०१
विश्वास-प्रस्तुतिः
समुद्रं वा᳘ ऽएते प्रत᳘रन्ति[[!!]]॥
ये᳘ संवत्सरा᳘य दी᳘क्षन्ते त᳘स्य तीर्थ᳘मेव᳘ प्रायणी᳘यो ऽतिरा᳘त्रस्ती᳘र्थेन हि᳘ प्रस्ना᳘न्ति तद्य᳘त्प्रायणी᳘यमतिरात्र᳘मुपय᳘न्ति य᳘था तीर्थे᳘न समुद्र᳘म्प्रस्नायु᳘स्तादृक्त᳘त्॥
मूलम् - श्रीधरादि
समुद्रं वा᳘ ऽएते प्रत᳘रन्ति[[!!]]॥
ये᳘ संवत्सरा᳘य दी᳘क्षन्ते त᳘स्य तीर्थ᳘मेव᳘ प्रायणी᳘यो ऽतिरा᳘त्रस्ती᳘र्थेन हि᳘ प्रस्ना᳘न्ति तद्य᳘त्प्रायणी᳘यमतिरात्र᳘मुपय᳘न्ति य᳘था तीर्थे᳘न समुद्र᳘म्प्रस्नायु᳘स्तादृक्त᳘त्॥
मूलम् - Weber
समुद्रं वा᳘ऽएते प्र᳘तरन्ति ॥
ये᳘ संवत्सरा᳘य दीक्षन्ते त᳘स्य तीर्थ᳘मेव᳘ प्रायणी᳘योऽतिरा᳘त्रस्ती᳘र्थेन हि᳘ प्रस्ना᳘न्ति तद्य᳘त्प्रायणी᳘यमतिरात्र᳘मुपय᳘न्ति य᳘था तीर्थे᳘न समुद्रं᳘ प्रस्नायु᳘स्तादृक्त᳘त् ॥
मूलम् - विस्वरम्
सम्वत्सरे समुद्रतरणोपासनम् ।
समुद्रं वा एते प्रतरन्ति । ये संवत्सराय दीक्षन्ते । तस्य तीर्थमेव प्रायणीयो ऽतिरात्रः । तीर्थेन हि प्रस्नांति । तद्यत्प्रायणीयमतिरात्रमुपयन्ति । यथा तीर्थेन समुद्रं प्रस्नायुः । तादृक्तत् ॥ १ ॥
हरिस्वामी
“समुद्रं वा” एताभिः पंचभिः कण्डिकाभिः संवत्सरे समुद्रप्रतरणोपासनमुच्यते । तीर्थगाधोद्ध्युत्तरणपुनःप्रतरणानि च प्रायणीयादीनां नामान्येतानि प्रदर्श्यन्ते । उपासनारूपत्वाच्च फलम् । संवत्सरो ऽप्यत्र ईदृश एव द्रष्टव्यः । ‘प्रस्नांति’ “ष्णा शौचे” (धा. पा. अ. प. ४२) इत्येषः प्रपूर्वः प्रतरणे वर्तते । प्रतरतीत्यर्थः । ‘प्रस्नायुः’ प्रतरेयुः ॥ १ ॥
Eggeling
- Verily, those who become initiated for (a sacrificial session of) a year cross an ocean: the Prāyaṇīya Atirātra is a flight of steps 1, for it is by means of a flight of steps that one enters (the water); and
when they enter on the Prāyaṇīya Atirātra it is just as if they were entering the ocean by a flight of steps.
मूलम् - Makoto
समुद्रं᳓ वा᳓ एते᳓ प्र᳓तरन्ति ।॥
ये᳓ संवत्सरा᳓य दीक्षन्ते त᳓स्य तीर्थ᳓म् एव᳓ प्रा᳓यणी᳓यो ऽतिरा᳓त्रस् ती᳓र्थेन हि᳓ प्रस्ना᳓न्ति त᳓द् य᳓त् प्रा᳓यणी᳓यम् अतिरा᳓त्र᳓म् उपय᳓न्ति य᳓था᳓ तीर्थे᳓न समुद्रं᳓ प्रस्ना᳓यु᳓स् ता᳓दृ᳓क्त᳓त् ॥॥
०२
विश्वास-प्रस्तुतिः
(द्गा) गाध᳘मेव᳘ प्रतिष्ठा᳘ चतुर्व्विᳫँ᳭शम᳘हः[[!!]]॥
(र्य्य᳘) य᳘थोपपक्षदघ्न᳘म्वा कण्ठदघ्नं᳘ वा य᳘तो व्विश्र᳘म्य प्रस्ना᳘न्ति प्रस्ने᳘यो ऽभिप्लवः᳘ प्रस्ने᳘यः पृ᳘ष्ठ्यः॥
मूलम् - श्रीधरादि
(द्गा) गाध᳘मेव᳘ प्रतिष्ठा᳘ चतुर्व्विᳫँ᳭शम᳘हः[[!!]]॥
(र्य्य᳘) य᳘थोपपक्षदघ्न᳘म्वा कण्ठदघ्नं᳘ वा य᳘तो व्विश्र᳘म्य प्रस्ना᳘न्ति प्रस्ने᳘यो ऽभिप्लवः᳘ प्रस्ने᳘यः पृ᳘ष्ठ्यः॥
मूलम् - Weber
गाध᳘मेव᳘ प्रतिष्ठा᳘ चतुर्विँश᳘म᳘हः ॥
य᳘थोपपक्षदघ्नं᳘ वा कण्ठदघ्नं᳘ वा य᳘तो विश्र᳘म्य प्रस्ना᳘न्ति प्रस्ने᳘योऽभिप्लवः᳘ प्रस्ने᳘यः पृ᳘ष्ठ्यः ॥
