०१
विश्वास-प्रस्तुतिः
स वा᳘ ऽएष᳘ सम्वत्सरो᳘ बृहती᳘मभिस᳘म्पन्नः॥
(न्नो) द्वा᳘वार्क्ष्यताम᳘ह्नाᳫँ᳭ षडहौ द्वौ᳘ पृष्ठ्याभिप्लवौ᳘[[!!]] गो ऽआयु᳘षी[[!!]] दशरात्रस्तत्ष᳘ट्त्रिᳫँ᳭शत्ष᳘ट्त्रिᳫँ᳭शदक्षरा वै᳘ बृहती᳘ बृहत्या वै᳘ देवाः᳘ स्वर्ग्गे᳘ लोके᳘ ऽयतन्त बृहत्या᳘ स्वर्ग्गं᳘ लोक᳘माप्नुवंस्त᳘थो ऽए᳘वैष᳘ ऽएत᳘द्बृह᳘त्यैव᳘ स्वर्ग्गे᳘ लोके यतते[[!!]] बृहत्या᳘ स्वर्ग्गं᳘ लोक᳘माप्नोत्य᳘थ यो᳘ बृहत्यां का᳘मस्त᳘मे᳘वैते᳘नैवम्विद᳘वरुन्धे॥
मूलम् - श्रीधरादि
स वा᳘ ऽएष᳘ सम्वत्सरो᳘ बृहती᳘मभिस᳘म्पन्नः॥
(न्नो) द्वा᳘वार्क्ष्यताम᳘ह्नाᳫँ᳭ षडहौ द्वौ᳘ पृष्ठ्याभिप्लवौ᳘[[!!]] गो ऽआयु᳘षी[[!!]] दशरात्रस्तत्ष᳘ट्त्रिᳫँ᳭शत्ष᳘ट्त्रिᳫँ᳭शदक्षरा वै᳘ बृहती᳘ बृहत्या वै᳘ देवाः᳘ स्वर्ग्गे᳘ लोके᳘ ऽयतन्त बृहत्या᳘ स्वर्ग्गं᳘ लोक᳘माप्नुवंस्त᳘थो ऽए᳘वैष᳘ ऽएत᳘द्बृह᳘त्यैव᳘ स्वर्ग्गे᳘ लोके यतते[[!!]] बृहत्या᳘ स्वर्ग्गं᳘ लोक᳘माप्नोत्य᳘थ यो᳘ बृहत्यां का᳘मस्त᳘मे᳘वैते᳘नैवम्विद᳘वरुन्धे॥
मूलम् - Weber
स वा᳘ऽएष᳘ संवत्सरो᳘ बृहती᳘मभिस᳘म्पन्नः ॥
द्वा᳘वार्क्ष्यताम᳘ह्नाᳫं 1 षडहौ द्वौ᳘ पृष्ठ्या᳘भिप्लवौ᳘ गोऽआयु᳘षी दशरात्रस्तत्ष᳘ट्त्रिᳫंशत्ष᳘ट्त्रिᳫंशदक्षरा वै᳘ बृहती᳘ बृहत्या वै᳘ देवाः᳘ स्वर्गे᳘ लोके᳘ऽयतन्त बृहत्या᳘ स्वर्गं᳘ लोक᳘माप्नुवंस्त᳘थोऽएॗवैष᳘ एत᳘द्बृहॗत्यैव᳘ स्वर्गे᳘ लोके य᳘तते बृहत्या᳘ स्वर्गं᳘ लोक᳘माप्नोत्य᳘थ यो᳘ बृहत्यां का᳘मस्त᳘मेॗवैते᳘नैवंविद᳘वरुन्द्धे ॥
मूलम् - विस्वरम्
स वा एष संवत्सरो बृहतीमभिसंपन्नः । द्वावार्क्ष्यतामह्नां षडहौ । द्वौ पृष्ठ्याभिप्लवौ । गोआयुषी । दशरात्रः । तत् षट्त्रिंशत् । षट्त्रिंशदक्षरा वै बृहती । बृहत्या वै देवाः स्वर्गे लोके ऽयंतत । बृहत्या स्वर्गं लोकमाप्नुवन् । तथा उ एवैष एतद् बृहत्यैव स्वर्गे लोके यतते । बृहत्या स्वर्गं लोकमाप्नोति । अथ यो बृहत्यां कामः । तमेवैतेनैवम्विदवरुंधे ॥ १ ॥
हरिस्वामी
‘स वा एषः’ । एष एव संवत्सरः संवत्सरदिवससम्मितः श्रुत्युक्तः कर्मराशिः बृहतीच्छंदो ऽभिसंपन्नः । यावन्ति बृहतीसु ऋक्षु अक्षराणि तावन्ति अहानि संपन्नतया उपास्यानीति शेषः । बृहत्या असौ उपनिषदित्यर्थः । कथं बृहतीमभिसंपन्न इत्याह- ‘द्वौ आर्क्ष्यतामह्नां षडहौ’ यावन्त्यहानि पृष्ठ्याभिप्लवदशरात्रगोआयुंषि स्युः । तावती षट्त्रिंशदक्षरा बृहतीत्याचक्षते । (आङ्पूर्वस्य क्रियतेः सतरिणादयः । शभद्रागमच्छांदसः । ?) आकण्ठात्स्वस्थान एवाधिक्षिपयति न प्रदेशांतर आवर्तत इत्यर्थः । एतेषां द्वौ षडहौ द्वादशशतानीत्यर्थः । प्रायणीयोदयनीयाभिजिद्विश्वजित्विषुवन्महाव्रतानीत्येकः षडहः । स्वरसामा द्वितीयः । चतुर्विंशो दशरात्रश्च स्वरसामा तृतीयः । (सप्तमास्वतिरवक्ष्यति ?) ततश्च न द्वावार्क्ष्यतामह्नां षडहावित्युपपन्नाः । अनया ‘बृहत्या’ ‘वै देवाः’ स्वर्गे लोके निमित्ते स्वगार्थमित्यर्थः । ‘अयतंत’ प्रयत्नं कृतवन्तः । अनया बृहत्या आप्नुवंस्ते स्वर्गम् । अथ यो बृहत्यां द्वादशमासाश्चतुर्विंशतिरर्द्धमासा इत्येवमात्मिकाः । समस्तमेव ते बृहतीसंपन्नेन संवत्सरेण ‘एवमुपासको ऽवरुंद्धे’ स्वीकरोति । यद्वै चतुर्विंशमपि अहः अस्ति । तत्र कथं द्वावार्क्ष्यतामह्नां षडहा इत्युच्यते । कथं वा बृहतीमभिसंपन्न इति अत आह- यद्वै चतुर्विंशमहरिति । दशरात्रप्रबन्धमेतत् । तत्र प्रतिबद्धमार्क्ष्यत् । तेन च बृहती एव प्रतिबद्धेत्यर्थः । अभिप्लवात्पृष्ठ्यो निर्मित (इत्यादिभिर्वाणमागमिक ?) ततश्चातिरात्रस्यांतराले सर्वाण्येवाहानि पृष्ठ्याभिप्लवप्रतिबद्धया निर्मितत्वादिति महाव्रतमेव तत्रैकमार्क्ष्यत् नवममिति दर्शनम् । पंचविंशो ह्येतस्य महाव्रतस्य स्तोमो भवति । नान्यः कस्यचित् । ततश्च स्तोमसामान्ये ऽपि सैकं तत् क्वचिदन्तर्भवतीत्यभिप्रायः । नाक्षराच्छन्दो व्येतीति । (तस्याप्यनन्तनविंचनं यदापि तस्य ये सवितुः स्तोमस्तथापि तयोर्व्यर्के त्रिणवे ऽहनि धोव्योमसाम्यादन्तर्गानमेया नह्योकपात्स्तोत्रियया द्वाभ्यां स्वास्तौभिर्घाते यथा च्छन्द एकस्मात् द्वाभ्यामक्षराभ्यामिति । ततश्चाभिप्लवेनैव प्रकृतिभूतेन आत्रिरात्रात् तरन्मभिपूरितं भवतीति दर्शयति ?) ॥ १-३ ॥
Eggeling
- That year, doubtless, amounts to a Br̥hatī–,there are two shaḍahas (12) of winning days 2; the
two, Pr̥shṭḥya and Abhiplava (12); the Go and Āyus, and the Daśarātra (ten days)–that makes thirty-six; for the Br̥hatī consists of thirty-six syllables, and by means of the Br̥hatī the gods strove to reach heaven, and by the Br̥hatī they did gain heaven; and in like manner does this one, by means of the Br̥hatī, now strive to reach heaven, and thereby gain heaven; he who knows this secures for himself whatever wish there is in the Br̥hatī.
