०१
विश्वास-प्रस्तुतिः
यद्वै दी᳘क्षन्ते॥
(न्ते ऽग्ना) अग्नावि᳘ष्णू ऽएव᳘ देव᳘ते य᳘जन्ते ऽग्नावि᳘ष्णू देव᳘ते भवन्त्यग्नावि᳘ष्ण्वोः सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
यद्वै दी᳘क्षन्ते॥
(न्ते ऽग्ना) अग्नावि᳘ष्णू ऽएव᳘ देव᳘ते य᳘जन्ते ऽग्नावि᳘ष्णू देव᳘ते भवन्त्यग्नावि᳘ष्ण्वोः सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
यद्वै दी᳘क्षन्ते ॥
अग्नावि᳘ष्णूऽएव᳘ देव᳘ते य᳘जन्तेऽग्नावि᳘ष्णू देव᳘ते भवन्त्यग्नावि᳘ष्ण्वोः सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
देवविद्याब्राह्मणम् ।
यद्वै दीक्षन्ते । अग्नाविष्णू एव देवते यजन्ते । अग्नाविष्णू देवते भवन्ति । अग्नाविष्ण्वोः सायुज्यं सलोकतां जयन्ति ॥ १ ॥
हरिस्वामी
‘यद्वै दीक्षन्ते’ । एतदपि कर्मसु देवविद्याब्राह्मणम् । प्रसन्नमेव । ‘अग्नाविष्णू देवते भवन्ति’ अभेददर्शिनः । ‘अग्नाविष्ण्वोः सायुज्यं सलोकतां जयन्ति’ देवदर्शिनः । तत्रापि प्रहृष्टविद्याः ‘सायुज्यं जयन्ति’ । अन्तराः ‘सलोकताम्’ इति विवेकः । एवमुत्तरत्रापि वाच्यम् ॥ १-२१ ॥
Eggeling
- Now, when they are initiated they indeed offer sacrifice to the deities Agni and Vishṇu: they become the deities Agni and Vishṇu, and attain to fellowship and co-existence with Agni and Vishṇu.
मूलम् - Makoto
य᳓द् वै᳓ दी᳓क्षन्ते ।॥
अग्ना᳓वि᳓ष्णू एव᳓ देव᳓ते य᳓जन्ते ऽग्ना᳓वि᳓ष्णू देव᳓ते भवन्त्य् अग्ना᳓विष्ण्वोः सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥॥
०२
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘त्प्रायणी᳘येन य᳘जन्ते᳘॥
(न्ते᳘ ऽदि) अ᳘दितिमेव᳘ देव᳘तां य᳘जन्ते᳘ ऽदितिर्देव᳘ता भवन्त्य᳘दितेः सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘त्प्रायणी᳘येन य᳘जन्ते᳘॥
(न्ते᳘ ऽदि) अ᳘दितिमेव᳘ देव᳘तां य᳘जन्ते᳘ ऽदितिर्देव᳘ता भवन्त्य᳘दितेः सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
अ᳘थ य᳘त्प्रायणी᳘येन य᳘जन्ते ॥
अ᳘दितिमेव᳘ देव᳘तां य᳘जन्ते᳘ऽदितिर्देव᳘ता भवन्त्य᳘दितेः सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यत् प्रायणीयेन यजन्ते । अदितिमेव देवतां यजन्ते । अदितिर्देवता भवन्ति । अदितेः सायुज्यं सलोकतां जयन्ति ॥ २ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they perform the opening sacrifice they indeed offer sacrifice to the deity Aditi: they become the deity Aditi, and attain to fellowship and co-existence with Aditi.
मूलम् - Makoto
अ᳓थ य᳓त् प्रा᳓यणी᳓येन य᳓जन्ते ॥
।॥
अ᳓दितिम् एव᳓ देव᳓तां᳓ य᳓जन्ते᳓ ऽदितिर् देव᳓ता᳓ भवन्त्य् अ᳓दितेः सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
०३
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘त्क्रये᳘ण चरन्ति[[!!]]॥
सो᳘ममेव᳘ देव᳘तां य᳘जन्ते सो᳘मो देव᳘ता भवन्ति सो᳘मस्य सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘त्क्रये᳘ण चरन्ति[[!!]]॥
सो᳘ममेव᳘ देव᳘तां य᳘जन्ते सो᳘मो देव᳘ता भवन्ति सो᳘मस्य सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयन्ति॥
मूलम् - Weber
अ᳘थ य᳘त्क्रये᳘ण 1 च᳘रन्ति ॥
सो᳘ममेव᳘ देव᳘तां य᳘जन्ते सो᳘मो देव᳘ता भवन्ति सो᳘मस्य सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यत् क्रयेण चरन्ति । सोममेव देवतां यजन्ते । सोमो देवता भवन्ति । सोमस्य सायुज्यं सलोकतां जयन्ति ॥ ३ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they proceed with the buying (of Soma-plants) they indeed offer sacrifice to the deity Soma: they become the deity Soma, and attain to fellowship and co-existence with Soma.
मूलम् - Makoto
अ᳓थ य᳓त् क्रये᳓ण च᳓रन्ति ।॥
सो᳓मम् एव᳓ देव᳓तां᳓ य᳓जन्ते सो᳓मो देव᳓ता᳓ भवन्ति सो᳓मस्य सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
०४
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘दातिथ्ये᳘न य᳘जन्ते॥
व्वि᳘ष्णुमेव᳘ देव᳘तां य᳘जन्ते व्वि᳘ष्णुर्देव᳘ता भवन्ति व्वि᳘ष्णोः सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘दातिथ्ये᳘न य᳘जन्ते॥
व्वि᳘ष्णुमेव᳘ देव᳘तां य᳘जन्ते व्वि᳘ष्णुर्देव᳘ता भवन्ति व्वि᳘ष्णोः सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
अ᳘थ य᳘दातिथ्ये᳘न य᳘जन्ते ॥
वि᳘ष्णुमेव᳘ देव᳘तां य᳘जन्ते वि᳘ष्णुर्देव᳘ता भवन्ति वि᳘ष्णोः सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यदातिथ्येन यजन्ते । विष्णुमेव देवतां यजन्ते । विष्णुर्देवता भवन्ति । विष्णोः सायुज्यं सलोकतां जयन्ति ॥ ४ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they perform the guest-offering they indeed offer sacrifice to the deity Vishṇu: they become the deity Vishṇu, and attain to fellowship and co-existence with Vishṇu.