मूलम् - विस्वरम्
गाधमेव प्रतिष्ठा चतुर्विंशमहः । यथोपपक्षदघ्नं वा कंठदघ्नं वा यतो विश्रम्य प्रस्नांति । प्रस्नेयो ऽभिप्लवः । प्रस्नेयः पृष्ठ्यः ॥ २ ॥
हरिस्वामी
गाधमेव ग्राह्यम् अल्पोदकम् । प्रतितिष्ठत्यस्यामितिं ‘प्रतिष्ठा’ । ‘उपपक्षदघ्नं’ पक्षयोः समीपमुपपक्षं प्रमाणमस्य उपपक्षदघ्नम् । कण्ठप्रमाणं ‘कण्ठदघ्नं’ । ‘प्रस्नेयः’ प्रस्नानार्हः प्रतरणार्ह इत्यर्थः ॥ २ ॥
Eggeling
मूलम् - Makoto
गा᳓ध᳓म् एव᳓ प्रतिष्ठा᳓ चतुर्विँश᳓म् अ᳓हः ।॥
य᳓थोपपक्षदघ्नं᳓ वा᳓ कण्ठदघ्नं᳓ वा᳓ य᳓तो विश्र᳓म्य प्रस्ना᳓न्ति प्रस्ने᳓यो ऽभिप्लवः᳓ प्रस्ने᳓यः पृ᳓ष्ठ्यः ॥॥
०३
विश्वास-प्रस्तुतिः
(ष्ठ्यो) गाध᳘मेव᳘ प्रति᳘ष्ठा ऽभिजित्[[!!]]॥
(द्य᳘) य᳘थोपपक्षदघ्नं᳘ वा कण्ठदघ्नं᳘ वा य᳘तो व्विश्र᳘म्योत्क्रा᳘मन्त्यूरुदघ्न᳘ ऽएव᳘ प्रथमः स्व᳘रसामा जानुदघ्नो᳘ द्विती᳘यः कुल्फदघ्न᳘स्तृती᳘यो द्वीपः᳘ प्रतिष्ठा᳘ व्विषुवा᳘न्कुल्फदघ्न᳘ ऽएव᳘ प्रथ᳘मो ऽर्व्वा᳘क्सामा जानुदघ्नो᳘ द्विती᳘य ऽऊरुदघ्न᳘स्तृती᳘यः॥
मूलम् - श्रीधरादि
(ष्ठ्यो) गाध᳘मेव᳘ प्रति᳘ष्ठा ऽभिजित्[[!!]]॥
(द्य᳘) य᳘थोपपक्षदघ्नं᳘ वा कण्ठदघ्नं᳘ वा य᳘तो व्विश्र᳘म्योत्क्रा᳘मन्त्यूरुदघ्न᳘ ऽएव᳘ प्रथमः स्व᳘रसामा जानुदघ्नो᳘ द्विती᳘यः कुल्फदघ्न᳘स्तृती᳘यो द्वीपः᳘ प्रतिष्ठा᳘ व्विषुवा᳘न्कुल्फदघ्न᳘ ऽएव᳘ प्रथ᳘मो ऽर्व्वा᳘क्सामा जानुदघ्नो᳘ द्विती᳘य ऽऊरुदघ्न᳘स्तृती᳘यः॥
मूलम् - Weber
गाध᳘मेव᳘ प्रतिॗष्ठाभिजि᳟त् ॥
य᳘थोपपक्षदघ्नं᳘ वा कण्ठदघ्नं᳘ वा य᳘तो विश्र᳘म्योत्क्रा᳘मन्त्यूरुदघ्न᳘ एव᳘ प्रथमः स्व᳘रसामा जानुदघ्नो᳘ द्विती᳘यः कुल्फदघ्न᳘स्तृती᳘यो द्वीपः᳘ प्रतिष्ठा᳘ विषुवा᳘न्कुल्फदघ्न᳘ एव᳘ प्रथॗमोऽर्वा᳘क्सामा जानुदघ्नो᳘ द्विती᳘य ऊरुदघ्न᳘स्तृती᳘यः ॥
मूलम् - विस्वरम्
गाधमेव प्रतिष्ठा ऽभिजित् । यथोपपक्षदघ्नं वा कण्ठदघ्नं वा यतो विश्रम्योत्क्रामन्ति । ऊरुदघ्न एव प्रथमः स्वरसामा । जानुदघ्नो द्वितीयः । कुल्फदघ्नस्तृतीयः । द्वीपः प्रतिष्ठा विषुवान् । कुल्पदघ्न एव प्रथमो ऽर्वाक्सामा । जानुदघ्नो द्वितीयः । ऊरुदघ्नस्तृतीयः ॥ ३ ॥
हरिस्वामी
सर्वान् कामान् अर्वाक् सुवृत्तः । अर्वाक् स च सामा इत्येवं प्राप्ते शाकपार्थिवादिवत्तत्पदलोपसमासः ॥ ३ ॥ ४ ॥
Eggeling
- The Abhijit is a foothold, a shallow place, such a one as (where the water reaches) either to the arm-pits, or to the neck, whence, having rested, they come out (of the water). The first Svarasāman is thigh-deep, the second knee-deep, the third knuckle-deep. The Vishuvat is a foothold (in the form of) an island. The first (Svarasāman) with reversed Sāmans is knuckle-deep, the second knee-deep, and the third thigh-deep.
