०१

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
क᳘स्मादुभय᳘तोज्योतिषो ऽभिप्लवा भ᳘वन्त्यन्य᳘तोज्योतिः पृ᳘ष्ठ्य ऽइ᳘तीमे वै᳘ लोका᳘ ऽअभिप्लवा᳘ ऽउभय᳘तोज्योतिषो वा᳘ ऽइमे᳘ लोका᳘ ऽअग्नि᳘नेत᳘ ऽआदित्ये᳘नामु᳘त ऽऋत᳘वः पृ᳘ष्ठ्यो ऽन्य᳘तोज्योतिषो वा᳘ ऽऋत᳘व ऽएष᳘ ऽएषां ज्यो᳘तिर्य्य्य᳘ ऽएष त᳘पति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
क᳘स्मादुभय᳘तोज्योतिषो ऽभिप्लवा भ᳘वन्त्यन्य᳘तोज्योतिः पृ᳘ष्ठ्य ऽइ᳘तीमे वै᳘ लोका᳘ ऽअभिप्लवा᳘ ऽउभय᳘तोज्योतिषो वा᳘ ऽइमे᳘ लोका᳘ ऽअग्नि᳘नेत᳘ ऽआदित्ये᳘नामु᳘त ऽऋत᳘वः पृ᳘ष्ठ्यो ऽन्य᳘तोज्योतिषो वा᳘ ऽऋत᳘व ऽएष᳘ ऽएषां ज्यो᳘तिर्य्य्य᳘ ऽएष त᳘पति॥

मूलम् - Weber

त᳘दाहुः ॥
क᳘स्मादुभय᳘तोज्योतिषोऽभिप्लवा भ᳘वन्त्यन्य᳘तोज्योतिः पृ᳘ष्ठ्य इ᳘तीमे वै᳘ लोका᳘ अभिप्लवा᳘ उभय᳘तोज्योतिषो वा᳘ऽइमे᳘ लोका᳘ अग्नि᳘नेत᳘ आदित्ये᳘नामु᳘त ऋत᳘वः पृ᳘ष्ठ्योऽन्य᳘तोज्योतिषो वा᳘ऽऋत᳘व एष᳘ एषां ज्यो᳘तिर्य᳘ एष त᳘पति ॥

मूलम् - विस्वरम्

तदाहुः- कस्मादुभयतोज्योतिषो ऽभिप्लवा भवन्ति । अन्यतोज्योतिः पृष्ठ्य इति । इमे वै लोका अभिप्लवाः । उभयतोज्योतिषो वा इमे लोकाः- अग्निनेतः, आदित्येनामुतः । ऋतवः पृष्ठ्यः । अन्यतोज्योतिषो वा ऋतवः । एष एषां ज्योतिः । य एष तपति ॥ १ ॥

हरिस्वामी

तदाहुः कस्मादिति । प्रतिमासं पृष्ठ्याभिप्लवौ उपेतव्यावित्युक्तम् । तावेव तु अत्र आधियज्ञिकेन आधिदैविकेन च रूपेण निरूप्येते । ज्योतिःशब्देनाग्निष्टोम उच्यते । ‘उभयतः’ अदावन्ते च ज्योतिरग्निष्टोमो यस्य मध्ये, चत्वार उक्थ्याः । एकश्च षोडशी सो ऽन्यतो ज्योतिः । कुत एतत्, उत्तरत्रास्य ‘उभयतोज्योतिः’ । तादृशाश्चत्वारः अभिप्लवाः । ‘अन्यतः’ अन्यतरः आदावेव ज्योतिरग्निष्टोमो यस्य अन्ये चत्वार उक्थ्याः, ‘एकश्च’ षोडशी, स ‘अन्यतोज्योतिः’ । कुत एतत् । उत्तरस्य क्षीरकरणात् । नव अग्रिमा मासि संपद्यन्ते । एकविंशतिरुक्थ्याः | एक उक्थ्यः षोडशिमानिति । सर्वमिदं स्पष्टीकरिष्यते । इमे वै लोका अभिप्लवा इति । ज्योतिर्गौरायुरित्येत एव तु ये अनुलोमाः प्रतिलोमाश्च अभिप्लवाः ते त्रित्वसामान्याल्लोका इति अभिप्रायः । ‘ऋतवः पृष्ठ्याः’ षटूत्वसामान्यात् ॥ १ ॥

Eggeling
  1. Here, now, they say, ‘Whereby are the Abhiplavas possessed of light (jyotis) on both sides 1,

and the Pr̥shṭḥya of light on one side only?’ Well, the Abhiplavas are these worlds, and these worlds are indeed possessed of light on both sides–through the fire on this side, and through the sun on yonder side; and the Pr̥shṭḥya is the seasons, and the seasons are indeed possessed, of light on one side only: he who burns yonder (the sun) is their light.

मूलम् - Makoto

त᳓द् आ᳓हुः ।॥
क᳓स्मा᳓द् उभय᳓तोज्योतिषो ऽभिप्लवा᳓ भ᳓वन्त्य् अन्य᳓तोज्योतिः पृ᳓ष्ठ्य इ᳓तीमे᳓ वै᳓ लोका᳓ अभिप्लवा᳓ उभय᳓तोज्योतिषो वा᳓ इमे᳓ लोका᳓ अग्नि᳓नेत᳓ आ᳓दित्ये᳓ना᳓मु᳓त ऋत᳓वः पृ᳓ष्ठ्यो ऽन्य᳓तोज्योतिषो वा᳓ ऋत᳓व एष᳓ एषां᳓ ज्यो᳓तिर् य᳓ एष त᳓पति ॥॥

०२

विश्वास-प्रस्तुतिः

देवचक्रे᳘ वा᳘ ऽएते᳘ पृष्ठ्यप्रतिष्ठिते[[!!]]॥
य᳘जमानस्य पाप्मा᳘नं तृᳫँ᳭हती प᳘रिप्लवेते स यो᳘ हैवं᳘ व्विदु᳘षां दीक्षिता᳘नां पा᳘पकᳫँ᳭ सत्रे᳘ कीर्त᳘यत्येते᳘ हास्य देवचक्रे शि᳘रश्छिन्त्तो दशरात्र᳘ ऽउद्धिः᳘ पृष्ठ्याभिप्लवौ᳘ चक्रे[[!!]]॥

मूलम् - श्रीधरादि

देवचक्रे᳘ वा᳘ ऽएते᳘ पृष्ठ्यप्रतिष्ठिते[[!!]]॥
य᳘जमानस्य पाप्मा᳘नं तृᳫँ᳭हती प᳘रिप्लवेते स यो᳘ हैवं᳘ व्विदु᳘षां दीक्षिता᳘नां पा᳘पकᳫँ᳭ सत्रे᳘ कीर्त᳘यत्येते᳘ हास्य देवचक्रे शि᳘रश्छिन्त्तो दशरात्र᳘ ऽउद्धिः᳘ पृष्ठ्याभिप्लवौ᳘ चक्रे[[!!]]॥

मूलम् - Weber

देवचक्रे᳘ वा᳘ऽएते᳘ पृष्ठ्यप्रतिष्ठिते᳟ ॥
य᳘जमानस्य पाप्मा᳘नं तृँहतो प᳘रिप्लवेते स यो᳘ हैवं᳘ विदु᳘षां दीक्षिता᳘नां पा᳘पकँ सत्त्रे᳘ कीर्त᳘यत्येते᳘ हास्य देवचक्रे शि᳘रश्छिन्त्तो दशरात्र᳘ उद्धिः᳘ पृष्ठ्याभिप्लवौ᳘ चक्रे᳟ ॥

मूलम् - विस्वरम्

देवचक्रे वा एते पृष्ठ्यप्रतिष्ठिते यजमानस्य पाप्मानं तृंहती परिप्लवेते । स यो हैवं विदुषां दीक्षितानां पापकं सत्रे कीर्तयति । एते हास्य देवचक्रे शिरश्छिंतः । दशरात्र उद्धिः । पृष्ठ्याभिप्लवौ चक्रे ॥ २ ॥

हरिस्वामी

‘देवचक्रे’ । ‘एते’ यौ पृष्ठ्याभिप्लवौ एते देवानां रथचक्रे । कुत एतत् रथचक्रे इति । “दशरात्र उद्धिः” इति वचनात् । पृष्ठ्यप्रतिष्ठिते इति । ‘पृष्ठ्यप्रतिष्ठि’ ‘यजमानस्य पाप्मानम्’ पापमपहन्तव्यम् ‘तृंहती’ द्यती परिप्लवेते । कथं पुनः पृष्ठ्यप्रतिष्ठिते मासे अभिप्लवे नारभ्ये ? पृष्ठ्ये मासः तिष्ठते । स च बलवत्तर इत्येतत् एतेन प्रकारेणोच्यते च । केनेति च पृष्ठ्यस्य गुरुत्वं चेति । “अंगिरसः सर्वैः स्स्तोमेः सर्वैः पृष्ठ्यैः गुरुभिः सामभिः स्वर्गं लोकमस्पृशन्” । तस्मात् पृष्ठ्य इति । ततश्च पृष्ठ्यो महावीर्यत्वात् आत्मप्रतिष्ठित इत्येतदभिप्रायं पृष्ठ्यप्रतिष्ठितत्वं द्रष्टव्यम् । ‘दशरात्र उद्धिः’ दीर्घत्वात् ॥ २ ॥

Eggeling
  1. Verily, those two wheels of the gods, established on the Pr̥shṭḥya 2, revolve crushing 3 the Sacrificer’s evil; and, indeed, if during a sacrificial session any one speaks evil of such initiates as know this, those two wheels of the gods cut off his head: the (chariot-) seat is the Daśarātra, and the two wheels are the Pr̥shṭḥya and Abhiplava.
मूलम् - Makoto

देवचक्रे᳓ वा᳓ एते᳓ पृष्ठ्योप्रतिष्ठिते᳓ ।॥
य᳓जमा᳓नस्य पा᳓प्मा᳓नं तृँहतो᳓ प᳓रिप्लवेते स᳓ यो᳓ हैवं᳓ विदु᳓षां᳓ दीक्षिता᳓नां᳓ पा᳓पकँ सत्त्रे᳓ कीर्त᳓यत्य् एते᳓ हा᳓स्य देवचक्रे᳓ शि᳓रश् छिन्त्तो दशरा᳓त्र᳓ उद्भिः᳓ पृष्ठ्या᳓भिप्लवौ᳓ चक्रे᳓ ॥॥

०३

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य्य᳘) य᳘त्समे᳘ ऽएव᳘ चक्रे भ᳘वतो᳘ ऽथैते व्वि᳘षमा स्तो᳘माः कथ᳘मस्यैते᳘ समा स्तो᳘मा उ᳘पेता भवन्ती᳘ति य᳘देव ष᳘डन्यान्य᳘हानि ष᳘डन्या᳘नि तेने᳘ति ब्रूयात्॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य्य᳘) य᳘त्समे᳘ ऽएव᳘ चक्रे भ᳘वतो᳘ ऽथैते व्वि᳘षमा स्तो᳘माः कथ᳘मस्यैते᳘ समा स्तो᳘मा उ᳘पेता भवन्ती᳘ति य᳘देव ष᳘डन्यान्य᳘हानि ष᳘डन्या᳘नि तेने᳘ति ब्रूयात्॥

मूलम् - Weber

त᳘दाहुः ॥
य᳘त्समे᳘ऽएव᳘ चक्रे भ᳘वतो᳘ऽथैते वि᳘षमा स्तो᳘माः कथ᳘मस्यैते᳘ समा स्तो᳘मा-स्तोमा उ᳘पेता भवन्ती᳘ति य᳘देव ष᳘डन्यान्य᳘हानि ष᳘डन्या᳘नि तेने᳘ति ब्रूयात् ॥