मूलम् - Makoto
स᳓ वा᳓ एष᳓ संवत्सरो᳓ बृहती᳓म् अभिस᳓म्पन्नः ।॥
द्वा᳓व् आ᳓र्क्ष्यता᳓म् अ᳓ह्नाँ᳓ षडहौ᳓ द्वौ᳓ पृष्ठ्या᳓भिप्लवौ᳓ गोआ᳓यु᳓षी दशरा᳓त्र᳓स् त᳓त् ष᳓ट्त्रिँशत् ष᳓ट्त्रिँशदक्षरा᳓ वै᳓ बृहती᳓ बृहत्या᳓ वै᳓ देवाः᳓ स्वर्गे᳓ लोके᳓ ऽयन्त बृहत्या᳓ स्वर्गं᳓ लोक᳓म् आ᳓प्नुवंस् त᳓थो एवै᳙ष᳓ एत᳓द् बृहत्यै᳙व᳓ स्वर्गे᳓ लोके᳓ य᳓तते बृहत्या᳓ स्वर्गं᳓ लोक᳓म् आ᳓प्नोत्य् अ᳓थ यो᳓ बृहत्यां᳓ का᳓मस् त᳓म् एवै᳙ते᳓नैवंवि᳓द् अ᳓वरुन्द्धे ॥॥
०२
विश्वास-प्रस्तुतिः
यद्वै᳘ चतुर्विᳫँ᳭शम᳘हः॥
(र्द) दशरात्र᳘स्य वै त᳘त्सप्तमं᳘ वा नवमं᳘ वा ऽभिप्लवात्पृ᳘ष्ठ्यो नि᳘र्म्मितः पृ᳘ष्ठ्यादभिजि᳘दभिजि᳘तः स्व᳘रसामानः स्व᳘रसामभ्यो व्विषुवा᳘न्विषुव᳘तः स्व᳘रसामानः स्व᳘रसामभ्यो व्विश्वजि᳘द्विश्वजि᳘तः[[!!]] पृ᳘ष्ठ्यः पृ᳘ष्ठ्यादभिप्ल᳘वो ऽभिप्लवा᳘द्गो ऽआयुषी[[!!]] गो ऽआयु᳘र्भ्यां दशरात्रः[[!!]]॥
मूलम् - श्रीधरादि
यद्वै᳘ चतुर्विᳫँ᳭शम᳘हः॥
(र्द) दशरात्र᳘स्य वै त᳘त्सप्तमं᳘ वा नवमं᳘ वा ऽभिप्लवात्पृ᳘ष्ठ्यो नि᳘र्म्मितः पृ᳘ष्ठ्यादभिजि᳘दभिजि᳘तः स्व᳘रसामानः स्व᳘रसामभ्यो व्विषुवा᳘न्विषुव᳘तः स्व᳘रसामानः स्व᳘रसामभ्यो व्विश्वजि᳘द्विश्वजि᳘तः[[!!]] पृ᳘ष्ठ्यः पृ᳘ष्ठ्यादभिप्ल᳘वो ऽभिप्लवा᳘द्गो ऽआयुषी[[!!]] गो ऽआयु᳘र्भ्यां दशरात्रः[[!!]]॥
मूलम् - Weber
यद्वै᳘ चतुर्विᳫंशम᳘हः ॥
दशरात्र᳘स्य वै त᳘त्सप्तमं᳘ वा नवमं᳘ वाभिप्लवात्पृ᳘ष्ठ्यो नि᳘र्मितः पृ᳘ष्ठ्यादभिजि᳘दभिजि᳘तः स्व᳘रसामानः स्व᳘रसामभ्यो विषुवा᳘न्विषुव᳘तः स्व᳘रसामानः स्व᳘रसामभ्यो विश्व᳘जिद्विश्वजि᳘तः पृ᳘ष्ठ्यः पृ᳘ष्ठ्यादभिप्लॗवोऽभिप्लवा᳘द्गोऽआयु᳘षी गोऽआयु᳘र्भ्यां दशरा᳘त्रः᳟ ॥
मूलम् - विस्वरम्
यद्वै चतुर्विंशमहः । दशरात्रस्य वै तत्सप्तमं वा नवमं वा । अभिप्लवात् पृष्ठ्यो निर्मितः । पृष्ठ्यादभिजित् । अभिजितः स्वरसामानः । स्वरसामभ्यो विषुवान् । विषुवतः स्वरसामानः । स्वरसामभ्यो विश्वजित् । विश्वजितः पृष्ठ्यः । पृष्ठ्यादभिप्लवः । अभिप्लवात् गोआयुषी । गोआयुर्भ्यां दशरात्रः ॥ २ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And as to the Caturviṁśa day, it is the same as either the seventh or the ninth (day) of the Daśarātra 3 From out of the Abhiplava the Pr̥shṭḥya is formed, from the Pr̥shṭḥya the Abhijit,
from the Abhijit the Svarasāmans, from the Svarasāmans the Vishuvat, from the Vishuvat the Svarasāmans, from the Svarasāmans the Viśvajit, from the Viśvajit the Pr̥shṭḥya 4, from the Pr̥shṭḥya the Abhiplava, from the Abhiplava the Go and Āyus, and from the Go and Āyus the Daśarātra.
मूलम् - Makoto
य᳓द् वै᳓ चतुर्विँश᳓म् अ᳓हः ।॥
दशरा᳓त्र᳓स्य वै᳓ त᳓त् सप्तमं᳓ वा᳓ नवमं᳓ वा᳓भिप्लवा᳓त् पृ᳓ष्ठ्यो नि᳓र्मितः पृ᳓ष्ठ्या᳓द् अभिजि᳓द् अभिजि᳓तः स्व᳓रसा᳓मा᳓नः स्व᳓रसा᳓मभ्यो विषुवा᳓न् विषुव᳓तः स्व᳓रसा᳓मा᳓नः स्व᳓रसा᳓मभ्यो विश्व᳓जिद् विश्वजि᳓तः पृ᳓ष्ठ्यः पृ᳓ष्ठ्या᳓द् अभिप्लवो᳙ ऽभिप्लवा᳓द् गोआ᳓यु᳓षी गोआ᳓यु᳓र्भ्यां᳓ दशरा᳓त्रः᳓ ॥॥
०३
विश्वास-प्रस्तुतिः
(त्रो᳘ ऽथै) अ᳘थैतद᳘हरार्क्ष्यत्॥
(द्य᳘) य᳘न्महाव्व्रतं᳘ पञ्चविᳫँ᳭शो᳘ ह्येत᳘स्य स्तो᳘मो भ᳘वति᳘ नाक्ष᳘राच्छ᳘न्दो᳘ व्व्येत्ये᳘कस्मान्न द्वा᳘भ्यान्न᳘ स्तोत्रि᳘यया स्तो᳘मः॥
मूलम् - श्रीधरादि
(त्रो᳘ ऽथै) अ᳘थैतद᳘हरार्क्ष्यत्॥
(द्य᳘) य᳘न्महाव्व्रतं᳘ पञ्चविᳫँ᳭शो᳘ ह्येत᳘स्य स्तो᳘मो भ᳘वति᳘ नाक्ष᳘राच्छ᳘न्दो᳘ व्व्येत्ये᳘कस्मान्न द्वा᳘भ्यान्न᳘ स्तोत्रि᳘यया स्तो᳘मः॥
मूलम् - Weber
अ᳘थैतद᳘हरार्क्ष्यत् 5 ॥
य᳘न्महाव्रतं᳘ पञ्चविᳫंशोॗ ह्येत᳘स्य स्तो᳘मो भ᳘वतिॗ नाक्ष᳘राच्छ᳘न्दोॗ व्येत्ये᳘कस्मान्न द्वा᳘भ्यां न᳘ स्तोत्रि᳘यया स्तो᳘मः ॥
मूलम् - विस्वरम्
अथैतदहरार्क्ष्यत्, यन्महाव्रतम् । पंचविंशो ह्येतस्य स्तोमो भवति । नाक्षराच्छन्दो व्येत्येकस्मात् । न द्वाभ्याम् । न स्तोत्रियया स्तोमः ॥ ३ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And that Mahāvrata is a winning-day, for its Stoma is the Pañcaviṁśa, and a metre does not collapse from (excess or deficiency of) a syllable–neither from one nor from two (syllables); neither does a Stoma by (an excess of) one hymn-verse 6.