मूलम् - Makoto
गा᳓ध᳓म् एव᳓ प्रतिष्ठा᳙भिजि᳓त् ।॥
य᳓थोपपक्षदघ्नं᳓ वा᳓ कण्ठदघ्नं᳓ वा᳓ य᳓तो विश्र᳓म्योत्क्रा᳓मन्त्य् ऊरुदघ्न᳓ एव᳓ प्रथमः᳓ स्व᳓रसा᳓मा᳓ जा᳓नुदघ्नो᳓ द्विती᳓यः कुल्फदघ्न᳓स् तृती᳓यो द्वीपः᳓ प्रतिष्ठा᳓ विषुवा᳓न् कुल्फदघ्न᳓ एव᳓ प्रथमो᳙ ऽर्वा᳓क्सा᳓मा᳓ जा᳓नुदघ्नो᳓ द्विती᳓य ऊरुदघ्न᳓स् तृती᳓यः ॥॥
०४
विश्वास-प्रस्तुतिः
(यो) गाध᳘मेव᳘ प्रतिष्ठा᳘ व्विश्वजित्[[!!]]॥
(द्य᳘) य᳘थोपपक्षदघ्नं᳘ वा कण्ठदघ्नं᳘ वा य᳘तो व्विश्र᳘म्य प्रस्ना᳘न्ति प्रस्ने᳘यः पृ᳘ष्ठ्यः प्रस्ने᳘यो ऽभिप्लवः᳘ प्रस्ने᳘ये गो ऽआयु᳘षी प्रस्ने᳘यो दशरात्रः᳘[[!!]]॥
मूलम् - श्रीधरादि
(यो) गाध᳘मेव᳘ प्रतिष्ठा᳘ व्विश्वजित्[[!!]]॥
(द्य᳘) य᳘थोपपक्षदघ्नं᳘ वा कण्ठदघ्नं᳘ वा य᳘तो व्विश्र᳘म्य प्रस्ना᳘न्ति प्रस्ने᳘यः पृ᳘ष्ठ्यः प्रस्ने᳘यो ऽभिप्लवः᳘ प्रस्ने᳘ये गो ऽआयु᳘षी प्रस्ने᳘यो दशरात्रः᳘[[!!]]॥
मूलम् - Weber
गाध᳘मेव᳘ प्रतिष्ठा᳘ विश्वजि᳟त् ॥
य᳘थोपपक्षदघ्नं᳘ वा कण्ठदघ्नं᳘ वा य᳘तो विश्र᳘म्य प्रस्ना᳘न्ति प्रस्ने᳘यः पृ᳘ष्ठ्यः प्रस्ने᳘योऽभिप्लवः᳘ प्रस्ने᳘ये गोऽआयु᳘षी प्रस्ने᳘यो दशरा᳘त्रः ॥
मूलम् - विस्वरम्
गाधमेव प्रतिष्ठा विश्वजित् । यथोपपक्षदघ्नं वा कण्ठदघ्नं वा यतो विश्रम्य प्रस्नान्ति । प्रस्नेयः पृष्ठ्यः । प्रस्नेयो ऽभिप्लवः । प्रस्नेये गोआयुषी । प्रस्नेयो दशरात्रः ॥ ४ ॥
हरिस्वामी
[व्याख्यानं तृतीये]
Eggeling
- The Viśvajit is a foothold, a shallow place, such a one as (where the water reaches) either to the arm-pits or to the neck, whence, having rested, he enters (the deep water again). The Pr̥shṭḥya is suitable for swimming, and so is the Abhiplava, and so are the Go and Āyus, and so is the Daśarātra.