मूलम् - Makoto
अ᳓थ य᳓द् आ᳓तिथ्ये᳓न य᳓जन्ते ।॥
वि᳓ष्णुम् एव᳓ देव᳓तां᳓ य᳓जन्ते वि᳓ष्णुर् देव᳓ता᳓ भवन्ति वि᳓ष्णोः सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
०५
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘त्प्रव᳘र्ग्ग्येण य᳘जन्ते॥
(न्त ऽआ) आदित्य᳘मेव᳘ देव᳘तां य᳘जन्त ऽआदित्यो᳘ देव᳘ता भवन्त्यादित्य᳘स्य सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘त्प्रव᳘र्ग्ग्येण य᳘जन्ते॥
(न्त ऽआ) आदित्य᳘मेव᳘ देव᳘तां य᳘जन्त ऽआदित्यो᳘ देव᳘ता भवन्त्यादित्य᳘स्य सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
अ᳘थ य᳘त्प्रव᳘र्ग्येण य᳘जन्ते ॥
आदित्य᳘मेव᳘ देव᳘तां य᳘जन्तऽआदित्यो᳘ देव᳘ता भवन्त्यादित्य᳘स्य सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यत्प्रवर्येण यजन्ते । आदित्यमेव देवतां यजन्ते । आदित्यो देवता भवन्ति । आदित्यस्य सायुज्यं सलोकतां जयन्ति ॥ ५ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they perform the Pravargya-offering 2 they indeed offer sacrifice to the deity Āditya: they become the deity Āditya, and attain to fellowship and co-existence with Āditya (the sun).
मूलम् - Makoto
अ᳓थ य᳓त् प्रव᳓र्ग्येण य᳓जन्ते ।॥
आ᳓दित्य᳓म् एव᳓ देव᳓तां᳓ य᳓जन्त आ᳓दित्यो᳓ देव᳓ता᳓ भवन्त्य् आ᳓दित्य᳓स्य सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
०६
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘दुपस᳘द ऽउपय᳘न्ति॥
(न्त्ये) एता᳘ ऽएव᳘ देव᳘ता य᳘जन्ते या᳘ ऽएता᳘ ऽउपस᳘त्स्वेता᳘ देव᳘ता भवन्त्येता᳘सां देव᳘तानाᳫँ᳭ सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘दुपस᳘द ऽउपय᳘न्ति॥
(न्त्ये) एता᳘ ऽएव᳘ देव᳘ता य᳘जन्ते या᳘ ऽएता᳘ ऽउपस᳘त्स्वेता᳘ देव᳘ता भवन्त्येता᳘सां देव᳘तानाᳫँ᳭ सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
अ᳘थ य᳘दुपस᳘द उपय᳘न्ति ॥
एता᳘ एव᳘ देव᳘ता य᳘जन्ते या᳘ एता᳘ उपस᳘त्स्वेता᳘ देव᳘ता भवन्त्येता᳘सां देव᳘तानाँ सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यदुपसद उपयन्ति । एता एव देवता यजन्ते । या एता उपसत्सु । एता देवता भवन्ति । एतासां देवतानां सायुज्यं सलोकतां जयन्ति ॥ ६ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they enter upon the Upasads they indeed offer sacrifice to those very deities 3 who (receive oblations) at the Upasads: they become those deities, and attain to fellowship and co-existence with those deities.
मूलम् - Makoto
अ᳓थ य᳓द् उपस᳓द उपय᳓न्ति ।॥
एता᳓ एव᳓ देव᳓ता᳓ य᳓जन्ते या᳓ एता᳓ उपस᳓त्स्व् एता᳓ देव᳓ता᳓ भवन्त्य् एता᳓सां᳓ देव᳓ता᳓नाँ᳓ सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
०७
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘दग्नीषोमी᳘येण पशु᳘ना य᳘जन्ते॥
(न्ते ऽग्नी) अग्नीषो᳘मावेव᳘ देव᳘ते य᳘जन्ते ऽग्नीषो᳘मौ देव᳘ते भवन्त्यग्नीषो᳘मयोः सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘दग्नीषोमी᳘येण पशु᳘ना य᳘जन्ते॥
(न्ते ऽग्नी) अग्नीषो᳘मावेव᳘ देव᳘ते य᳘जन्ते ऽग्नीषो᳘मौ देव᳘ते भवन्त्यग्नीषो᳘मयोः सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
अ᳘थ य᳘दग्नीषोमी᳘येण पशु᳘ना य᳘जन्ते ॥
अग्नीषो᳘मावेव᳘ देव᳘ते य᳘जन्तेऽग्नीषो᳘मौ देव᳘ते भवन्त्यग्नीषो᳘मयोः सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यदग्नीषोमीयेण पशुना यजन्ते । अग्नीषोमावेव देवते यजन्ते । अग्नीषोमौ देवते भवन्ति । अग्नीषोमयोः सायुज्यं सलोकतां जयन्ति ॥ ७ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they perform the animal sacrifice to Agni and Soma 4 they indeed offer sacrifice to the deities Agni and Soma: they become the deities Agni and Soma, and attain to fellowship and co-existence with Agni and Soma.
मूलम् - Makoto
अ᳓थ य᳓द् अग्नीषोमी᳓येण पशु᳓ना᳓ य᳓जन्ते ।॥
अग्नीषो᳓मा᳓व् एव᳓ देव᳓ते य᳓जन्ते ऽग्नीषो᳓मौ देव᳓ते भवन्त्य् अग्नीषो᳓मयोः सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
०८
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘त्प्रायणी᳘यमतिरात्र᳘मुपय᳘न्ति॥
(न्त्य) अहोरात्रे᳘ ऽएव᳘ देव᳘ते य᳘जन्ते ऽहोरात्रे᳘ देव᳘ते भवन्त्यहोरात्र᳘योः सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘त्प्रायणी᳘यमतिरात्र᳘मुपय᳘न्ति॥
(न्त्य) अहोरात्रे᳘ ऽएव᳘ देव᳘ते य᳘जन्ते ऽहोरात्रे᳘ देव᳘ते भवन्त्यहोरात्र᳘योः सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
अ᳘थ य᳘त्प्रायणी᳘यमतिरात्र᳘मुपय᳘न्ति ॥
अहोरात्रे᳘ऽएव᳘ देव᳘ते य᳘जन्तेऽहोरात्रे᳘ देव᳘ते भवन्त्यहोरात्रयोः सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यत् प्रायणीयमतिरात्रमुपयन्ति । अहोरात्रे एव देवते यजन्ते । अहोरात्रे देवते भवन्ति । अहोरात्रयोः सायुज्यं सलोकतां जयन्ति ॥ ८ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they perform the opening Atirātra (of the sacrificial session) they indeed offer sacrifice to those deities, the Day and Night 5: they become those deities, the Day and Night, and attain to fellowship and co-existence with the Day and Night.
