०१

विश्वास-प्रस्तुतिः

पु᳘रुषो वै᳘ संवत्सरः[[!!]]॥ (स्त᳘) त᳘स्य पा᳘दावेव᳘ प्रायणी᳘यो ऽतिरात्रः पा᳘दाभ्याᳫँ᳭ हि᳘ प्रय᳘न्ति त᳘योर्य्य᳘च्छुक्लन्तद᳘ह्नो रूपं य᳘त्कृष्णं तद्रा᳘त्रेर्न्नखा᳘न्ये᳘वौषधिवनस्पतीना᳘ᳫँ᳘ रूप᳘मूरू᳘ चतुर्व्विᳫँ᳭शम᳘हरु᳘रो ऽभिप्लवः᳘ पृष्ठम्पृ᳘ष्ठ्यः॥

मूलम् - श्रीधरादि

पु᳘रुषो वै᳘ संवत्सरः[[!!]]॥ (स्त᳘) त᳘स्य पा᳘दावेव᳘ प्रायणी᳘यो ऽतिरात्रः पा᳘दाभ्याᳫँ᳭ हि᳘ प्रय᳘न्ति त᳘योर्य्य᳘च्छुक्लन्तद᳘ह्नो रूपं य᳘त्कृष्णं तद्रा᳘त्रेर्न्नखा᳘न्ये᳘वौषधिवनस्पतीना᳘ᳫँ᳘ रूप᳘मूरू᳘ चतुर्व्विᳫँ᳭शम᳘हरु᳘रो ऽभिप्लवः᳘ पृष्ठम्पृ᳘ष्ठ्यः॥

मूलम् - Weber

पु᳘रुषो वै᳘ संवत्सरः᳟ ॥ त᳘स्य पा᳘दावेव᳘ प्रायणी᳘योऽतिरात्रः पा᳘दाभ्याँ हि᳘ प्रय᳘न्ति त᳘योर्य᳘छुक्लं तद᳘ह्नो रूपं य᳘त्कृष्णं तद्रा᳘त्रेर्नखा᳘न्येॗवौषधिवनस्पतीनाँ᳘ रूप᳘मूरू᳘ चतुर्विँशम᳘हरु᳘रोऽभिप्लवः᳘ पृष्ठं पृ᳘ष्ठ्यः ॥

मूलम् - विस्वरम्

अध्यात्मविद्ब्राह्मणम् ।

पुरुषो वै संवत्सरः । तस्य पादावेव प्रायणीयो ऽतिरात्रः । पादाभ्यां हि प्रयन्ति । तयोर्यच्छुक्लं तदह्नो रूपम् । यत्कृष्णं तद्रात्रेः । नखान्येवौषधिवनस्पतीनां रूपम् । ऊरू चतुर्विंशमहः । उरो ऽभिप्लवः । पृष्ठं पृष्ठ्यः ॥ १ ॥

हरिस्वामी

‘पुरुषो वै’ । कर्मगतौ अध्यात्मविदां 1 ब्राह्मणमेतत् । प्रसन्नप्रायम् । पुरुष इति । ‘अध्यात्मं’ संवत्सरप्रसवत्वादध्यात्मकः, साधिदेवो गृह्यते । कुत एतत् “नखान्येवौषधिवनस्पतीनां रूपं नक्षत्राणां वेति” वचनात् । उरो ऽभिप्लव इति । दक्षिण उरसो भागः । पृष्ठभागस्य उत्तरः । “उक्तौ पृष्ठ्याभिप्लवौ” इति वामस्य पृथग्वचनात् ॥ १-३ ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे प्रथमे ऽध्याये चतुर्थं ब्राह्मणम् ॥ १२ । १ । ४ ॥

नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन् हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥

श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥

भूभर्त्रा विक्रमार्केण क्लृप्तां कनकवेदिकाम् । दानायाध्यस्य कृतवान् श्रुत्यर्थविवृतिं हरिः ॥

इति श्रीसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतीनां श्रीहरिस्वामिनां कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे प्रथमो ऽध्यायः समाप्तः ॥ (१२-१) ॥

Eggeling
  1. The Year, indeed, is Man;–the opening (prāyaṇīya) Atirātra is his feet, for by means of their

feet (men) go forward (prayanti): that part of them which is white is of the form of the day, and that which is black is (of the form) of the night; the nails are of the form of herbs and trees. The Caturviṁśa day is the thighs, the Abhiplava the breast, and the Pr̥shṭḥya the back.