मूलम् - Makoto
गा᳓ध᳓म् एव᳓ प्रतिष्ठा᳓ विश्वजि᳓त् ।॥
य᳓थोपपक्षदघ्नं᳓ वा᳓ कण्ठदघ्नं᳓ वा᳓ य᳓तो विश्र᳓म्य प्रस्ना᳓न्ति प्रस्ने᳓यः पृ᳓ष्ठ्यः प्रस्ने᳓यो ऽभिप्लवः᳓ प्रस्ने᳓यो गोआ᳓यु᳓षी प्रस्ने᳓यो दशरा᳓त्रः᳓ ॥॥
०५
विश्वास-प्रस्तुतिः
(त्रो᳘) गाध᳘मेव᳘ प्रतिष्ठा᳘ महाव्व्रतम्[[!!]]॥
य᳘थोपपक्षदघ्नं᳘ वा कण्ठदघ्नं᳘ वा य᳘तो व्विश्र᳘म्योत्स्ना᳘न्ति तीर्थ᳘मे᳘वोदयनी᳘यो ऽतिरात्र᳘स्तीर्थे᳘न᳘ ह्युत्स्ना᳘न्ति तद्य᳘दुदयनी᳘यमतिरात्र᳘मुपय᳘न्ति य᳘था तीर्थे᳘न समुद्र᳘म्प्रस्ना᳘य तीर्थे᳘नोत्स्नायु᳘स्तादृक्तत्[[!!]]॥
मूलम् - श्रीधरादि
(त्रो᳘) गाध᳘मेव᳘ प्रतिष्ठा᳘ महाव्व्रतम्[[!!]]॥
य᳘थोपपक्षदघ्नं᳘ वा कण्ठदघ्नं᳘ वा य᳘तो व्विश्र᳘म्योत्स्ना᳘न्ति तीर्थ᳘मे᳘वोदयनी᳘यो ऽतिरात्र᳘स्तीर्थे᳘न᳘ ह्युत्स्ना᳘न्ति तद्य᳘दुदयनी᳘यमतिरात्र᳘मुपय᳘न्ति य᳘था तीर्थे᳘न समुद्र᳘म्प्रस्ना᳘य तीर्थे᳘नोत्स्नायु᳘स्तादृक्तत्[[!!]]॥
मूलम् - Weber
गाध᳘मेव᳘ प्रतिष्ठा᳘ महाव्रत᳟म् ॥
य᳘थोपपक्षदघ्नं᳘ वा कण्ठदघ्नं᳘ वा य᳘तो विश्र᳘म्योत्स्ना᳘न्ति तीर्थ᳘मेॗवोदयनी᳘योऽतिरात्र᳘स्तीर्थे᳘नॗ ह्युत्स्ना᳘न्ति तद्य᳘दुदयनी᳘यमतिरात्र᳘मुपय᳘न्ति य᳘था तीर्थे᳘न समुद्रं᳘ प्रस्ना᳘य तीर्थे᳘नोत्स्नायु᳘स्तादृ᳘क्त᳟त् ॥
मूलम् - विस्वरम्
गाधमेव प्रतिष्ठा महाव्रतम् । यथोपपक्षदघ्नं वा कण्ठदघ्नं वा यतो विश्रम्योत्स्नान्ति । तीर्थमेवोदयनीयो ऽतिरात्रः । तीर्थेन ह्युत्स्नान्ति । तद्यदुदयनीयमतिरात्रमुपयन्ति । यथा तीर्थेन समुद्रं प्रस्नाय तीर्थेनोत्स्नायुः । तादृक्तत् ॥ ५ ॥
हरिस्वामी
‘उत्स्नांति’ उत्तरन्ति ॥ ५ ॥
Eggeling
- The Mahāvrata is a foothold, a shallow place, such a one as (where the water reaches) either to the arm-pits or to the neck, whence, having rested,
they step out (of the water). The Udayanīya (concluding) Atirātra is a flight of steps, for it is by a flight of steps that people step out (of the water): thus, when they perform the Udayanīya Atirātra, it is just as if, having entered the sea by a flight of steps, they were to step out of it, by a flight of steps.
मूलम् - Makoto
गा᳓ध᳓म् एव᳓ प्रतिष्ठा᳓ महा᳓व्रत᳓म् ।॥
य᳓थोपपक्षदघ्नं᳓ वा᳓ कण्ठदघ्नं᳓ वा᳓ य᳓तो विश्र᳓म्योत्स्ना᳓न्ति तीर्थ᳓म् एवो᳙दयनी᳓यो ऽतिरा᳓त्र᳓स् तीर्थे᳓न ह्य् उ᳙त्स्ना᳓न्ति त᳓द् य᳓द् उदयनी᳓यम् अतिरा᳓त्र᳓म् उपय᳓न्ति य᳓था᳓ तीर्थे᳓न समुद्रं᳓ प्रस्ना᳓य तीर्थे᳓नओत्स्ना᳓यु᳓स् ता᳓दृ᳓क् त᳓त् ॥॥
०६
विश्वास-प्रस्तुतिः
(त्त᳘) त᳘दाहुः॥
क᳘ति सम्वत्सर᳘स्यातिरात्राः क᳘त्यग्निष्टोमाः क᳘त्यु᳘क्थ्याः क᳘ति षोडशि᳘नः क᳘ति षडहा ऽइ᳘ति ऽद्वा᳘वतिरात्रौ ष᳘ट्शतमग्निष्टोमा[[!!]] द्वे᳘ चत्वारिᳫँ᳭शे᳘ शते᳘ ऽउ᳘क्थ्यानामि᳘ति[[!!]] नु य᳘ ऽउ᳘क्थ्यान्त्स्व᳘रसाम्न ऽउपयन्ति[[!!]]॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘दाहुः॥
क᳘ति सम्वत्सर᳘स्यातिरात्राः क᳘त्यग्निष्टोमाः क᳘त्यु᳘क्थ्याः क᳘ति षोडशि᳘नः क᳘ति षडहा ऽइ᳘ति ऽद्वा᳘वतिरात्रौ ष᳘ट्शतमग्निष्टोमा[[!!]] द्वे᳘ चत्वारिᳫँ᳭शे᳘ शते᳘ ऽउ᳘क्थ्यानामि᳘ति[[!!]] नु य᳘ ऽउ᳘क्थ्यान्त्स्व᳘रसाम्न ऽउपयन्ति[[!!]]॥
मूलम् - Weber
त᳘दाहुः ॥
क᳘ति संवत्सर᳘स्यातिरात्राः क᳘त्यग्निष्टोमाः क᳘त्युॗक्थ्याः क᳘ति षोडशिनः क᳘ति षडहा इ᳘ति द्वा᳘वतिरात्रौ ष᳘ट्शतमग्निष्टो᳘मा द्वे᳘ चत्वा᳘रिँशे शते᳘ऽउॗक्थ्याना᳘मिति नु य᳘ऽउॗक्थ्यान्त्स्व᳘रसाम्न उपय᳟न्ति ॥
मूलम् - विस्वरम्
तदाहुः- कति संवत्सरस्यातिरात्राः । कत्यग्निष्टोमाः । कत्युक्थ्याः । कति षोडशिनः । कति षडहा इति । द्वावतिरात्रौ । षट्शतमग्निष्टोमाः । द्वे चत्वारिंशे शते उक्थ्यानाम् । इति नु य उक्थ्यान् स्वरसाम्न उपयन्ति ॥ ६ ॥
हरिस्वामी
तदाहुः । ‘कति’ “श्रद्धाया वै देवाः” इत्यत्र प्रायणीयादीनि सप्तत्रिंशत् सौम्यान्युपक्रम्य “तदेतत्संवत्सरस्य जन्म” इत्युक्तम् । तथा “यद्वै दीक्षंते” इत्यत्रापि तान्येव सप्तत्रिंशतमुपन्यस्य “स एष संवत्सरस्त्रिमहाव्रतः” इत्युक्तम् । तथा “पुरुषो वै संवत्सरः” इत्यत्रापि तान्येवानुक्रांतानि । तथा “समुद्रं वा एते प्रतरन्ति” इत्यत्रापि तान्येवानुक्रांतानि । न च तावतीभिः संवत्सरः पूर्यते । तत्रावश्यं तेषामभ्यासेन संवत्सरः पूरणीयः प्राप्नोति । सः अभ्यासो ऽविशेषात् सर्वेषां तुल्यः प्रसज्यते । तन्निवृत्त्यर्थं पृष्ठ्याभिप्लवयोरेवाभ्यास उच्यते । सो ऽपि च प्रतिमासं चतुःकृत्वः अभिप्लवस्य षष्ठसप्तमद्वादशेषु मासेषु त्रिस्त्रिः, पृष्ठ्यस्य तु सकृत् प्रयोगः, इत्येष कल्पः । संख्याप्रश्नप्रतिवचनाभ्यां कथं (विदेशत्रा ?) क्रियते । द्वावतिरात्रावित्यतिरात्रयोरनावृत्तिं दर्शयति । षट्शतमग्निष्टोमा इति पंचचत्वारिंशदभिप्लवाभ्यासाः । तत्र प्रथमांत्यावग्निष्टोमो उक्थ्या इतरे इति नवतिरभिप्लवाका अग्निष्टोमाः । पार्ष्ठिका द्वादश । प्रतिमासं पृष्ठ्यस्य प्रयोगात् । अभिजित् विश्वजित् महाव्रतं विषुवान् इत्येवं चत्वारो ऽग्निष्टोमाः । इत्येतदंगीकृत्याह- षट्शतमग्निष्टोमा इति । चतुर्विंशं त्वहः अत्र उक्थ्या एव अभिप्रेतम् । द्वे चत्वारिंशे शते उक्थ्यानाम् । प्रतिमासं विंशतिरुक्थ्या भवन्तीत्यभिप्रायः । चतुरभिप्लविके अर्थे स्पष्टमेव षष्ठे मासे ऽत्र छन्दोमाः आयुश्च । अविवाक्यं तु आंतरालिकम् । नोक्थ्येषु नाग्निष्टोमेषु संख्यातम् । एवं तावत् ये उक्थ्याः ‘ते स्वरसाम्न उपयन्ति’ । तेषां संख्या पूरणीया ॥ ६ ॥
Eggeling
- Regarding this they say, ‘How many Atirātras are there in the year, how many Agnishṭomas, how many Ukthyas, how many Shoḍaśins, how many Shaḍahas?’–Two Atirātras, a hundred and six Agnishṭomas, and two hundred and forty Ukthyas,–thus in the case of those who perform the Svarasāmans as Ukthyas.