मूलम् - Makoto
अ᳓थ य᳓त् प्रा᳓यणी᳓यम् अतिरा᳓त्र᳓म् उपय᳓न्ति ।॥
अहोरा᳓त्रे᳓ एव᳓ देव᳓ते य᳓जन्ते ऽहोरा᳓त्रे᳓ देव᳓ते भवन्त्य् अहोरा᳓त्रयोः सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
०९
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘च्चतुर्व्विᳫँ᳭शम᳘हरुपय᳘न्ति॥ संवत्सर᳘मेव᳘ देव᳘तां य᳘जन्ते संवत्सरो᳘ देव᳘ता भवन्ति सम्वत्सर᳘स्य सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘च्चतुर्व्विᳫँ᳭शम᳘हरुपय᳘न्ति॥ संवत्सर᳘मेव᳘ देव᳘तां य᳘जन्ते संवत्सरो᳘ देव᳘ता भवन्ति सम्वत्सर᳘स्य सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
अ᳘थ य᳘च्चतुर्विँशम᳘हरुपय᳘न्ति संवत्सर᳘मेव᳘ देव᳘तां य᳘जन्ते संवत्सरो᳘ देव᳘ता भवन्ति संवत्सर᳘स्य सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यच्चतुर्विंशमहरुपयन्ति । संवत्सरमेव देवतां यजन्ते । संवत्सरो देवता भवन्ति । संवत्सरस्य सायुज्यं सलोकतां जयन्ति ॥ ९ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they enter upon the Caturviṁśa day they indeed offer sacrifice to that deity, the Year 6: they become that deity, the Year, and attain to fellowship and co-existence with the Year.
मूलम् - Makoto
अ᳓थ य᳓च् चतुर्विँशम् अ᳓हर् उपय᳓न्ति संवत्सर᳓म् एव᳓ देव᳓तां᳓ य᳓जन्ते संवत्सरो᳓ देव᳓ता᳓ भवन्ति संवत्सर᳓स्य सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
१०
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘दभिप्लव᳘ᳫँ᳘ षडह᳘मुपय᳘न्ति॥
(न्त्य) अर्द्धमासां᳘श्च मा᳘सांश्च देव᳘ता य᳘जन्ते ऽर्द्धमासा᳘श्च मा᳘साश्च देव᳘ता भवन्त्यर्द्धमासा᳘नाञ्च मा᳘सानाञ्च सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘दभिप्लव᳘ᳫँ᳘ षडह᳘मुपय᳘न्ति॥
(न्त्य) अर्द्धमासां᳘श्च मा᳘सांश्च देव᳘ता य᳘जन्ते ऽर्द्धमासा᳘श्च मा᳘साश्च देव᳘ता भवन्त्यर्द्धमासा᳘नाञ्च मा᳘सानाञ्च सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
अ᳘थ य᳘दभिप्लवँ षडह᳘मुपय᳘न्ति ॥
अर्धमासां᳘श्च मा᳘सांश्च देव᳘ता य᳘जन्तेऽर्धमासा᳘श्च मा᳘साश्च देव᳘ता भवन्त्यर्धमासा᳘नां च मा᳘सानां च सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यदभिप्लवं षडहमुपयन्ति । अर्द्धमासांश्च मासांश्च देवता यजन्ते । अर्द्धमासाश्च मासाश्च देवता भवन्ति । अर्द्धमासानां च मासानां च सायुज्यं सलोकतां जयन्ति ॥ १० ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they enter upon the Abhiplava-shaḍaha they indeed offer sacrifice to those deities, the Half-months and Months: they become those deities, the Half-months and Months, and attain to fellowship and co-existence with the Half-months and Months.
मूलम् - Makoto
अ᳓थ य᳓द् अभिप्लवँ᳓ षडह᳓म् उपय᳓न्ति ।॥
अर्धमा᳓सां᳓श् च मा᳓सां᳓श् च देव᳓ता᳓ य᳓जन्ते ऽर्धमा᳓सा᳓श् च मा᳓सा᳓श् च देव᳓ता᳓ भवन्त्य् अर्धमा᳓सा᳓नां᳓ च मा᳓सा᳓नां᳓ च सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
११
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ यत्पृ᳘ष्ठ्यᳫँ᳭ षडह᳘मुपय᳘न्ति॥
(न्त्यृ) ऋतूनेव᳘[[!!]] देव᳘ता य᳘जन्त ऽऋत᳘वो देव᳘ता भवन्त्यृतूनाᳫँ᳭ सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ यत्पृ᳘ष्ठ्यᳫँ᳭ षडह᳘मुपय᳘न्ति॥
(न्त्यृ) ऋतूनेव᳘[[!!]] देव᳘ता य᳘जन्त ऽऋत᳘वो देव᳘ता भवन्त्यृतूनाᳫँ᳭ सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
अ᳘थ यत्पृ᳘ष्ठ्यँ षडह᳘मुपय᳘न्ति ॥
ऋतू᳘नेव᳘ देव᳘ता य᳘जन्तऽऋत᳘वो देव᳘ता भवन्त्यृतूनाँ सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यत्पृष्ठ्यं षडहमुपयन्ति । ऋतूनेव देवता यजन्ते । ऋतवो देवता भवन्ति । ऋतूनां सायुज्यं सलोकतां जयन्ति ॥ ११ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they enter upon the Pr̥shṭḥya-shaḍaha they indeed offer sacrifice to those deities, the Seasons: they become those deities, the Seasons, and attain to fellowship and co-existence with the Seasons.
मूलम् - Makoto
अ᳓थ य᳓त् पृ᳓ष्ठ्यँ षडह᳓म् उपय᳓न्ति ।॥
ऋतू᳓न् एव᳓ देव᳓ता᳓ य᳓जन्त ऋत᳓वो देव᳓ता᳓ भवन्त्य् ऋतूनाँ᳓ सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
१२
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘दभिजि᳘तमुपय᳘न्ति॥
(न्त्य) अग्नि᳘मेव᳘ देवतां᳘[[!!]] य᳘जन्ते ऽग्नि᳘र्देव᳘ता भवन्त्यग्नेः सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘दभिजि᳘तमुपय᳘न्ति॥
(न्त्य) अग्नि᳘मेव᳘ देवतां᳘[[!!]] य᳘जन्ते ऽग्नि᳘र्देव᳘ता भवन्त्यग्नेः सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
अ᳘थ य᳘दभिजि᳘तमुपय᳘न्ति ॥
अग्नि᳘मेव᳘ देव᳘तां य᳘जन्तेऽग्निर्देव᳘ता भवन्त्यग्नेः सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यदभिजितमुपयन्ति । अग्निमेव देवतां यजन्ते । अग्निर्देवता भवन्ति । अग्नेः सायुज्यं सलोकतां जयन्ति ॥ १२ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they enter upon the Abhijit (day) they indeed offer sacrifice to the deity Agni: they become the deity Agni, and attain to fellowship and co-existence with Agni.