मूलम् - Makoto

पु᳓रुषो वै᳓ संवत्सरः᳓ त᳓स्य पा᳓दा᳓व् एव᳓ प्रा᳓यणी᳓यो ऽतिरा᳓त्रः पा᳓दा᳓भ्याँ᳓ हि᳓ प्रय᳓न्ति त᳓योर् य᳓च् छुक्लं᳓ त᳓द् अ᳓ह्नो रूपं᳓ य᳓त् कृष्णं᳓ त᳓द् रा᳓त्रेर् नखा᳓न्य् एवौ᳙षधिवनस्पतीनाँ᳓ रूप᳓म् ऊरू᳓ चतुर्विँश᳓म् अ᳓हर् उ᳓रो ऽभिप्लवः᳓ पृष्ठं᳓ पृ᳓ष्ठ्यः ॥॥

०२

विश्वास-प्रस्तुतिः

(ष्ठ्यो᳘ ऽय) अय᳘मेव द᳘क्षिणो बाहु᳘रभिजि᳘त्॥
(दि) इम᳘ ऽएव द᳘क्षिणे त्र᳘यः प्राणाः स्व᳘रसामानो मूर्द्धा᳘ व्विषुवा᳘निम᳘ ऽएवो᳘त्तरे त्र᳘यः प्राणाः स्व᳘रसामानः॥

मूलम् - श्रीधरादि

(ष्ठ्यो᳘ ऽय) अय᳘मेव द᳘क्षिणो बाहु᳘रभिजि᳘त्॥
(दि) इम᳘ ऽएव द᳘क्षिणे त्र᳘यः प्राणाः स्व᳘रसामानो मूर्द्धा᳘ व्विषुवा᳘निम᳘ ऽएवो᳘त्तरे त्र᳘यः प्राणाः स्व᳘रसामानः॥

मूलम् - Weber

अय᳘मेव द᳘क्षिणो बाहु᳘रभिजि᳘त् 2
इम᳘ऽएव द᳘क्षिणे त्र᳘यः प्राणाः स्व᳘रसामानो मूर्धा᳘ विषुवा᳘निम᳘ऽएवो᳘त्तरे त्र᳘यः प्राणाः स्व᳘रसामानः ॥

मूलम् - विस्वरम्

अयमेव दक्षिणो बाहुरभिजित् । इम एव दक्षिणे त्रयः प्राणाः स्वरसामानः । मूर्द्धा विषुवान् । इम एवोत्तरे त्रयः प्राणाः स्वरसामानः ॥ २ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. The Abhijit is this right arm, the Svarasāman days these three (openings of the) vital airs on the right side 3 the Vishuvat the head, and the (second period of) Svarasāman days these three vital airs on the left side.
मूलम् - Makoto

अय᳓म् एव᳓ द᳓क्षिणो बा᳓हु᳓र् अभिजि᳓त् ।॥
इम᳓ एव᳓ द᳓क्षिणे त्र᳓यः प्रा᳓णाः᳓ स्व᳓रसा᳓मा᳓नो मूर्धा᳓ विषुवा᳓न् इम᳓ एवो᳓त्तरे त्र᳓यः प्रा᳓णाः᳓ स्व᳓रसा᳓मा᳓नः ॥॥

०३

विश्वास-प्रस्तुतिः

(नो ऽय᳘) अय᳘मेवो᳘त्तरो बाहु᳘र्व्विश्वजि᳘त्॥
(दु) उक्तौ᳘ पृष्ठ्याभिप्लवौ याव᳘वाञ्चौ प्राणौ ते᳘ गो᳘ ऽआयु᳘षी ऽअ᳘ङ्गानि दशरात्रो मु᳘खं महाव्व्रतᳫँ᳭ ह᳘स्तावे᳘वोदयनी᳘यो ऽतिरात्रो ह᳘स्ताभ्या᳘ᳫँ᳘ ह्युद्य᳘न्ति त᳘योर्य्य᳘च्छुक्लं तद᳘ह्नो रूपं य᳘त्कृष्णं तद्रा᳘त्रेर्न्नखा᳘न्येव न᳘क्षत्राणाᳫँ᳭ रूपᳫँ᳭ स᳘ ऽएष᳘ संवत्स᳘रो ऽध्यात्मम्प्र᳘तिष्ठितः स यो᳘ हैव᳘मेत᳘ᳫँ᳘ संवत्सर᳘मध्यात्मम्प्र᳘तिष्ठितं व्वे᳘द प्र᳘तितिष्ठति प्रज᳘या पशु᳘भिरस्मिं᳘ल्लो᳘के ऽमृतत्वे᳘नामु᳘ष्मिन्॥

मूलम् - श्रीधरादि

(नो ऽय᳘) अय᳘मेवो᳘त्तरो बाहु᳘र्व्विश्वजि᳘त्॥
(दु) उक्तौ᳘ पृष्ठ्याभिप्लवौ याव᳘वाञ्चौ प्राणौ ते᳘ गो᳘ ऽआयु᳘षी ऽअ᳘ङ्गानि दशरात्रो मु᳘खं महाव्व्रतᳫँ᳭ ह᳘स्तावे᳘वोदयनी᳘यो ऽतिरात्रो ह᳘स्ताभ्या᳘ᳫँ᳘ ह्युद्य᳘न्ति त᳘योर्य्य᳘च्छुक्लं तद᳘ह्नो रूपं य᳘त्कृष्णं तद्रा᳘त्रेर्न्नखा᳘न्येव न᳘क्षत्राणाᳫँ᳭ रूपᳫँ᳭ स᳘ ऽएष᳘ संवत्स᳘रो ऽध्यात्मम्प्र᳘तिष्ठितः स यो᳘ हैव᳘मेत᳘ᳫँ᳘ संवत्सर᳘मध्यात्मम्प्र᳘तिष्ठितं व्वे᳘द प्र᳘तितिष्ठति प्रज᳘या पशु᳘भिरस्मिं᳘ल्लो᳘के ऽमृतत्वे᳘नामु᳘ष्मिन्॥