मूलम् - Makoto
त᳓द् आ᳓हुः ।॥
क᳓ति संवत्सर᳓स्या᳓तिरा᳓त्राः᳓ क᳓त्य् अग्निष्टोमाः᳓ क᳓त्य् उक्थ्याः᳙ क᳓ति षोडशिनः᳓ क᳓ति षडहा᳓ इ᳓ति द्वा᳓व् अतिरा᳓त्रौ᳓ ष᳓ट्शतम् अग्निष्टो᳓मा᳓ द्वे᳓ चत्वा᳓रिँशे शते᳓ उक्थ्या᳙ना᳓म् इ᳓ति नु᳓ य᳓ उक्थ्या᳙न्त् स्व᳓रसा᳓म्न उपय᳓न्ति ॥॥
०७
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ᳘ ये ऽग्निष्टोमान्[[!!]]॥
(न्द्वा᳘) द्वा᳘दशशतमग्निष्टोमा द्वे᳘ चतुस्त्रिᳫँ᳭शे᳘ शते᳘ ऽउ᳘क्थ्यानां द्वा᳘दश षोडशि᳘नः षष्टिः᳘ षडहा ऽइ᳘ति नु᳘ सम्वत्सरस्या᳘प्तिः॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ᳘ ये ऽग्निष्टोमान्[[!!]]॥
(न्द्वा᳘) द्वा᳘दशशतमग्निष्टोमा द्वे᳘ चतुस्त्रिᳫँ᳭शे᳘ शते᳘ ऽउ᳘क्थ्यानां द्वा᳘दश षोडशि᳘नः षष्टिः᳘ षडहा ऽइ᳘ति नु᳘ सम्वत्सरस्या᳘प्तिः॥
मूलम् - Weber
अ᳘थॗ येऽग्निष्टोमा᳟न् ॥
द्वा᳘दशशतमग्निष्टोमा द्वे᳘ चतुस्त्रिँशे᳘ शते᳘ऽउॗक्थ्यानां द्वा᳘दश षोडशि᳘नः षष्टिः᳘ षडहा इ᳘ति नु᳘ संवत्सरस्या᳘प्तिः ॥
मूलम् - विस्वरम्
अथ ये ऽग्निष्टोमान् । द्वादशशतमग्निष्टोमाः । द्वे चतुस्त्रिंशे शते उक्थ्यानाम् । द्वादश षोडशिनः । षष्टिः षडहाः । इति नु संवत्सरस्याप्तिः ॥ ७ ॥
हरिस्वामी
अथ ये ऽग्निष्टोमानिति । ‘ये’ तु ‘अग्निष्टोमान्’ स्वरसाम्न उपयन्ति । तेषां तैः षड्भिरग्निष्टोमैः सह ‘द्वादशशतं’ अग्निष्टोमानां भवति । तैरेव ऊनाः उक्थ्याः ‘द्वे चतुस्त्रिंशे शते’ भवन्ति । द्वादश षोडशिन इति । तेन द्वादशकृत्वः पृष्ठ्यः अभ्यस्यते इति गम्यते । षष्टिः षडहा इति । सप्तपंचाशत् पार्ष्ठिकाभिप्लविकास्त्रयः प्रायणीयादिभि: सह भाषिता इत्यभिप्रायः । विषुवांस्तु संवत्सरस्यात्मेति न संख्यातः । ‘इति नु’ तावत् संवत्सरस्याप्तिः पूरणमित्युपसंहारः ॥ ७ ॥
Eggeling
- But in the case of those who perform them as Agnishṭomas, a hundred and twelve Agnishṭomas, two hundred and thirty-four Ukthyas, twelve Shoḍaśins, and sixty Shaḍahas. This, then, is how the year is obtained.