मूलम् - Makoto
अ᳓थैत᳓द् अ᳓हर् आ᳓र्क्ष्यत् ।॥
य᳓न् महा᳓व्रतं᳓ पञ्चविँशो᳓ ह्य् ए᳙त᳓स्य स्तो᳓मो भ᳓वति ना᳙क्ष᳓रा᳓च् छ᳓न्दो व्ये᳙त्य् ए᳓कस्मा᳓न् न᳓ द्वा᳓भ्यां᳓ न᳓ स्तोत्रि᳓यया᳓ स्तो᳓मः ॥॥
०४
विश्वास-प्रस्तुतिः
(मो ऽभि) अभिप्लवं पू᳘र्व्वं पुर᳘स्ताद्विषुव᳘त ऽउपय᳘न्ति॥
पृ᳘ष्ठ्यमु᳘त्तरम्पुत्रा वा᳘ ऽअभिप्लवः᳘ पिता पृ᳘ष्ठ्यस्त᳘स्मात्पूर्व्ववयसे᳘ पुत्राः᳘ पित᳘रमुपजीवन्ति पृ᳘ष्ठ्यमुप᳘रिष्टाद्विषुव᳘तः पू᳘र्व्वमुपय᳘न्त्यभिप्लवमु᳘त्तरन्त᳘स्मादुत्तरवयसे᳘ पुत्रा᳘न्पितो᳘पजीवत्युप ह वा᳘ ऽएनं पूर्व्ववयसे᳘ पुत्रा᳘ जीवन्त्यु᳘पोत्तरवयसे᳘ पुत्रा᳘ञ्जीवति य᳘ ऽएव᳘मेतद्वे᳘द॥
मूलम् - श्रीधरादि
(मो ऽभि) अभिप्लवं पू᳘र्व्वं पुर᳘स्ताद्विषुव᳘त ऽउपय᳘न्ति॥
पृ᳘ष्ठ्यमु᳘त्तरम्पुत्रा वा᳘ ऽअभिप्लवः᳘ पिता पृ᳘ष्ठ्यस्त᳘स्मात्पूर्व्ववयसे᳘ पुत्राः᳘ पित᳘रमुपजीवन्ति पृ᳘ष्ठ्यमुप᳘रिष्टाद्विषुव᳘तः पू᳘र्व्वमुपय᳘न्त्यभिप्लवमु᳘त्तरन्त᳘स्मादुत्तरवयसे᳘ पुत्रा᳘न्पितो᳘पजीवत्युप ह वा᳘ ऽएनं पूर्व्ववयसे᳘ पुत्रा᳘ जीवन्त्यु᳘पोत्तरवयसे᳘ पुत्रा᳘ञ्जीवति य᳘ ऽएव᳘मेतद्वे᳘द॥
मूलम् - Weber
अभिप्लवं पू᳘र्वं पुर᳘स्ताद्विषुव᳘त उपय᳘न्ति ॥
पृ᳘ष्ठ्यमु᳘त्तरं पुत्रा वा᳘ऽअभिप्लवः᳘ पिता पृ᳘ष्ठ्यस्त᳘स्मात्पूर्ववयसे᳘ पुत्राः᳘ पित᳘रमुपजीवन्ति पृ᳘ष्ठ्यमुप᳘रिष्टाद्विषुव᳘तः पू᳘र्वमुपय᳘न्त्यभिप्लवमु᳘त्तरं त᳘स्मादुत्तरवयसे᳘ पुत्रा᳘न्पितो᳘पजीवन्त्यु᳘प ह वा᳘ऽएनं पूर्ववयसे᳘ पुत्रा᳘ जीवन्त्यु᳘पोत्तरवयसे᳘ पुत्रा᳘न्जीवति य᳘ एव᳘मेतद्वे᳘द ॥
मूलम् - विस्वरम्
अभिप्लवं पूर्वं पुरस्तात् विषुवत उपयन्ति । पृष्ठ्यमुत्तरम् । पुत्रा वा अभिप्लवः । पिता पृष्ठ्यः । तस्मात् पूर्ववयसे पुत्राः पितरमुपजीवन्ति । पृष्ठ्यमुपरिष्टात् विषुवतः पूर्वमुपयन्ति । अभिप्लवमुत्तरम् । तस्मादुत्तरवयसे पुत्रान् पितोपजीवति । उप ह वा एनं पूर्ववयसे पुत्रा जीवन्ति । उपोत्तरवयसे पुत्रान् जीवति । य एवमेतद्वेद ॥ ४ ॥
हरिस्वामी
अभिप्लवं पूर्वमिति । पूर्वेषु षट्सु मासेषु अभिप्लवः पृष्ठ्यात् पूर्वं विपरीतमुत्तरेषु इत्येतत् । अत्रापि पिता पुत्रदर्शनं संयुक्तमुच्यते । तदाहुः- यदेवादः प्रायणीयमिति । प्रायणीय एवातिरात्रः सर्वसंवत्सरसंपादितः “कति त्वेवेत्येकमिति होवाच” इत्यत्राभिप्रायः । तदाहुर्यत् पुरुषविधस्य विषुवान् शरीरलवणोदकबन्धांगभूतेषु पूर्वोत्तरेषु मासेषु अंतर्गतानेव पृथगाक्षिप्यते । पूर्वोत्तरग्रहणाभ्यां च गृह्यते । इत्येतदनुकण्डिकाद्वयेन निदर्श्यते । तदाहुः- पूर्वेषु षट्सु मासेषु त्रिविधा ये स्तोमाः पार्ष्ठिकेष्वहःसु ऊर्ध्वा भवन्ति । (उत्तरेषु त्रयस्त्रिंशारस्तृरणा अर्च्चा एव ?) । दशरात्रे ऊर्ध्वा एव । तैरेवोर्ध्वैरिति । ऊर्ध्वा एवोपासनीया इत्येतदनुकण्डिकाद्वयेन प्रदर्श्यते । तन्महाव्रतमभ्यसेदेव । ‘एभ्यो ऽतिष्ठत’ तस्मादावृत्तादात्मानं प्रकाशितवत् । प्रकाशने तिष्ठतेरात्मनेपदम् ॥ ४-९ ॥
Eggeling
- Prior to the Vishuvat they perform first the Abhiplava, and afterwards the Pr̥shṭḥya, for the Abhiplava represents the sons, and the Pr̥shṭḥya the father; whence in early life the sons subsist on (the resources of) their father. Subsequent to the Vishuvat they perform first the Pr̥shṭḥya, and afterwards the Abhiplava; whence in later life the father subsists on (the resources of) his sons; and, verily, the sons of him who thus knows this subsist on him in early life, and he subsists on his sons in later life.
मूलम् - Makoto
अभिप्लवं᳓ पू᳓र्वं पुर᳓स्ता᳓द् विषुव᳓त उपय᳓न्ति ।॥
पृ᳓ष्ठ्यम् उ᳓त्तरं पुत्रा᳓ वा᳓ अभिप्लवः᳓ पिता᳓ पृ᳓ष्ट्यस् त᳓स्मा᳓त् पूर्ववयसे᳓ पुत्राः᳓ पित᳓रम् उ᳓पजीवन्ति पृ᳓ष्ठ्यम् उप᳓रिष्टा᳓द् विषुव᳓तः पू᳓र्वम् उपय᳓न्त्य् अभिप्लव᳓म् उ᳓त्तरं त᳓स्मा᳓द् उत्तरवयसे᳓ पुत्रा᳓न् पितो᳓पजीवन्त्य् उ᳓प ह वा᳓ एनं पूर्ववयसे᳓ पुत्राः᳓ जीवन्त्य् उ᳓पोत्तरवयसे᳓ पुत्रा᳓न् जीवति य᳓ एव᳓म् एत᳓द् वे᳓द ॥॥
०५
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्य्य᳘) य᳘च्चतुर्व्विᳫँ᳭शम᳘हरुपे᳘त्य प्रेया᳘त्कथम᳘नागूर्ती भवती᳘ति य᳘दे᳘वादः᳘ प्रायणी᳘यमतिरात्र᳘मुपय᳘न्ति तेने᳘ति ब्रूयात्॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्य्य᳘) य᳘च्चतुर्व्विᳫँ᳭शम᳘हरुपे᳘त्य प्रेया᳘त्कथम᳘नागूर्ती भवती᳘ति य᳘दे᳘वादः᳘ प्रायणी᳘यमतिरात्र᳘मुपय᳘न्ति तेने᳘ति ब्रूयात्॥
मूलम् - Weber
त᳘दाहुः ॥
य᳘च्चतुर्विᳫंशम᳘हरुपे᳘त्य प्रेया᳘त्कथम᳘नागूर्ती भवती᳘ति य᳘देॗवादः᳘ प्रायणी᳘यमतिरात्र᳘मुपय᳘न्ति तेने᳘ति ब्रूयात् ॥
मूलम् - विस्वरम्
तदाहुः- यच्चतुर्विंशमहरुपेत्य प्रेयात् । कथमनागूर्ती भवतीति । यदेवादः प्रायणीयमतिरात्रमुपयन्ति । तेनेति ब्रूयात् ॥ ५ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- Here, now, they ask, ‘If he were to die after entering on the Caturviṁśa day, how does he become one who has not merely (uttered) the
Āgur-formula 7?’ Let him say, ‘In that they then perform the Opening Atirātra, thereby (he becomes such a one).’
