०१
विश्वास-प्रस्तुतिः
अयं वै᳘ यज्ञो᳘ यो ऽयम्प᳘वते॥
त᳘मेत᳘ ऽईप्सन्ति ये᳘ संवत्सरा᳘य दी᳘क्षन्ते ते᳘षाङ्गृह᳘पतिः प्रथमो᳘ दीक्षते ऽयम्वै᳘ लोको᳘ गृह᳘पतिरस्मिन्वै᳘ लोक᳘ ऽइदᳫँ᳭ स᳘र्व्वम्प्र᳘तिष्ठितङ्गृह᳘पता ऽउ वै स᳘सत्रिणः प्र᳘तिष्ठिताः प्रतिष्ठा᳘यामे᳘वैत᳘त्प्रतिष्ठा᳘य दीक्षन्ते॥
मूलम् - श्रीधरादि
अयं वै᳘ यज्ञो᳘ यो ऽयम्प᳘वते॥
त᳘मेत᳘ ऽईप्सन्ति ये᳘ संवत्सरा᳘य दी᳘क्षन्ते ते᳘षाङ्गृह᳘पतिः प्रथमो᳘ दीक्षते ऽयम्वै᳘ लोको᳘ गृह᳘पतिरस्मिन्वै᳘ लोक᳘ ऽइदᳫँ᳭ स᳘र्व्वम्प्र᳘तिष्ठितङ्गृह᳘पता ऽउ वै स᳘सत्रिणः प्र᳘तिष्ठिताः प्रतिष्ठा᳘यामे᳘वैत᳘त्प्रतिष्ठा᳘य दीक्षन्ते॥
मूलम् - Weber
अयं वै᳘ यज्ञोॗ योऽयं प᳘वते ॥
त᳘मेत᳘ऽईप्सन्ति ये᳘ संवत्सरा᳘य दी᳘क्षन्ते ते᳘षां गृह᳘पतिः प्रथमो᳘ दीक्षतेऽयं वै᳘ लोको᳘ गृह᳘पतिरस्मिन्वै᳘ लोक᳘इदँ स᳘र्वं प्र᳘तिष्ठितं गृह᳘पताऽउ वै स᳘सत्त्रिणः 1 प्र᳘तिष्ठिताः प्रतिष्ठा᳘यामेॗवैत᳘त्प्रतिष्ठा᳘य दीक्षन्ते ॥
मूलम् - विस्वरम्
गवामयनब्राह्मणम् ।
अयं वै यज्ञो यो ऽयं पवते । तमेत ईप्सन्ति; संवत्सराय दीक्षन्ते । तेषां गृहपतिः प्रथमो दीक्षते । अयं वै लोको गृहपतिः । अस्मिन् वै लोक इदं सर्वं प्रतिष्ठितम् । गृहपता उ वै ससत्रिणः प्रतिष्ठिताः । प्रतिष्ठायामेवैतत् प्रतिष्ठाय दीक्षन्ते ॥ १ ॥
सायणः
सायणभाष्यं नोपलब्धम् । हरिस्वामिभाष्यमाकाण्डान्तम् ।
हरिस्वामी
हरिस्वामिभाष्यमाकाण्डान्तम् ।
अथ गवामयनम् । तत्रेह यजमानानां दीक्षाक्रम उच्यते । एष श्रुत्यन्तरेषु द्वादशाह एवोच्यते । अत्रैवं वक्तव्यम् । कथं ? गवामयनं हि संवत्सरसत्रम् । तत्र सत्रात्मकस्य द्वादशाहस्य विकार इति द्वादशाह एवोच्यते । विहितो दीक्षाक्रमः तत एव लभ्यते । ननु- गवामयने क्रमो विहितः सन् द्वादशाहे प्राप्नोति । अपेक्षितश्च तेनापि यजमानानां दीक्षाक्रमः । कथम् ? बहुकर्तृकत्वात्- “सप्तदशावराश्चतुर्विंशतिपरमाः सत्रमासीरन्” इति हि वचनात् द्वादशाहो बहुयजमानकः । तेन सर्वे दीक्षणीयाः फलप्रतिग्रहीतृसंस्कारत्वाद्दीक्षायाः । तेषां च यजमानानामेकः क्रत्वर्थान् याजमानान् करोति । स तेनासाधारणात् गृहपतिकर्मणो गृहपतिरिति व्यपदिश्यते । अन्ये तु- “य उ वा ऋत्विजस्ते यजमानाः” इति वचनात् ब्रह्मत्वादिनिश्चयं कुर्वंतस्तन्निमित्तकैः ब्रह्मा उद्गाता इत्यादिविशेषणैः ख्यायन्ते । ततः स्वापेक्षितत्वासम्भवदर्थत्वात् द्वादशाह एव । “तेषां गृहपतिः प्रथमो दीक्षते अथ ब्रह्माणं दीक्षयति” इत्यादि क्रमविधानं शाखान्तरोक्तमप्यत्र योज्यत्वात्तद्वेदस्येदमिह पठ्यते । दर्शनं विशेषार्थम् । ‘अयं वै’ यज्ञस्य कारणं आश्रयश्चेति ‘यज्ञः’ ‘यः अयं पवते’ वायुः, स हि सर्वभूतानां साधारणः प्राणः । प्राणेनैव यज्ञस्तायते । प्राण एवामृते संस्काररूपः प्रतितिष्ठति । ‘तं’ वायुं साधारणमेते आप्तुमिच्छन्ति । ये संवत्सराय दीक्षंत इति । संवत्सरसत्रिण उपन्यास उत्तरवाक्यसंम्बधार्थः । तेषां गृहपतिरिति । क्रमनियमवचनम् । ‘गृहपतिः’ गृहपतिग्रहणं यजमानोपलक्षणार्थम् । यज्ञपतिरित्यर्थः । सर्वे च ते यज्ञस्य पतयः । श्रुत्या च विशेषवचनात् क्रत्वर्थयाजमानकारी गृहपतिर्गृह्यते । ‘अयं वै लोको गृहपतिः’ । कस्मात् ? सामान्यादित्यत आह- अस्मिन् वै लोक इदं सर्वं प्रतिष्ठितमित्यादि ॥ १ ॥
Eggeling
- Verily, this sacrifice is the same as this blowing (wind): it is that 2 they wish to secure who take the vow of initiation for a year. Of them the Gr̥hapati is initiated first 3; for the Gr̥hapati is this (terrestrial) world, and upon this world everything here is established; and so, indeed, are his fellow-sacrificers established in the Gr̥hapati: it is thus after they have become established on a firm foundation that they are initiated.