मूलम् - Makoto
अ᳓थ ये᳙ ऽग्निष्टोमा᳓न् ।॥
द्वा᳓दशशतम् अग्निष्टोमा᳓ द्वे᳓ चतुस्त्रिँशे᳓ शते᳓ उक्थ्या᳙नां᳓ द्वा᳓दश षोडशि᳓नः षष्टिः᳓ षडहा᳓ इ᳓ति नु᳓ संवत्सरस्या᳓प्तिः ॥॥
०८
विश्वास-प्रस्तुतिः
(र्द्वा᳘) द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य॥
ते᳘षामेतत्ते᳘ज ऽइन्द्रियं य᳘त्पृष्ठा᳘नि तद्य᳘न्मासि᳘ मासि पृष्ठा᳘न्युपय᳘न्ति मासश᳘ ऽएव त᳘त्सम्वत्सर᳘स्य ते᳘ज ऽआप्नुवन्त्य᳘थ कथं᳘ त्रयोदश᳘स्य मा᳘सस्य ते᳘ज ऽआप्नुवन्ती᳘त्युप᳘रिष्टाद्विषुव᳘तो व्विश्वजि᳘तᳫँ᳭ स᳘र्व्वपृष्ठमग्निष्टोममु᳘पयन्त्येव᳘मु त्रयोदश᳘स्य मा᳘सस्य ते᳘ज ऽआप्नुवन्ति[[!!]]॥
मूलम् - श्रीधरादि
(र्द्वा᳘) द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य॥
ते᳘षामेतत्ते᳘ज ऽइन्द्रियं य᳘त्पृष्ठा᳘नि तद्य᳘न्मासि᳘ मासि पृष्ठा᳘न्युपय᳘न्ति मासश᳘ ऽएव त᳘त्सम्वत्सर᳘स्य ते᳘ज ऽआप्नुवन्त्य᳘थ कथं᳘ त्रयोदश᳘स्य मा᳘सस्य ते᳘ज ऽआप्नुवन्ती᳘त्युप᳘रिष्टाद्विषुव᳘तो व्विश्वजि᳘तᳫँ᳭ स᳘र्व्वपृष्ठमग्निष्टोममु᳘पयन्त्येव᳘मु त्रयोदश᳘स्य मा᳘सस्य ते᳘ज ऽआप्नुवन्ति[[!!]]॥
मूलम् - Weber
द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य ॥
ते᳘षामेतत्ते᳘ज इन्द्रियं य᳘त्पृष्ठा᳘नि तद्य᳘न्मासि᳘-मासि पृष्ठा᳘न्युपय᳘न्ति मासश᳘ एव त᳘त्संवत्सर᳘स्य ते᳘ज आप्नुवन्त्य᳘थ कथं᳘ त्रयोदश᳘स्य मा᳘सस्य ते᳘ज आप्नुवन्ती᳘त्युप᳘रिष्ठाद्विषुव᳘तो विश्वजि᳘तँ स᳘र्वपृष्ठमग्निष्टोममु᳘पयन्त्येव᳘मु त्रयोदश᳘स्य मा᳘सस्य ते᳘ज आ᳘प्नुवन्ति ॥
मूलम् - विस्वरम्
द्वादश वै मासाः संवत्सरस्य । तेषामेतत्तेजः, इंद्रियं– यत्पृष्ठानि । तद्यन्मासि मासि पृष्ठान्युपयन्ति । मासश एव तत्संवत्सरस्य तेज आप्नुवन्ति । अथ कथं त्रयोदशस्य मासस्य तेज आप्नुवन्ति इति । उपरिष्टात् विषुवतो विश्वजितं सर्वपृष्ठमग्निष्टोममुपयन्ति । एवमु त्रयोदशस्य मासस्य तेज आप्नुवन्ति ॥ ८ ॥
हरिस्वामी
द्वादश वै मासा इति । ‘द्वादश मासाः’ प्रकल्प्यंते । पुनः प्रतिमासं ‘पृष्ठ्यः’ प्रयोक्तव्य इति पाठक्रमाच्च पूर्वपक्षे अभिप्लवपूर्वा मासाः । उत्तरपक्षे तु- पृष्ठ्यपूर्वाः सेत्स्यंति । तदाह- द्वादश मासाः । माससम्मिताः त्रिंशत्संख्याका अस्य कर्मसंवत्सरस्य भागाः कल्प्या इति शेषः । तेषां द्वादशानां माससम्मितानां कर्मभागानामन्तःस्थानां ‘तेजः’ । “तिज निशाने” । (धा. पा. चु. प. ११९) इति धातुः । अतिशयेन तीक्ष्णं इन्द्रियं वर्द्धयन् स्वकार्यक्षमतममित्यर्थः । ‘यत्पृष्टानि’ पृष्टस्तोत्रसाधनानि रथंतरादीनि । तैरत्र पृष्ठ्याः षडहमुपयन्ति । तेन ‘मासशः’ मासे मासे संवत्सरस्य तेजसि स्थानमंगम् । तदाप्नुवन्तीत्येवं प्रतिमासं पृष्ठस्यावृत्तिरुच्यते । अथ कथमिति । त्रयोदशमासस्य यत् । एतद्ध स्मेति । ‘गाधप्रतिष्ठा’ (संवत्सराग्नितेजःस्वयेच्छेति द्रष्टव्यम् ?) सर्वेषामेतेषामत्र वचनात् ॥ ८ ॥ ९ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे द्वितीये ऽध्याये प्रथमं ब्राह्मणम् ॥ (१२ । २ । १) ॥
Eggeling
- There are twelve months in the year, and their vital energy and power are the Pr̥shṭḥas; and by performing the Pr̥shṭḥas month by month, they obtain, in monthly portions 4, that vital energy of the year.–‘And how do they obtain the vital energy of the thirteenth (intercalary) month?’ Well, subsequent to the Vishuvat day they perform the Viśvajit Agnishṭoma with all the Pr̥shṭḥas 5, and thus indeed they obtain the vital energy of the thirteenth month.