मूलम् - विस्वरम्

तदाहुः- यत्समे एव चक्रे भवतः । अथैते विषमाः । स्तोमाः । कथमस्यैते समा स्तोमाः । उपेता भवन्तीति । यदेव षडन्यान्यहानि षडन्यानि । तेनेति ब्रूयात् ॥ ३ ॥

हरिस्वामी

तदाहुः यत्समे एव चक्रे भवतो ऽथ विषमा एते स्तोमा इति । पृष्ठ्याभिप्लवयोः स्तोमाः । पृष्ठ्ये त्रिवृदादयः षट्, प्रतिदिनमेकैकः । अभिप्लवे चत्वार एव त्रिवृदादयः । यदेव षडन्यानीति । यद्यपि स्तोमेषून साम एते चक्रे । तथापि अहःसंख्यया समे इत्यर्थः । ततश्च स्तोमसंघाता अपि ते षट् भवन्तीत्यभिप्रायः ॥ ३ ॥

Eggeling
  1. Concerning this they say, ‘Seeing that the two wheels (of a cart) are alike, and those stomas unlike, how are those stomas one after another performed alike for him?’ Let him reply, ‘Thereby, that there are six of the one, and six of the other.’
मूलम् - Makoto

त᳓द् आ᳓हुः ।॥
य᳓त् समे᳓ एव᳓ चक्रे᳓ भ᳓वतो᳓ ऽथैते᳓ वि᳓षमा᳓ स्तो᳓माः᳓ कथ᳓म् अस्यैते᳓ समा᳓ स्तो᳓मा᳓स्तोमा᳓ उ᳓पेता᳓ भवन्ती᳓ति य᳓द् एव ष᳓ड् अन्या᳓न्य् अ᳓हा᳓नि ष᳓ड् अन्या᳓नि ते᳓ने᳓ति ब्रूया᳓त् ॥॥

०४

विश्वास-प्रस्तुतिः

(त्पृ) पृष्ठ्याभिप्लवौ त᳘न्त्रे कुर्व्वीते᳘ति ह स्माह पै᳘ङ्ग्यः॥
(स्त᳘) त᳘यो स्तोत्रा᳘णि च शस्त्रा᳘णि च स᳘ञ्चारयेदि᳘ति स य᳘त्सञ्चार᳘यति त᳘स्मादिमे᳘ प्राणा ना᳘ना स᳘न्त ऽए᳘कोतयः समान᳘मूति᳘मनु स᳘ञ्चरन्त्य᳘थ यन्न᳘ सञ्चार᳘येत्प्रमा᳘युको य᳘जमानः स्या᳘देष᳘ ह वै᳘ प्रमा᳘युको᳘ यो ऽन्धो᳘ वा बधिरो᳘ वा॥

मूलम् - श्रीधरादि

(त्पृ) पृष्ठ्याभिप्लवौ त᳘न्त्रे कुर्व्वीते᳘ति ह स्माह पै᳘ङ्ग्यः॥
(स्त᳘) त᳘यो स्तोत्रा᳘णि च शस्त्रा᳘णि च स᳘ञ्चारयेदि᳘ति स य᳘त्सञ्चार᳘यति त᳘स्मादिमे᳘ प्राणा ना᳘ना स᳘न्त ऽए᳘कोतयः समान᳘मूति᳘मनु स᳘ञ्चरन्त्य᳘थ यन्न᳘ सञ्चार᳘येत्प्रमा᳘युको य᳘जमानः स्या᳘देष᳘ ह वै᳘ प्रमा᳘युको᳘ यो ऽन्धो᳘ वा बधिरो᳘ वा॥

मूलम् - Weber

पृष्ठ्याभिप्लवौ त᳘न्त्रे कुर्वीते᳘ति ह स्माह पै᳘ङ्ग्यः ॥
त᳘यो स्तोत्रा᳘णि च शस्त्रा᳘णि च सं᳘चारयेदि᳘ति स य᳘त्संचार᳘यति त᳘स्मादिमे᳘ प्राणा ना᳘ना स᳘न्त ए᳘कोतयः समान᳘मूति᳘मनुसं᳘चरन्त्य᳘थ यन्न᳘ संचार᳘येत्प्रमा᳘युको य᳘जमानः स्यादेष᳘ ह वै᳘ प्रमा᳘युकोॗ योऽन्धो᳘ वा बधिरो᳘ वा ॥

मूलम् - विस्वरम्

पृष्ठ्याभिप्लवौ तन्त्रे कुर्वीत । इति ह स्माह पैंग्यः । तयोः स्तोत्राणि च शस्त्राणि च संचारयेदिति । स यत्संचारयति । तस्मादिमे प्राणा नाना सन्त एकोतयः समानमूर्तिमनु सञ्चरन्ति । अथ यन्न संचारयेत् । प्रमायुको यजमानः स्यात् । एष ह वै प्रमायुकः । यो ऽन्धो वा बधिरो वा ॥ ४ ॥

हरिस्वामी

‘पृष्ठ्याभिप्लवौ’ न केवलं पृष्ठ्याभिप्लवौ उपेतदेवचक्रे इत्युपासीत किं तर्हि तन्त्रे एते इत्युपासीत नोपेते इति । तन्त्रता च का । (यथा कुर्विदर्यदंच यतानकं कुर्यात् । तत्र वनलभम् । ते तं भृशं वारयेदेव । तत्रोपृष्ठ्याभिप्लवाश्रूयानीववयो न युज्यते । तत्र स्वस्वसाधनभूतान् षडहस्तोत्रियाख्यान् त्रिवृदादयस्ते संचाराः । यद्धोत्रासत्सीर्यः । पूर्वस्मिन् ताः हन्यत रूपस्तमुत्तरतः । स्तोत्रियं कुर्यात् ?) तदनुकाराः पृष्ठ्यादयो नाभिन्नाः स्वरूपैः सन्तः समानमभितः स्वर्गादुदयन्नाडीमनुसञ्चरन्ति ॥ ४ ॥

Eggeling
  1. ‘Let him make the Pr̥shṭḥya and Abhiplava two warps 4,’ said Paiṅgya; ’let him make their

Stotras and Śastras run together:’ inasmuch as he makes them run together, these (channels of the) vital airs, though separate from one another, run together, with one and the same aim 5, into a common web; but were he not to make them run together, the Sacrificer would be liable to perish; and liable to perish, indeed, is one who is either blind or deaf.

मूलम् - Makoto

पृष्ठ्या᳓भिप्लवौ᳓ त᳓न्त्रे कुर्वीते᳓ति ह स्मा᳓ह पै᳓ङ्ग्यः ।॥
त᳓यो स्तोत्रा᳓णि च शस्त्रा᳓णि च सं᳓चा᳓रयेद् इ᳓ति स᳓ य᳓त् संचा᳓र᳓यति त᳓स्मा᳓द् इमे᳓ प्रा᳓णा᳓ ना᳓ना᳓ स᳓न्त ए᳓कोतयः समा᳓न᳓म् ऊति᳓म् अनुसं᳓चरन्त्य् अ᳓थ य᳓न् न᳓ संचा᳓र᳓येत् प्रमा᳓युको य᳓जमा᳓नः स्या᳓द् एष᳓ ह वै᳓ प्रमा᳓युको यो᳙ ऽन्धो᳓ वा᳓ बधिरो᳓ वा᳓ ॥॥

०५

विश्वास-प्रस्तुतिः

न᳘वाग्निष्टोमा᳘ मासि सं᳘पद्यन्ते॥
न᳘व वै᳘ प्राणाः᳘ प्राणा᳘ने᳘वैष्वेत᳘द्दधाति त᳘था स᳘र्व्वमा᳘युर्य्यन्ति त᳘थो ह न᳘ पुरा᳘ ऽऽयुषो ऽस्मा᳘ल्लोकात्प्र᳘यन्ति॥

मूलम् - श्रीधरादि

न᳘वाग्निष्टोमा᳘ मासि सं᳘पद्यन्ते॥
न᳘व वै᳘ प्राणाः᳘ प्राणा᳘ने᳘वैष्वेत᳘द्दधाति त᳘था स᳘र्व्वमा᳘युर्य्यन्ति त᳘थो ह न᳘ पुरा᳘ ऽऽयुषो ऽस्मा᳘ल्लोकात्प्र᳘यन्ति॥

मूलम् - Weber

न᳘वाग्निष्टोमा᳘ मासि स᳘म्पद्यन्ते ॥
न᳘व वै᳘ प्राणाः᳘ प्राणा᳘नेॗवैष्वेत᳘द्दधाति त᳘था स᳘र्वमा᳘युर्यन्ति त᳘थो ह न᳘ पुरा᳘युषोऽस्मा᳘ल्लोकात्प्र᳘यन्ति ॥

मूलम् - विस्वरम्

नवाग्निष्टोमा मासि संपद्यन्ते । नव वै प्राणाः । प्राणानेवैष्वेतद्दधाति । तथा सर्वमायुर्यन्ति । तथा उ ह न पुरा ऽऽयुषो ऽस्माल्लोकात्प्रयन्ति ॥ ५ ॥

हरिस्वामी

‘नवाग्निष्टोमाः’ स्पष्टा एव मासे भवन्ति चतुर्थाभिप्लवे पृष्ठौ पार्ष्ठिकौ नवमः । ‘प्राणानेवैषु’ । एतद् एव कुर्वन् आयुर्दधाति ॥ ५ ॥

Eggeling
  1. The Agnishṭomas amount to nine in a month 6;–now, there are nine vital airs: it is the vital airs he thus lays into them (the Sacrificers); and thus they attain the full term of life, and so, indeed, they do not depart this world before the (full) term of life.
मूलम् - Makoto

न᳓वा᳓ग्निष्टोमा᳓ मा᳓सि स᳓म्पद्यन्ते ।॥
न᳓व वै᳓ प्रा᳓णाः᳓ प्रा᳓णा᳓न् एवै᳙ष्व् एत᳓द् दधा᳓ति त᳓था᳓ स᳓र्वम् आ᳓युर् यन्ति त᳓थो ह न᳓ पुरा᳓युषो ऽस्मा᳓ल् लोका᳓त् प्र᳓यन्ति ॥॥

०६

विश्वास-प्रस्तुतिः

(न्त्ये᳘) ए᳘कविᳫँ᳭शतिरु᳘क्थ्याः॥
(०) द्वा᳘दश वै मा᳘साः सम्वत्सर᳘स्य प᳘ञ्चर्त᳘वस्त्र᳘यो लोकास्त᳘द्विᳫँ᳭शति᳘रेष᳘ ऽए᳘वैकविᳫँ᳭शो य᳘ ऽएष त᳘पत्येता᳘मभिसम्प᳘दᳫँ᳭ स᳘ ऽएत᳘या सम्प᳘दा मासि᳘ मासि स्वर्ग्गं᳘ लोकᳫँ᳭ रो᳘हति मासशः᳘ स्वर्ग्गं᳘ लोकᳫँ᳭ स᳘मश्नुत ऽएकविᳫँ᳭श᳘ञ्च स्तो᳘मम्बृहती᳘ञ्च छ᳘न्दः॥

मूलम् - श्रीधरादि

(न्त्ये᳘) ए᳘कविᳫँ᳭शतिरु᳘क्थ्याः॥
(०) द्वा᳘दश वै मा᳘साः सम्वत्सर᳘स्य प᳘ञ्चर्त᳘वस्त्र᳘यो लोकास्त᳘द्विᳫँ᳭शति᳘रेष᳘ ऽए᳘वैकविᳫँ᳭शो य᳘ ऽएष त᳘पत्येता᳘मभिसम्प᳘दᳫँ᳭ स᳘ ऽएत᳘या सम्प᳘दा मासि᳘ मासि स्वर्ग्गं᳘ लोकᳫँ᳭ रो᳘हति मासशः᳘ स्वर्ग्गं᳘ लोकᳫँ᳭ स᳘मश्नुत ऽएकविᳫँ᳭श᳘ञ्च स्तो᳘मम्बृहती᳘ञ्च छ᳘न्दः॥