मूलम् - Makoto
अ᳓थ य᳓द् अभिजि᳓तम् उपय᳓न्ति ।॥
अग्नि᳓म् एव᳓ देव᳓तां᳓ य᳓जन्ते ऽग्नि᳓र् देव᳓ता᳓ भवन्त्य् अग्नेः᳓ सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
१३
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ यत्स्व᳘रसाम्न ऽउपय᳘न्ति॥
(न्त्य) अप᳘ ऽएव᳘ देव᳘ता य᳘जन्त ऽआपो देव᳘ता भवन्त्यपाᳫँ᳭ सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ यत्स्व᳘रसाम्न ऽउपय᳘न्ति॥
(न्त्य) अप᳘ ऽएव᳘ देव᳘ता य᳘जन्त ऽआपो देव᳘ता भवन्त्यपाᳫँ᳭ सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
अ᳘थ यत्स्व᳘रसाम्न उपय᳘न्ति ॥
अप᳘ एव᳘ देव᳘तां य᳘जन्तऽआपो देव᳘ता भवन्त्यपाँ सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यत् स्वरसाम्न उपयन्ति । अप एव देवता यजन्ते । आपो देवता भवन्ति । अपां सायुज्यं सलोकतां जयन्ति ॥ १३ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they enter upon the Svarasāman (days) they indeed offer sacrifice to that deity, the Waters: they become that deity, the Waters, and attain to fellowship and co-existence with the Waters.
मूलम् - Makoto
अ᳓थ य᳓त् स्व᳓रसा᳓म्न उपय᳓न्ति ।॥
अप᳓ एव᳓ देव᳓तां᳓ य᳓जन्त आ᳓पो देव᳓ता᳓ भवन्त्य् अपाँ᳓ सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
१४
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘द्विषुव᳘न्तमुपय᳘न्ति॥
(न्त्या) आदित्य᳘मेव᳘ देव᳘तां य᳘जन्त ऽआदित्यो᳘ देव᳘ता भवन्त्यादित्य᳘स्य सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्त्युक्ताः स्व᳘रसामानः᳘॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘द्विषुव᳘न्तमुपय᳘न्ति॥
(न्त्या) आदित्य᳘मेव᳘ देव᳘तां य᳘जन्त ऽआदित्यो᳘ देव᳘ता भवन्त्यादित्य᳘स्य सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्त्युक्ताः स्व᳘रसामानः᳘॥
मूलम् - Weber
अ᳘थ य᳘द्विषुव᳘न्तम्पय᳘न्ति ॥
आदित्य᳘मेव᳘ देव᳘तां य᳘जन्तऽआदित्यो᳘ देव᳘ता भवन्त्यादित्य᳘स्य सा᳘युज्यँ सलोक᳘तां जयन्त्युक्ताः स्व᳘रसामानः ॥
मूलम् - विस्वरम्
अथ यद्विषुवन्तमुपयन्ति । आदित्यमेव देवतां यजन्ते । आदित्यो देवता भवन्ति । आदित्यस्य सायुज्यं सलोकतां जयन्ति । उक्ताः स्वरसामानः ॥ १४ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they enter upon the Vishuvat (day) they indeed offer sacrifice to the deity Āditya they become the deity Āditya, and attain to fellowship and co-existence with Āditya. The Svarasāmans have been told.
मूलम् - Makoto
अ᳓थ य᳓द् विषुव᳓न्तम् उपय᳓न्ति ।॥
आ᳓दित्य᳓म् एव᳓ देव᳓तां᳓ य᳓जन्त आ᳓दित्यो᳓ देव᳓ता᳓ भवन्त्य् आ᳓दित्य᳓स्य सा᳓युज्यँ सलोक᳓तां᳓ जयन्त्य् उक्ताः᳓ स्व᳓रसा᳓मा᳓नः ॥॥
१५
विश्वास-प्रस्तुतिः
(नो᳘ ऽथ) अ᳘थ य᳘द्विश्वजि᳘तमुपयन्ति᳘[[!!]]॥
(न्ती᳘) इ᳘न्द्रमेव᳘ देव᳘तां य᳘जन्त ऽइ᳘न्द्रो देव᳘ता भवन्ती᳘न्द्रस्य सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्त्युक्तौ᳘ पृष्ठ्याभिप्लवौ[[!!]]॥
मूलम् - श्रीधरादि
(नो᳘ ऽथ) अ᳘थ य᳘द्विश्वजि᳘तमुपयन्ति᳘[[!!]]॥
(न्ती᳘) इ᳘न्द्रमेव᳘ देव᳘तां य᳘जन्त ऽइ᳘न्द्रो देव᳘ता भवन्ती᳘न्द्रस्य सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्त्युक्तौ᳘ पृष्ठ्याभिप्लवौ[[!!]]॥
मूलम् - Weber
अ᳘थ य᳘द्विश्वजि᳘तमुपय᳟न्ति ॥
इ᳘न्द्रमेव᳘ देव᳘तां य᳘जन्तऽइ᳘न्द्रो देव᳘ता भवन्ती᳘न्द्रस्य सा᳘युज्यँ सलोक᳘तां जयन्त्युक्तौ᳘ पृष्ठ्याभिप्लवौ᳟ ॥
मूलम् - विस्वरम्
अथ यद्विश्वजितमुपयन्ति । इन्द्रमेव देवतां यजन्ते । इन्द्रो देवता भवन्ति । इन्द्रस्य सायुज्यं सलोकतां जयन्ति । उक्तौ पृष्ठ्याभिप्लवौ ॥ १५ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they enter upon the Viśvajit (day) they indeed offer sacrifice to the deity Indra: they become the deity Indra, and attain to fellowship and co-existence with Indra. The Pr̥shṭḥya and Abhiplava (shaḍahas) have been told.