मूलम् - Makoto
त᳓द् आ᳓हुः ।॥
य᳓च् चतुर्विँश᳓म् अ᳓हर् उपे᳓त्य प्रेया᳓त् कथ᳓म् अ᳓ना᳓गूर्ती भवती᳓ति य᳓द् एवा᳙दः᳓ प्रा᳓यणी᳓यम् अतिरा᳓त्र᳓म् उपय᳓न्ति ते᳓ने᳓ति ब्रूया᳓त् ॥॥
०६
विश्वास-प्रस्तुतिः
(त्त᳘) त᳘दाहुः॥
(र्य्य᳘) यद्द्वा᳘दशमा᳘साः सम्वत्सरस्या᳘थैतद᳘हर᳘त्येति यद्वै᳘षुवतम᳘वरेषामेता ३ त्प᳘रेषा ३ मित्य᳘वरेषाञ्चैव प᳘रेषाञ्चे᳘ति ह ब्रूयादात्मा वै᳘ सम्वत्सर᳘स्य व्विषुवान᳘ङ्गानि मा᳘सा य᳘त्र वा᳘ ऽआत्मा तद᳘ङ्गानि य᳘त्रो ऽअ᳘ङ्गानि त᳘दात्मा न वा᳘ ऽआत्मा᳘ ऽङ्गान्यतिरिच्य᳘ते᳘ नात्मा᳘नमङ्गान्य᳘तिरिच्यन्त ऽएव᳘मु हैतद᳘वरेषाञ्चैव प᳘रेषाञ्च भवति॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘दाहुः॥
(र्य्य᳘) यद्द्वा᳘दशमा᳘साः सम्वत्सरस्या᳘थैतद᳘हर᳘त्येति यद्वै᳘षुवतम᳘वरेषामेता ३ त्प᳘रेषा ३ मित्य᳘वरेषाञ्चैव प᳘रेषाञ्चे᳘ति ह ब्रूयादात्मा वै᳘ सम्वत्सर᳘स्य व्विषुवान᳘ङ्गानि मा᳘सा य᳘त्र वा᳘ ऽआत्मा तद᳘ङ्गानि य᳘त्रो ऽअ᳘ङ्गानि त᳘दात्मा न वा᳘ ऽआत्मा᳘ ऽङ्गान्यतिरिच्य᳘ते᳘ नात्मा᳘नमङ्गान्य᳘तिरिच्यन्त ऽएव᳘मु हैतद᳘वरेषाञ्चैव प᳘रेषाञ्च भवति॥
मूलम् - Weber
त᳘दाहुः ॥
यद्द्वा᳘दश मा᳘साः संवत्सरस्या᳘थैतद᳘हर᳘त्येति यद्वै᳘षुवतम᳘वरेषामेता३त्प᳘रेषामित्य᳘वरेषां चैव प᳘रेषां चे᳘ति ह ब्रूयादात्मा वै᳘ संवत्सर᳘स्य विषुवान᳘ङ्गानि मा᳘सा य᳘त्र वा᳘ऽआत्मा तद᳘ङ्गानि य᳘त्रोऽअ᳘ङ्गानि त᳘दात्मा न वा᳘ऽआत्मा᳘ङ्गान्यतिरिच्य᳘तेॗ नात्मा᳘नमङ्गान्य᳘तिरिच्यन्तऽएव᳘मु हैतद᳘वरेषां चैव प᳘रेषां च भवति ॥
मूलम् - विस्वरम्
तदाहुः- यत् द्वादश मासाः संवत्सरस्य । अथैतदहरत्येति । यत् वैषुवतम् । अवरेषामेता ३ त् परेषा ३ मिति । अवरेषां चैव परेषां चेति ह ब्रूयात् । आत्मा वै संवत्सरस्य विषुवान् । अंगानि मासाः । यत्र वा आत्मा तदंगानि । यत्रो अंगानि तदात्मा । न वा आत्मा अंगान्यतिरिच्यते । नात्मानमंगान्यतिरिच्यन्ते । एवमु हैतत् अवरेषां चैव परेषां च भवति ॥ ६ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- As to this they ask, ‘Seeing that there are the twelve months of the year, and that one day, to wit, the Vishuvat, is in excess, does this belong to those (months) that go before or to those that follow?’ Let him say, ‘Both to those that go before and to those that follow;’ for the Vishuvat is the body (trunk) of the year, and the months are its limbs; and where the body is there are (or, that includes) also the limbs, and where the limbs are there is also the body; and neither is the body in excess of the limbs, nor are the limbs in excess of the body: and thus, indeed, that (day) belongs both to those (months) that go before and to those that follow.
मूलम् - Makoto
त᳓द् आ᳓हुः ।॥
य᳓द् द्वा᳓दश मा᳓साः᳓ संवत्सर᳓स्या᳓थैत᳓द् अ᳓हर् अ᳓त्येति य᳓द् वै᳓षुवतम् अ᳓वरेषा᳓म् एता᳓३त् प᳓रेषा᳓म् इत्य् अ᳓वरेषां᳓ चैव᳓ प᳓रेषां᳓ चे᳓ति ह ब्रूया᳓द् आ᳓त्मा᳓ वै᳓ संवत्सर᳓स्य विषुवा᳓न् अ᳓ङ्गा᳓नि मा᳓सा᳓ य᳓त्र वा᳓ आ᳓त्मा᳓ त᳓द् अ᳓ङ्गा᳓नि य᳓त्रो अ᳓ङ्गा᳓नि त᳓द् आ᳓त्मा᳓ न᳓ वा᳓ आ᳓त्मा᳓ङ्गा᳓न्य् अतिरिच्य᳓ते ना᳙त्मा᳓नम् अ᳓ङ्गा᳓न्य् अ᳓तिरिच्यन्त एव᳓म् उ हैत᳓द् अ᳓वरेषां᳓ चैव᳓ प᳓रेषां᳓ च भवति ॥॥
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ ह वा᳘ ऽएष᳘ महासुपर्ण्ण᳘ ऽएव य᳘त्संवत्सरः[[!!]]॥
(स्त᳘) त᳘स्य या᳘न्पुर᳘स्ताद्विषुव᳘तः षण्मा᳘सानुपय᳘न्ति᳘ सो ऽन्यतरः᳘ पक्षो᳘ ऽथ यान्ष᳘डुप᳘रिष्टा᳘त्सो ऽन्यतर᳘ ऽआत्मा᳘ व्विषुवान्य᳘त्र वा᳘ ऽआत्मा त᳘त्पक्षौ य᳘त्र वा पक्षौ त᳘दात्मा न वा᳘ ऽआत्मा᳘ पक्षा᳘वतिरिच्य᳘ते᳘ नात्मा᳘नम्पक्षाव᳘तिरिच्येते ऽएव᳘मु हैतद᳘वरेषाञ्चैव प᳘रेषाञ्च भवति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ ह वा᳘ ऽएष᳘ महासुपर्ण्ण᳘ ऽएव य᳘त्संवत्सरः[[!!]]॥
(स्त᳘) त᳘स्य या᳘न्पुर᳘स्ताद्विषुव᳘तः षण्मा᳘सानुपय᳘न्ति᳘ सो ऽन्यतरः᳘ पक्षो᳘ ऽथ यान्ष᳘डुप᳘रिष्टा᳘त्सो ऽन्यतर᳘ ऽआत्मा᳘ व्विषुवान्य᳘त्र वा᳘ ऽआत्मा त᳘त्पक्षौ य᳘त्र वा पक्षौ त᳘दात्मा न वा᳘ ऽआत्मा᳘ पक्षा᳘वतिरिच्य᳘ते᳘ नात्मा᳘नम्पक्षाव᳘तिरिच्येते ऽएव᳘मु हैतद᳘वरेषाञ्चैव प᳘रेषाञ्च भवति॥
मूलम् - Weber
अ᳘थ ह वा᳘ऽएष᳘ महासुपर्ण᳘ एव य᳘त्संवत्सरः᳟ ॥
त᳘स्य या᳘न्पुर᳘स्ताद्विषुव᳘तः षण्मा᳘सानुपय᳘न्तिॗ सोऽन्यतरः᳘ पक्षो᳘ऽथ यान्ष᳘डुप᳘रिष्टाॗत्सोऽन्यतर᳘ आत्मा᳘ विषुवान्य᳘त्र वा᳘ऽआत्मा त᳘त्पक्षौ य᳘त्र वा पक्षौ 8 त᳘दात्मा न वा᳘ऽआत्मा᳘ पक्षा᳘वतिरिच्य᳘तेॗ नात्मा᳘नं पक्षाव᳘तिरिच्येते एव᳘मु हैतद᳘वरेषां 9 चैव प᳘रेषां च भवति ॥
मूलम् - विस्वरम्
अथ ह वा एष महासुपर्ण एव । यत् संवत्सरः । तस्य यान् पुरस्तात् विषुवतः षण्मासानुपयन्ति । सः अन्यतरः पक्षः । अथ यान् षडुपरिष्टात् सः अन्यतरः । आत्मा विषुवान् । यत्र वा आत्मा तत्पक्षौ । यत्र वा पक्षौ तदात्मा । न वा आत्मा पक्षावतिरिच्यते । नात्मानं पक्षावतिरिच्येते । एवमु है तत् । अवरेषां चैव परेषां च भवति ॥ ७ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- But, indeed, that year is a great eagle: the six months which they perform prior to the Vishuvat are the one wing, and those which they perform subsequent thereto are the other; and the Vishuvat is the body; and, indeed, where the body is there are also the wings, and where the wings are there is also the body; for neither is the body in excess of the wings, nor are the wings in excess of the body: and thus, indeed, that (day) belongs both to those (months) that go before and to those that follow.