मूलम् - Weber

ए᳘कविँशतिरुॗक्थ्याः ॥
द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य प᳘ञ्चऽर्त᳘वस्त्र᳘यो लोकास्त᳘द्विँशति᳘रेष᳘ एॗवैकविँशो य᳘ एष त᳘पत्येता᳘मभिसम्प᳘दँ स᳘ एत᳘या सम्प᳘दा मासि᳘-मासि स्वर्गं᳘ लोकँ रो᳘हति मासशः᳘ स्वर्गं᳘ लोकँ स᳘मश्नुतऽएकविँशं᳘ च स्तो᳘मं बृहतीं᳘ च छ᳘न्दः ॥

मूलम् - विस्वरम्

एकविंशतिरुक्थ्याः । द्वादश वै मासाः संवत्सरस्य । पंचर्तवः । त्रयो लोकाः । तद्विंशतिः । एष एवैकविंशः । य एष तपति एतामभिसंपदम् । स एतया संपदा मासि मासि स्वर्गं लोकं रोहति । मासशः स्वर्गं लोकं समश्नुते । एकविंशं च स्तोमं बृहतीं च च्छन्दः ॥ ६ ॥

हरिस्वामी

‘एकविंशतिः’ आभिप्लवाकाः षोडश उक्थ्याः । पार्ष्ठिकाः पंच । सहषोडशिमानिति चतुस्त्रिंशत् सा एकविंशतिरुक्थ्यः । तेषां द्वादशभिः स्तोत्रैर्विंशतिरग्निष्टोमो भवति । त्रीणि त्रीणि च स्तोत्राणि अपिशिविना तानि पृष्ठिर्भवन्ति । पूर्वैः सह चतुस्त्रिंशदग्निष्टोमा मासशः संपद्यंते । अपरा एकउक्थ्याः षोडशिनो ऽभ्यासे भवन्ति । उक्थ्यस्योपरि षोडश्यतिरिक्तो भवतीत्यर्थः । (अत वै उच्छामूस्य त्रिंशस्वो प्रसः ?) स्तोत्रशस्त्राणि भवंति । (मदमदकरोविविराट्विराट् इत्याद्युमिति श्रुतेर्वीर्यषोडश?पर्वाणक्रवीर्यतद्वानिंद्रो अस्य देवतः सो ऽपि वीर्यतदीयं स्तोत्रम् । तदन्वयाः षोडशिनो ऽवक्ष्यंस्तदुत्तरवीर्यवदित्यभिप्रायः ?) ‘एतेन वै’ वीर्येणान्नेन चेति चशब्दो वक्तव्यः ॥ ६-८ ॥

Eggeling
  1. And the Ukthyas (amount) to twenty-one;–now, there are twelve months in the year, five seasons, and three worlds, that makes twenty, and he who burns yonder (the sun) is the twenty-first 7,

–that consummation (he attains), and by that consummation he ascends month by month to the world of heaven, and gains, in monthly portions, the world of heaven, and the twenty-one-fold Stoma, and the Br̥hatī metre 8.

मूलम् - Makoto

ए᳓कविँशतिर् उक्थ्याः᳙ ।॥
द्वा᳓दश वै᳓ मा᳓साः᳓ संवत्सर᳓स्य प᳓ञ्चर्त᳓वस् त्र᳓यो लोका᳓स् त᳓द् विँशति᳓र् एष᳓ एवै᳙कविँशो᳓ य᳓ एष᳓ त᳓पत्य् एता᳓म् अभिसम्प᳓दँ स᳓ एत᳓या᳓ सम्प᳓दा᳓ मा᳓सि᳓मा᳓सि स्वर्गं᳓ लोकँ᳓ रो᳓हति मा᳓सशः᳓ स्वर्गं᳓ लोकँ᳓ स᳓मश्नुत एकविँशं᳓ च स्तो᳓मं बृहतीं᳓ च छ᳓न्दः ॥॥

०७

विश्वास-प्रस्तुतिः

(श्च᳘) च᳘तुस्त्रिᳫँ᳭शदग्निष्टोमा᳘ मासि स᳘म्पद्यन्ते॥
त्र᳘यस्त्रिᳫँ᳭शद्वै᳘ देवाः᳘ प्रजा᳘पतिश्चतुस्त्रिᳫँ᳭शः स᳘र्व्वासान्देव᳘तानामा᳘प्त्या ऽए᳘क ऽउ᳘क्थ्यः षोडशि᳘मान᳘न्नं वा᳘ ऽउ᳘क्थ्यो व्वी᳘र्यᳫँ᳭ षोड᳘शी॥

मूलम् - श्रीधरादि

(श्च᳘) च᳘तुस्त्रिᳫँ᳭शदग्निष्टोमा᳘ मासि स᳘म्पद्यन्ते॥
त्र᳘यस्त्रिᳫँ᳭शद्वै᳘ देवाः᳘ प्रजा᳘पतिश्चतुस्त्रिᳫँ᳭शः स᳘र्व्वासान्देव᳘तानामा᳘प्त्या ऽए᳘क ऽउ᳘क्थ्यः षोडशि᳘मान᳘न्नं वा᳘ ऽउ᳘क्थ्यो व्वी᳘र्यᳫँ᳭ षोड᳘शी॥

मूलम् - Weber

च᳘तुस्त्रिँशदग्निष्टोमा᳘ मासि स᳘म्पद्यन्ते ॥
त्र᳘यस्त्रिँशद्वै᳘ 9 देवाः᳘ प्रजा᳘पतिश्चतुस्त्रिँशः स᳘र्वासां देव᳘तानामा᳘प्त्याऽए᳘क उॗक्थ्यः षोडशि᳘मान᳘न्नं वा᳘ऽउॗक्थ्यो वीॗर्यँ षोड᳟᳟शी ॥

मूलम् - विस्वरम्

चतुस्त्रिंशदग्निष्टोमा मासि संपद्यन्ते । त्रयस्त्रिंशद्वै देवाः । प्रजापतिश्चतुस्त्रिंशः । सर्वासां देवतानामाप्त्यै । एक उक्थ्यः षोडशिमान् । अन्नं वा उक्थ्यः । वीर्यं षोडशी ॥ ७ ॥

हरिस्वामी

[व्याख्यानं षष्ठे]

Eggeling
  1. The Agnishṭomas amount to thirty-four in a month 10–for the obtainment of all the gods; for there are thirty-three gods, and Prajāpati is the thirty-fourth. And there is one Ukthya with the Shoḍaśin (stotra); for the Ukthya means food, and the Shoḍaśin vital strength.
मूलम् - Makoto

च᳓तुस्त्रिँशद् अग्निष्टोमा᳓ मा᳓सि᳓ स᳓म्पद्यन्ते ।॥
त्र᳓यस्त्रिँशद् वै᳓ देवाः᳓ प्रजा᳓पतिश् चतुस्त्रिँशः᳓ स᳓र्वा᳓सां᳓ देव᳓ता᳓ना᳓म् आ᳓प्त्या᳓ ए᳓क उक्थ्यः᳙ षोडशि᳓मा᳓न् अ᳓न्नं वा᳓ उक्थ्यो᳙ वीर्यँ᳙ षोडशी᳓ ॥॥

०८

विश्वास-प्रस्तुतिः

(श्ये) एते᳘न वै᳘ देवाः᳘॥
(०) व्वी᳘र्य्येणा᳘न्नेन स᳘र्व्वान्का᳘मानाप्नुवन्त्स᳘र्व्वान्का᳘मानाश्नुवत त᳘थो ऽए᳘वैष᳘ ऽएते᳘न व्वी᳘र्य्येणा᳘न्नेन स᳘र्व्वान्का᳘मानाप्नोति स᳘र्व्वान्का᳘मानश्नुते त᳘स्मात्पृष्ठ्याभिप्लवा ऽउ᳘पै᳘वेयात्सम्वत्सरा᳘य दीक्षित᳘ ऽएत᳘स्मै का᳘माय॥

मूलम् - श्रीधरादि

(श्ये) एते᳘न वै᳘ देवाः᳘॥
(०) व्वी᳘र्य्येणा᳘न्नेन स᳘र्व्वान्का᳘मानाप्नुवन्त्स᳘र्व्वान्का᳘मानाश्नुवत त᳘थो ऽए᳘वैष᳘ ऽएते᳘न व्वी᳘र्य्येणा᳘न्नेन स᳘र्व्वान्का᳘मानाप्नोति स᳘र्व्वान्का᳘मानश्नुते त᳘स्मात्पृष्ठ्याभिप्लवा ऽउ᳘पै᳘वेयात्सम्वत्सरा᳘य दीक्षित᳘ ऽएत᳘स्मै का᳘माय॥

मूलम् - Weber

एते᳘न वै᳘ देवाः᳘ ॥
वीॗर्येणा᳘न्नेन स᳘र्वान्का᳘मानाप्नुवन्त्स᳘र्वान्का᳘मानाश्नुवत त᳘थोऽएॗवैष᳘ एते᳘न वीॗर्येणा᳘न्नेन स᳘र्वान्का᳘मानाप्नोति स᳘र्वान्का᳘मानश्नुते त᳘स्मात्पृष्ठ्याभिप्लवाऽउ᳘पैॗवेयात्संवत्सरा᳘य दीक्षित᳘ एत᳘स्मै का᳘माय ॥

मूलम् - विस्वरम्

एतेन वै देवा वीर्येणान्नेन सर्वान् कामानाप्नुवन् । सर्वान् कामानाश्नुवत । तथा उ एवैष एतेन वीर्येणान्नेन सर्वान् कामानाप्नोति । सर्वान् कामानश्नुते । तस्मात् पृष्ठ्याभिप्लवाउपैवेयात्- संवत्सराय दीक्षित एतस्मै कामाय ॥ ८ ॥

हरिस्वामी

[व्याख्यानं षष्ठे]

Eggeling
  1. By means of that food and vital strength the gods obtained all their desires, and secured all their desires; and in like manner does this (Sacrificer); by means of that food and vital strength, obtain all his desires, and secure all his desires: with a view to that object he who is initiated for (a sacrificial session of) a year should therefore perform the Pr̥shṭḥya and Abhiplava (-shaḍahas).
मूलम् - Makoto

एते᳓न वै᳓ देवाः᳓ ।॥
वीर्ये᳙णा᳓न्नेन स᳓र्वा᳓न् का᳓मा᳓न् आ᳓प्नुवन्त् स᳓र्वा᳓न् का᳓मा᳓न् आ᳓श्नुवत त᳓थो एवै᳙ष᳓ एते᳓न वीर्ये᳙णा᳓न्नेन स᳓र्वा᳓न् का᳓मा᳓न् आ᳓प्नोति स᳓र्वा᳓न् का᳓मा᳓न् अश्नुते त᳓स्मा᳓त् पृष्ठ्या᳓भिप्लवा᳓ उ᳓पैवे᳙या᳓त् संवत्सरा᳓य दीक्षित᳓ एत᳓स्मै का᳓मा᳓य ॥॥

०९

विश्वास-प्रस्तुतिः

(या᳘) अ᳘थादित्या᳘श्च ह वा ऽअ᳘ङ्गिरसश्च॥
(श्चो) उभ᳘ये प्राजापत्या᳘ ऽअस्पर्द्धन्त व्वयम्पू᳘र्व्वे स्वर्ग्गं᳘ लोक᳘मेष्या᳘मो व्वयम्पू᳘र्व्व ऽइ᳘ति॥

