०१
विश्वास-प्रस्तुतिः
श्रद्धा᳘या वै᳘ देवाः᳘॥
(०) दीक्षान्नि᳘रमिमता᳘दित्यै प्रायणी᳘यᳫँ᳭ सो᳘मात्क्रयम्वि᳘ष्णोरातिथ्य᳘मादित्या᳘त्प्रव᳘र्ग्ग्यᳫँ᳭ स्वधा᳘या ऽउपस᳘दो ऽग्नीषो᳘माभ्यामुपवसथ᳘मस्मा᳘ल्लोका᳘त्प्रायणी᳘यमतिरा᳘त्रम्॥
मूलम् - श्रीधरादि
श्रद्धा᳘या वै᳘ देवाः᳘॥
(०) दीक्षान्नि᳘रमिमता᳘दित्यै प्रायणी᳘यᳫँ᳭ सो᳘मात्क्रयम्वि᳘ष्णोरातिथ्य᳘मादित्या᳘त्प्रव᳘र्ग्ग्यᳫँ᳭ स्वधा᳘या ऽउपस᳘दो ऽग्नीषो᳘माभ्यामुपवसथ᳘मस्मा᳘ल्लोका᳘त्प्रायणी᳘यमतिरा᳘त्रम्॥
मूलम् - Weber
श्रद्धा᳘या वै᳘ देवाः᳘ ॥
दीक्षां नि᳘रमिमता᳘दित्यै प्रायणी᳘यँ सो᳘मात्क्रयं वि᳘ष्णोरातिथ्य᳘मादित्या᳘त्प्रव᳘र्ग्यँ स्वधा᳘या उपस᳘दोऽग्नीषो᳘माभ्यामुपवसथ᳘मस्मा᳘ल्लोका᳘त्प्रायणी᳘यमतिरा᳘त्रँ᳘ 1 ॥
मूलम् - विस्वरम्
श्रद्धाया वै देवा दीक्षां निरमिमत । अदित्यै प्रायणीयम् । सोमात् क्रयम् । विष्णोरातिथ्यम् । आदित्यात्प्रवर्ग्यम् । स्वधाया उपसदः । अग्नीषोमाभ्यामुपवसथम् । अस्माल्लोकात् प्रायणीयमतिरात्रम् ॥ १ ॥
हरिस्वामी
‘श्रद्धाया वै’ । श्रद्धादिभ्यो देवताभ्यः दीक्षाद्यभिमानिनो विग्रहवन्तो देवाः देवैर्निर्मिताः । सम्भूय च इति प्रादुर्भाविका इत्येषा उपासना अत्र ब्राह्मणे उच्यते । प्रसन्नम् एव ॥ १-३ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे प्रथमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ १२ । १ । २ ॥
Eggeling
- Verily, from out of faith the gods fashioned the initiation, from out of Aditi the opening (sacrifice 2), from out of Soma the buying (of Soma-plants), from out of Vishṇu the guest-offering, from out of the sun the Pravargya, from out of the Svadhā (the food of departed ancestors) the Upasads,
from out of Agni and Soma the day of fasting, and from out of this world the opening Atirātra 3.
मूलम् - Makoto
श्रद्धा᳓या᳓ वै᳓ देवाः᳓ ।॥
दीक्षां᳓ नि᳓रमिमता᳓दित्यै प्रा᳓यणी᳓यँ सो᳓मा᳓त् क्रयं᳓ वि᳓ष्णोर् आ᳓तिथ्य᳓म् आ᳓दित्या᳓त् प्रव᳓र्ग्यँ स्वधा᳓या᳓ उपस᳓दो ऽग्नीषो᳓मा᳓भ्या᳓म् उपवसथ᳓म् अस्मा᳓ल् लोका᳓त् प्रा᳓यणी᳓यम् अतिरा᳓त्रँ᳓ ॥॥
०२
विश्वास-प्रस्तुतिः
(ᳫँ᳭) संवत्सरा᳘च्चतुर्विᳫँ᳭शम᳘हः॥
(र्ब्र᳘) ब्र᳘ह्मणो ऽभिप्लवं᳘ क्षत्त्रात्पृ᳘ष्ठ्यमग्ने᳘रभिजि᳘तमद्भ्यः स्व᳘रसाम्न ऽआदित्या᳘द्विषुव᳘न्तमुक्ताः स्व᳘रसामान ऽइ᳘न्द्राद्विश्वजि᳘तमुक्तौ᳘ पृष्ठ्याभिप्लवौ᳘ मित्राव᳘रुणाभ्यां गो ऽआयु᳘षी व्वि᳘श्वेभ्यो देवे᳘भ्यो दशरात्रं᳘ दिग्ग्भ्यो दा᳘शरात्रिकम्पृ᳘ष्ठ्यᳫँ᳭ षडह᳘मेभ्यो᳘ लोके᳘भ्यश्छन्दोमा᳘न्॥
मूलम् - श्रीधरादि
(ᳫँ᳭) संवत्सरा᳘च्चतुर्विᳫँ᳭शम᳘हः॥
(र्ब्र᳘) ब्र᳘ह्मणो ऽभिप्लवं᳘ क्षत्त्रात्पृ᳘ष्ठ्यमग्ने᳘रभिजि᳘तमद्भ्यः स्व᳘रसाम्न ऽआदित्या᳘द्विषुव᳘न्तमुक्ताः स्व᳘रसामान ऽइ᳘न्द्राद्विश्वजि᳘तमुक्तौ᳘ पृष्ठ्याभिप्लवौ᳘ मित्राव᳘रुणाभ्यां गो ऽआयु᳘षी व्वि᳘श्वेभ्यो देवे᳘भ्यो दशरात्रं᳘ दिग्ग्भ्यो दा᳘शरात्रिकम्पृ᳘ष्ठ्यᳫँ᳭ षडह᳘मेभ्यो᳘ लोके᳘भ्यश्छन्दोमा᳘न्॥