मूलम् - Makoto
अयं᳓ वै᳓ यज्ञो᳓ यो᳙ ऽयं᳓ प᳓वते ।॥
त᳓म् एत᳓ ईप्सन्ति ये᳓ संवत्सरा᳓य दी᳓क्षन्ते ते᳓षां᳓ गृह᳓पतिः प्रथमो᳓ दीक्षते ऽयं᳓ वै᳓ लोको᳓ गृह᳓पतिर् अस्मि᳓न् वै᳓ लोक᳓ इदँ᳓ स᳓र्वं प्र᳓तिष्ठितं गृह᳓पता᳓ उ वै᳓ स᳓सत्त्रिणः प्र᳓तिष्ठिताः᳓ प्रतिष्ठा᳓या᳓म् एवै᳙त᳓त् प्रतिष्ठा᳓य दीक्षन्ते ॥॥
०२
विश्वास-प्रस्तुतिः
(न्ते᳘ ऽथ) अ᳘थ ब्रह्मा᳘णं दीक्षयति॥
चन्द्र᳘मा᳘ वै᳘ ब्रह्मा सो᳘मो वै᳘ चन्द्र᳘माः सौम्या ऽओ᳘षधय ऽओ᳘षधीस्त᳘दने᳘न लोके᳘न स᳘न्दधाति त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत स य᳘द्धैताव᳘न्तरेणान्यो दी᳘क्षेतौ᳘षधीस्त᳘दने᳘न लोके᳘न ना᳘ना कुर्य्यादुच्छो᳘षुका ह स्युस्त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत ॥
मूलम् - श्रीधरादि
(न्ते᳘ ऽथ) अ᳘थ ब्रह्मा᳘णं दीक्षयति॥
चन्द्र᳘मा᳘ वै᳘ ब्रह्मा सो᳘मो वै᳘ चन्द्र᳘माः सौम्या ऽओ᳘षधय ऽओ᳘षधीस्त᳘दने᳘न लोके᳘न स᳘न्दधाति त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत स य᳘द्धैताव᳘न्तरेणान्यो दी᳘क्षेतौ᳘षधीस्त᳘दने᳘न लोके᳘न ना᳘ना कुर्य्यादुच्छो᳘षुका ह स्युस्त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत ॥
मूलम् - Weber
अ᳘थ ब्रह्मा᳘णं दीक्षयति ।
चन्द्र᳘मा᳘ वै᳘ ब्रह्मा सो᳘मो वै᳘ चन्द्र᳘माः सौम्या ओ᳘षधय ओ᳘षधीस्त᳘दने᳘न लोके᳘न सं᳘दधाति त᳘स्मादेताव᳘᳘न्तरेणान्यो न᳘ दीक्षेत स य᳘द्वैताव᳘न्तरेणान्यो दी᳘क्षेतौ᳘षधीस्त᳘दने᳘न लोके᳘न ना᳘नाकुर्यादुछो᳘षुका 4 ह स्युस्त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत ॥
मूलम् - विस्वरम्
अथ ब्रह्माणं दीक्षयति । चन्द्रमा वै ब्रह्मा । सोमो वै चन्द्रमाः । सौम्या ओषधयः । ओषधीस्तदनेन लोकेन संदधाति । तस्मादेतावंतरेणान्यो न दीक्षेत । स यद्वैतावन्तरेणान्यो दीक्षेत । ओषधीस्तदनेन लोकेन नाना कुर्यात् । उच्छोषुका ह स्युः । तस्मादेतावन्तरेणान्यो न दीक्षेत ॥ २ ॥
हरिस्वामी
अथ ब्रह्माणमिति । ‘ब्रह्माणं’ ब्रह्मत्वकारिणं ‘दीक्षयति’ अध्वर्युः 5 । प्रकृतौ तेन दीक्षितत्वात् । ‘चन्द्रमा वै ब्रह्मा’ । दैवः ‘सोमो वै चन्द्रमाः’ सोमरसमयः । ‘सौम्याः’ सोमदेवत्याः ‘ओषधयः’ । सोम ओषधीनामधिदैवमित्यर्थः । गृहपतेरनन्तरं ब्रह्माणं दीक्षयति । ‘ओषधीस्तदनेन सन्दधाति’ । ‘उच्छोषुकाः’ शोषणधर्मकाः ‘स्युः’ ॥ २ ॥
Eggeling
- He (the Adhvaryu) then initiates the Brahman (priest). Now the Brahman is the moon, and the moon is Soma, and plants belong to Soma 6: he thus connects the plants with this (terrestrial) world. Therefore no other person should be initiated between those two; for, assuredly, were any one else to be initiated between those two, he would separate (tear up) the plants from this (terrestrial) world, and they would be liable to dry up: let therefore no other person be initiated between those two.
मूलम् - Makoto
अ᳓थ ब्रह्मा᳓णं दीक्षयति ।॥
चन्द्र᳓मा᳓ वै᳓ ब्रह्मा᳓ सो᳓मो वै᳓ चन्द्र᳓माः᳓ सौम्या᳓ ओ᳓षधय ओ᳓षधीस् त᳓द् अने᳓न लोके᳓न सं᳓दधा᳓ति त᳓स्मा᳓द् एता᳓व् अ᳓न्तरेणा᳓न्यो᳓ न᳓ दीक्षेत स᳓ य᳓द् धैता᳓व् अ᳓न्तरेणा᳓न्यो᳓ दी᳓क्षेतौ᳓षधीस् त᳓द् अने᳓न लोके᳓न ना᳓ना᳓कुर्या᳓द् उछो᳓षुका᳓ ह स्युस् ॥
त᳓स्मा᳓द् एता᳓व् अ᳓न्तरेणा᳓न्यो᳓ न᳓ दीक्षेत ॥॥
०३
विश्वास-प्रस्तुतिः
(ता᳘) अ᳘थोद्गाता᳘रन्दीक्षयति॥
पर्ज्ज᳘न्यो वा᳘ ऽउद्गाता᳘ पर्ज्जन्यादु वै व्वृ᳘ष्टिर्ज्जायते व्वृ᳘ष्टिं तदो᳘षधिभिः स᳘न्दधाति त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत स य᳘द्धैताव᳘न्तरेणान्यो दी᳘क्षेत व्वृ᳘ष्टिन्तदो᳘षधिभिर्न्ना᳘ना कुर्य्याद᳘वर्षुको ह स्यात्त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत॥
मूलम् - श्रीधरादि
(ता᳘) अ᳘थोद्गाता᳘रन्दीक्षयति॥
पर्ज्ज᳘न्यो वा᳘ ऽउद्गाता᳘ पर्ज्जन्यादु वै व्वृ᳘ष्टिर्ज्जायते व्वृ᳘ष्टिं तदो᳘षधिभिः स᳘न्दधाति त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत स य᳘द्धैताव᳘न्तरेणान्यो दी᳘क्षेत व्वृ᳘ष्टिन्तदो᳘षधिभिर्न्ना᳘ना कुर्य्याद᳘वर्षुको ह स्यात्त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत॥
मूलम् - Weber
अ᳘थोद्गाता᳘रं दीक्षयति ॥
पर्ज᳘न्यो वा᳘ऽउद्गाता᳘ पर्ज᳘न्यादु वै वृ᳘ष्टिर्जायते वृ᳘ष्टिं तदो᳘षधिभ्यः सं᳘दधाति 7 त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत स य᳘द्धैताव᳘न्तरेणान्यो दी᳘क्षेत वृ᳘ष्टिं तदो᳘षधिभिर्ना᳘नाकुर्याद᳘वर्षुको ह स्यात्त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत ॥
मूलम् - विस्वरम्
अथोद्गातारं दीक्षयति । पर्जन्यो वा उद्गाता । पर्जन्यादु वै वृष्टिर्जायते । वृष्टिं तदोषधिभिः । संदधाति । तस्मादेतावंतरेणान्यो न दीक्षेत । स यद्वैतावंतरेणान्यो दीक्षेत । वृष्टिं तदोषाधिभिर्नाना कुर्यात् । अवर्षुको ह स्यात् । तस्मादेतावंतरेणान्यो न दीक्षेत ॥ ३ ॥
हरिस्वामी
अथोद्गातारमिति । प्रसन्नप्रायमतः परम् । ‘अवर्षुकः’ अवर्षणधर्मकः ॥ ३ ॥
Eggeling
- He then initiates the Udgātr̥. Now, the Udgātr̥ is the thunder-cloud, and from the thundercloud rain is produced: he thus connects the rain
with the plants. Therefore no other person should be initiated between those two; for, assuredly, were any one else to be initiated between those two, he would separate the rain from the plants, and (the cloud) would be liable to lack rain: let therefore no other person be initiated between those two.