मूलम् - Makoto
अ᳓थ य᳓द् विश्वजि᳓तम् उपय᳓न्ति ।॥
इ᳓न्द्रम् एव᳓ देव᳓तां᳓ य᳓जन्त इ᳓न्द्रो देव᳓ता᳓ भवन्ती᳓न्द्रस्य सा᳓युज्यँ सलोक᳓तां᳓ जयन्त्य् उक्तौ᳓ पृष्ठ्या᳓भिप्लवौ᳓ ॥॥
१६
विश्वास-प्रस्तुतिः
(वाव᳘) अ᳘थ य᳘द्गो ऽआयु᳘षी ऽउपय᳘न्ति॥
मित्राव᳘रुणावेव᳘ देव᳘ते य᳘जन्ते मित्राव᳘रुणौ देव᳘ते भवन्ति मित्राव᳘रुणयोः सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
(वाव᳘) अ᳘थ य᳘द्गो ऽआयु᳘षी ऽउपय᳘न्ति॥
मित्राव᳘रुणावेव᳘ देव᳘ते य᳘जन्ते मित्राव᳘रुणौ देव᳘ते भवन्ति मित्राव᳘रुणयोः सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
अ᳘थ य᳘द्गोऽआयु᳘षी उपय᳘न्ति ॥
मित्राव᳘रुणावेव᳘ देव᳘ते य᳘जन्ते मित्राव᳘रुणौ देव᳘ते भवन्ति मित्राव᳘रुणयोः सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यत् गोआयुषी उपयन्ति । मित्रावरुणावेव देवते यजन्ते । मित्रावरुणौ देवते भवन्ति । मित्रावरुणयोः सायुज्यं सलोकतां जयन्ति ॥ १६ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they enter upon (the performance of) the Go and Āyus (stoma) 7 they indeed offer sacrifice to the deities Mitra and Varuṇa: they
become the deities Mitra and Varuṇa, and attain to fellowship and co-existence with Mitra and Varuṇa.
मूलम् - Makoto
अ᳓थ य᳓द् गोआ᳓यु᳓षी उपय᳓न्ति ।॥
मित्रा᳓व᳓रुणा᳓व् एव᳓ देव᳓ते य᳓जन्ते मित्रा᳓व᳓रुणौ देव᳓ते भवन्ति मित्रा᳓व᳓रुणयोः सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
१७
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘द्दशरात्र᳘मुपय᳘न्ति॥
व्वि᳘श्वानेव᳘ देवा᳘न्देव᳘ता य᳘जन्ते व्वि᳘श्वे देवा᳘ देव᳘ता भवन्ति व्वि᳘श्वेषान्देवा᳘नाᳫँ᳭ सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘द्दशरात्र᳘मुपय᳘न्ति॥
व्वि᳘श्वानेव᳘ देवा᳘न्देव᳘ता य᳘जन्ते व्वि᳘श्वे देवा᳘ देव᳘ता भवन्ति व्वि᳘श्वेषान्देवा᳘नाᳫँ᳭ सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
अ᳘थ य᳘द्दशरात्र᳘मुपय᳘न्ति ॥
वि᳘श्वानेव᳘ देवा᳘न्देव᳘तां य᳘जन्ते वि᳘श्वे देवा᳘ देव᳘ता भवन्ति वि᳘श्वेषां देवा᳘नाँ सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यद्दशरात्रमुपयन्ति । विश्वानेव देवान् देवता यजन्ते । विश्वे देवा देवता भवन्ति । विश्वेषां देवानां सायुज्यं सलोकतां जयन्ति ॥ १७ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they enter upon the Daśarātra they indeed offer sacrifice to that deity the Viśve Devāḥ: they become that deity, the Viśve Devāḥ, and attain to fellowship and co-existence with the Viśve Devāḥ.
मूलम् - Makoto
अ᳓थ य᳓द् दशरा᳓त्र᳓म् उपय᳓न्ति ।॥
वि᳓श्वा᳓न् एव᳓ देवा᳓न् देव᳓तां᳓ य᳓जन्ते वि᳓श्वे देवा᳓ देव᳓ता᳓ भवन्ति वि᳓श्वेषां᳓ देवा᳓नाँ᳓ सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
१८
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ यद्दा᳘शरात्रिकम्पृ᳘ष्ठ्यᳫँ᳭[[!!]] षडह᳘मुपय᳘न्ति॥
दि᳘श ऽएव᳘ देव᳘ता य᳘जन्ते दि᳘शो देव᳘ता भवन्ति दिशाᳫँ᳭ सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ यद्दा᳘शरात्रिकम्पृ᳘ष्ठ्यᳫँ᳭[[!!]] षडह᳘मुपय᳘न्ति॥
दि᳘श ऽएव᳘ देव᳘ता य᳘जन्ते दि᳘शो देव᳘ता भवन्ति दिशाᳫँ᳭ सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
अ᳘थ य᳘द्दा᳘शरात्रिकं पृ᳘ष्ठ्यँ षडह᳘मुपय᳘न्ति ॥
दि᳘श एव᳘ देव᳘ता य᳘जन्ते दि᳘शो देव᳘ता 8 भवन्ति दिशाँ सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यद्दाशरात्रिकं पृष्ठ्यं षडहमुपयन्ति । दिश एव देवता यजन्ते । दिशो देवता भवन्ति । दिशां सायुज्यं सलोकतां जयन्ति ॥ १८ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they enter upon the Pr̥shṭḥya-shaḍaha of the Daśarātra they indeed offer sacrifice to those deities, the Regions: they become those deities, the Regions, and attain to fellowship and co-existence with the Regions.
मूलम् - Makoto
अ᳓थ य᳓द् दा᳓शरा᳓त्रिकं पृ᳓ष्ठ्यँ षडह᳓म् उपय᳓न्ति ।॥
दि᳓श एव᳓ देव᳓ता᳓ य᳓जन्ते दि᳓शो देव᳓ता᳓ भवन्ति दिषाँ᳓ सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
१९
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘च्छन्दोमा᳘नुपय᳘न्ति॥
(न्ती) इमा᳘नेव᳘ लोका᳘न्देव᳘ता य᳘जन्त ऽइमे᳘ लोका᳘ देव᳘ता भवन्त्येषां᳘ लोका᳘नाᳫँ᳭ सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘च्छन्दोमा᳘नुपय᳘न्ति॥
(न्ती) इमा᳘नेव᳘ लोका᳘न्देव᳘ता य᳘जन्त ऽइमे᳘ लोका᳘ देव᳘ता भवन्त्येषां᳘ लोका᳘नाᳫँ᳭ सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
अ᳘थ य᳘च्छन्दोमा᳘नुपय᳘न्ति ॥
इमा᳘नेव᳘ लोका᳘न्देव᳘ता य᳘जन्तऽइमे᳘ लोका᳘ देव᳘ता भवन्त्येषां᳘ लोका᳘नाँ सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यच्छंदोमानुपयन्ति । इमानेव लोकान् देवता यजन्ते । इमे लोका देवता भवन्ति । एषां लोकानां सायुज्यं सलोकतां जयन्ति ॥ १९ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they enter upon the Chandomas they indeed offer sacrifice to those deities, these Worlds: they become those deities, these Worlds, and attain to fellowship and co-existence with these Worlds.