मूलम् - श्रीधरादि

(या᳘) अ᳘थादित्या᳘श्च ह वा ऽअ᳘ङ्गिरसश्च॥
(श्चो) उभ᳘ये प्राजापत्या᳘ ऽअस्पर्द्धन्त व्वयम्पू᳘र्व्वे स्वर्ग्गं᳘ लोक᳘मेष्या᳘मो व्वयम्पू᳘र्व्व ऽइ᳘ति॥

मूलम् - Weber

अ᳘थादित्या᳘श्च ह वाऽअ᳘ङ्गिरसश्च ॥
उभ᳘ये प्राजापत्या᳘ अस्पर्द्धन्त वयं पू᳘र्वे स्वर्गं᳘ लोक᳘मेष्यामो वयं पू᳘र्वऽइ᳘ति ॥

मूलम् - विस्वरम्

अथादित्याश्च ह वा अंगिरसश्च उभये प्राजापत्या अस्पर्द्धंत । वयं पूर्वे स्वर्गं लोकमेष्यामो वयं पूर्व इति ॥ ९ ॥

हरिस्वामी

अथादित्याश्चेति । निर्वचनकंडिका एताः प्रश्नांताः । अभिप्लवाः षडहा उपास्या इति शेषः ॥ ९-११ ॥

Eggeling
  1. Now, the Ādityas and the Aṅgiras, both of them sprung from Prajāpati, were contending together saying, ‘We shall be the first to reach heaven,–we shall be the first!’
मूलम् - Makoto

अ᳓था᳓दित्या᳓श् च ह वा᳓ अ᳓ङ्गिरसश् च ।॥
उअभ᳓ये प्रा᳓जा᳓पत्या᳓ अस्पर्द्धन्त वयं᳓ पू᳓र्वे स्वर्गं᳓ लोक᳓म् एष्या᳓मो वयं᳓ पू᳓र्व इ᳓ति ॥॥

१०

विश्वास-प्रस्तुतिः

त᳘ ऽआदित्याः᳘॥
(श्च) चतु᳘र्भि स्तो᳘मैश्चतु᳘र्भिः पृष्ठै᳘र्ल्लघु᳘भिः सा᳘मभिः स्वर्ग्गं᳘ लोक᳘मभ्य᳘प्लवन्त य᳘दभ्य᳘प्लवन्त त᳘स्मादभिप्लवाः᳘॥

मूलम् - श्रीधरादि

त᳘ ऽआदित्याः᳘॥
(श्च) चतु᳘र्भि स्तो᳘मैश्चतु᳘र्भिः पृष्ठै᳘र्ल्लघु᳘भिः सा᳘मभिः स्वर्ग्गं᳘ लोक᳘मभ्य᳘प्लवन्त य᳘दभ्य᳘प्लवन्त त᳘स्मादभिप्लवाः᳘॥

मूलम् - Weber

त᳘ऽआदित्याः᳘ ॥
चतु᳘र्भि स्तो᳘मैश्चतु᳘र्भिः पृष्ठै᳘र्लघु᳘भिः सा᳘मभिः स्वर्गं᳘ लोक᳘मॗभ्यप्लवन्त य᳘दभ्य᳘प्लवन्त त᳘स्मादभिप्लवाः᳘ ॥

मूलम् - विस्वरम्

त आदित्याश्चतुर्भिः स्तोमैश्चतुर्भिः पृष्ठैर्लघुभिः सामभिः स्वर्गं लोकमभ्यप्लवन्त । यदभ्यप्लवन्त । तस्मादभिप्लवाः ॥ १० ॥

हरिस्वामी

[व्याख्यानं नवमे]

Eggeling
  1. By means of four Stomas, four Pr̥shṭḥas 11, and light (simple) hymn-tunes, the Ādityas sailed across to the heavenly world; and inasmuch as they sailed (abhi-plu) to it, they (these six-days’ periods) are called Abhiplava.
मूलम् - Makoto

त᳓ आ᳓दित्याः᳓ ।॥
चतु᳓र्भि स्तो᳓मैश् चतु᳓र्भिः पृष्ठै᳓र् लघुभिः सा᳓मभिः स्वर्गं᳓ लोक᳓म् अभ्य᳙प्लवन्त य᳓द् अभ्य᳓लवन्त त᳓स्मा᳓द् अभिप्लवाः᳓ ॥॥

११

विश्वास-प्रस्तुतिः

अन्व᳘ञ्च ऽइवा᳘ङ्गिरसः॥
स᳘र्व्वै स्तो᳘मैः स᳘र्व्वैः पृष्ठै᳘र्ग्गुरु᳘भिः सा᳘मभि स्वर्ग्गं᳘ लोक᳘मस्पृशन्यद᳘स्पृशँस्तस्मात्पृ᳘ष्ठ्यः[[!!]]॥

मूलम् - श्रीधरादि

अन्व᳘ञ्च ऽइवा᳘ङ्गिरसः॥
स᳘र्व्वै स्तो᳘मैः स᳘र्व्वैः पृष्ठै᳘र्ग्गुरु᳘भिः सा᳘मभि स्वर्ग्गं᳘ लोक᳘मस्पृशन्यद᳘स्पृशँस्तस्मात्पृ᳘ष्ठ्यः[[!!]]॥

मूलम् - Weber

अन्व᳘ञ्च-इवा᳘ङ्गिरसः ॥
स᳘र्वै स्तो᳘मैः स᳘र्वैः पृष्ठै᳘र्गुरु᳘भिः सा᳘मभि स्वर्गं᳘ लोक᳘मस्पृशन्यद᳘स्पृशंस्त᳘स्मात्पृ᳘ष्ठ्यः ॥

मूलम् - विस्वरम्

अन्वंच इवांगिरसः सर्वैः स्तोमैः सर्वैः पृष्ठैर्गुरुभिः सामभिः स्वर्गं लोकमस्पृशन् । यदस्पृशन् । तस्मात् पृष्ठ्यः ॥ ११ ॥

हरिस्वामी

[व्याख्यानं नवमे]

Eggeling
  1. By means of all the Stomas, all the Pr̥shṭḥas 12, and heavy (complicated) hymn-tunes, the Aṅgiras, coming after (the gods), as it were 13, touched (reached) the heavenly world; and inasmuch as they touched (spr̥ś) it, it (this six-days’ period) is called Pr̥shṭḥya 14.
मूलम् - Makoto

अन्व᳓ञ्च इवा᳓ङ्गिरसः ।॥
स᳓र्वै स्तो᳓मैः स᳓र्वैः पृष्ठै᳓र् गुरु᳓भिः सा᳓मभि स्वर्गं᳓ लोक᳓म् अस्पृशन् य᳓द् अ᳓स्पृशंस् त᳓स्मा᳓त् पृ᳓ष्ठ्यः ॥॥

१२

विश्वास-प्रस्तुतिः

(ष्ठ्यो ऽभि) अभिप्लवः᳘ षडहः[[!!]]॥
ष᳘ड्ढ्य᳘हानि भ᳘वन्त्यभिप्लवः᳘ पञ्चाहः प᳘ञ्च ह्य᳘हानि भ᳘वन्ति य᳘द्ध्येव᳘ प्रथमम᳘हस्त᳘दुत्तम᳘मभिप्लव᳘श्चतुरह᳘श्चत्वा᳘रो हि स्तो᳘मा भ᳘वन्ति त्रिव्वृ᳘त्पञ्चदशः᳘ सप्तदश᳘ ऽएकविᳫँ᳭श ऽइ᳘त्यभिप्लव᳘स्त्र्यह᳘स्त्र्याव्वृद्धि ज्यो᳘तिर्ग्गौरा᳘युरभिप्लवो᳘ द्व्यहो द्वे᳘ ह्येव सा᳘मनी भ᳘वतो बृहद्रथन्तरे᳘ ऽए᳘वाभिप्लव᳘ ऽएकाह᳘ ऽएकाह᳘स्यो हि स्तो᳘मैस्ताय᳘ते चतुर्ण्णा᳘मु᳘क्थ्यानां द्वा᳘दश स्तोत्रा᳘णि द्वा᳘दश शस्त्राण्य᳘तियन्ति स᳘ सप्त᳘मो ऽग्निष्टोम᳘ ऽएव᳘मु स᳘प्ताग्निष्टोमाः सं᳘पद्यन्ते॥

मूलम् - श्रीधरादि

(ष्ठ्यो ऽभि) अभिप्लवः᳘ षडहः[[!!]]॥
ष᳘ड्ढ्य᳘हानि भ᳘वन्त्यभिप्लवः᳘ पञ्चाहः प᳘ञ्च ह्य᳘हानि भ᳘वन्ति य᳘द्ध्येव᳘ प्रथमम᳘हस्त᳘दुत्तम᳘मभिप्लव᳘श्चतुरह᳘श्चत्वा᳘रो हि स्तो᳘मा भ᳘वन्ति त्रिव्वृ᳘त्पञ्चदशः᳘ सप्तदश᳘ ऽएकविᳫँ᳭श ऽइ᳘त्यभिप्लव᳘स्त्र्यह᳘स्त्र्याव्वृद्धि ज्यो᳘तिर्ग्गौरा᳘युरभिप्लवो᳘ द्व्यहो द्वे᳘ ह्येव सा᳘मनी भ᳘वतो बृहद्रथन्तरे᳘ ऽए᳘वाभिप्लव᳘ ऽएकाह᳘ ऽएकाह᳘स्यो हि स्तो᳘मैस्ताय᳘ते चतुर्ण्णा᳘मु᳘क्थ्यानां द्वा᳘दश स्तोत्रा᳘णि द्वा᳘दश शस्त्राण्य᳘तियन्ति स᳘ सप्त᳘मो ऽग्निष्टोम᳘ ऽएव᳘मु स᳘प्ताग्निष्टोमाः सं᳘पद्यन्ते॥

मूलम् - Weber

अभिप्लवः᳘ षडहः᳟ ॥
ष᳘ड्ढ्य᳘हानि भ᳘वन्त्यभिप्लवः᳘ पञ्चाहः प᳘ञ्च ह्य᳘हानि भ᳘वन्ति यॗद्ध्येव᳘ प्रथमम᳘हस्त᳘दुत्तम᳘मभिप्लव᳘श्चतुरह᳘श्चत्वा᳘रो हि स्तो᳘मा भ᳘वन्ति त्रिवृ᳘त्पञ्चदशः᳘ सप्तदश᳘ एकविँश इ᳘त्यभिप्लव᳘स्त्र्यहॗस्त्र्यावृद्धि ज्यो᳘तिर्गौरा᳘युरभिप्लवो᳘ द्व्यहो द्वेॗ ह्येव सा᳘मनी भ᳘वतो बृहद्रथन्तरे᳘ऽएॗवाभिप्लव᳘ एकाह᳘ एकाह᳘स्यो हि स्तो᳘मैस्ताय᳘ते चतुर्णा᳘मुॗक्थ्यानां द्वा᳘दश स्तोत्रा᳘णि द्वा᳘दश शस्त्राण्य᳘तियन्ति स᳘ सप्तॗमोऽग्निष्टोम᳘ एव᳘मु सॗप्ताग्निष्टोमाः स᳘म्पद्यन्ते ॥