मूलम् - Makoto
अ᳓थोद्गा᳓ता᳓रं दीक्षयति ।॥
पर्ज᳓न्यो वा᳓ उद्गा᳓ता᳓ पर्ज᳓न्या᳓द् उ वै वृ᳓ष्टिर् जा᳓यते वृ᳓ष्टिं त᳓द् ओ᳓षधिभ्यः सं᳓दधा᳓ति त᳓स्मा᳓द् एता᳓व् अ᳓न्तरेणा᳓न्यो᳓ न᳓ दीक्षेत स᳓ य᳓द् धैता᳓व् अ᳓न्तरेणा᳓न्यो᳓ दी᳓क्षेत वृ᳓ष्टिं त᳓द् ओ᳓षधिभिर् ना᳓ना᳓कुर्या᳓द् अ᳓वर्षुको ह स्या᳓त् त᳓स्मा᳓द् एता᳓व् अ᳓न्तरेणा᳓न्यो᳓ न᳓ दीक्षेत ॥॥
०४
विश्वास-प्रस्तुतिः
(ता᳘) अ᳘थ हो᳘तारं दीक्षयति॥
(त्य) अग्निर्वै हो᳘ता ऽधिदेवतं व्वा᳘गध्यात्मम᳘न्नम्वृ᳘ष्टिरग्नि᳘ञ्च तद्वा᳘चञ्चा᳘न्नेन स᳘न्दधाति त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत स य᳘द्धैताव᳘न्तरेणान्यो दी᳘क्षेतग्नि᳘ञ्च तद्वा᳘चञ्चा᳘न्नेन ना᳘ना कुर्य्यादशना᳘युका ह स्युस्त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेतैतां᳘श्चतु᳘रो ऽध्वर्य्यु᳘र्द्दीक्षयति॥
मूलम् - श्रीधरादि
(ता᳘) अ᳘थ हो᳘तारं दीक्षयति॥
(त्य) अग्निर्वै हो᳘ता ऽधिदेवतं व्वा᳘गध्यात्मम᳘न्नम्वृ᳘ष्टिरग्नि᳘ञ्च तद्वा᳘चञ्चा᳘न्नेन स᳘न्दधाति त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत स य᳘द्धैताव᳘न्तरेणान्यो दी᳘क्षेतग्नि᳘ञ्च तद्वा᳘चञ्चा᳘न्नेन ना᳘ना कुर्य्यादशना᳘युका ह स्युस्त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेतैतां᳘श्चतु᳘रो ऽध्वर्य्यु᳘र्द्दीक्षयति॥
मूलम् - Weber
अ᳘थ हो᳘तारं दीक्षयति ॥
अग्निर्वै हो᳘ताधिदेवतं वा᳘गध्यात्मम᳘न्नं वृ᳘ष्टिरग्निं᳘ च तद्वा᳘चं चा᳘न्नेन सं᳘दधाति त᳘स्मादेतावन्तरेणान्यो न᳘ दीक्षेत स य᳘द्धैताव᳘न्तरेणान्यो दी᳘क्षेतग्निं च तद्वा᳘चं चा᳘न्नेन ना᳘नाकुर्यादशना᳘युका ह स्युस्त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेतैतां᳘श्चतु᳘रोऽध्वर्यु᳘र्दीक्षयति ॥
मूलम् - विस्वरम्
अथ होतारं दीक्षयति । अग्निर्वै होता ऽधिदेवतम् । वागध्यात्मम् । अन्नं वृष्टिः । अग्निं च तद्वाचं चान्नेन सन्दधाति । तस्मादेतावन्तरेणान्यो न दीक्षेत । स यद्धैतावन्तरेणान्यो दीक्षेत । अग्निं च तद्वाचं चान्नेन नाना कुर्यात् । अशनायुका ह स्युः । तस्मादेतावन्तरेणान्यो न दीक्षेत । एतांश्चतुरो ऽध्वर्युर्दीक्षयति ॥ ४ ॥
हरिस्वामी
‘अशनायुकाः’ बहुक्षुधाकुलाः ॥ ४ ॥
Eggeling
- He then initiates the Ho tri. Now, the Hotr̥ 8 is Agni in respect of the deity, and speech in respect of the body; and rain is food: he thus connects both Agni (fire) and speech with food. Therefore no other person should be initiated between those two; for, assuredly, were any one else to be initiated between those two, he would separate fire and speech from food, and (people) would be liable to starve: let therefore no other person be initiated between those two.