मूलम् - Makoto
द्वा᳓दश वै᳓ मा᳓साः᳓ संवत्सर᳓स्य ।॥
ते᳓षा᳓म् एत᳓त् ते᳓ज इन्द्रियं᳓ य᳓त् पृष्था᳓नि त᳓द् य᳓न् मा᳓सि᳓मा᳓सि पृष्था᳓न्य् उपय᳓न्ति मा᳓सश᳓ एव᳓ त᳓त् संवत्सर᳓स्य ते᳓ज आ᳓प्नुवन्त्य् अ᳓थ कथं᳓ त्रयोदश᳓स्य मा᳓सस्य ते᳓ज आ᳓प्नुवन्ती᳓त्य् उप᳓रिष्टा᳓द् विषुव᳓तो विश्वजि᳓तँ स᳓र्वपृष्ठम् अग्निष्टोम᳓म् उ᳓पयन्त्य् एव᳓म् उ त्रयोदश᳓स्य मा᳓सस्य ते᳓ज आ᳓प्नुवन्ति ॥॥
०९
विश्वास-प्रस्तुतिः
(न्त्ये) एत᳘द्ध स्म वै त᳘द्विद्वा᳘नाह॥
श्वेत᳘केतुरारुणेयः᳘ संवत्सरा᳘य न्वा᳘ ऽअहं᳘ दीक्षिष्य ऽइ᳘ति त᳘ᳫँ᳘ ह पि᳘तोपे᳘क्ष्योवाच व्वे᳘त्थ᳘ न्वायुष्मन्त्सम्वत्सर᳘स्य गाधप्रतिष्ठा ऽइ᳘ति व्वेदे᳘ति होवाचैत᳘द्ध त᳘द्विद्वा᳘नुवाच॥
मूलम् - श्रीधरादि
(न्त्ये) एत᳘द्ध स्म वै त᳘द्विद्वा᳘नाह॥
श्वेत᳘केतुरारुणेयः᳘ संवत्सरा᳘य न्वा᳘ ऽअहं᳘ दीक्षिष्य ऽइ᳘ति त᳘ᳫँ᳘ ह पि᳘तोपे᳘क्ष्योवाच व्वे᳘त्थ᳘ न्वायुष्मन्त्सम्वत्सर᳘स्य गाधप्रतिष्ठा ऽइ᳘ति व्वेदे᳘ति होवाचैत᳘द्ध त᳘द्विद्वा᳘नुवाच॥
मूलम् - Weber
एत᳘द्ध स्म वै त᳘द्विद्वा᳘नाह ॥
श्वेत᳘केतुरारुणेयः᳘ संवत्सरा᳘य न्वा᳘ऽअहं᳘ 6 दीक्षिष्यऽइ᳘ति तँ᳘ ह पिॗतोपे᳘क्ष्योवाच वे᳘त्थॗ न्वायुष्मन्त्संवत्सर᳘स्य गाधप्रतिष्ठा इ᳘ति वेदे᳘ति होवाचैत᳘द्ध त᳘द्विद्वा᳘नुवाच 7 ॥ ब्राह्मणम् ॥ ५ [२.१.] ॥
मूलम् - विस्वरम्
एतद्ध स्म वै तद्विद्वानाह श्वेतकेतुरारुणेयः । संवत्सराय न्वा अहं दीक्षिष्य इति । तं ह पितोपेक्ष्योवाच । वेत्थ न्वायुष्मन् संवत्सरस्य गाधप्रतिष्ठा इति । वेदेति होवाच । तद्ध तद्विद्वानुवाच ॥ ९ ॥
हरिस्वामी
[व्याख्यानं अष्टमे]
Eggeling
- Now, concerning this, Śvetaketu Āruṇeya,
knowing this, once said, ‘I am now going to get myself initiated for one year.’ His father, looking at him, said, ‘Knowest thou, long-lived one, the fording-footholds of the year?’–‘I know them,’ he replied, for, indeed, he said this as one knowing it.
मूलम् - Makoto
एत᳓द् ध स्म वै᳓ त᳓द् विद्वा᳓न् आ᳓ह ।॥
श्वेत᳓केतुर् आ᳓रुणेयः᳓ संवत्सरा᳓य न्वा᳓ अहं᳓ दीक्षिष्य इ᳓ति तँ᳓ ह पितो᳙पे᳓क्ष्योवा᳓च वे᳓त्थ न्वा᳙युष्मन्त् संवत्सर᳓स्य गा᳓धप्रतिष्ठा᳓ इ᳓ति वे᳓दे᳓ति होवा᳓चैत᳓द्ध त᳓द् विद्वा᳓न् उवा᳓च ॥॥
-
145:2 Or, a descent, a passage leading down to a bathing-place. ↩︎
-
146:1 Gādham eva pratishṭḥā,–it may be remarked that this is just the form in which an appositional compound is analyzed by native grammarians, as if it were ‘gādha-pratishṭḥā,’ a foothold which is just a ford, a ford-foothold, as indeed it is written in paragraph 9. Cf. p. 66, note 4. ↩︎
-
146:2 Or, bathe,–‘prasnāti,’ indeed, would really seem to mean here ‘he swims forward.’ ↩︎
-
147:1 Lit., by the month, i.e. by monthly instalments; cf. Tāṇḍya Br. IV, 2, 9. ↩︎
-
147:2 On Soma-days with all the (six) Pr̥shṭḥa-sāmans, see part iii, introd., p. xxi. ↩︎
-
संवत्सरा᳘यं न्या᳘ A. ↩︎
-
त᳘द्विनुवाच A. ↩︎