मूलम् - Makoto
अ᳓थ ह वा᳓ एष᳓ महा᳓सुपर्ण᳓ एव᳓ य᳓त् संवत्सरः᳓ ।॥
त᳓स्य या᳓न् पुर᳓स्ता᳓द् विषुव᳓तः ष᳓ण् मा᳓सा᳓न् उपय᳓न्ति सो᳙ ऽन्यतरः᳓ पक्षो᳓ ऽथ या᳓न् ष᳓ड् उप᳓रिष्टा᳓त् सो᳙ ऽन्यतर᳓ आ᳓त्मा᳓ विषुवा᳓न् य᳓त्र वा᳓ आ᳓त्मा᳓ त᳓त् पक्षौ᳓ य᳓त्र वा᳓ पक्षौ᳓ त᳓द् आ᳓त्मा᳓ न᳓ वा᳓ आ᳓त्मा᳓ पक्षा᳓व् अतिरिच्य᳓ते ना᳙त्मा᳓नं पक्षा᳓व् अ᳓तिरिच्येते एव᳓म् उ हैत᳓द् अ᳓वरेषां᳓ चैव᳓ प᳓रेषां᳓ च भवति ॥॥
०८
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्य्य᳘) य᳘त्पुर᳘स्ताद्विषुव᳘त ऽऊर्ध्वान्त्स्तो᳘मान्षण्मा᳘सानुपय᳘न्ति ष᳘डुपरिष्टा᳘दा᳘व्वृत्तान्कथ᳘मस्यैत᳘ ऽऊर्ध्वा[[!!]] स्तो᳘मा ऽउ᳘पेता भवन्ती᳘ति य᳘मे᳘वामुमूर्ध्व᳘स्तोमन्दशरात्र᳘मुपय᳘न्ति तेने᳘ति ब्रूयाद्देवे᳘भ्यो ह वै᳘ महाव्व्रतन्न᳘ तस्थे कथ᳘मूर्ध्वै᳘स्स्तो᳘मैर्व्विषुव᳘न्तमुपा᳘गाता᳘वृत्तैर्म्मामि᳘ति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्य्य᳘) य᳘त्पुर᳘स्ताद्विषुव᳘त ऽऊर्ध्वान्त्स्तो᳘मान्षण्मा᳘सानुपय᳘न्ति ष᳘डुपरिष्टा᳘दा᳘व्वृत्तान्कथ᳘मस्यैत᳘ ऽऊर्ध्वा[[!!]] स्तो᳘मा ऽउ᳘पेता भवन्ती᳘ति य᳘मे᳘वामुमूर्ध्व᳘स्तोमन्दशरात्र᳘मुपय᳘न्ति तेने᳘ति ब्रूयाद्देवे᳘भ्यो ह वै᳘ महाव्व्रतन्न᳘ तस्थे कथ᳘मूर्ध्वै᳘स्स्तो᳘मैर्व्विषुव᳘न्तमुपा᳘गाता᳘वृत्तैर्म्मामि᳘ति॥
मूलम् - Weber
त᳘दाहुः ॥
य᳘त्पुर᳘स्ताद्विषुव᳘त ऊर्ध्वान्त्स्तो᳘मान्षण्मा᳘सानुपय᳘न्ति ष᳘डुप᳘रिष्टा᳘दा᳘वृत्तान्कथ᳘मस्यैत᳘ऽऊर्ध्वा स्तो᳘मा उपेता भवन्ती᳘ति य᳘मेॗवामु᳘मूर्ध्व᳘स्तोमं दशरात्र᳘मुपय᳘न्ति तेने᳘ति ब्रूयाद्देवे᳘भ्यो ह वै᳘ महाव्रतं न᳘ तस्थे कथ᳘मूर्ध्वै᳘ स्तो᳘मैर्विषुव᳘न्तमुपा᳘गाता᳘वृत्तैर्मामि᳘ति ॥
मूलम् - विस्वरम्
तदाहुः- यत् पुरस्तात् विषुवत ऊर्ध्वान् स्तोमान् षण्मासानुपयन्ति । षडुपरिष्टादावृत्तान् । कथमस्यैत ऊर्ध्वाः स्तोमा उपेता भवंतीति । यमेवामुमूर्ध्वस्तोमं दशरात्रमुपयन्ति । तेनेति ब्रूयात् । देवेभ्यो ह वै महाव्रतं न तस्थे । कथमूर्ध्वै स्तोमैर्विषुवन्तमुपागात । आवृत्तैर्मामिति ॥ ८ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- As to this they ask, ‘Seeing that for six months prior to the Vishuvat they- perform Stomas tending upwards, and for six (months) reversed
(Stomas), how are these latter performed so as to tend upwards?’ Let him say, ‘In that they perform that Daśarātra as one with upward tending Stomas, thereby they do so.’ Now, the Mahāvrata did not yield itself to the gods saying, ‘How is it, ye have performed the Vishuvat with upward tending hymns, and me with reversed ones?’
मूलम् - Makoto
त᳓द् आ᳓हुः ।॥
य᳓त् पुर᳓स्ता᳓द् विषुव᳓त ऊर्ध्वा᳓न्त् स्तो᳓मा᳓न् ष᳓ण् मा᳓सा᳓न् उपय᳓न्ति ष᳓ड् उप᳓रिष्टा᳓द् आ᳓वृत्ता᳓न् कथ᳓म् अस्यैत᳓ ऊर्ध्वा᳓ स्तो᳓मा᳓ उपेता᳓ भवन्ती᳓ति य᳓म् एवा᳙मु᳓म् ऊर्ध्व᳓स्तोमं दशरा᳓त्र᳓म् उपय᳓न्ति ते᳓ने᳓ति ब्रूया᳓द् देवे᳓भ्यो ह वै᳓ महा᳓व्रतं᳓ न᳓ तस्थे कथ᳓म् ऊर्ध्वै᳓ स्तो᳓मैर् विषुव᳓न्तम् उपा᳓गा᳓ता᳓वृत्तैर् मा᳓म् इ᳓ति ॥॥
०९
विश्वास-प्रस्तुतिः
ते᳘ ह देवा᳘ ऽऊचुः॥
(रु᳘) उ᳘प तं᳘ यज्ञक्रतुं[[!!]] जानीत य᳘ ऽऊर्ध्व᳘स्तोमो ये᳘नेद᳘माप्न᳘वामे᳘ति त᳘ ऽएत᳘मूर्ध्व᳘स्तोमन्दशरात्र᳘मपश्यन्त्सम्वत्सर᳘विधन्त᳘स्य यः पृ᳘ष्ठ्यः षडह᳘ ऽऋत᳘वः स᳘ ऽइमे᳘ लोका᳘श्छन्दोमाः᳘ सम्वत्सरो᳘ दशमम᳘हस्ते᳘नैनदाप्नुवंस्त᳘देभ्यो ऽतिष्ठत ति᳘ष्ठते ह वा᳘ ऽअस्मै महाव्व्रतं[[!!]] य᳘ ऽएव᳘मेतद्वेद॥
मूलम् - श्रीधरादि
ते᳘ ह देवा᳘ ऽऊचुः॥
(रु᳘) उ᳘प तं᳘ यज्ञक्रतुं[[!!]] जानीत य᳘ ऽऊर्ध्व᳘स्तोमो ये᳘नेद᳘माप्न᳘वामे᳘ति त᳘ ऽएत᳘मूर्ध्व᳘स्तोमन्दशरात्र᳘मपश्यन्त्सम्वत्सर᳘विधन्त᳘स्य यः पृ᳘ष्ठ्यः षडह᳘ ऽऋत᳘वः स᳘ ऽइमे᳘ लोका᳘श्छन्दोमाः᳘ सम्वत्सरो᳘ दशमम᳘हस्ते᳘नैनदाप्नुवंस्त᳘देभ्यो ऽतिष्ठत ति᳘ष्ठते ह वा᳘ ऽअस्मै महाव्व्रतं[[!!]] य᳘ ऽएव᳘मेतद्वेद॥
मूलम् - Weber
ते᳘ ह देवा᳘ ऊचुः ॥
उ᳘प तं᳘ यज्ञक्रतुं᳘ जानीत य᳘ ऊर्ध्व᳘स्तोमो ये᳘नेद᳘माप्न᳘वामे᳘ति त᳘ऽएत᳘मूर्ध्व᳘स्तोमं दशरात्र᳘मपश्यन्त्संवत्सर᳘विधं त᳘स्य यः पृ᳘ष्ठ्यः षडह᳘ ऋत᳘वः स᳘ इमे᳘ लोका᳘श्छन्दोमाः᳘ संवत्सरो᳘ दशमम᳘हस्ते᳘नैनदाप्नुवंस्त᳘देभ्योऽतिष्ठत ति᳘ष्ठते ह वा᳘ऽअस्मै महा᳘व्रतं य᳘ एव᳘मेतद्वेद ॥
मूलम् - विस्वरम्
ते ह देवा ऊचुः । उप तं यज्ञक्रतुं जानीत । य ऊर्ध्वस्तोमः । येनेदमाप्नवामेति । त एतमूर्ध्वस्तोमं दशरात्रमपश्यन् संवत्सरविधन् तस्य यः पृष्ठ्यः षडहः । ऋतवः सः । इमे लोकाश्छन्दोमाः । संवत्सरो दशममहः । तेनैनदाप्नुवन् । तदेभ्यो ऽतिष्ठत । तिष्ठते ह वा अस्मै महाव्रतम् । य एवमेतद्वेद ॥ ९ ॥
हरिस्वामी
[व्याख्यानं चतुर्थे]
Eggeling
- The gods said, ‘Try ye to find out that sacrificial performance which has upward tending Stomas, and whereby we may gain this.’ They saw that Daśarātra with upward tending Stomas after the manner of the year: what Pr̥shṭḥya-shaḍaha there is in it that is the seasons, the (three) Chandomas are these worlds, and the tenth day is the year. Thereby they gained this (Mahāvrata), and it yielded itself to them; and, verily, the Mahāvrata yields itself to him who so knows this.