मूलम् - Makoto
अ᳓थ हो᳓ता᳓रं दीक्षयति ।॥
अग्नि᳓र् वै᳓ हो᳓ता᳓धिदेवतं᳓ वा᳓ग् अध्या᳓त्म᳓म् अ᳓न्नं वृ᳓ष्टिर् अग्निं᳓ च त᳓द् वा᳓चं चा᳓न्नेन सं᳓दधा᳓ति त᳓स्मा᳓द् एता᳓व् अ᳓न्तरेणा᳓न्यो᳓ न᳓ दीक्षेत स᳓ य᳓द् धैता᳓व् अ᳓नतरेणा᳓न्यो᳓ न᳓ दीक्षेतैतां᳓श् चतु᳓रो ऽध्वर्यु᳓र् दीक्षयति ॥॥
०५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाध्वर्य्यु᳘म्प्रतिप्रस्थाता᳘ दीक्षयति॥
म᳘नो वा᳘ ऽअध्वर्य्युर्व्वाग्घो᳘ता म᳘नश्च तद्वा᳘चञ्च स᳘न्दधाति त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत स य᳘द्धैताव᳘न्तरेणान्यो दी᳘क्षेत म᳘नश्च तद्वा᳘चञ्च ना᳘ना कुर्य्यात्प्रमा᳘युका ह स्युस्त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाध्वर्य्यु᳘म्प्रतिप्रस्थाता᳘ दीक्षयति॥
म᳘नो वा᳘ ऽअध्वर्य्युर्व्वाग्घो᳘ता म᳘नश्च तद्वा᳘चञ्च स᳘न्दधाति त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत स य᳘द्धैताव᳘न्तरेणान्यो दी᳘क्षेत म᳘नश्च तद्वा᳘चञ्च ना᳘ना कुर्य्यात्प्रमा᳘युका ह स्युस्त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत॥
मूलम् - Weber
अ᳘थाध्वर्युं᳘ प्रतिप्रस्थाता᳘ दीक्षयति ॥
म᳘नो वा᳘ऽअध्वर्युर्वाग्घो᳘ता म᳘नश्च तद्वा᳘चं च सं᳘दधाति त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत स य᳘द्धैताव᳘न्तरेणान्यो दी᳘क्षेत म᳘नश्च तद्वा᳘चं च ना᳘नाकुर्या᳘त्प्रमा᳘युका ह स्युस्त᳘स्मादेताव᳘न्तरेणान्यो न᳘ दीक्षेत ॥
मूलम् - विस्वरम्
अथाध्वर्युं 9 प्रतिस्थाता दीक्षयति । मनो वा अध्वर्युः । वाग् होता । मनश्च तद्वाचं च सन्दधाति । तस्मादेतावन्तरेणान्यो न दीक्षेत । स यद्धैतावन्तरेणान्यो दीक्षेत । मनश्च तद्वाचं च नाना कुर्यात् । प्रमायुका ह स्युः । तस्मादेतावन्तरेणान्यो न दीक्षेत ॥ ५ ॥
हरिस्वामी
‘प्रमायुकाः’ । “मीञ् हिंसायाम्” (धा. पा. क्र्या. उ. ४) इति धातुः । विनाशधर्माणः ॥ ५ ॥
Eggeling
- The Pratiprasthātr̥ then initiates the Adhvaryu. Now, the Adhvaryu is the mind 10, and the Hotr̥ is speech: he thus connects mind and speech with one another. Therefore no other person should be initiated between those two; for, assuredly, were any one else to be initiated between those two, he would separate mind and speech, and (people) would be liable to perish: let therefore no other person be initiated between those two.
मूलम् - Makoto
अ᳓था᳓ध्वर्युं᳓ प्रतिप्रस्था᳓ता᳓ दीक्षयति ।॥
म᳓नो वा᳓ अध्वर्यु᳓र् वा᳓ग् घो᳓ता᳓ म᳓नश् च त᳓द् वा᳓चं च सं᳓दधा᳓ति त᳓स्मा᳓द् एता᳓व् अ᳓न्तरेना᳓न्यो᳓ न᳓ दीक्षेत स᳓ य᳓द् धैता᳓व् अ᳓न्तरेणा᳓न्यो᳓ दी᳓क्षेत म᳓नश् च त᳓द् वा᳓चं च ना᳓ना᳓कुर्या᳓त् प्रमा᳓युका᳓ ह स्युस् त᳓स्मा᳓द् एता᳓व् अ᳓न्तरेणा᳓न्यो᳓ न᳓ दीक्षेत ॥॥
०६
विश्वास-प्रस्तुतिः
(ता᳘) अ᳘थ ब्रह्म᳘णे ब्राह्मणाच्छᳫँ᳭सि᳘नन्दीक्षयति॥
तᳫँ᳭ हि सो ऽन्व᳘थोद्गात्रे᳘ प्रस्तोता᳘रन्दीक्षयति तᳫँ᳭ हि सो ऽन्व᳘थ हो᳘त्रे मैत्रावरुण᳘न्दीक्षयति तᳫँ᳭ हि सो᳘ ऽन्वेतां᳘श्चतु᳘रः प्रतिप्रस्थाता᳘ दीक्षयति॥
मूलम् - श्रीधरादि
(ता᳘) अ᳘थ ब्रह्म᳘णे ब्राह्मणाच्छᳫँ᳭सि᳘नन्दीक्षयति॥
तᳫँ᳭ हि सो ऽन्व᳘थोद्गात्रे᳘ प्रस्तोता᳘रन्दीक्षयति तᳫँ᳭ हि सो ऽन्व᳘थ हो᳘त्रे मैत्रावरुण᳘न्दीक्षयति तᳫँ᳭ हि सो᳘ ऽन्वेतां᳘श्चतु᳘रः प्रतिप्रस्थाता᳘ दीक्षयति॥
मूलम् - Weber
अ᳘थ ब्रह्म᳘णे ब्राह्मणाछँसि᳘नं 11 दीक्षयति ॥
तँ हि सोऽन्व᳘थोद्गात्रे᳘ प्रस्तोता᳘रं दीक्षयति तँ हि सोऽन्व᳘थ हो᳘त्रे मैत्रावरुणं᳘ दीक्षयति तँ हि सो᳘ऽन्वेतां᳘श्चतु᳘रः प्रतिप्रस्थाता᳘ दीक्षयति ॥
मूलम् - विस्वरम्
अथ ब्रह्मणे ब्राह्मणाच्छंसिनं दीक्षयति । तं हि सो ऽनु । अथोद्गात्रे प्रस्तोतारं दीक्षयति । तं हि सो ऽनु । अथ होत्रे मैत्रावरुणं दीक्षयति । तं हि सो ऽनु । एतांश्चतुरः प्रतिप्रस्थाता दीक्षयति ॥ ६ ॥
हरिस्वामी