मूलम् - Makoto
अ᳓थ य᳓च् छन्दोमा᳓न् उपय᳓न्ति ।॥
इमा᳓न् एव᳓ लोका᳓न् देव᳓ता᳓ य᳓जन्त इमे᳓ लोका᳓ देव᳓ता᳓ भवन्त्य् एषां᳓ लोका᳓नाँ᳓ सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
२०
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘द्दशमम᳘हरुपय᳘न्ति॥
संवत्सर᳘मेव᳘ देव᳘तां य᳘जन्ते संवत्सरो᳘ देव᳘ता भवन्ति संवत्सर᳘स्य सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘द्दशमम᳘हरुपय᳘न्ति॥
संवत्सर᳘मेव᳘ देव᳘तां य᳘जन्ते संवत्सरो᳘ देव᳘ता भवन्ति संवत्सर᳘स्य सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
अ᳘थ य᳘द्दशममहरुपय᳘न्ति ॥
संवत्सर᳘मेव᳘ देव᳘तां य᳘जन्ते संवत्सरो᳘ देव᳘ता भवन्ति संवत्सर᳘स्य सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यद्दशममहरुपयन्ति । संवत्सरमेव देवतां यजन्ते । संवत्सरो देवता भवन्ति । संवत्सरस्य सायुज्यं सलोकतां जयन्ति ॥ २० ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they enter upon the tenth day (of the Daśarātra) they indeed offer sacrifice to that deity, the Year: they become that deity, the Year, and attain to fellowship and co-existence with the Year.
मूलम् - Makoto
अ᳓थ य᳓द् दशमम् अ᳓हर् उपय᳓न्ति ।॥
संवत्सर᳓म् एव᳓ देव᳓तां᳓ य᳓जन्ते संवत्सरो᳓ देव᳓ता᳓ भवन्ति संवत्सर᳓स्य सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
२१
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘न्महाव्व्रत᳘मुपय᳘न्ति॥
प्रजा᳘पतिमेव᳘ देव᳘तां य᳘जन्ते प्रजा᳘पतिर्देव᳘ता भवन्ति प्रजा᳘पतेः सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘न्महाव्व्रत᳘मुपय᳘न्ति॥
प्रजा᳘पतिमेव᳘ देव᳘तां य᳘जन्ते प्रजा᳘पतिर्देव᳘ता भवन्ति प्रजा᳘पतेः सा᳘युज्यᳫँ᳭ सलोक᳘तां जयन्ति॥
मूलम् - Weber
अ᳘थ य᳘न्महाव्रत᳘मुपय᳘न्ति ॥
प्रजा᳘पतिमेव᳘ देव᳘तां य᳘जन्ते प्रजा᳘पतिर्देव᳘ता भवन्ति प्रजा᳘पतेः सा᳘युज्यँ सलोक᳘तां जयन्ति ॥
मूलम् - विस्वरम्
अथ यन्महाव्रतमुपयन्ति । प्रजापतिमेव देवतां यजन्ते । प्रजापतिर्देवता भवन्ति । प्रजापतेः सायुज्यं सलोकतां जयन्ति ॥ २१ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- And when they enter upon the Mahāvrata they indeed offer sacrifice to the deity Prajāpati: they become the deity Prajāpati, and attain to fellowship and co-existence with Prajāpati.
मूलम् - Makoto
अ᳓थ य᳓न् महा᳓व्रत᳓म् उपय᳓न्ति ।॥
प्रजा᳓पतिम् एव᳓ देव᳓तां᳓ य᳓जन्ते प्रजा᳓पतिर् देव᳓ता᳓ भवन्ति प्रजा᳓पतेः सा᳓युज्यँ सलोक᳓तां᳓ जयन्ति ॥
॥॥
२२
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘दुदयनी᳘यमतिरात्र᳘मुपय᳘न्ति॥
संवत्सर᳘मेव त᳘दाप्त्वा᳘ स्वर्ग्गे᳘ लोके प्र᳘तितिष्ठन्ति तान्य᳘दि पृच्छे᳘युः का᳘मद्य᳘ देव᳘तां य᳘जध्वे का᳘ देव᳘ता स्थ क᳘स्यान्देव᳘तायां वसथेत्य᳘त ऽए᳘वैकतमा᳘म्ब्रूयुर्य᳘स्यै तु᳘ ने᳘दिष्ठᳫँ᳭ स्युरेते᳘[[!!]] ह वै᳘ सतिस᳘द ऽएते हि᳘ सती᳘षु देव᳘तासु सी᳘दन्तो य᳘न्ति सत्रस᳘दो हैवे᳘तरे स यो᳘ हैवं᳘ विदु᳘षां दीक्षिता᳘नां पा᳘पकᳫँ᳭ सत्रे कीर्त᳘येदेता᳘भ्यस्त्वा देव᳘ताभ्य ऽआ᳘वृश्चाम ऽइ᳘त्येनम्ब्रूयुः स पा᳘पीयान्भवति श्रे᳘याᳫँ᳭स ऽआत्म᳘ना॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘दुदयनी᳘यमतिरात्र᳘मुपय᳘न्ति॥
संवत्सर᳘मेव त᳘दाप्त्वा᳘ स्वर्ग्गे᳘ लोके प्र᳘तितिष्ठन्ति तान्य᳘दि पृच्छे᳘युः का᳘मद्य᳘ देव᳘तां य᳘जध्वे का᳘ देव᳘ता स्थ क᳘स्यान्देव᳘तायां वसथेत्य᳘त ऽए᳘वैकतमा᳘म्ब्रूयुर्य᳘स्यै तु᳘ ने᳘दिष्ठᳫँ᳭ स्युरेते᳘[[!!]] ह वै᳘ सतिस᳘द ऽएते हि᳘ सती᳘षु देव᳘तासु सी᳘दन्तो य᳘न्ति सत्रस᳘दो हैवे᳘तरे स यो᳘ हैवं᳘ विदु᳘षां दीक्षिता᳘नां पा᳘पकᳫँ᳭ सत्रे कीर्त᳘येदेता᳘भ्यस्त्वा देव᳘ताभ्य ऽआ᳘वृश्चाम ऽइ᳘त्येनम्ब्रूयुः स पा᳘पीयान्भवति श्रे᳘याᳫँ᳭स ऽआत्म᳘ना॥
मूलम् - Weber
अ᳘थ य᳘दुदयनी᳘यमतिरात्र᳘मुपय᳘न्ति ॥