मूलम् - Makoto
ते᳓ ह देवा᳓ ऊचुः ।॥
उ᳓प तं᳓ यज्ञक्रतुं᳓ जा᳓नीत य᳓ ऊर्ध्व᳓स्तोमो ये᳓नेद᳓म् आ᳓प्न᳓वा᳓मे᳓ति त᳓ एत᳓म् ऊर्ध्व᳓स्तोमं दशरा᳓त्र᳓म् अपश्यन्त् संवत्सर᳓विधं त᳓स्य यः᳓ पृ᳓ष्ठ्यः षडह᳓ ऋत᳓वः स᳓ इमे᳓ लोका᳓श् छन्दोमाः᳓ संवत्सरो᳓ दशम᳓म् अ᳓हस् ते᳓नैनद् आ᳓प्न्वंस् त᳓द् एभ्यो ऽतिष्ठत् ति᳓ष्ठते ह वा᳓ अस्मै महा᳓व्रतं᳓ य᳓ एव᳓म् एत᳓द् वेद ॥॥
१०
विश्वास-प्रस्तुतिः
(दा) अ᳘थ वा ऽअतो᳘ ऽह्नामभ्यारोहः᳘॥
प्रायणी᳘येनातिरात्रे᳘णोदयनी᳘यमतिरात्र᳘मभ्या᳘रोहन्ति चतुर्विᳫँ᳭शे᳘न महाव्व्रत᳘मभिप्लवे᳘न प᳘रमभिप्लवं पृ᳘ष्ठ्येन प᳘रम्पृ᳘ष्ठ्यमभिजि᳘ता व्विश्वजि᳘तᳫँ᳭ स्व᳘रसामभिः प᳘रान्त्स्व᳘रसाम्नो᳘ ऽथैतद᳘हर᳘नभ्यारूढं यद्वै᳘षुवतमभि᳘ ह वै श्रे᳘याᳫँ᳭सᳫँ᳭ रोहति᳘ नैनम्पा᳘पीयानभ्या᳘रोहति य᳘ ऽएवमेतद्वे᳘द[[!!]]॥
मूलम् - श्रीधरादि
(दा) अ᳘थ वा ऽअतो᳘ ऽह्नामभ्यारोहः᳘॥
प्रायणी᳘येनातिरात्रे᳘णोदयनी᳘यमतिरात्र᳘मभ्या᳘रोहन्ति चतुर्विᳫँ᳭शे᳘न महाव्व्रत᳘मभिप्लवे᳘न प᳘रमभिप्लवं पृ᳘ष्ठ्येन प᳘रम्पृ᳘ष्ठ्यमभिजि᳘ता व्विश्वजि᳘तᳫँ᳭ स्व᳘रसामभिः प᳘रान्त्स्व᳘रसाम्नो᳘ ऽथैतद᳘हर᳘नभ्यारूढं यद्वै᳘षुवतमभि᳘ ह वै श्रे᳘याᳫँ᳭सᳫँ᳭ रोहति᳘ नैनम्पा᳘पीयानभ्या᳘रोहति य᳘ ऽएवमेतद्वे᳘द[[!!]]॥
मूलम् - Weber
अ᳘थ वाऽअतो᳘ऽह्नामभ्यारोहः᳘ ॥
प्रायणी᳘येनातिरात्रे᳘णोदयनी᳘यमतिरात्र᳘मभ्या᳘रोहन्ति चतुर्विᳫंशे᳘न महाव्रत᳘मभिप्लवे᳘न प᳘रमभिप्लवं पृ᳘ष्ठ्येन प᳘रं पृ᳘ष्ठ्यमभिजि᳘ता विश्वजि᳘तᳫं स्व᳘रसामभिः प᳘रान्त्स्व᳘रसाम्नो᳘ऽथैतद᳘हर᳘नभ्यारूढं यद्वै᳘षुवतमभि᳘ ह वै श्रे᳘याᳫंसᳫं रोहतिॗ नैनं पा᳘पीयानभ्या᳘रोहति य᳘ एव᳘मेत᳘द्वे᳟द ॥
मूलम् - विस्वरम्
अथ वा अतो ऽह्नामभ्यारोहः । प्रायणीयेनातिरात्रेणोदयनीयमतिरात्रमभ्यारोहन्ति । चतुर्विंशेन महाव्रतम् । अभिप्लवेन परमभिप्लवम् । पृष्ठ्येन परं पृष्ठ्यम् । अभिजिता विश्वजितम् । स्वरसामभिः परान् स्वरसाम्नः । अथैतदहरनभ्यारूढम् । यत् वैषुवतम् । अभि ह वै श्रेयांसं रोहति । नैनं पापीयानभ्यारोहति । य एवमेतद्वेद ॥ १० ॥
हरिस्वामी
“अथ वा” अत ऊर्ध्वं अह्नां अभ्यारोहणसादृश्येनाशीर्वक्ष्यत इति शेषः । प्रायणीयेनातिरात्रेण उदयनीयसदृशतया यान्यहान्यारोहन्ति प्राप्नुवन्ति सत्रिणः । अथ कस्मादभ्यारोहंति आक्रमन्ति । शरीरैरित्येवन्न गृह्यते । अथैतदहरनभ्यारूढमित्याह- सादृश्येन च वैषुवतमनभ्यारूढम् । स सत्रिभिः कथं तत्राभ्यारुह्येत । तथा च प्रायणीयो ऽतिरात्रः चतुर्विंशायाह्ने निवहतीति क्रमांतरेण अभि ह वै श्रेयांसं स्वगुणैरभ्यारोहति । पापतरश्चैनं गुणैर्नाप्नोतीति फलवचनं युज्यते ॥
अथवा अभिशब्दः संशब्दस्यार्थे सम्यग्वचने । (संप्रयाणत्तिर्वाहः ?) । वक्ष्यत इति शेषः । प्रायणीयातिरात्रो देवतारूपः । चतुर्विंशायाह्ने निवहतीत्यादि प्रसन्नम् ॥ १० ॥ ११ ॥
Eggeling
- And in this way, indeed, there is an ascent of days:–by means of the Opening Atirātra they ascend the concluding Atirātra, by means of the Caturviṁśa the Mahāvrata, by means of an Abhiplava a subsequent Abhiplava, by means of a Pr̥shṭḥya a subsequent Pr̥shṭḥya, by means of the Abhijit the Viśvajit, by means of the Svarasāmans the subsequent Svarasāmans–but that one day is not ascended, to wit, the Vishuvat: and, verily, he who thus knows this ascends to (the state of) one more glorious, and no one inferior to him ascends (to be equal) to him.
मूलम् - Makoto
अ᳓थ वा᳓ अतो᳓ ऽह्ना᳓म् अभ्या᳓रोहः᳓ ।॥
प्रा᳓यणी᳓येना᳓तिरा᳓त्रे᳓णोदयनी᳓यम् अतिरा᳓त्र᳓म् अभ्या᳓रोहन्ति चतुर्विँशे᳓न महा᳓व्रत᳓म् अभिप्लवे᳓न प᳓रम् अभिप्लवं᳓ पृ᳓ष्ठ्येन प᳓रं पृ᳓ष्ठ्यम् अभिजि᳓ता᳓ विश्वजि᳓तँ स्व᳓रसा᳓मभिः प᳓रा᳓न्त् स्व᳓रसा᳓म्नो᳓ ऽथैत᳓द् अ᳓हर् अ᳓नभ्या᳓रूढं य᳓द् वै᳓षुवतम् अभि᳓ ह वै᳓ श्रे᳓याँ᳓सँ रोहति नै᳙न पा᳓पीया᳓न् अभ्या᳓रोहति य᳓ एव᳓म् एत᳓द् वे᳓द ॥॥
११
विश्वास-प्रस्तुतिः
(दा) अ᳘थ वा ऽअतो᳘ ऽह्नान्निवाहः᳘॥
प्रायणी᳘यो ऽतिरात्र᳘श्चतुर्व्विᳫँ᳭शाया᳘ह्ने नि᳘वहति चतुर्व्विᳫँ᳭शम᳘हरभिप्ल᳘वाया ऽभिप्लवः पृ᳘ष्ठ्याय पृ᳘ष्ठ्यो ऽभिजि᳘ते ऽभिजित्स्व᳘रसामभ्यः स्व᳘रसामानो व्विषुव᳘ते व्विषुवान्त्स्व᳘रसामभ्यः स्व᳘रसामानो व्विश्वजि᳘ते व्विश्वजित्पृ᳘ष्ठ्याय पृ᳘ष्ठ्यो ऽभिप्लवा᳘याभिप्लवो᳘ गो ऽआयुर्भ्यां[[!!]] गो ऽआयु᳘षी दशरात्रा᳘य दशरात्रो᳘ महाव्व्रता᳘य महाव्व्रत᳘मुदयनी᳘यायातिरात्रा᳘योदयनी᳘यो ऽतिरात्रः᳘ स्वर्ग्गा᳘य लोका᳘य प्रतिष्ठा᳘या ऽअन्ना᳘द्याय॥
मूलम् - श्रीधरादि
(दा) अ᳘थ वा ऽअतो᳘ ऽह्नान्निवाहः᳘॥
प्रायणी᳘यो ऽतिरात्र᳘श्चतुर्व्विᳫँ᳭शाया᳘ह्ने नि᳘वहति चतुर्व्विᳫँ᳭शम᳘हरभिप्ल᳘वाया ऽभिप्लवः पृ᳘ष्ठ्याय पृ᳘ष्ठ्यो ऽभिजि᳘ते ऽभिजित्स्व᳘रसामभ्यः स्व᳘रसामानो व्विषुव᳘ते व्विषुवान्त्स्व᳘रसामभ्यः स्व᳘रसामानो व्विश्वजि᳘ते व्विश्वजित्पृ᳘ष्ठ्याय पृ᳘ष्ठ्यो ऽभिप्लवा᳘याभिप्लवो᳘ गो ऽआयुर्भ्यां[[!!]] गो ऽआयु᳘षी दशरात्रा᳘य दशरात्रो᳘ महाव्व्रता᳘य महाव्व्रत᳘मुदयनी᳘यायातिरात्रा᳘योदयनी᳘यो ऽतिरात्रः᳘ स्वर्ग्गा᳘य लोका᳘य प्रतिष्ठा᳘या ऽअन्ना᳘द्याय॥
मूलम् - Weber
अ᳘थ वाऽअतो᳘ऽऽह्नां निवाहः᳘ ॥