ब्रह्मणे ब्राह्मणाच्छंसिनमिति । चतुर्थी षष्ठ्यर्थे द्रष्टव्या (पा. सू. २ । ३ । ६२ वा.) कुतः ? चतुर्थ्यनुपपत्तेः । न तावद्देवतावाची, अत एषा चतुर्थी न संप्रदाने । न तादर्थ्ये । न हि ब्रह्मार्थं ब्राह्मणाच्छंसी दीक्ष्यते । किं तर्हि ब्राह्मणाच्छंस्यर्थमेव । परिशेषात् संबंधमात्रे षष्ठ्यर्थे यथा चतुर्थी । एवमुद्गात्रे इत्यादयोऽपि । कः पुनर्ब्रह्मणो ब्राह्मणाच्छंसिनः स्वं प्रत्यात्मिकः संबंधः । न खलु कश्चित्, अस्ति तु प्रकृतौ ज्योतिष्टोमे तस्यादीक्षितत्वेऽपि । अत्र वाक्योपदेशत् भविष्यति । कः पुनः सः, यावत्यो ब्रह्मणो दक्षिणाः । तावतीनामर्द्धं ब्राह्मणाच्छंसिनः इत्येषः संबंधः । एतावती तृतीयादेः । तुरीयमग्नीधश्चेति । एष ब्रह्मणस्तत्पुरुषाणां संबंधः । एवमुद्गात्रादीनां प्रस्तोत्रादीनां च । वाक्यं शाखांतरेषु स्पष्टमाम्नातम् । चोदितः संबंधः- “ततस्तं प्रतिप्रस्थाता दीक्षयित्वा; अर्द्धिनो दीक्षयति ब्राह्मणाच्छंसिनं ब्राह्मणम्” इत्यादिना । ननु च- अर्द्धिनः, तृतीयिणः, तुरीयिणः, इत्येते व्यपदेशाः प्रकृतौ उपयुज्यंते । ब्राह्मणाच्छंस्यादीनां भागविशेषाः कल्प्यन्ते । एते ब्राह्मणा उद्गातुरित्यादयो व्यपदेशा एते न किंचिदुपयुज्यंते । ब्राह्मणादीनां तुल्यभागत्वात् । एवं तर्हि अन्येऽप्येवमुपात्ता व्यपदेशा उपयोक्ष्यन्ते । “तत्प्राची दिक् होतुः दक्षिणा ब्रह्मणः” इत्यादीननुक्रम्य “तदेवं होत्रिका अन्वाभक्ता” इत्युच्यन्ते । तत्रैतेभ्यो व्यपदेशेभ्यः होतृपुरुषाः प्राच्यां दिशि तु आभज्यन्ते । दक्षिणस्यां ब्राह्मणाच्छंस्यादयो ब्रह्मपुरुषाः । इत्यादि सेत्स्यति । तस्मादुपपन्नमेतत् षष्ठ्यर्थे चतुर्थ्या । (पा. सू. २ । ३ । ६२ वा.) इति ॥ ६-९ ॥
Eggeling
- He then initiates the Brāhmaṇāchaṁsin for the Brahman, for under him the former is. He then initiates the Prastotr̥ for the Udgātr̥, for under
him the former is. He then initiates the Maitrāvaruṇa for the Hotr̥, for under him the former is. These four the Pratiprasthātr̥ initiates.
मूलम् - Makoto
अ᳓थ ब्रह्म᳓णे ब्रा᳓ह्मणा᳓छँसि᳓नं दीक्षयति ।॥
तँ᳓ हि᳓ सो᳓ ऽन्व् अ᳓थोद्गा᳓त्रे᳓ प्रस्तोता᳓रं दीक्षयति तँ᳓ हि᳓ सो᳓ ऽन्व् अ᳓थ हो᳓त्रे मैत्रा᳓वरुणं᳓ दीक्षयति तं᳓ हि᳓ सो᳓ ऽन्व् एतां᳓श् चतु᳓रः प्रतिप्रस्था᳓ता᳓ दीक्षयति ॥॥
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अथा᳘ध्वर्य्य᳘वे प्रतिप्रस्थाता᳘रन्ने᳘ष्टा दीक्षयति॥
तᳫँ᳭ हि सो᳘ ऽन्वेते᳘षाम्वै᳘ नवानाङ्क्लृ᳘प्तिमन्वि᳘तरे[[!!]] कल्पन्ते न᳘व वै᳘ प्राणाः᳘ प्राणा᳘ने᳘वैष्वेत᳘द्दधाति त᳘था स᳘र्व्वमा᳘युर्य्य᳘न्ति त᳘थो ह न᳘ पुरा᳘ ऽऽयुषो ऽस्मा᳘ल्लोकात्प्र᳘यन्ति॥
मूलम् - श्रीधरादि
(त्य᳘) अथा᳘ध्वर्य्य᳘वे प्रतिप्रस्थाता᳘रन्ने᳘ष्टा दीक्षयति॥
तᳫँ᳭ हि सो᳘ ऽन्वेते᳘षाम्वै᳘ नवानाङ्क्लृ᳘प्तिमन्वि᳘तरे[[!!]] कल्पन्ते न᳘व वै᳘ प्राणाः᳘ प्राणा᳘ने᳘वैष्वेत᳘द्दधाति त᳘था स᳘र्व्वमा᳘युर्य्य᳘न्ति त᳘थो ह न᳘ पुरा᳘ ऽऽयुषो ऽस्मा᳘ल्लोकात्प्र᳘यन्ति॥
मूलम् - Weber
अथा᳘ध्वर्य᳘वे प्रतिप्रस्थाता᳘रं ने᳘ष्टा दीक्षयति ॥
तँ हि सो᳘ऽन्वेते᳘षां वै नवा᳘नां᳘ क्लृ᳘प्तिमन्वि᳘तरे कल्पन्ते न᳘व वै᳘ प्राणाः᳘ प्राणा᳘नेॗवैष्वेत᳘द्दधाति त᳘था स᳘र्वमा᳘युर्य᳘न्ति त᳘थो ह न᳘ पुरा᳘युषोऽस्मा᳘ल्लोकात्प्र᳘यन्ति ॥
मूलम् - विस्वरम्
अथाध्वर्यवे प्रतिप्रस्थातारं नेष्टा 9 दीक्षयति । तं हि सो ऽनु । एतेषां वै नवानां क्लृप्तिमन्वितरे कल्पन्ते । नव वै प्राणाः । प्राणानवैष्वेतद्दधाति । तथा सर्वमायुर्यन्ति । तथा उ ह न पुरा ऽऽयुषो ऽस्माल्लोकात् प्रयंति ॥ ७ ॥
हरिस्वामी
[व्याख्यानं षष्ठे]
Eggeling
- The Neshṭr̥ then initiates the Pratiprasthātr̥ for the Adhvaryu, for under him the former is. It is after the fitting out 12 of these nine that the others are fitted out; for there are nine vital airs: he thus lays the vital airs into them; and so they attain the full term of life, and so they do not depart this world before their (full) term of life.