मूलम् - Weber
संवत्सरा᳘च्चतुर्विशम᳘हः ॥
ब्र᳘ह्मणोऽभिप्लवं᳘ क्षत्रात्पृ᳘ष्ठ्यमग्ने᳘रभिज्ञि᳘तमद्भ्यः स्व᳘रसाम्न आदित्या᳘द्विषुव᳘न्तमुक्ताः स्व᳘रसामान इ᳘न्द्राद्विश्वजि᳘तमुक्तौ᳘ पृष्ठ्याभिप्लवौ᳘ मित्राव᳘रुणाभ्यां गोऽआयु᳘षी 4 वि᳘श्वेभ्यो देवे᳘भ्यो दशरात्रं᳘ दिग्भ्यो दा᳘शरात्रिकं पृ᳘ष्ठ्यँ षडह᳘मेभ्यो᳘ लोके᳘भ्यश्छन्दोमा᳘न् ॥
मूलम् - विस्वरम्
संवत्सरात् चतुर्विंशमहः । ब्रह्मणो ऽभिप्लवम् । क्षत्त्रात् पृष्ठ्यम् । अग्नेरभिजितम् । अद्भ्यः स्वरसाम्नः । आदित्याद्विषुवंतम् । उक्ताः स्वरसामानः । इंद्राद्विश्वजितम् । उक्तौ पृष्ठ्याभिप्लवौ । मित्रावरुणाभ्यां गोआयुषी । विश्वेभ्यो देवेभ्यो दशरात्रम् । दिग्भ्यो दाशरात्रिकं पृष्ठ्यं षडहम् । एभ्यो लोकेभ्यश्छन्दोमान् ॥ २ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- From out of the year (they fashioned) the Caturviṁśa day, from out of the priesthood the Abhiplava (shaḍaha), from out of the nobility the Pr̥shṭḥya (shaḍaha) 5, from out of Agni the Abhijit, from out of the waters the Svarasāman days, from out of the sun the Vishuvat,–the Svarasāman days have been told;–from out of Indra the Viśvajit,–the Pr̥shṭḥya and Abhiplava have been told;–from out of Mitra and Varuṇa the Go and
Āyus 6, from out of the Viśve Devāḥ the Daśarātra 7, from out of the regions the Pr̥shṭḥya-shaḍaha of the Daśarātra, from out of these worlds the Chandoma days.
मूलम् - Makoto
संवत्सरा᳓च् चतुर्विँश᳓म् अ᳓हः ।॥
ब्र᳓ह्मणो ऽभिप्लवं᳓ क्षत्रा᳓त् पृष्ठ्यम् अग्ने᳓र् अभिजि᳓तम् अद्भ्यः᳓ स्व᳓रसा᳓म्न आ᳓दित्या᳓द् विषुव᳓न्तम् उक्ताः᳓ स्व᳓रसा᳓मा᳓न इ᳓न्द्रा᳓द्विश्वजि᳓तम् उक्तौ᳓ पृष्ठ्या᳓भिप्लवौ᳓ मित्रा᳓व᳓रुणा᳓भ्यां᳓ गोआ᳓यु᳓षी वि᳓श्वेभ्यो देवे᳓भ्यो दशरा᳓त्रं᳓ दिग्भ्यो᳓ दा᳓शरा᳓त्रिकं पृ᳓ष्ठ्यँ षडह᳓म् एभ्यो᳓ लोके᳓भ्यश् छन्दोमा᳓न् ॥॥
०३
विश्वास-प्रस्तुतिः
(न्त्सं) संवत्सरा᳘द्दशमम᳘हः॥
प्रजा᳘पतेर्म्महाव्व्रत᳘ᳫँ᳘[[!!]] स्वर्ग्गा᳘ल्लोका᳘दुदयनी᳘यमतिरात्रन्त᳘देत᳘त्संवत्सर᳘स्य ज᳘न्म स यो᳘ हैव᳘मेत᳘त्सम्वत्सर᳘स्य ज᳘न्म व्वेदा᳘ हास्माच्छ्रे᳘याञ्जायते सा᳘त्मा भवति संवत्सरो᳘ भवति संवत्सरो᳘ भूत्वा᳘ देवान᳘प्येति॥
मूलम् - श्रीधरादि
(न्त्सं) संवत्सरा᳘द्दशमम᳘हः॥
प्रजा᳘पतेर्म्महाव्व्रत᳘ᳫँ᳘[[!!]] स्वर्ग्गा᳘ल्लोका᳘दुदयनी᳘यमतिरात्रन्त᳘देत᳘त्संवत्सर᳘स्य ज᳘न्म स यो᳘ हैव᳘मेत᳘त्सम्वत्सर᳘स्य ज᳘न्म व्वेदा᳘ हास्माच्छ्रे᳘याञ्जायते सा᳘त्मा भवति संवत्सरो᳘ भवति संवत्सरो᳘ भूत्वा᳘ देवान᳘प्येति॥
मूलम् - Weber