मूलम् - विस्वरम्

अभिप्लवः षडहः । षड्ढ्यहानि भवन्ति । अभिप्लवः पञ्चाहः । पञ्च ह्यहानि भवन्ति । यद्ध्येव प्रथममहः । तदुत्तमम् । अभिप्लवश्चतुरहः । चत्वारो हि स्तोमा भवन्ति । त्रिवृत् पञ्चदशः सप्तदश एकविंश इति । अभिप्लवस्त्र्यहः । त्र्यावृद्धि ज्योतिर्गौरायुः । अभिप्लवो द्व्यहः । द्वे ह्येव सामनी भवतः । बृहद्रथन्तरे एव । अभिप्लव एकाहः । एकाहस्य उ हि स्तोमैस्तायते । चतुर्णामुक्थ्यानां द्वादश स्तोत्राणि द्वादश शस्त्राण्यतियन्ति । स सप्तमो ऽग्निष्टोमः । एवमु सप्ताग्निष्टोमाः सम्पद्यन्ते ॥ १२ ॥

हरिस्वामी

यद्ध्येव प्रथममहस्तदुत्तममिति । एक एव सो ऽग्निष्टोमः चोद्यत इत्यभिप्रायः । ‘चत्वारो हि स्तोमा भवन्तीति’ इमामन्तर्भूतस्तोमसंख्यामहर्मध्ये चत्वारि सामान्युपासीतेत्यभिप्रायः । त्र्यावृद्धि त्रयाणामह्नां आवृत्तिरेषो ऽभिप्लवो नाहरंतरं संख्याजनकमस्तीत्यर्थः । केषां पुनरह्नामावृदभिप्लव इत्यत आह- ज्योतिर्गौरायुः इति । एत एव त्रय आवृत्ता अभिप्लव इति । द्वे ह्येव सामनी भवत इति । अन्तर्भूतसामसंख्यया महास्वरसामोपासीतेत्यभिप्रायः । कथं पुनरंभिप्लवे द्वे एव सामनी भवतः । पृष्ठ्यस्थाने नियमो ऽयं, वैरूपादीनि भवन्ति । बृहद्रथंतरे एव भवतः । न स्तोत्रांतरे । ‘एकाहस्यो हि स्तोमैः’ । (श्विशब्दादिभिस्तायते न कृणवादिभिः । ?) स्ववर्णान् ज्यायान्पंचस्तोत्राणां द्वादशस्तोत्रकात् अग्निष्टोमात्तु द्वादश स्तोत्राणि द्वादश शस्त्राणि अतिरिच्यन्ते । स सप्तमो ऽग्निष्टोमः अभिप्लवे संपद्यते । एवं ये अभिप्लवस्योपनिषद्यन्ते । तथा संवत्सरे वक्ष्यते । शेषाः संवसरस्य । एवमु इति ॥ १२ ॥

Eggeling
  1. It is a six-days’ Abhiplava, because it consists of six days; or a five-days’ Abhiplava, because it consists of five days, for the last day is the same as the first; or a four-days’ Abhiplava, for there are four Stomas (used) in it–the thrice-threefold (trivr̥t), the fifteen-versed, the seventeen-versed, and the twenty-one-versed one; or a three-days’ Abhiplava, for it is of three orders–Jyotis, Go, and

Āyus 15; or a two-days’ Abhiplava, for there are two Sāmans (used) in it–the Br̥hat and the Rathantara 16; or a one-day’s Abhiplava, for it is performed with the Stomas of a one-day’s (Soma-sacrifice 17). Twelve Stotras and twelve Śastras of the four Ukthyas are in excess 18–they make a seventh Agnishṭoma, and thus the Agnishṭomas amount to seven.

मूलम् - Makoto

अभिप्लवः᳓ षडहः᳓ ।॥
ष᳓ड् ढ्य् अ᳓हा᳓नि भ᳓वन्त्य् अभिप्लवः᳓ पञ्चा᳓हः᳓ प᳓ञ्च ह्य् अ᳓हा᳓नि भ᳓वन्ति य᳓द् ध्य् ए᳙व᳓ प्रथम᳓म् अ᳓हस् त᳓द् उत्तम᳓म् अभिप्लव᳓श् चतुरह᳓श् चत्वा᳓रो हि᳓ स्तो᳓मा᳓ भ᳓वन्ति त्रिवृ᳓त् पञ्चदशः᳓ सप्तदश᳓ एकविँश᳓ इ᳓त्य् अभिप्लव᳓स् त्र्यह᳓स् त्र्या᳙वृद् धि᳓ ज्यो᳓तिर् गौ᳓र् आ᳓युर् अभिप्लवो᳓ द्व्यहो᳓ द्वे᳓ ह्य् ए᳙व᳓ सा᳓मनी भ᳓वतो बृहद्रथन्तरे᳓ एवा᳙भिप्लव᳓ एका᳓ह᳓ एका᳓ह᳓स्यो हि᳓ स्तो᳓मैस् ता᳓य᳓ते चतुर्णा᳓म् उक्थ्या᳙नां᳓ द्वा᳓दश स्तोत्रा᳓णि द्वा᳓दश शस्त्रा᳓ण्य् अ᳓तियन्ति स᳓ सप्तमो᳙ ऽग्निष्टोम᳓ एव᳓म् उ सप्ता᳙ग्निष्टोमाः᳓ स᳓म्पद्यन्ते ॥॥

१३

विश्वास-प्रस्तुतिः

प्रो᳘तिर्ह कौशांबेयः[[!!]]॥
कौ᳘सुरिबिन्दिरुद्दा᳘लक ऽआ᳘रुणौ ब्रह्मच᳘र्य्यमुवास त᳘ᳫँ᳘ हाचा᳘र्य्यः पप्रच्छ कुमार[[!!]] क᳘ति ते पिता᳘ सम्वत्सरस्या᳘हान्यमन्यते᳘ति॥

मूलम् - श्रीधरादि

प्रो᳘तिर्ह कौशांबेयः[[!!]]॥
कौ᳘सुरिबिन्दिरुद्दा᳘लक ऽआ᳘रुणौ ब्रह्मच᳘र्य्यमुवास त᳘ᳫँ᳘ हाचा᳘र्य्यः पप्रच्छ कुमार[[!!]] क᳘ति ते पिता᳘ सम्वत्सरस्या᳘हान्यमन्यते᳘ति॥

मूलम् - Weber

प्रो᳘तिर्ह कौशा᳘म्बेयः᳟ ॥
कौ᳘सुरुबिन्दिरुद्दा᳘लकऽआ᳘रुणौ ब्रह्मच᳘र्यमुवास तँ᳘ हाचाॗर्यः पप्रछ कु᳘मार क᳘ति ते पिता᳘ संवत्सरस्या᳘हान्यमन्यते᳘ति ॥ शतम् ६०००॥ ॥

मूलम् - विस्वरम्

प्रोतिर्ह कौशांबेयः कौसुरिबिंदिरुद्दालके आरुणौ ब्रह्मचर्यमुवास । तं हाचार्यः पप्रच्छ । कुमार ! कति ते पिता संवत्सरस्याहान्यमन्यतेति ॥ १३ ॥

हरिस्वामी

प्रोतिर्ह कौशांबेयः इति । ‘प्रोतिः’ प्रकृष्टभूगतिः ‘कौशांबेयः’ कोशांबिनिवासी ‘कौसुरिबिंदिः’ कुसुरिबिंदस्यापत्यम् । ‘उद्दालके’ अरुणपुत्रे । ‘ब्रह्मचर्यं’ चरितुमुषितः । किंचित्कालांते ‘तं ह आचार्यः पप्रच्छ’ तस्यैवात्र वचनं प्रकृतार्थज्ञापनार्थम् ‘कुमार !’ तव ‘पिता’ महायाज्ञिकः संवत्सरस्यास्य याज्ञिकस्य ‘अहानि कति मन्यते स्म’ उपास्ते स्मेत्यर्थः ॥ १३ ॥

Eggeling
  1. Now, Proti Kauśāmbeya 19 Kausurubindi dwelt with Uddālaka Āruṇi as a religious student. The teacher asked him, ‘My son, how many days did thy father 20 consider that there are in the year?’
मूलम् - Makoto

प्रो᳓तिर् ह कौशा᳓म्बेयः᳓ ।॥
कौ᳓सुर्बिन्दिर् उद्दा᳓लक आ᳓रुणौ ब्रह्मच᳓र्यम् उवा᳓स तँ᳓ हा᳓चा᳓र्यः᳙ पप्रछ कु᳓मा᳓र क᳓ति ते पिता᳓ संवत्सरस्या᳓हा᳓न्य् अमन्यते᳓ति ॥॥

१४

विश्वास-प्रस्तुतिः

दशे᳘ति होवाच[[!!]]॥
द᳘श वा ऽइ᳘ति होवाच द᳘शाक्षरा व्विरा᳘ड्वैराजो᳘ यज्ञः[[!!]]॥

मूलम् - श्रीधरादि

दशे᳘ति होवाच[[!!]]॥
द᳘श वा ऽइ᳘ति होवाच द᳘शाक्षरा व्विरा᳘ड्वैराजो᳘ यज्ञः[[!!]]॥

मूलम् - Weber

दशे᳘ति होवा᳘च ॥
द᳘श वाऽइ᳘ति होवाच द᳘शाक्षरा विरा᳘ड्वैराजो᳘ 21 यज्ञः᳟ ॥

मूलम् - विस्वरम्

दशेति होवाच । दश वा इति होवाच । दशाक्षरा विराट् । वैराजो यज्ञः ॥ १४ ॥

हरिस्वामी

दशेति । ‘दश वा’ दशैवामन्यत मम पितेत्येवमुवाच कुमारः । ‘दश वै’ । स वै एतान्यहानि इत्येवाचार्यः । कथं पुनरेष त्र्यधिकानि त्रीणि शतानि संति । दशैते शतादतिरिच्येरन्नित्यत आह- दशाक्षरा इति । (विराट्भस्यत्तस्वयज्ञशतस्व ?) विराडक्षरसंख्यया दशसंख्याहान्युपासितव्यानि । कतमानि पुनस्तानि दशाहान्यनुगृह्यन्ते । प्रायणीयोदयनीयौ दशरात्रश्च चतुर्विंशमहाव्रते पृष्ठ्याभिप्लवौ अभिजिद्विश्वजितौ स्वरसामानि इत्येतानि । कुत एतत् । उत्तरत्र एतेषां परस्परानुप्रवेशनं च । “समानमेतत् अहर्यत् प्रायणीयोदयनीयौ” इत्यादि । ह्येतेषां योन्यंतर्भावा वक्ष्यन्ते । तेनास्यामवस्थायां एतान्यंतर्गतानि गण्यंते इति गम्यते । गोआयुषी तु अभिप्लव एवांतर्गतौ इत्यभिप्रायः । दशरात्रेऽपि वस्तुतः पृष्ठ्यः षडहः । सपृष्ठ्य एव । ये च्छन्दोमाः ते परतन्त्रान्तर्गताः । यद्दशममहः तदग्निष्टोमे । (क्वचिद्वा स्वात्सासंवत्सरस्य शोचयत्वैः सह तैव गण्यत इत्यभिप्रायः ?) ॥ १४ ॥

Eggeling
  1. ‘Ten,’ he replied.–‘Ten, indeed,’ he said; ‘for the Virāj consists of ten syllables, and the sacrifice is of Virāj nature;–
मूलम् - Makoto

द᳓शे᳓ति होवा᳓च ।॥
द᳓श वा᳓ इ᳓ति होवा᳓च द᳓शा᳓क्षरा᳓ विरा᳓ड् वैरा᳓जो᳓ यज्ञः᳓ ॥॥

१५

विश्वास-प्रस्तुतिः

क᳘ति᳘ त्वेवे᳘ति॥
नवे᳘ति होवाच न᳘व वा ऽइ᳘ति होवाच न᳘व वै᳘ प्राणाः᳘ प्राणै᳘रु यज्ञ᳘स्तायते॥

मूलम् - श्रीधरादि

क᳘ति᳘ त्वेवे᳘ति॥
नवे᳘ति होवाच न᳘व वा ऽइ᳘ति होवाच न᳘व वै᳘ प्राणाः᳘ प्राणै᳘रु यज्ञ᳘स्तायते॥