मूलम् - Makoto
अ᳓था᳓ध्वर्य᳓वे प्रतिप्रस्था᳓ता᳓रं ने᳓ष्टा᳓ दीक्षयति ।॥
तँ᳓ हि᳓ सो᳓ ऽन्व् एते᳓षां᳓ वै᳓ नवा᳓नां᳓ क्ल्̥^;प्तिम् अ᳓न्व् इ᳓तरे कल्पन्ते न᳓व वै᳓ प्रा᳓णाः᳓ प्रा᳓णा᳓न् एवै᳙ष्व् एत᳓द् दधा᳓ति त᳓था᳓ स᳓र्वम् आ᳓युर् य᳓न्ति त᳓थो ह न᳓ पुरा᳓युषो ऽस्मा᳓ल् लोका᳓त् प्र᳓यन्ति ॥॥
०८
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ ब्रह्म᳘णे पो᳘तारन्दीक्षयति॥
तᳫँ᳭ हि सो ऽन्व᳘थोद्गात्रे᳘ प्रतिहर्ता᳘रन्दीक्षयति तᳫँ᳭ हि सो ऽन्व᳘थ हो᳘त्रे ऽच्छावाक᳘न्दीक्षयति तᳫँ᳭ हि सो᳘ ऽन्वेतां᳘श्चतु᳘रो नेष्टा᳘ दीक्षयति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ ब्रह्म᳘णे पो᳘तारन्दीक्षयति॥
तᳫँ᳭ हि सो ऽन्व᳘थोद्गात्रे᳘ प्रतिहर्ता᳘रन्दीक्षयति तᳫँ᳭ हि सो ऽन्व᳘थ हो᳘त्रे ऽच्छावाक᳘न्दीक्षयति तᳫँ᳭ हि सो᳘ ऽन्वेतां᳘श्चतु᳘रो नेष्टा᳘ दीक्षयति॥
मूलम् - Weber
अ᳘थ ब्रह्म᳘णे पो᳘तारं दीक्षयति ॥
तँ हि सोऽन्व᳘थोद्गात्रे᳘ प्रतिहर्ता᳘रं दीक्षयति तँ हि सोऽन्व᳘थ हो᳘त्रेऽछावाकं᳘ दीक्षयति तँ हि सो᳘ऽन्वेतां᳘श्चतु᳘रो नेष्टा᳘ दीक्षयति ॥
मूलम् - विस्वरम्
अथ ब्रह्मणे पोतारं दीक्षयति । तं हि सो ऽनु । अथोद्गात्रे प्रतिहर्तारं दीक्षयति । तं हि सो ऽनु । अय होत्रे ऽच्छावाकं दीक्षयति । तं हि सो ऽनु । एतांश्चतुरो नेष्टा दीक्षयति ॥ ८ ॥
हरिस्वामी
[व्याख्यानं षष्ठे]
Eggeling
- He then initiates the Potr̥ for the Brahman, for under him the former is. He then initiates the Pratihartr̥ for the Udgātr̥, for under him the former is. He then initiates the Achāvāka for the Hotr̥, for under him the former is. These four the Neshṭr̥ initiates.
मूलम् - Makoto
अ᳓थ ब्रह्म᳓णे पो᳓ता᳓रं दीक्षयति ।॥
तँ᳓ हि᳓ सो᳓ ऽन्व् अ᳓थोद्गा᳓त्रे᳓ प्रतिहर्ता᳓रं दीक्षयति तँ᳓ हि᳓ सो᳓ ऽन्व् अ᳓थ हो᳓त्रे ऽछा᳓वा᳓कं᳓ दीक्षयति तँ᳓ हि᳓ सो᳓ ऽन्व् एतां᳓श् चतु᳓रो ने᳓ष्टा᳓ दीक्षयति ॥॥
०९
विश्वास-प्रस्तुतिः
(त्य᳘) अथाध्वर्य्य᳘वे ने᳘ष्टारमुन्नेता᳘ दीक्षयति॥
तᳫँ᳭ हि सो ऽन्व᳘थ ब्रह्म᳘ण ऽआग्नीध्रन्दीक्षयति तᳫँ᳭ हि सो ऽन्व᳘थोद्गात्रे᳘ सुब्रह्मण्यां᳘ दीक्षयति तᳫँ᳭ हि सो ऽन्व᳘थ हो᳘त्रे ग्रावस्तु᳘तन्दीक्षयति तᳫँ᳭ हि सो᳘ ऽन्वेतां᳘श्चतु᳘र ऽउन्नेता᳘ दीक्षयति॥
मूलम् - श्रीधरादि
(त्य᳘) अथाध्वर्य्य᳘वे ने᳘ष्टारमुन्नेता᳘ दीक्षयति॥
तᳫँ᳭ हि सो ऽन्व᳘थ ब्रह्म᳘ण ऽआग्नीध्रन्दीक्षयति तᳫँ᳭ हि सो ऽन्व᳘थोद्गात्रे᳘ सुब्रह्मण्यां᳘ दीक्षयति तᳫँ᳭ हि सो ऽन्व᳘थ हो᳘त्रे ग्रावस्तु᳘तन्दीक्षयति तᳫँ᳭ हि सो᳘ ऽन्वेतां᳘श्चतु᳘र ऽउन्नेता᳘ दीक्षयति॥
मूलम् - Weber
अथाध्वर्य᳘वे ने᳘ष्टारमुन्नेता᳘ दीक्षयति ॥
तँ हि सोऽन्व᳘थ ब्रह्म᳘णाऽआग्नीध्रं दीक्षयति तँ हि सोऽन्व᳘थोद्गात्रे᳘ [^5] सुब्रह्मण्यां᳘ दीक्षयति तँ हि सोऽन्व᳘थ हो᳘त्रे ग्रावस्तु᳘तं दीक्षयति तँ हि सो᳘ऽन्वेतां᳘श्चतु᳘र उन्नेता᳘ दीक्षयति ॥
मूलम् - विस्वरम्
अथाध्वर्यवे नेष्टारमुन्नेता 13 दीक्षयति । तं हि सो ऽनु । अथ ब्रह्मण आग्नीध्रं दीक्षयति । तं हि सो ऽनु । अथोद्गात्रे सुब्रह्मण्यां दीक्षयति । तं हि सो ऽनु । अथ होत्रे ग्रावस्तुतं दीक्षयति । तं हि सो ऽनु । एतांश्चतुर उन्नेता दीक्षयति ॥ ९ ॥
हरिस्वामी
[व्याख्यानं षष्ठे]
Eggeling
- The Unnetr̥ then initiates the Neshṭr̥ for the Adhvaryu, for under him the former is. He then initiates the Āgnīdhra for the Brahman, for under him the former is. He then initiates the Subrahmaṇyā for the Udgātr̥, for under him the former is. He then initiates the Grāvastut for the Hotr̥, for under him the former is. These four the Unnetr̥ initiates.
