष्टपे᳘ ऽजातशोकः॥
मूलम् - श्रीधरादि
अ᳘ङ्गान्यस्य दशरात्र᳘माहुः॥
(र्मु᳘) मुखम्महाव्व्रत᳘ᳫँ᳘[[!!]] सम्वत्सरे᳘ ब्राह्मणाः᳘ कल्पयन्ति। स᳘र्व्वस्तोमᳫँ᳭ स᳘र्व्वसामानमेत᳘ᳫँ᳘ सम्वत्सर᳘मध्यात्मम्प्र᳘विष्टम्। समन्धी᳘र ऽआत्म᳘ना कल्पयित्वा᳘ ब्रध्न᳘स्यास्ते व्विष्टपे᳘ ऽजातशोकः॥
मूलम् - Weber
अ᳘ङ्गान्यस्य दशरात्र᳘माहुः ॥
मु᳘खं महाव्रतᳫं संवत्सरे᳘ ब्राह्मणाः᳘ कल्पयन्ति ॥
स᳘र्वस्तोमᳫं स᳘र्वसामानमेत᳘ᳫं᳘ संवत्सर᳘मध्यात्मं प्र᳘विष्टम् ॥
समं धी᳘र आत्म᳘ना कल्पयित्वा᳘ ब्रध्न᳘स्यास्ते विष्टपे᳘ऽजातशोकः ॥ ९ [३.१.] ॥
मूलम् - विस्वरम्
अङ्गान्यस्य दशरात्रमाहुर्मुखं महाव्रतं संवत्सरे ब्राह्मणाः कल्पयन्ति । सर्वस्तोमं सर्वसामानमेतं संवत्सरमध्यात्मं प्रविष्टम् । समं धीर आत्मना कल्पयित्वा ब्रघ्नस्यास्ते विष्टपे ऽजातशोकः” ॥ ९ ॥
हरिस्वामी
[व्याख्यानं षष्ठे]
Eggeling
- The Daśarātra they call his limbs, and the Mahāvrata the Brāhmaṇas fashion (arrange) so as to be the mouth in the year 3;–the Supreme Self has entered into that year endowed with all stomas and with all sāmans: having fashioned him alike with the body, the sage is seated free from pain 4 on the heights of the ruddy one (the sun).
मूलम् - Makoto
अ᳓ङ्गा᳓न्य् अस्य दशरा᳓त्र᳓म् आ᳓हुः ।॥
मु᳓खं महा᳓व्रतँ᳓ संवत्सरे᳓ ब्रा᳓ह्मणाः᳓ कल्पयन्ति ।॥
स᳓र्वस्तोमँ स᳓र्वसा᳓मा᳓नम् एतँ᳓ संवत्सर᳓म् अध्या᳓त्मं᳓ प्र᳓विष्टम् ।॥
समं᳓ धी᳓र आ᳓त्म᳓ना᳓ कल्पयित्वा᳓ ब्रध्न᳓स्या᳓स्ते विष्टपे᳓ ऽजा᳓तशोकः ॥॥
-
इ᳘त्येते । AP. ↩︎
-
166:1 The Trivr̥t, or nine-versed stoma, is, however, followed by the Pañcadaśa, or fifteen-versed stoma–the thirteen-versed form not being in ordinary use–and these are succeeded by the Saptadaśa (17), Ekaviṁśa (21), &c. Possibly, however, this last sentence may refer to the six days of the Pr̥shṭḥya-shaḍaha for which the stomas consisting of 9, 25, 17, 21, 27 and 33 verses respectively are used. On the Abhijit day, each of the first four stomas is used in succession for three stotras, the four hymn-forms thus making up the twelve stotras of the Agnishṭoma. On the Viśvajit day, on the other hand, only three stomas are used–the Trivr̥t, Pañcadaśa, and Saptadaśa–four stotras being assigned to each of these three hymn-forms. ↩︎
-
167:1 Though the Mahāvrata day is actually the last day but one of the one year’s sacrificial session, whilst the Caturviṁśa day is the second, these two days mark really the end and beginning of the year, whilst the nominal first and last days of the sessional performance may be considered as consisting of mere preliminary and concluding (winding-up) rites. The above symbolic identification of the Mahāvrata with the mouth of Agni-Prajāpati, the Year, might thus lead one to suppose (as, indeed, is done by Prof. Hillebrandt, Die Sonnwendfeste in Alt-Indien, p. 11) that if two such annual sessions were immediately to succeed each other, the Mahāvrata and Katurvimśa would fall on one and the same day. The Mahāvrata, representing (at least symbolically) the winter-solstice, would thus mark both the end and the beginning of two successive solar periods. ↩︎
-
167:2 Literally, with unborn pain (or, with the pain of one unborn). ↩︎