मूलम् - Weber

क᳘तिॗ त्वेवे᳘ति ॥
नवे᳘ति होवाच न᳘व वाऽइ᳘ति होवाच न᳘व वै᳘ प्राणाः᳘ प्राणै᳘रु यज्ञ᳘स्तायते ॥

मूलम् - विस्वरम्

कति त्वेवेति । नवेति होवाच । नव वा इति होवाच । नव वै प्राणाः । प्राणैरु यज्ञस्तायते ॥ १५ ॥

हरिस्वामी

कति त्वेवेति । (अश्वेवन्येदपिसंक्ष्ययदशनममिति मन्यमान ?) आचार्यः पुनः पुनः पप्रच्छ कति त्वेवेति । पुनरपि कति तव पिता सम्वत्सरस्य अवयवभूतानि अहानि उपास्ते स्मेति । ‘नवेति होवाच’ । ‘नवाहानि संवत्सरस्य मम पिता ऽमन्यतेत्युवाच’ कुमारः । ‘नव वै इति होवाच’ । नव वै संवत्सरस्याहानि यथा असौ मन्यते तथैव तत् इति आचार्यः परममनुमेने । नव वै प्राणा इत्युपपत्तिमाचार्य एवाह । स च कति प्राणसंख्यया शक्यान्यहानि संग्रहीतुमित्युपपत्तिः । अथ यानि पूर्वकंडिकायां दशाहानि गणितानि । तेषां यत् दशमं तदिदानीं क्वांतर्गच्छति ? उच्यते- उदयनीयः प्रायणीये न भवति अतिरात्रत्वादंतत्वाच्चेत्यभिप्रायः । यतः तच्च वक्ष्यति । “समानमेतदहर्यत्प्रायणीयोदयनीयौ” इति । तत् अत्रैव कण्डिकायां आहत्य द्रष्टव्यं, तत्रानुपयोगात् । कथमनुपयोगः । प्रायणीयोदयनीययोर्हि अनन्यत्वे सति नवाहानीत्युपपद्यते न षडिति । (सप्तानां ह्येकस्मिन्नंतर्गतषद्भावर्तु दशानां दशवै ताननुक्रमिष्यामः । ?) प्रायणीयोदयनीयावित्यादि ॥ १५ ॥

Eggeling
  1. But how many are there really?’–‘Nine,’ he replied.–‘Nine, indeed,’ he said; ‘for there are nine vital airs, and by means of the vital airs the sacrifice is performed;–
मूलम् - Makoto

क᳓ति त्व् ए᳙वे᳓ति ।॥
न᳓वे᳓ति होवा᳓च न᳓व वा᳓ इ᳓ति होवा᳓च न᳓व वै᳓ प्रा᳓णाः᳓ प्रा᳓णै᳓र् उ यज्ञ᳓स् ता᳓यते ॥॥

१६

विश्वास-प्रस्तुतिः

क᳘ति᳘ त्वेवे᳘ति॥
(त्य) अष्टे᳘ति होवाचाष्टौ वा ऽइ᳘ति होवाचाष्टा᳘क्षरा गायत्री᳘ गायत्रो᳘ यज्ञः[[!!]]॥

मूलम् - श्रीधरादि

क᳘ति᳘ त्वेवे᳘ति॥
(त्य) अष्टे᳘ति होवाचाष्टौ वा ऽइ᳘ति होवाचाष्टा᳘क्षरा गायत्री᳘ गायत्रो᳘ यज्ञः[[!!]]॥

मूलम् - Weber

क᳘तिॗ त्वेवे᳘ति ॥
अष्टे᳘ति होवाचाष्टौ वाऽइ᳘ति होवाचाष्टा᳘क्षरा गायत्री᳘ गायत्रो᳘ यज्ञः᳟ ॥

मूलम् - विस्वरम्

कति त्वेवेति । अष्टेति होवाच । अष्टौ वा इति होवाच । अष्टाक्षरा गायत्री । गायत्रो यज्ञः ॥ १६ ॥

हरिस्वामी

कति त्वेवेति । “समानमेतदहर्यच्चतुर्विंशमहाव्रते”- इत्येतदत्र द्रष्टव्यम् तयोर्ह्येकत्वे सति अहानि भवन्ति ॥ १६ ॥

Eggeling
  1. But how many are there really?’–‘Eight,’ he replied.–‘Eight, indeed,’ he said; ‘for the Gāyatrī consists of eight syllables, and the sacrifice is of Gāyatrī nature;–
मूलम् - Makoto

क᳓ति त्व् ए᳙वे᳓ति ।॥
अष्टे᳓ति होवा᳓चा᳓ष्टौ᳓ वा᳓ इ᳓ति होवा᳓चा᳓ष्टा᳓क्षरा᳓ गा᳓यत्री᳓ गा᳓यत्रो᳓ यज्ञः᳓ ॥॥

१७

विश्वास-प्रस्तुतिः

क᳘ति᳘ त्वेवे᳘ति॥
सप्ते᳘ति होवाच स᳘प्त वा ऽइ᳘ति होवाच सप्त च्छ᳘न्दाᳫँ᳭सि चतुरुत्तरा᳘णि च्छ᳘न्दोभिरु यज्ञ᳘स्तायते[[!!]]॥ (अर्द्धप्रपाठकः ॥६६॥)

मूलम् - श्रीधरादि

क᳘ति᳘ त्वेवे᳘ति॥
सप्ते᳘ति होवाच स᳘प्त वा ऽइ᳘ति होवाच सप्त च्छ᳘न्दाᳫँ᳭सि चतुरुत्तरा᳘णि च्छ᳘न्दोभिरु यज्ञ᳘स्तायते[[!!]]॥ (अर्द्धप्रपाठकः ॥६६॥)

मूलम् - Weber

क᳘तिॗ त्वेवे᳘ति ॥
सप्ते᳘ति होवाच सप्त वाऽइ᳘ति 22 होवाच सप्त छ᳘न्दाँसि चतुरुत्तरा᳘णि छ᳘न्दोभिरु यज्ञ᳘स्ता᳘यते ॥

मूलम् - विस्वरम्

कति त्वेवेति । सप्तेति होवाच । सप्त वा इति होवाच । सप्त च्छंदांसि चतुरुत्तराणि । छन्दोभिरु यज्ञस्तायते ॥ १७ ॥

हरिस्वामी

कति त्वेवेति “समानमेतदहः यत्पृष्ठ्याभिप्लवौ”- इत्येतदत्र द्रष्टव्यम् । तयोर्ह्येकत्वं सति सप्ताहानि भवन्ति ॥ १७ ॥ १८ ॥

Eggeling
  1. But how many are there really?’–‘Seven,’ he replied.–‘Seven, indeed,’ he said; ‘for there are seven metres (successively) increasing by four (syllables), and by means of the metres the sacrifice is performed;–
मूलम् - Makoto

क᳓ति त्व् ए᳙वे᳓ति ।॥
सप्ते᳓ति होआ᳓च सप्त᳓ वा᳓ इ᳓ति होवा᳓च सप्त᳓ छ᳓न्दाँ᳓सि चतुरुत्तरा᳓णि छ᳓न्दोभिर् उ यज्ञ᳓स् ता᳓यते ॥॥

१८

विश्वास-प्रस्तुतिः

क᳘ति᳘ त्वेवे᳘ति॥
षडि᳘ति होवाच षड्वा ऽइ᳘ति होवाच ष᳘डृत᳘वः सम्वत्सरः᳘ सम्वत्सरो᳘ यज्ञः᳘ समान᳘मेतद᳘हर्य्य᳘त्प्रायणीयोदयनीयौ[[!!]]॥

मूलम् - श्रीधरादि

क᳘ति᳘ त्वेवे᳘ति॥
षडि᳘ति होवाच षड्वा ऽइ᳘ति होवाच ष᳘डृत᳘वः सम्वत्सरः᳘ सम्वत्सरो᳘ यज्ञः᳘ समान᳘मेतद᳘हर्य्य᳘त्प्रायणीयोदयनीयौ[[!!]]॥

मूलम् - Weber

क᳘तिॗ त्वेवे᳘ति ॥
षडि᳘ति होवाच षड्वाऽइ᳘ति होवाच ष᳘डृत᳘वः संवत्सरः᳘ संवत्सरो᳘ यज्ञः᳘ समान᳘मेतद᳘हर्य᳘त्प्रायणीयोदयनीयौ᳟ ॥

मूलम् - विस्वरम्

कति त्वेवेति । षडिति होवाच । षड्वा इति होवाच । षड् ऋतवः संवत्सरः । संवत्सरो यज्ञः । समानमेतदहः- यत् प्रायणीयोदयनीयौ ॥ १८ ॥

हरिस्वामी

[व्याख्यानं सप्तदशे]

Eggeling
  1. But how many are there really?’–‘Six,’ he replied.–‘Six, indeed,’ he said; ‘six seasons make up a year, and the sacrifice is the year; and one and the same day are those two, the opening and concluding (Atirātra 23);–
मूलम् - Makoto

क᳓ति त्व् ए᳙वे᳓ति ।॥
ष᳓ड् इ᳓ति होवा᳓च ष᳓ड् वा᳓ इ᳓ति होवा᳓च षडृत᳓वः संवत्सरः᳓ संवत्सरो᳓ यज्ञः᳓ समा᳓न᳓म् एत᳓द् अ᳓हर् य᳓त् प्रा᳓यणीयोदयनीयौ᳓ ॥॥

१९

विश्वास-प्रस्तुतिः

क᳘ति᳘ त्वेवे᳘ति॥
पञ्चे᳘ति होवाच प᳘ञ्च वा ऽइ᳘ति होवाच पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्त᳘वः सम्वत्सर᳘स्य सम्वत्सरो᳘ यज्ञः᳘ समान᳘मेतद᳘हर्य्य᳘च्चतुर्व्विᳫँ᳭शमहाव्व्रते[[!!]]॥

मूलम् - श्रीधरादि

क᳘ति᳘ त्वेवे᳘ति॥
पञ्चे᳘ति होवाच प᳘ञ्च वा ऽइ᳘ति होवाच पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्त᳘वः सम्वत्सर᳘स्य सम्वत्सरो᳘ यज्ञः᳘ समान᳘मेतद᳘हर्य्य᳘च्चतुर्व्विᳫँ᳭शमहाव्व्रते[[!!]]॥

मूलम् - Weber

क᳘तिॗ त्वेवे᳘ति ॥
पञ्चे᳘ति होवाच प᳘ञ्च वाऽइ᳘ति होवाच पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्त᳘वः संवत्सर᳘स्य संवत्सरो᳘ यज्ञः᳘ समान᳘मेतद᳘हर्य᳘च्चतुर्विँशमहाव्रते᳟ ॥

मूलम् - विस्वरम्

कति त्वेवेति । पञ्चेति होवाच । पञ्च वा इति होवाच । पांक्तो यज्ञः । पांक्तः पशुः । पंचर्तवः संवत्सरस्य । संवत्सरो यज्ञः । समानमेतदहः- यत् चतुर्विंशमहाव्रते ॥ १९ ॥

हरिस्वामी

कति त्वेवेति । “समानमेतदहर्यदभिजिद्विश्वजितौ”- इत्येते स्वरसामान इत्येतदत्र द्रष्टव्यम् । तयोर्हि स मुदितयोरेकत्वे सति पंच वा अहानि भवंति ॥ १९ ॥