संवत्सरा᳘द्दशमम᳘हः ॥
प्रजा᳘पतेर्महा᳘व्रतँ᳘ स्वर्गा᳘ल्लोका᳘दुदयनी᳘यमतिरात्रं त᳘देत᳘त्संवत्सर᳘स्य ज᳘न्म स यो हैव᳘मेत᳘त्संवत्सर᳘स्य ज᳘न्म वेदा᳘ हास्माच्छ्रे᳘यान्जायते सा᳘त्मा भवति संवत्सरो᳘ भवति संवत्सरो᳘ भूत्वा᳘ देवान᳘प्येति ॥ ब्राह्मणम् ॥२॥
मूलम् - विस्वरम्
संवत्सराद्दशममहः । प्रजापतेर्महाव्रतम् । स्वर्गल्लोकादुदयनीयमतिरात्रम् । तदेतत्संवत्सरस्य जन्म । स यो हैवमेतत्संवत्सरस्य जन्म वेद । आ हास्माच्छ्रेयान् जायते । सात्मा भवति । संवत्सरो भवति । संवत्सरो भूत्वा देवानप्येति ॥ ३ ॥
हरिस्वामी
[व्याख्यानं प्रथमे]
Eggeling
- From out of the year (they fashioned) the tenth day, from out of Prajāpati the Mahāvrata, and from out of the world of heaven the Udayanīya Atirātra:–such was the birth of the Year; and, verily, whosoever thus knows that birth of the Year becomes more (and more) glorious to (the end of) it, he becomes possessed of a (new) body, he becomes the Year, and, as the Year 8, he goes to the gods.
मूलम् - Makoto
संवत्सरा᳓द् दशम᳓म् अ᳓हः ।॥
प्रजा᳓पतेर् महा᳓व्रतँ᳓ स्वर्गा᳓ल् लोका᳓द् उदयनी᳓यम् अतिरा᳓त्रं᳓ त᳓द् एत᳓त् संवत्सर᳓स्य ज᳓न्म स᳓ यो᳓ हैव᳓म् एत᳓त् संवत्सर᳓स्य ज᳓न्म वे᳓दा᳓ हा᳓स्मा᳓च् छ्रे᳓या᳓न् जा᳓यते सा᳓त्मा᳓ भवति संवत्सरो᳓ भवति संवत्सरो᳓ भूत्वा᳓ देवा᳓न् अ᳓प्येति ॥॥
-
ऽग्नीषो᳘माभ्याशुवसथ᳘म॰ A. ↩︎
-
138:2 For the Prāyaṇīyeshṭi of the ordinary Soma-sacrifice, see part ii, p. 47 seqq. For the subsequent ceremonies, cf. the table of contents of the same part. They are here alluded to for the reason that they are essential parts of every day’s performance during the year’s session. ↩︎
-
139:1 The Prāyaṇīya Atirātra is the first day of the sacrificial session called Gavām ayanam, the performance of which lasts a year, and includes the following sacrificial periods and days (cf. part ii, p, 427):– ↩︎
-
आयु᳘बी A. ↩︎
-
139:2 For the difference between these two sacrificial periods of six days, see part iii, introd., p. xxi, note 2. ↩︎
-
140:1 For the differences between the three modes of chanting the Stotras of the Agnishṭoma and Ukthya Soma-sacrifices–viz. Jyotishṭoma, Goshṭoma, Āyushṭoma–see part iv, p. 287, note 2. ↩︎
-
140:2 The Daśarātra, or central ten days of the Dvādaśāha (twelve days’ period), consists of a Pr̥shṭḥya shaḍaha, three Chandoma days (of the Ukthya order), and a final (tenth) Atyagnishṭoma day called Avivākya. ↩︎
-
140:3 For the Sacrificer as father Time, see part iv, introd., p. xxii. ↩︎