प्रायणी᳘योऽतिरात्र᳘श्चतुर्विᳫंशाया᳘ह्ने नि᳘वहति चतुर्विᳫंशम᳘हरभिप्ल᳘वायाभिप्लवः पृ᳘ष्ठ्याय पृ᳘ष्ठ्योऽभिजि᳘तेऽभिजित्स्व᳘रसामभ्यः स्व᳘रसामानो विषुव᳘ते विषुवान्त्स्व᳘रसामभ्यः स्व᳘रसामानो विश्वजि᳘ते विश्वजित्पृ᳘ष्ठ्याय पृ᳘ष्ठ्योऽभिप्लवा᳘याभिप्लवो᳘ गोऽआयु᳘र्भ्यां गोऽआयु᳘षी दशरात्रा᳘य दशरात्रो᳘ महाव्रता᳘य महाव्रत᳘मुदयनी᳘यायातिरात्रा᳘योदयनी᳘योऽतिरात्रः᳘ स्वर्गा᳘य लोका᳘य प्रतिष्ठा᳘याऽअन्ना᳘द्याय ॥
मूलम् - विस्वरम्
अथ वा अतो ऽह्नां निवाहः । प्रायणीयो ऽतिरात्रश्चतुर्विंशायाह्ने निवहति । चतुर्विंशमहरभिप्लवाय । अभिप्लवः पृष्ठ्याय । पृष्ठ्यो ऽभिजिते । अभिजित् स्वरसामभ्यः । स्वरसामानो विषुवते । विषुवान् स्वरसामभ्यः । स्वरसामानो विश्वजिते । विश्वजित् पृष्ठ्याय । पृष्ठ्यो ऽभिप्लवाय अभिप्लवो गोआयुर्भ्याम् । गोआयुषी दशरात्राय । दशरात्रो महाव्रताय । महाव्रतमुदयनीयायातिरात्राय । उदयनीयो ऽतिरात्रः स्वर्गाय लोकाय प्रतिष्ठाया अन्नाद्याय ॥ ११ ॥
हरिस्वामी
[व्याख्यानं दशमे]
Eggeling
- And in this way, indeed, there is a descent of days:–the Prāyaṇīya Atirātra descends to the Caturviṁśa day, the Caturviṁśa day to the Abhiplava, the Abhiplava to the Pr̥shṭḥya, the Pr̥shṭḥya to the Abhijit, the Abhijit to the Svarasāmans, the
Svarasāmans to the Vishuvat, the Vishuvat to the Svarasāmans, the Svarasāmans to the Viśvajit, the Viśvajit to the Pr̥shṭḥya, the Pr̥shṭḥya to the Abhiplava, the Abhiplava to the Go and Āyus, the Go and Āyus to the Daśarātra, the Daśarātra to the Mahāvrata, the Mahāvrata to the Udayanīya Atirātra, the Udayanīya Atirātra to the world of heaven, to the resting-place, to plenty.
मूलम् - Makoto
अ᳓थ वा᳓ अतो᳓ ऽह्नां᳓ निवा᳓हः᳓ ।॥
प्रा᳓यणी᳓यो ऽतिरा᳓त्र᳓श् चतुर्विँशा᳓या᳓ह्ने नि᳓वहति चतुर्विँश᳓म् अ᳓हर् अभिप्ल᳓वा᳓या᳓भिप्लवः᳓ पृ᳓ष्ठ्या᳓य पृ᳓ष्ठ्यो ऽभिजि᳓ते ऽभिजित् स्व᳓रसा᳓मभ्यः स्व᳓रसा᳓मा᳓नो विषुव᳓ते विषुवा᳓न्त् स्व᳓रसा᳓मभ्यः स्व᳓रसा᳓मा᳓नो विश्वजि᳓ते विश्वजि᳓त् पृ᳓ष्ठ्या᳓य पृ᳓ष्ठ्यो ऽभिप्लवा᳓या᳓भिप्लवो᳓ गोआ᳓यु᳓र्भ्यां᳓ गोआ᳓यु᳓षी दशरा᳓त्रा᳓य दशरा᳓त्रो᳓ महा᳓व्रता᳓य महा᳓व्रत᳓म् उदयनी᳓या᳓या᳓तिरा᳓त्रा᳓योदयनी᳓यो ऽतिरा᳓त्रः᳓ स्वर्गा᳓य लोका᳓य प्रतिष्ठा᳓या᳓ अन्ना᳓द्या᳓य ॥॥
१२
विश्वास-प्रस्तुतिः
ता᳘नि वा᳘ ऽएता᳘नि॥
यज्ञारण्या᳘नि यज्ञकृन्तत्रा᳘णि ता᳘नि शत᳘ᳫँ᳘ शतᳫँ᳭ रथाह्न्यान्य᳘न्तरेण ता᳘नि ये᳘ व्विद्वाᳫँ᳭स ऽउपय᳘न्ति य᳘था ऽऽरण्यान्यां᳘ मुग्धांश्च᳘रतो ऽशनाया᳘ वा पिपासा᳘ वा पाप्मा᳘नो र᳘क्षाᳫँ᳭सि स᳘चेरन्नेव᳘ᳫँ᳘ है᳘वैनानशनाया᳘ वा पिपासा᳘ वा पाप्मा᳘नो र᳘क्षाᳫँ᳭सि सचन्ते᳘ ऽथ ये᳘ व्विद्वा᳘ᳫँ᳘सो य᳘था प्रवाहा᳘त्प्रवाहम᳘भयाद᳘भयमेव᳘ᳫँ᳘ हैव ते᳘ देव᳘तायै देव᳘तामुपसं᳘यन्ति ते᳘ स्वस्ति᳘ स्वर्ग्गं᳘ लोकᳫँ᳭ स᳘मश्नुवते॥
मूलम् - श्रीधरादि
ता᳘नि वा᳘ ऽएता᳘नि॥
यज्ञारण्या᳘नि यज्ञकृन्तत्रा᳘णि ता᳘नि शत᳘ᳫँ᳘ शतᳫँ᳭ रथाह्न्यान्य᳘न्तरेण ता᳘नि ये᳘ व्विद्वाᳫँ᳭स ऽउपय᳘न्ति य᳘था ऽऽरण्यान्यां᳘ मुग्धांश्च᳘रतो ऽशनाया᳘ वा पिपासा᳘ वा पाप्मा᳘नो र᳘क्षाᳫँ᳭सि स᳘चेरन्नेव᳘ᳫँ᳘ है᳘वैनानशनाया᳘ वा पिपासा᳘ वा पाप्मा᳘नो र᳘क्षाᳫँ᳭सि सचन्ते᳘ ऽथ ये᳘ व्विद्वा᳘ᳫँ᳘सो य᳘था प्रवाहा᳘त्प्रवाहम᳘भयाद᳘भयमेव᳘ᳫँ᳘ हैव ते᳘ देव᳘तायै देव᳘तामुपसं᳘यन्ति ते᳘ स्वस्ति᳘ स्वर्ग्गं᳘ लोकᳫँ᳭ स᳘मश्नुवते॥
मूलम् - Weber
ता᳘नि वा᳘ऽएता᳘नि ॥
यज्ञारण्या᳘नि यज्ञक्षत्रा᳘णि 10 ता᳘नि शत᳘ᳫं᳘-शतᳫं रथाह्न्यान्य᳘न्तरेण ता᳘नि ये᳘ऽविद्वाᳫंस उपय᳘न्ति य᳘थारण्यान्यां᳘ मुग्धांश्च᳘रतोऽशनाया᳘ वा पिपासा᳘ वा पाप्मा᳘नो र᳘क्षाᳫंसि सचन्ते᳘ऽथ ये᳘ विद्वाᳫंसो य᳘था प्रवाहा᳘त्प्रवाहमभयाद᳘भयमेव᳘ᳫं᳘ हैव ते᳘ देव᳘तायै देव᳘तामुपसं᳘यन्ति ते᳘ स्वस्ति᳘ स्वर्गं᳘ लोकᳫं स᳘मश्नुवते ॥
मूलम् - विस्वरम्
तानि वा एतानि यज्ञारण्यानि यज्ञकृंतत्राणि । तानि शतं शतं रथाह्न्यानि । अंतरेण तानि विद्वांस उपयन्ति । यथा ऽऽरण्यान्यां मुग्धाँश्चरतो ऽशनाया वा पिपासा वा पाप्मानो रक्षांसि सचेरन् । एवं हैवैनानशनाया वा पिपासा वा पाप्मानो रक्षांसि सचंते । अथ ये विद्वांसो यथा प्रवाहात्प्रवाहं अभयादभयम् । एवं हैव ते देवतायै देवतामुपसंयन्ति । ते स्वस्ति स्वर्गं लोकं समश्नुवते ॥ १२ ॥
हरिस्वामी
‘तानि वा एतानि’ यज्ञाश्च ते आरण्यानि च ‘यज्ञारण्यानि’ । यज्ञाश्च ते कृंतत्राणि च ‘यज्ञकृंतत्राणि’ । अविदुषां कृंतत्राणि । तानि तु विधेयजिज्ञासामुपासका उपसंयन्ति एतान् । तात्पद्यात् आरण्यात् महति आरण्ये कांश्चिच्चरतः । अशनाया बुभुक्षा पिपासा वा । पाप्मानश्च पातनीयाः । रक्षांसि सचेरन् । एवं अशनाया वा पिपासा पाप्मानो रक्षांसि सचंते । अथ ये विद्वांस उपसंयन्तीत्यादि प्रसन्नम् ॥ १२ ॥
Eggeling
- Such, indeed, are the wilds and ravines of sacrifice, and they (take) hundreds upon hundreds of days’ carriage-drives; and if any venture into them without knowledge, then hunger or thirst, evil-doers and fiends harass them, even as fiends would harass foolish men wandering in a wild forest; but if those who know this do so, they pass from one duty to another, as from one stream into another, and from one safe place to another, and obtain well-being, the world of heaven.