Eggeling
  1. But how many are there really?’–‘Five,’ he replied.–‘Five, indeed,’ he said; ’the sacrifice is fivefold; the sacrificial animal is fivefold 24; there are five seasons in the year, and the sacrifice is the year;

and one and the same day are those two, the Caturviṁśa and the Mahāvrata.;–

मूलम् - Makoto

क᳓ति त्व् ए᳙वे᳓ति ।॥
पञ्चे᳓ति होवा᳓च प᳓ञ्च वा᳓ इ᳓ति होवा᳓च पा᳓ङ्क्तो यज्ञः᳓ पा᳓ङ्क्तः पशुः᳓ प᳓ञ्चर्त᳓वः संवत्सर᳓स्य संवत्सरो᳓ यज्ञः᳓ समा᳓न᳓म् एत᳓द् अ᳓हर् य᳓च् चतुर्विँशमहा᳓व्रते᳓ ॥॥

२०

विश्वास-प्रस्तुतिः

क᳘ति᳘ त्वेवे᳘ति॥
चत्वारी᳘ति होवाच चत्वा᳘रि वा ऽइ᳘ति होवाच च᳘तुष्पादाः पश᳘वः पश᳘वो य᳘ज्ञः[[!!]] समान᳘मेतद᳘हर्य्य᳘त्पृष्ठ्याभिप्लवौ[[!!]]॥

मूलम् - श्रीधरादि

क᳘ति᳘ त्वेवे᳘ति॥
चत्वारी᳘ति होवाच चत्वा᳘रि वा ऽइ᳘ति होवाच च᳘तुष्पादाः पश᳘वः पश᳘वो य᳘ज्ञः[[!!]] समान᳘मेतद᳘हर्य्य᳘त्पृष्ठ्याभिप्लवौ[[!!]]॥

मूलम् - Weber

क᳘तिॗ त्वेवे᳘ति ॥
चत्वारी᳘ति होवाच चत्वा᳘रि वाऽइ᳘ति होवाच च᳘तुष्पादाः पश᳘वः पश᳘वो यज्ञः᳘ समान᳘मेतद᳘हर्य᳘त्पृष्ठ्याभिप्लवौ᳟ ॥

मूलम् - विस्वरम्

कति त्वेवेति । चत्वारीति होवाच । चत्वारि वा इति होवाच । चतुष्पादाः पशवः । पशवो यज्ञः । समानमेतदहः- यत् पृष्ठ्याभिप्लवौ ॥ २० ॥

हरिस्वामी

कति त्वेवेति । अत्राप्येतत् द्रष्टव्यम् । समानमेतदहर्यदभिजित् । कुतः ? पूर्वेषां समानानुवचनानां प्रदर्शनार्थत्वात् । एवं सति चतुष्कोपपत्तेः ॥ २० ॥

Eggeling
  1. But how many are there really?’–‘Four,’ he replied.–‘Four, indeed,’ he said; ‘animals are four-footed, and animals constitute a sacrifice; and one and the same day are those two, the Pr̥shṭḥya and Abhiplava;–
मूलम् - Makoto

क᳓ति त्व् ए᳙वे᳓ति ।॥
चत्वा᳓री᳓ति होवा᳓च चत्वा᳓रि वा᳓ इ᳓ति होवा᳓च च᳓तुष्पा᳓दाः᳓ पश᳓वः पश᳓वो यज्ञः᳓ समा᳓न᳓म् एत᳓द् अ᳓हर् य᳓त् पृष्ठ्या᳓भिप्लवौ᳓ ॥॥

२१

विश्वास-प्रस्तुतिः

क᳘ति᳘ त्वेवे᳘ति॥
त्रीणी᳘ति होवाच त्री᳘णि वा ऽइ᳘ति होवाच त्री᳘णि च्छ᳘न्दाᳫँ᳭सि त्र᳘यो लोकास्त्रि᳘सवनो यज्ञः᳘ समान᳘मेतद᳘हर्य्य᳘दभिजिद्विश्वजितौ[[!!]]॥

मूलम् - श्रीधरादि

क᳘ति᳘ त्वेवे᳘ति॥
त्रीणी᳘ति होवाच त्री᳘णि वा ऽइ᳘ति होवाच त्री᳘णि च्छ᳘न्दाᳫँ᳭सि त्र᳘यो लोकास्त्रि᳘सवनो यज्ञः᳘ समान᳘मेतद᳘हर्य्य᳘दभिजिद्विश्वजितौ[[!!]]॥

मूलम् - Weber

क᳘तिॗ त्वेवे᳘ति ॥
त्रीणी᳘ति होवाच त्री᳘णि वाऽइ᳘ति होवाच त्री᳘णि छ᳘न्दाँसि त्र᳘यो लोकास्त्रि᳘सवनो यज्ञः᳘ समान᳘मेतद᳘हर्य᳘दभिजिद्विश्वजि᳘तौ ॥

मूलम् - विस्वरम्

कति त्वेवेति । त्रीणीति होवाच । त्रीणि वा इति होवाच । त्रीणि च्छंदांसि । त्रयो लोकाः । त्रिसवनो यज्ञः । समानमेतदहः- यदभिजिद्विश्वजितौ ॥ २१ ॥

हरिस्वामी

कति त्वेवेति । ‘समानमेतदहर्यदभिजिद्विश्वजितौ’ इत्येतदत्र द्रष्टव्यम् । एवं सति त्रित्वोपपत्तेः ॥ २१ ॥

Eggeling
  1. But how many are there really?’–‘Three,’ he replied.–‘Three, indeed,’ he said; ’there are three metres, three worlds; and the (Soma-) sacrifice consists of three services; and one and the same day are those two, the Abhijit and Viśvajit;–
मूलम् - Makoto

क᳓ति त्व् ए᳙वे᳓ति ।॥
त्री᳓णी᳓ति होवा᳓च त्री᳓णि वा᳓ इ᳓ति होवा᳓च त्री᳓णि छ᳓न्दाँ᳓सि त्र᳓यो लोका᳓स् त्रि᳓सवनो यज्ञः᳓ समा᳓न᳓म् एत᳓द् अ᳓हर् य᳓द् अभिजिद्विश्वजि᳓तौ ॥॥

२२

विश्वास-प्रस्तुतिः

क᳘ति᳘ त्वेवे᳘ति॥
द्वे ऽइ᳘ति होवाच द्वे वा ऽइ᳘ति होवाच द्विपाद्वै पुरुषः[[!!]] पु᳘रुषो यज्ञः᳘ समान᳘मेतद᳘हर्य्यत्स्व᳘रसामानः॥

मूलम् - श्रीधरादि

क᳘ति᳘ त्वेवे᳘ति॥
द्वे ऽइ᳘ति होवाच द्वे वा ऽइ᳘ति होवाच द्विपाद्वै पुरुषः[[!!]] पु᳘रुषो यज्ञः᳘ समान᳘मेतद᳘हर्य्यत्स्व᳘रसामानः॥

मूलम् - Weber

क᳘तिॗ त्वेवे᳘ति ॥
द्वेऽइ᳘ति होवाच द्वे वाऽइ᳘ति होवाच द्विपाद्वै पु᳘रुषः पु᳘रुषो यज्ञः᳘ समान᳘मेतद᳘हर्यत्स्व᳘रसामानः ॥

मूलम् - विस्वरम्

कति त्वेवेति । द्वे इति होवाच । द्वे वा इति होवाच । द्विपाद्वै पुरुषः । पुरुषो यज्ञः । समानमेतदहः- यत्स्वरसामानः ॥ २२ ॥

हरिस्वामी

कति त्वेवेति । ‘समानमेतदहर्यत् स्वरसामानः’ इति चतुर्विंशाभिप्लवौ इत्येतदत्र द्रष्टव्यम् । एवमेतद्वित्वोपपत्तेः ॥ २२ ॥

Eggeling
  1. But how many are there really?’–‘Two,’ he replied.–‘Two, indeed,’ he said; ‘for man is two-footed, and the sacrifice is man; and one and the same day are the Svarasāmans;–
मूलम् - Makoto

क᳓ति त्व् ए᳙वे᳓ति ।॥
द्वे᳓ इ᳓ति होवा᳓च द्वे᳓ वा᳓ इ᳓ति होवा᳓च द्विपा᳓द् वै᳓ पु᳓रुषः पु᳓रुषो यज्ञः᳓ समा᳓न᳓म् एत᳓द् अ᳓हर् य᳓त् स्व᳓रसा᳓मा᳓नः ॥॥

२३

विश्वास-प्रस्तुतिः

क᳘ति᳘ त्वेवे᳘ति॥
(त्ये) एकमि᳘ति[[!!]] होवाचा᳘हरेवे᳘ति त᳘देतद᳘हरहरि᳘ति स᳘र्व्वᳫँ᳭ संवत्सर᳘ᳫँ᳘ सैषा᳘ संवत्सर᳘स्योपनिषत्स यो᳘ हैव᳘मेता᳘ᳫँ᳘ संवत्सर᳘स्योपनिष᳘दं व्वेदा᳘ हास्माच्छ्रे᳘याञ्जायते सा᳘त्मा भवति सम्वत्सरो᳘ भवति सम्वत्सरो[[!!]] भूत्वा᳘ देवान᳘प्येति॥

मूलम् - श्रीधरादि

क᳘ति᳘ त्वेवे᳘ति॥
(त्ये) एकमि᳘ति[[!!]] होवाचा᳘हरेवे᳘ति त᳘देतद᳘हरहरि᳘ति स᳘र्व्वᳫँ᳭ संवत्सर᳘ᳫँ᳘ सैषा᳘ संवत्सर᳘स्योपनिषत्स यो᳘ हैव᳘मेता᳘ᳫँ᳘ संवत्सर᳘स्योपनिष᳘दं व्वेदा᳘ हास्माच्छ्रे᳘याञ्जायते सा᳘त्मा भवति सम्वत्सरो᳘ भवति सम्वत्सरो[[!!]] भूत्वा᳘ देवान᳘प्येति॥

मूलम् - Weber

क᳘तिॗ त्वेवे᳘ति ॥
ए᳘कमि᳘ति होवाचा᳘हरेवे᳘ति त᳘देतद᳘हरहरि᳘ति स᳘र्वँ संवत्सरँॗ सैषा᳘ संवत्सर᳘स्योपनिषत्स यो᳘ हैव᳘मेताँ᳘ संवत्सर᳘स्योपनिष᳘दं वेदा᳘ हास्माच्छ्रे᳘यान्जायते सा᳘त्मा भवति संवत्सरो᳘ भवति संवत्सरो᳘ भूत्वा᳘ देवान᳘प्येति ॥ ब्राह्मणम् ॥ ६[२.२.] ॥ ॥

मूलम् - विस्वरम्

कति त्वेवेति । एकमिति होवाच । अहरेवेति । तदेतदहरहरिति सर्वं संवत्सरम् । सैषा संवत्सरस्योपनिषत् । स यो हैवमेतां संवत्सरस्योपनिषदं वेद । आ हास्मात् श्रेयान् जायते । सात्मा भवति । संवत्सरो भवति । संवत्सरो भूत्वा देवानप्येति ॥ २३ ॥

हरिस्वामी

कति त्वेवेति । “समानमेतदहर्यत्प्रायणीयश्चतुर्विंशः” इत्येतदत्र द्रष्टव्यम् । एवमेवैकत्वोपपत्तेः । (सर्वेषु । तवैतेष्ठस्तेसिति ?) अहरिति प्रत्यासत्तिकृतमेकत्वमिति वाच्यम् । तदेतदहहररिति सर्वं संवत्सरारंभाय वक्ष्यते प्रतिपत्तिर्वेति प्रत्यभिज्ञायैकमाह- एवं चात्र प्रायणीये ऽतिरात्रे संवत्सर उपसंहृतः । तथा च- “यदेवादः प्रायणीये ऽतिरात्रमुपयन्ति” इत्येतद्दर्शयिष्यति । ‘सैषा संवत्सरस्योपनिषत्’ । संक्षिप्ता सा एषा दशरात्रपृष्ठ्यविंशत्यादिः संवत्सरस्योपनिषत् । उप समीपे प्राप्ताया सर्तुनियतं सीदंत्यनयेत्युपनिषत् । संक्षिप्तः संवत्सरस्य प्रतिपत्युपाय इत्यर्थः । आजायते एवास्मात् श्रेयान् पुत्रः । स्वयं च सात्मा भवति । अहमात्मना स्थिरेण दैवेनेत्यभिप्रायः । संवत्सरः स्वभूत्या देवानां स्वेंद्रियाधिष्ठाता भूत्वा देवानाप्नोति ॥ २३ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे द्वितीये ऽध्याये द्वितीयं ब्राह्मणम् ॥ १२ । २ । २ ॥