संवत्सर᳘मेव त᳘दाप्त्वा᳘ स्वर्गे᳘ लोके प्र᳘तितिष्ठन्ति तान्य᳘दि पृछे᳘युः का᳘मद्य᳘ देव᳘तां य᳘जध्वे का᳘ देव᳘ता स्थ क᳘स्यां देव᳘तायां वसथेत्य᳘त एॗवैकतमां᳘ ब्रूयुर्य᳘स्यै तु᳘ ने᳘दिष्ठँ स्यु᳘रेते᳘ ह वै᳘ सति स᳘द एते हि᳘ सती᳘षु देव᳘तासु सी᳘दन्तो य᳘न्ति सत्त्रस᳘दो हैवे᳘तरे स यो᳘ हैवं᳘ विदु᳘षां दीक्षिता᳘नां पा᳘पकँ सत्त्रे᳘ कीर्त᳘येदेते᳘भ्यस्त्वा देव᳘ताभ्य आ᳘वृश्चाम इ᳘त्येनं ब्रूयुः स पा᳘पीयान्भवति श्रे᳘याँस आत्म᳘ना ॥
मूलम् - विस्वरम्
अथ यदुदयनीयमतिरात्रमुपयन्ति । संवत्सरमेव तदाप्त्वा स्वर्गे लोके प्रतितिष्ठन्ति । तान् यदि पृच्छेयुः । कामद्य देवतां यजध्वे । का देवता स्थ । कस्यां देवतायां वसथेति । अत एवैकतमां ब्रूयुः । यस्यै तु नेदिष्ठं स्युः । एते सतिसदः । एते हि सतीषु देवतासु सीदन्तो यन्ति । सत्रसदो हैवेतरे । स यो हैव विदुषां दीक्षितानां पापकं सत्रे कीर्तयेत् । “एताभ्यस्त्वा देवताभ्य आवृश्चामः” इत्येनं ब्रूयुः । स पापीयान् भवति । श्रेयांस आत्मना ॥ २२ ॥
हरिस्वामी
‘यस्यै’ यस्या देवतायाः ‘नेदिष्ठं’ अन्तिकतमं भवेयुः । तामेव ब्रूयुरग्नाविष्णू अदो यजामहै इति । ‘एते ह वै सतिसदः’ यदि ते वै उपासका उच्यन्ते । इत्युपासनागुणव्यपदेशेन वचनम् । ‘सतीषु देवतासु’ सीदन्तीति सतिसदः । सत्रे सीदन्तीति सत्रसदः इतरे केवलं सत्रैककर्मात्मके सीदन्ति । न देवतास्विति सत्रसदः अनुपासकाः ॥ २२ ॥
Eggeling
- And when they enter upon the concluding Atirātra (of the sacrificial session), then, indeed, having gained the Year, they establish themselves in the world of heaven. And were any one to ask them, ‘To what deity are ye offering sacrifice this day? what deity are ye? with what deity do ye dwell?’ let them name of those (deities) the one to whom they may be nearest (in the performance of the Sattra). And,
verily, such (sacrificers) are seated (sad) in the good 9 (place), for they are for ever seated among the good deities; and the others are mere partakers in the sacrificial session 10; and if any one were, during a sacrificial session, to speak evil of such initiates as know this, let them say to him, ‘We cut thee off from those deities;’ and he becomes the worse, and they themselves become the better for it.
मूलम् - Makoto
अ᳓थ य᳓द् उदयनी᳓यम् अतिरा᳓त्र᳓म् उपय᳓न्ति ।॥
संवत्सर᳓म् एव᳓ त᳓द् आ᳓प्त्वा᳓ स्वर्गे᳓ लोके᳓ प्र᳓तितिष्ठन्ति ता᳓न् य᳓दि पृछे᳓युः का᳓म् अद्य᳓ देव᳓तां᳓ य᳓जध्वे का᳓ देव᳓ता᳓ स्थ क᳓स्यां᳓ देव᳓ता᳓यां᳓ वसथेत्य् अत एवै᳙कतमां᳓ ब्रूयुर् य᳓स्यै तु᳓ ने᳓दिष्ठँ स्यु᳓र् एते᳓ ह वै᳓ सति᳓ स᳓द एते᳓ हि᳓ सती᳓षु देव᳓ता᳓सु सी᳓दन्तो य᳓न्ति सत्त्रस᳓दो हैवे᳓तरे स᳓ यो᳓ हैवं᳓ विदु᳓षां᳓ दीक्षिता᳓नां᳓ पा᳓पकँ सत्त्रे᳓ कीर्त᳓येद् एते᳓भ्यस् त्वा᳓ देव᳓ता᳓भ्य आ᳓वृश्चा᳓म इ᳓त्य् एनं ब्रूयुः स᳓ पा᳓पीया᳓न् भवति श्रे᳓याँ᳓स आ᳓त्म᳓ना᳓ ॥॥
२३
विश्वास-प्रस्तुतिः
स᳘ ऽएष᳘ संवत्सरस्त्रि᳘महाव्व्रतः॥
(श्च) चतुर्व्विᳫँ᳭शे᳘ महाव्व्रतं᳘ व्विषुव᳘ति महाव्व्रत᳘म्महाव्व्रत᳘ ऽएव᳘ महाव्व्रतन्त᳘ᳫँ᳘ ह स्मैतं पू᳘र्व्व ऽउ᳘पयन्ति त्रि᳘महाव्व्रतन्ते ते᳘ तेजस्वि᳘न ऽआसुः सत्यवादि᳘नः स᳘ᳫँ᳘शितव्व्रता ऽअ᳘थ य᳘ ऽउ हैनम᳘प्येत᳘र्हि त᳘थोपेयुर्य्य᳘था ऽऽमपात्र᳘मुदक ऽआ᳘सिक्ते व्विम्म्रित्ये᳘देव᳘ᳫँ᳘ हैव ते व्वि᳘म्म्रित्येयुरुपर्य्यु᳘पयन्ति त᳘देषाᳫँ᳭ सत्ये᳘न श्र᳘मेण त᳘पसा श्रद्ध᳘या यज्ञेना᳘हुतिभिर᳘वरुद्धम्भवति॥
मूलम् - श्रीधरादि
स᳘ ऽएष᳘ संवत्सरस्त्रि᳘महाव्व्रतः॥
(श्च) चतुर्व्विᳫँ᳭शे᳘ महाव्व्रतं᳘ व्विषुव᳘ति महाव्व्रत᳘म्महाव्व्रत᳘ ऽएव᳘ महाव्व्रतन्त᳘ᳫँ᳘ ह स्मैतं पू᳘र्व्व ऽउ᳘पयन्ति त्रि᳘महाव्व्रतन्ते ते᳘ तेजस्वि᳘न ऽआसुः सत्यवादि᳘नः स᳘ᳫँ᳘शितव्व्रता ऽअ᳘थ य᳘ ऽउ हैनम᳘प्येत᳘र्हि त᳘थोपेयुर्य्य᳘था ऽऽमपात्र᳘मुदक ऽआ᳘सिक्ते व्विम्म्रित्ये᳘देव᳘ᳫँ᳘ हैव ते व्वि᳘म्म्रित्येयुरुपर्य्यु᳘पयन्ति त᳘देषाᳫँ᳭ सत्ये᳘न श्र᳘मेण त᳘पसा श्रद्ध᳘या यज्ञेना᳘हुतिभिर᳘वरुद्धम्भवति॥
मूलम् - Weber
स᳘ एष᳘ संवत्सरस्त्रि᳘महाव्रतः ॥