मूलम् - Makoto
ता᳓नि वा᳓ एता᳓नि ।॥
यज्ञा᳓रण्या᳓नि यज्ञक्षत्रा᳓णि ता᳓नि शतँ᳓शतँ रथा᳓ह्न्या᳓न्य् अ᳓न्तरेण ता᳓नि ये᳓ ऽविद्वाँ᳓स उपय᳓न्ति य᳓था᳓रण्या᳓न्यां᳓ मुग्धां᳓श् च᳓रतो ऽशना᳓या᳓ वा᳓ पिपा᳓सा᳓ वा᳓ पा᳓प्मा᳓नो र᳓क्षाँ᳓सि सचन्ते᳓ ऽथ ये᳓ विद्वाँ᳓सो य᳓था᳓ प्रवा᳓हा᳓त् प्रवा᳓ह᳓म् अ᳓भया᳓द् अ᳓भयम् एवँ᳓ हैव᳓ ते᳓ देव᳓ता᳓यै देव᳓ता᳓म् उपसं᳓यन्ति ते᳓ स्वस्ति᳓ स्वर्गं᳓ लोकँ᳓ स᳓मश्नुवते ॥॥
१३
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
क᳘ति संवत्सरस्या᳘हानि प᳘राञ्चि क᳘त्यर्व्वाञ्ची᳘ति स या᳘नि सकृ᳘त्सकृदुपय᳘न्ति ता᳘नि प᳘राञ्च्य᳘थ या᳘नि पु᳘नः पुनस्ता᳘न्यर्व्वाञ्च्यर्व्वाञ्ची᳘ति ह᳘ त्वे᳘वैनान्यु᳘पासीत षडह᳘योर्ह्या᳘वृत्तिम᳘न्वाव᳘र्तन्ते॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
क᳘ति संवत्सरस्या᳘हानि प᳘राञ्चि क᳘त्यर्व्वाञ्ची᳘ति स या᳘नि सकृ᳘त्सकृदुपय᳘न्ति ता᳘नि प᳘राञ्च्य᳘थ या᳘नि पु᳘नः पुनस्ता᳘न्यर्व्वाञ्च्यर्व्वाञ्ची᳘ति ह᳘ त्वे᳘वैनान्यु᳘पासीत षडह᳘योर्ह्या᳘वृत्तिम᳘न्वाव᳘र्तन्ते॥
मूलम् - Weber
त᳘दाहुः ॥
क᳘ति संवत्सरस्या᳘हानि प᳘राञ्चि क᳘त्यर्वाञ्ची᳘ति स या᳘नि सकृ᳘त्सकृदुपय᳘न्ति ता᳘नि प᳘राञ्च्य᳘थ या᳘नि पु᳘नः-पुनस्ता᳘न्यर्वा᳘ञ्च्यर्वाञ्ची᳘ति हॗ त्वेॗवैनान्यु᳘पासीत षडह᳘योर्ह्या᳘वृत्तिम᳘न्वाव᳘र्तते ॥ ७ [२.३.] ॥
मूलम् - विस्वरम्
तदाहुः- कति संवत्सरस्याहानि पराञ्चि । कत्यर्वांचीति । स यानि सकृत्सकृदुपयन्ति । तानि परांचि । अथ यानि पुनः पुनः । तान्यर्वांचि अर्वांचि इति ह त्वेवैनान्युपासीत । षडहर्योर्हि आवृत्तिमन्वावर्तंते ॥ १३ ॥
हरिस्वामी
तदाहुः- ‘स यानि सकृत्सकृदुपयंति’ । प्रायणीयचतुर्विंशाभिजिद्विश्वजिच्छन्दोमा ऽविवाक्यमहाव्रतोदयनीयानि पुनःपुनरिदत्राणि ‘अर्वाञ्चि’ आवृत्तिधर्मकाणीति प्रायणीयादीन्यप्युपासीत । कथम् षडहयोर्हीति । आवृत्तिमनु षडहावृत्त्यैव तान्यप्यावर्तंते । मनःसाम्येन तदभिनिर्माणत्वेन च तदन्तर्भावादित्यर्थाभिप्रायः ॥ १३ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकांडे द्वितीये ऽध्याये तृतीयं ब्राह्मणम् ॥ (१२ । २ । ३) ॥
Eggeling
- As to this they say, ‘How many onward, and how many backward days are there?’ Well, those which are performed once each are onward days, and those which are performed repeatedly are backward days: let him at least consider these 11 as backward ones, for in accordance with the course of the Shaḍahas he himself moves.
मूलम् - Makoto
त᳓द् आ᳓हुः ।॥
क᳓ति संवत्सर᳓स्या᳓हा᳓नि प᳓र᳓ञ्चि क᳓त्य् अर्वा᳓ञ्ची᳓ति स᳓ या᳓नि सकृ᳓त्सकृद् उपय᳓न्ति ता᳓नि प᳓रा᳓ञ्च्य् अ᳓थ या᳓नि पु᳓नःपुनस् ता᳓न्य् अर्वा᳓ञ्च्य् अर्वा᳓ञ्ची᳓ति ह त्व् ए᳙वै᳙ना᳓न्य् उ᳓पा᳓सीत षडह᳓योर् ह्य् आ᳓वृत्तिम् अ᳓न्व् आ᳓व᳓र्तते ॥॥
-
द्वा᳘वार्क्ष्यताम᳘ह्नाँ A.P.M. The Aitareya-Brahmana omits the र्, see Bohtlingk-Roth Sanskrit-Worterbuch, under आक्ष्यन्त् ↩︎
-
155:2 The term ‘ārkshyat’ is apparently a future participle of ‘ā-arj, hence ‘calculated to procure, or win.’ The Ait.-Br. has ‘ākshyat’ instead. The two Shaḍahas (or periods of six days), here counted as such days, would seem to include the six Svarasāman days, and the special named days scattered over the session (the opening and concluding Atirātra being apparently counted as one). ↩︎
-
156:1 Caturviṁśa day is one in which the Caturviṁśa-stoma, or twenty-four-fold hymn-form, is exclusively used in the chanting of the Stotras. The one usually denoted by that term is the second day of the Gavām ayanam. In the Daśarātra, or ten-days’ period, there is, however, likewise a day in which the Caturviṁśa-stoma is used exclusively. That period consists of a Pr̥shṭḥya-shaḍaha (six days), three Chandoma days, and a final Atyagnishṭoma, called Avivākya. The three Chandoma days (i.e. days fashioned after metres) have assigned to them as their exclusive Stomas the twenty-four-fold, the forty-four-fold, and the forty-eight-fold hymn-forms respectively; the first of them, or the seventh day of the Daśarātra, being thus a Caturviṁśa day. But in the second half of the year’s session the regular order of the days of the minor sacrificial periods–the Shaḍahas and Svarasāmans–is reversed, the last day being performed first; and according to this paragraph the same is optionally to be the case in regard to the three Chandoma days, the Caturviṁśa day being taken either first or last (see, however, parag. 9). Cf. also Haug, Ait.-Br., Transl., p. 347, note (where, in l. 3, read Daśarātra instead of Dvādaśāha). ↩︎
-
157:1 Here, the order of Abhiplava and Pr̥shṭḥya followed in the first half of the year is reversed. ↩︎
-
द्वा᳘वार्क्ष्यताम᳘ह्नाँ A.P.M. The Aitareya-Brahmana omits the र्, see Bohtlingk-Roth Sanskrit-Worterbuch, under आक्ष्यन्त् ↩︎
-
157:2 The author apparently claims for the pañcaviṁśa-stoma, or twenty-five-versed hymn-form, the same efficacy as for the caturviṁśa-stoma, the hymn-form of what is practically the first day of the sacrificial session (cf. Tāṇḍya-Br. XXV, 1, 1, where it is called Caturviṁśaṁ prāyaṇīyam), and which by the number of its stotriyā-verses, being that of the half-months in the course of the year (24), is supposed to represent the whole year; cf. Ait.-Br. IV, 52. ↩︎
-
158:1 See XI, 2, 5, 10 with note. The Katurviṁśa day is, as it were, a promise on the part of the Sacrificer to perform the sacrificial session; whilst the Prāyaṇīya Atirātra not only represents the actual entering on the performance, but, as it were, implies the Udayanīya Atirātra (XII, 2, 2, 18). ↩︎
-
य᳘ वा पक्षौ A. ↩︎
-
एव᳘मु हैतद᳘प᳘रेषां च A. ↩︎
-
यज्ञक्षत्राणि is my conjecture. यज्ञक्षंतत्रा᳘णि A.M. यज्ञकृंतत्रा᳘णि P. ↩︎
-
160:1 Or, ‘meditate upon these’ (? worship these); see p. 155, note 1. ↩︎