Eggeling
  1. But how many are there really?’–‘One,’ he replied.–‘A day, indeed,’ he said; ’the whole year is just that day after day:’–this is the mystic import of the year; and, verily, whosoever thus knows this mystic import 25 of the year grows more (and more) glorious up to (the end of) it; he becomes possessed of a (new) body, he becomes the year, and in the shape of the year he joins the gods.
मूलम् - Makoto

क᳓ति त्व् ए᳙वे᳓ति ।॥
ए᳓कम् इ᳓ति होवा᳓चा᳓हर् एवे᳓ति त᳓द् एत᳓द् अ᳓हरहर् इ᳓ति स᳓र्वँ संवत्सरँ᳓ सै᳙षा᳓ संवत्सर᳓स्योपनिष᳓त् स᳓ यो᳓ हैव᳓म् एताँ᳓ संवत्सर᳓स्योपनिष᳓दं वेदा᳓ हा᳓स्मा᳓च् छ्रे᳓या᳓न् जा᳓यते सा᳓त्मा᳓ भवति संवत्सरो᳓ भवति संवत्सरो᳓ भूत्वा᳓ देवा᳓न् अ᳓प्येति ॥॥


  1. 148:1 The difference between the Abhiplava-shaḍaha and the Pr̥shṭḥya-shaḍaha was thus explained in part iii, introd., p. xxi, note 2:–‘In both kinds of shaḍaha, the Pr̥shṭḥa-stotras (at the Mādhyandina-savana) are performed in the ordinary way–viz. either in the Agnishṭoma or the Ukthya way (see ib., p. xvi, note 2, as the correct reference is);–but whilst, in the Abhiplava-shaḍaha, the Rathantara and Br̥hat-sāmans are used for the Hotr̥’s Pr̥shṭḥa-stotra on alternate days, the Pr̥shṭḥya-shaḍaha requires a different Pr̥shṭḥa-sāman on each of the six days. The two kinds of shaḍahas also differ entirely in regard to the sequence of Stomas prescribed for the performance of the Stotras.’ It is this difference in the ‘sequence of Stomas’ which is referred to in our passage. On the six days of the Abhiplava-shaḍaha, the sequence of Stomas (the first four of which, viz. Trivr̥t, Pañcadaśa, Saptadaśa, and Ekaviṁśa, are only used) varies from day to day in this way: 1. Jyotishṭoma; 2. Goshṭoma; 3. Āyushṭoma; 4. Goshṭoma; 5. Āyushṭoma; 6. Jyotishṭoma (for the difference between these, see part iv, p. 287, note 2). It will thus be seen that the Abhiplava has the ‘jyotih (stoma)’ on both sides, on the first and the last days. For the Hotr̥’s Pr̥shṭḥa-stotra on these successive days the Rathantara-sāman and Br̥hat-sāman are used; and, as the Goshṭoma and Āyushṭoma are Ukthya-days, the usual practice which requires the Br̥hat-sāman for such days, is not followed; just as the final Jyotishṭoma in this case requires the Br̥hat-sāman.–As regards the Pr̥shṭḥya-shaḍaha, each successive day requires for its stotras a single Stoma, in the ascending order: Trivr̥t, Pañcadaśa, Saptadaśa, Ekaviṁśa, Triṇava, Trayastriṁśa;–a different Pr̥shṭḥa-sāman being used for the Hotr̥’s Pr̥shṭḥa-stotra on each of the six days. Here only the first day has the same Stoma at the beginning, as the Jyotishṭoma,–whence it has ‘jyotis’ on one side only. ↩︎

  2. 149:1 This ‘pr̥shṭḥyapratishṭḥite’ looks rather strange,–perhaps the correct reading is ‘pr̥shṭḥapratishṭḥite,’ ’established on the pr̥shṭḥa-sāmans’; unless, indeed, ‘pratishṭḥita’ has to be understood here to refer to the Abhiplava, as the established, or ordinary, Shaḍaha, which doubtless would make the best sense,–’those two wheels of the gods, the Pr̥shṭḥya and the established (Abhiplava-) shaḍaha.’ ↩︎

  3. 149:2 Or, as we would rather say, whilst revolving, crush the Sacrificer’s evil. ↩︎

  4. 149:3 ? Or, possibly, two kinds of threads, those of the warp and the woof (or weft), which are combined into one web. The St. Petersb. Dict., on the other hand, takes ’tantra’ here in the sense of ‘model form, type,’–and, indeed, the one meaning constantly passes into the other. The MS. of the comm. is too corrupt to be of much use. ↩︎

  5. 150:1 This is a doubtful rendering of ’ekoti.’ Though, doubtless, the juxtaposition of ’ekoti’ and ‘samānam ūtim’ cannot be accidental, the word ‘ūti’ may probably have a different derivation and meaning in the two occurrences. Cf. Kern, Saddharmapuṇḍarīka, introd., p. xvii; Journ. of the Pāli Text Society, 1885, pp. 32-38. ↩︎

  6. 150:2 During five complete months of the first half, and four complete months of the second half, of the year four Abhiplava-shaḍahas and one Pr̥shṭḥya-shaḍaha are performed. Now, the six clays of the Abhiplava-shaḍaha consist of 1. Agnishṭoma; 2-5. Ukthyas; 6. Agnishṭoma; and those of the Pr̥shṭḥya-shaḍaha of 1. Agnishṭoma; 2. 3. Ukthya; 4. Shoḍaśin; 5.6. Ukthya. For the four Abhiplavas and the one Pr̥shṭḥya of each month this, accordingly, gives nine Agnishṭomas, twenty Ukthyas, and one Shoḍaśin (counted, however, as an Ukthya in paragraphs 6 and 7). ↩︎

  7. 150:3 The reason why the Sun is so often referred to as the twenty-first or twenty-one-fold, is not easy to discover. Possibly it may be from the fact that the Vishuvat day, or central day of the great session and the longest day of the year, is identified with the Sun, and that this day is flanked on both sides by ten special days which together with the central day, form a special group of twenty-one days. But, on the other hand, it may be exactly the other way, viz. that this central group was made one of twenty-one nays because of the already recognised epithet of Āditya as the ’ekaviṁśa.’ Cf. A. Hillebrandt, Die Sonnwendfeste in Alt-Indien, p. 6 seq. ↩︎

  8. 151:1 Here the twenty-one Ukthyas are symbolically identified with the twenty-one-versed hymn-form; and the nine Agnishṭomas (of paragraph 5) with the Br̥hatī metre which consists of four pādas of nine syllables each. ↩︎

  9. शद्वै᳘चाः᳘ A. ↩︎

  10. 151:2 This number is evidently arrived at by counting the twenty Ukthyas as Agnishṭomas (hence 9 + 20), and adding thereto five more Agnishṭomas obtained by the calculation referred to in paragraph 12 (see note thereon), according to which the characteristic Stotras and Sastras of the Ukthya make one additional Agnishṭoma in every four Ukthyas. The Shoḍaśin, thus, is not taken into account in this calculation. ↩︎

  11. 152:1 Besides the Rathantara and Br̥hat, used on alternate days for the Hotr̥’s Pr̥shṭḥa-stotra at the Abhiplava, the Vāmadevya and Kāleya-sāmans, used on each day for the Maitrāvaruṇa’s and Acchāvāka’s Pr̥shṭḥa-stotras, seem to be counted here as making up the four Pr̥shṭḥa-sāmans of the Abhiplava-shaḍaha. For the four Stomas, see p. 148, note. ↩︎

  12. 152:2 See ib., and part iii, introd., p. xxi. ↩︎

  13. 152:3 The ‘iva’ would seem here (as, indeed, pretty frequently) to have the meaning of ’eva,’ ‘indeed,’ thus–coming considerably after (the gods). Cf. Ait.-Brāhm. IV, 17, 5, where the Aṅgiras are said to have reached heaven sixty years after the Ādityas. ↩︎

  14. 152:4 This etymology is of course not meant to be taken seriously, the word ‘pr̥shṭḥya’ being derived from ‘pr̥shṭḥa,’ ‘back’ (XII, 1, 4, 1). ↩︎

  15. 153:1 See p. 148, note; part iv, p. 287, note 2. ↩︎

  16. 153:2 These two principal Pr̥shṭḥa-sāmans are used on alternate days of the Abhiplava-shaḍaha for the first (or Hotr̥’s) Pr̥shṭḥa-stotra at the midday-service. ↩︎

  17. 153:3 Viz. with the four Stomas used at the ordinary Agnishṭoma-sacrifice. ↩︎

  18. 153:4 Whilst the Agnishṭoma includes twelve Stotras and twelve Śastras, the Ukthya-sacrifice has three additional (Uktha-) Stotras and Sastras, which in the four Ukthya days of the Abhiplava-shaḍaha make up another twelve chants and twelve recitations. ↩︎

  19. 153:5 That is, either a descendant of Kuśāmba; or, as Harisvāmin takes it, a native of the city Kauśāmbī; cf. Weber, Ind. Stud. I, p. 193.–Prakr̥shṭabhūpati-kośāmbīnivāsi-kusurabindasyāpatyam; MS. comm. ↩︎

  20. 153:6 Harisvāmin applies to the father the epithet ‘mahāyājñika,’ or performer of the great sacrifices. ↩︎

  21. छिरा᳘ड्वै A. ↩︎

  22. स᳘प्त वा इ᳘ति AP. ↩︎

  23. 154:1 In the scheme of the Gavām ayanam, given above (p. 139, note 1), there is one day in excess of the year, viz. either the central Vishuvat day (XII, 2, 3, 6) or the final Atirātra; but by making this latter day identical with the opening Atirātra, Uddālaka would seem to bring the whole within the compass of one year of six seasons. In the next paragraph, on the other hand, the same result is obtained by the identification of the second and the last but one days of the session. Another, and perhaps more probable, explanation of Uddālaka’s calculation would, however, be this. In the scheme of the sacrificial session there occur, as not included in the different sacrificial groups or periods (the shaḍahas, svarasāmans, &c.), seven special days–the opening and final Atirātras, the Caturviṁśa and Mahāvrata days, and the Abhijit, Vishuvat, and Viśvajit days. These seven days he here successively reduces to six and five days. The further reduction of this number by the identification of the Pr̥shṭḥya and Abhiplava, as well as of the Svarasāman days, requires no explanation. Cf., however, the Addenda. ↩︎

  24. 154:2 For the ‘pāṅkta’ nature of the sacrifice, see III, 1, 4, 19. 20; XIII, 2, 5, 1, for the five kinds of sacrificial animals, VI, 1, 2, 32 seqq. ↩︎

  25. 155:1 Prof. Oldenberg (Zeitschr. d. Deutschen Morg. Ges., vol. 50, p. 460) takes ‘upanishad’ in the sense of ‘worship’–’this is the worship to be offered to the year.’ Perhaps ‘meditation’ might be the more appropriate rendering:–’this is the form in which the year should be meditated upon.’ Cf. X, 4, 5, 1; 5, I, 1. ↩︎