मूलम् - Makoto
अ᳓था᳓ध्वर्य᳓वे ने᳓ष्टा᳓रम् उन्नेता᳓ दीक्षयति ।॥
तँ᳓ हि᳓ सो᳓ ऽन्व् अ᳓थ ब्रह्म᳓ण आ᳓ग्नीध्रं दीक्षयति तँ᳓ हि᳓ सो᳓ ऽन्व् अ᳓थोद्गा᳓त्रे᳓ सुब्रह्मण्यां᳓ दीक्षयति तँ᳓ हि᳓ सो᳓ ऽन्व् अ᳓थ हो᳓त्रे ग्रा᳓वस्तु᳓तं दीक्षयति तँ᳓ हि᳓ सो᳓ ऽन्व् एतां᳓श् चतु᳓र उन्नेता᳓ दीक्षयति ॥॥
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थोन्नेता᳘रम्॥
(ᳫँ᳭) स्ना᳘तको वा ब्रह्मचारी᳘ वा ऽन्यो[[!!]] वा᳘ दीक्षितो दीक्षयति न᳘ पूतः᳘ पावयेदिति᳘[[!!]] ह्याहुः᳘ सै᳘षा ऽनुपूर्व्वदीक्षा स य᳘त्र हैव᳘म्विद्वा᳘ᳫँ᳘सो दी᳘क्षन्ते दी᳘क्षमाणा हैव ते᳘ यज्ञ᳘ङ्कल्पयन्ति यज्ञ᳘स्य क्लृ᳘प्तिम᳘नु सत्रि᳘णां योगक्षेमः᳘ कल्पते सत्रि᳘णां योगक्षेम᳘स्य क्लृ᳘प्तिमन्व᳘पि तस्या᳘र्द्धस्य योगक्षेमः᳘ कल्पते य᳘स्मिन्न᳘र्द्धे य᳘जन्ते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थोन्नेता᳘रम्॥
(ᳫँ᳭) स्ना᳘तको वा ब्रह्मचारी᳘ वा ऽन्यो[[!!]] वा᳘ दीक्षितो दीक्षयति न᳘ पूतः᳘ पावयेदिति᳘[[!!]] ह्याहुः᳘ सै᳘षा ऽनुपूर्व्वदीक्षा स य᳘त्र हैव᳘म्विद्वा᳘ᳫँ᳘सो दी᳘क्षन्ते दी᳘क्षमाणा हैव ते᳘ यज्ञ᳘ङ्कल्पयन्ति यज्ञ᳘स्य क्लृ᳘प्तिम᳘नु सत्रि᳘णां योगक्षेमः᳘ कल्पते सत्रि᳘णां योगक्षेम᳘स्य क्लृ᳘प्तिमन्व᳘पि तस्या᳘र्द्धस्य योगक्षेमः᳘ कल्पते य᳘स्मिन्न᳘र्द्धे य᳘जन्ते॥
मूलम् - Weber
अ᳘थोन्नेता᳘रँ ॥
स्ना᳘तको वा ब्रह्मचारी᳘ वान्यो᳘ वा᳘दीक्षितो दीक्षयति न᳘ पूतः᳘ पा᳘वयेदितिॗ ह्याहुःॗ सैॗषानुपूर्वदीक्षा स य᳘त्र हैवं᳘ विद्वाँ᳘सो दी᳘क्षन्ते दीक्षमाणा हैव ते᳘ यज्ञं᳘ कल्पयन्ति यज्ञ᳘स्य क्लृप्तिम᳘नु सत्त्रि᳘णां योगक्षेमः᳘ कल्पते सत्त्रि᳘णां योगक्षेम᳘स्य क्लृप्तिमन्व᳘पि तस्या᳘र्धस्य योगक्षेमः᳘ कल्पते य᳘स्मिन्न᳘र्धे य᳘जन्ते ॥
मूलम् - विस्वरम्
अथोन्नेतारं स्नातको वा ब्रह्मचारी वा ऽन्यो वा दीक्षितो दीक्षयति । न पूतः पावयेत् इति ह्याहुः । सैषा ऽनुपूर्वदीक्षा । स यत्र हैवं विद्वांसो दीक्षन्ते । दीक्षमाणा हैव ते यज्ञं कल्पयन्ति । यज्ञस्य क्लृप्तिमनु सत्रिणां योगक्षेमः कल्पते । सत्रिणां योगक्षेमस्य क्लृप्तिमन्वपि तस्यार्द्धस्य योगक्षेमः कल्पते । यस्मिन्नर्द्धे यजन्ते ॥ १० ॥
हरिस्वामी
‘स्नातको वा’ तस्यैवोन्नेतुः शिष्यः । ‘ब्रह्मचारी वा’ तस्यैव शिष्यः । कुत एतत् । ‘अन्यो वा दीक्षितः’ इति पृथगुपदेशात् । यदि तु सामान्येन स्नातको ब्रह्मचारी वा गृह्यते । ततः अन्यो वेति नोपपद्येत । न हि स्नातकब्रह्मचारिभ्यामन्यो दीक्षणयोग्यो ऽस्ति । न तावदनुपनीतः स्तोत्रियाः कर्तुम् ईशः स्नातको वा निवृत्ताधिकारात् । कात्यायनो ऽप्येवं सूत्रयामास “अध्वर्युर्गृहपतिं दीक्षयति ब्रह्मादींश्च इति” ब्रह्मोद्गातृहोतॄन् इत्यर्थः । “अध्वर्य्वादीन् प्रतिप्रस्थाता” । अध्वर्युर्ब्राह्मणाच्छंसिप्रस्तोतृमैत्रावरुणान् इत्यर्थः । “प्रतिप्रस्थात्रादीन्नेष्टा” इति । प्रतिप्रस्थातृपोतृप्रतिहर्त्रच्छावाकान् इत्यर्थः । “नेष्ट्रादीनुन्नेता” इति । नेष्ट्रग्नीत्सुब्रह्मण्याग्रावस्तुत इत्यर्थः । “उन्नेतारं ब्रह्मचारी स्नातको ऽन्यो वा ब्राह्मणो न पूतः पावयेत् इति श्रुतेः” (का. श्रौ. सू. १२ । ४३) इति ॥ १० ॥
Eggeling
- Either a Snātaka 14, or a Brahmacārin, or some one else who is not initiated, then initiates the Unnetr̥; for they say, ‘No pure one should purify.’ This is the regular order of initiation 15;
and; assuredly, only when, knowing this 16, they become initiated, they make ready the sacrifice even whilst being initiated, and along with the getting ready of the sacrifice security of property accrues to the performers of the sacrificial session (Sattra); and, along with the accruing of security of property to the performers of the session, security of property also accrues to that district in which they perform the sacrifice.