मूलम् - Weber

अय᳘मेवो᳘त्तरो बाहु᳘र्विश्वजि᳘त् ॥
उक्तौ᳘ पृष्ठ्याभिप्लवौ याव᳘वाञ्चौ प्राणौ ते᳘ गोऽआयु᳘षीऽअ᳘ङ्गानि दशरात्रो मु᳘खं महाव्रतँ ह᳘स्तावेॗवोदयनी᳘योऽतिरात्रो ह᳘स्ताभ्याँॗ ह्युद्य᳘न्ति त᳘योर्य᳘छुक्लं तद᳘ह्नो रूपं य᳘त्कृष्णं तद्रा᳘त्रेर्नखा᳘न्येव न᳘क्षत्राणाँ रूपँ स᳘ एष᳘ संवत्सॗरोऽध्यात्मं प्र᳘तिष्ठितः स यो᳘ हैव᳘मेतँ᳘ संवत्सर᳘मध्यात्मं प्र᳘तिष्ठितं वे᳘द प्र᳘तितिष्ठति प्रज᳘या पशु᳘भिरस्मिं᳘लोॗकेऽमृतत्वे᳘नामु᳘ष्मिन् ॥ ब्राह्मणम् ॥४॥ प्रथमोऽध्यायः [७५]॥

मूलम् - विस्वरम्

अयमेवोत्तरो बाहुर्विश्वजित् । उक्तौ पृष्ठ्याभिप्लवौ । याववांचौ प्राणौ ते गोआयुषी । अङ्गानि दशरात्रः । मुखं महाव्रतम् । हस्तावेवोदयनीयो ऽतिरात्रः । हस्ताभ्यां ह्युद्यन्ति । तयोर्यच्छुक्लं तदह्नो रूपम् । यत्कृष्णं तद्रात्रेः । नखान्येव नक्षत्राणां रूपम् । स एष संवत्सरो ऽध्यात्मं प्रतिष्ठितः । स यो हैवमेतं संवत्सरमध्यात्मं प्रतिष्ठितं वेद । प्रतितिष्ठति प्रजया पशुभिरस्मिन् लोके; अमृतत्वेनामुष्मिन् ॥ ३ ॥

हरिस्वामी

[व्याख्यानं प्रथमे]

Eggeling
  1. The Viśvajit is this left arm,–the Pr̥shṭḥya and Abhiplava have been told,–the Go and Āyus those downward vital airs; the Daśarātra the limbs, the Mahāvrata the mouth; and the concluding (udayanīya) Atirātra is the hands, for by means of the hands (men) move (reach) upwards (udyanti) that part of them which is white is of the form of the day, and that which is black is of that of the night; and the nails are of the form of the stars. Thus that year is established in respect of the body; and, verily, whosoever thus knows that year to be established in respect of the body, establishes himself by means of offspring and cattle in this, and by immortality in the other, world.
मूलम् - Makoto

अय᳓म् एवो᳓त्तरो बा᳓हु᳓र् विश्वजि᳓त् ।॥
उक्तौ᳓ पृष्ठ्या᳓भिप्लवौ᳓ या᳓व् अ᳓वा᳓ञ्चौ प्रा᳓णौ᳓ ते᳓ गोआ᳓यु᳓षी अ᳓ङ्गा᳓नि दशरा᳓त्रो᳓ मु᳓खं महा᳓व्रतँ᳓ ह᳓स्ता᳓व् एवो᳙दयनी᳓यो ऽतिरा᳓त्रो᳓ ह᳓स्ता᳓भ्याँ᳓ ह्य् उ᳙द्य᳓न्ति त᳓योर् य᳓च् छुक्लं᳓ त᳓द् अ᳓ह्नो रूपं᳓ य᳓त् कृष्णं᳓ त᳓द् रा᳓त्रेर् नखा᳓न्य् एव᳓ न᳓क्षत्रा᳓णाँ᳓ रूपँ᳓ स᳓ एष᳓ संवत्सरो᳙ ऽध्या᳓त्मं᳓ प्र᳓तिष्ठितः स᳓ यो᳓ हैव᳓म् एतँ᳓ संवत्सर᳓म् अध्या᳓त्मं᳓ प्र᳓तिष्ठितं वे᳓द प्र᳓तितिष्ठति प्रज᳓या᳓ पशु᳓भिर् अस्मिं᳓ लोके᳙ ऽमृतत्वे᳓ना᳓मु᳓ष्मिन् ॥॥


  1. प्रसाध्यत्वादध्यात्मकः । ↩︎

  2. द᳘क्षिणो ह᳘रभिः॰ A. ↩︎

  3. 145:1 Viz. the right eye, ear, and nostril. ↩︎