चतुर्विँशे᳘ महाव्रतं᳘ विषुव᳘ति महाव्रतं᳘ महाव्रत᳘ऽएव᳘ महाव्रतं तँ᳘ ह स्मैतं पू᳘र्वऽउ᳘पयन्ति त्रि᳘महाव्रतं ते᳘ तेजस्वि᳘न 11 आसुः सत्यवादि᳘नः सँ᳘शितव्रता अ᳘थ य᳘ऽउ हैनम᳘प्येत᳘र्हि त᳘थोपेयुर्य᳘थामपात्र᳘मुदकऽआ᳘सिक्ते विम्रित्ये᳘देवँ᳘ हैव ते वि᳘म्रित्येयुरुपर्यु᳘पयन्ति त᳘देषाँ सत्ये᳘न श्र᳘मेण त᳘पसा श्रद्ध᳘या यज्ञेना᳘हुतिभिर᳘वरुद्धं भवति ॥ ब्राह्मणम् ॥३॥
मूलम् - विस्वरम्
स एष संवत्सरस्त्रिमहाव्रतः । चतुर्विंशे महाव्रतम् । विषुवति महाव्रतम् । महाव्रत एव महाव्रतम् । तं ह स्मैतं पूर्व उपयंति त्रिमहाव्रतं ते । ते तेजस्विन आसुः । सत्यवादिनः । संशितव्रताः । अथ य उ ह एनमप्येतर्हि तथोपेयुः । यथा ऽऽमपात्रमुदक आसिक्ते विम्रित्येत् । एवं हैव ते विम्रित्येयुः । उपर्युपयंति । तदेषां सत्येन श्रमेण तपसा श्रद्धया यज्ञेनाहुतिभिरवरुद्धं भवति ॥ २३ ॥
हरिस्वामी
तमेतं ‘त्रिमहाव्रतं’ संवत्सरं ‘पूर्वे’ प्राक्कलियुगादुपयन्ति स्म न संप्रति । किं कारणम् । यस्मात्ते ‘तेजस्विनः’ बभूवुः ॥
सत्यवादिन इति । तीक्ष्णीकृतव्रताः इति येषां आख्या ऽस्ति, ते त्रिमहाव्रतयाजिन इत्येतत् गृह्यते अन्यथा विम्रित्येत् कर्म विनश्येत् ते ऽपि विम्रित्येयुः विनश्येयुरित्यर्थः । ‘उपरि’ उपांत्यदिवसे ‘उपयन्ति’ यत्तर्हि कलियुगे तत्र कथं ? विनाशदोषो न भविष्यतीत्यत आह- तदुपर्युपगम्यमानमेषां सांप्रतिकानां श्रमादिभिरवरुद्धं भवति । न हिनस्तीति ॥ २३ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे प्रथमे ऽध्याये तृतीयं ब्राह्मणम् ॥ १२ । १ । ३ ॥
Eggeling
- That same year contains three great rites (mahāvrata):–the great rite on the Caturviṁśa day, the great rite on the Vishuvat day, and the great rite 12 on the Mahāvrata day itself. Now, those of old used, indeed, to enter upon (perform) that (year’s session) with three great rites, and they became glorious, truth-speaking, and faithful to their vow; but if nowadays any (sattrins) were to perform it on this wise, they assuredly would crumble away even as a jar of unbaked clay would crumble away if water were poured into it. They (who do so) perform too much: that (object) of theirs is gained by truth, by toil, by fervid devotion, by faith, by sacrifice, and by oblations.
मूलम् - Makoto
स᳓ एष᳓ संवत्सर᳓स् त्रि᳓महा᳓व्रतः ।॥
चतुर्विँशे᳓ महा᳓व्रतं᳓ विषुव᳓ति महा᳓व्रतं᳓ महा᳓व्रत᳓ एव᳓ महा᳓व्रतं᳓ तँ᳓ ह स्मैतं᳓ पू᳓र्व उ᳓पयन्ति त्रि᳓महा᳓व्रतं᳓ ते᳓ तेजस्वि᳓न आ᳓सुः सत्यवा᳓दि᳓नः सँ᳓शितव्रता᳓ अ᳓थ य᳓ उ हैनम् अ᳓प्य् एत᳓र्हि त᳓थोपेयु᳓र् य᳓था᳓मपा᳓त्र᳓म् उदक᳓ आ᳓सिक्ते विम्रित्ये᳓द् एवँ᳓ हैव᳓ ते᳓ वि᳓म्रित्येयुर् उपयु᳓पयन्ति त᳓द् एषाँ᳓ सत्ये᳓न श्र᳓मेण त᳓पसा᳓ श्रद्ध᳓या᳓ यज्ञे᳓ना᳓हुतिभिर् अ᳓वरुद्धं भवति ॥॥
-
अ᳘थत्क्र᳘येण A. ↩︎
-
141:1 See XIV, 1-3; and part ii, p. 104, note 3. ↩︎
-
141:2 Viz. Agni, Soma, and Vishṇu; cf. part ii, p. 305, note 1. ↩︎
-
141:3 See part ii, p. 162 seqq. ↩︎
-
141:4 Viz. inasmuch as the Atirātra includes both a day and a night performance. ↩︎
-
141:5 Viz. both because this is the real opening day of the year’s session, and because Prajāpati (as the Purusha and the Year) is ‘caturviṁśa’ or ’twenty-four-fold’ (ej. VI, 2, 1, 23). ↩︎
-
142:1 See p. 140, note 1. ↩︎
-
य᳘जन्ते शो दे᳘व᳘ता A. ↩︎
-
144:1 Or, in the true, abiding (place)–sati. ↩︎
-
144:2 That is, those who perform a sacrificial session (sattra) without their possessing the esoteric knowledge regarding the several ceremonies, set forth in the preceding paragraphs, are mere ‘sattrasadaḥ’ (i.e. ‘merely sitting through the sacrificial session’) whilst those possessing that knowledge are ‘sari sadaḥ.’ ↩︎
-
ते ते᳘जस्विन A.P. ते ते᳘ तेजस्वि᳘न M. ↩︎
-
144:3 That is, more especially, the chanting of the Mahāvrata-sāman, for which see part iv, p. 282, note 5. ↩︎