मूलम् - Makoto
अ᳓थोन्नेता᳓रँ ।॥
स्ना᳓तको वा᳓ ब्रह्मचा᳓री᳓ वा᳓न्यो᳓ वा᳓दीक्षितो दीक्षयति न᳓ पूतः᳓ पा᳓वयेद् इ᳓ति ह्य् आ᳙हुः सै᳙षा᳙नुपूर्वदीक्षा᳓ स᳓ य᳓त्र हैवं᳓ विद्वाँ᳓सो दी᳓क्षन्ते दीक्षमा᳓णा᳓ हैव᳓ ते᳓ यज्ञं᳓ कल्पयन्ति यज्ञ᳓स्य क्ल्̥^प्तिम् अ᳓नु सत्त्रि᳓णां᳓ योगक्षेमः᳓ कल्पते सत्त्रि᳓णां᳓ योगक्षेम᳓स्य क्ल्̥^प्तिम् अ᳓न्व् अ᳓पि त᳓स्या᳓र्धस्य योगक्षेमः᳓ कल्पते य᳓स्मिन्न् अ᳓र्धे य᳓जन्ते ॥॥
११
विश्वास-प्रस्तुतिः
ते᳘षां᳘ वा᳘ ऽउन्ने᳘तोत्तमो दी᳘क्षते॥
प्रथ᳘मो ऽवभृथा᳘दुदायता᳘मुदै᳘ति प्राणो वा᳘ ऽउन्नेता᳘ प्राण᳘मे᳘वैष्वेत᳘दुभय᳘तो दधाति त᳘था स᳘र्व्वमा᳘युर्य्यन्ति त᳘थो ह न᳘ पुरा᳘ ऽऽयुषो ऽस्मा᳘ल्लोकात्प्र᳘यन्ति᳘ सै᳘षा ऽनुपूर्व्वदीक्षा[[!!]] स य᳘त्र हैवं᳘ व्विद्वा᳘ᳫँ᳘सो दी᳘क्षेरंस्त᳘देव᳘ दीक्षेत॥
मूलम् - श्रीधरादि
ते᳘षां᳘ वा᳘ ऽउन्ने᳘तोत्तमो दी᳘क्षते॥
प्रथ᳘मो ऽवभृथा᳘दुदायता᳘मुदै᳘ति प्राणो वा᳘ ऽउन्नेता᳘ प्राण᳘मे᳘वैष्वेत᳘दुभय᳘तो दधाति त᳘था स᳘र्व्वमा᳘युर्य्यन्ति त᳘थो ह न᳘ पुरा᳘ ऽऽयुषो ऽस्मा᳘ल्लोकात्प्र᳘यन्ति᳘ सै᳘षा ऽनुपूर्व्वदीक्षा[[!!]] स य᳘त्र हैवं᳘ व्विद्वा᳘ᳫँ᳘सो दी᳘क्षेरंस्त᳘देव᳘ दीक्षेत॥
मूलम् - Weber
ते᳘षां᳘ वा᳘ऽउन्नेॗतोत्तमो दी᳘क्षते ॥
प्रथॗमोऽवभृथा᳘दुदायता᳘मुदै᳘ति प्राणो वा᳘ऽउन्नेता᳘ प्राण᳘मेॗवैष्वेत᳘दुभय᳘तो दधाति त᳘था स᳘र्वमा᳘युर्यन्ति त᳘थो ह न᳘ पुरा᳘युषोऽस्मा᳘ल्लोकात्प्र᳘यन्तिॗ सैॗषानुपूर्वदीक्षा᳘ स य᳘त्र हैवं᳘ विद्वाँ᳘सो दी᳘क्षेरंस्त᳘देव᳘ दीक्षेत ॥ ब्राह्मणम् ॥१॥
मूलम् - विस्वरम्
तेषां वा उन्नेतोत्तमो दीक्षते । प्रथमो ऽवभृथादुदायतामुदैति । प्राणो वा उन्नेता । प्राणमेवैष्वेतदुभयतो दधाति । तथा सर्वमायुर्यन्ति । तथा उ ह न पुरा ऽऽयुषो ऽस्माल्लोकात्प्रयन्ति । सैषा ऽनुपूर्वदीक्षा । स यत्र हैवं विद्वांसो दीक्षेरन् । तदेव दीक्षेत ॥ ११ ॥
हरिस्वामी
प्राणो वा उन्नेता । उन्नेतृत्वस्योत्तमत्वात् । अनुपूर्वदीक्षेति । ‘तदेव दीक्षेत’ तत्रैव विद्वद्भिः सह दीक्षेत, नाविद्वद्भिरित्यर्थः ॥ ११ ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वादशकाण्डे प्रथमे ऽध्याये प्रथमं ब्राह्मणम् ॥ (१२ । १ । १) ॥
Eggeling
- Now, the Unnetr̥ is initiated last of these, and when they come out from the purificatory bath it is he that comes out first; for the Unnetr̥ is the vital air: he thus lays vital air into them on both sides; and so they attain the full term of life, and so they do not depart this world before their (full) term of life. This is the regular order of initiation: and, assuredly, he should become initiated only where such as know this become initiated.
मूलम् - Makoto
ते᳓षां᳓ वा᳓ उन्नेतो᳙त्तमो दी᳓क्षते ।॥
प्रथमो᳙ ऽवभृथा᳓द् उदा᳓यता᳓म् उदै᳓ति प्रा᳓णो᳓ वा᳓ उन्नेता᳓ प्रा᳓ण᳓म् एवै᳙ष्व् एत᳓द् उभय᳓तो दधा᳓ति त᳓था᳓ स᳓र्वम् आ᳓युर् यन्ति त᳓थो ह न᳓ पुरा᳓युषो ऽस्मा᳓ल् लोका᳓त् प्र᳓यन्ति सै᳙षा᳙नुपूर्वदीक्षा᳓ स᳓ य᳓त्र हैवं᳓ विद्वाँ᳓सो दी᳓क्षेरंस् त᳓द् एव᳓ दीक्षेत ॥॥
-
स᳘सत्रिणः A.P.M (*) ↩︎
-
135:1 Viz. the wind as the vital air pervading man; see paragraph 11. ↩︎
-
135:2 He, as well as the first three priests, is initiated by the Adhvaryu. ↩︎
-
ना᳘नाकुर्यादुक्षो᳘बुका A. ↩︎
-
अध्वर्युर्दीक्षयति ब्रह्मादींश्च का. श्रौ. सू. १२ । ४३ । ↩︎
-
135:3 Soma is the king of plants, whence these are called ‘soma-rājñī,’ II, 3, 4; 4; V, 4, 2, 3; R̥g-veda S. X, 97, 8. ↩︎
-
Read: तदो᳘षधिभिः सं᳘दधाति ↩︎
-
136:1 Viz. as the offering-priest κατ᾽ ἐξοχήν, he who, by the recitation of his ‘invitatory’ and ‘offering’ verses, like Agni, draws the gods to the offering, and causes them to graciously accept it. ↩︎
-
अध्वर्य्वादीन्प्रतिप्रस्थाता । का. श्रौ. सू. १२ । ४३ । ↩︎ ↩︎
-
136:2 The Adhvaryu is the head of the sacrifice (IV, 1, 5, 16); and, as the mind, he marches in front. See also III, 2, 4, 11. ‘Mind goes before Speech (prompting her), “Speak thus! say not this!”’ ↩︎
-
ब्राह्मणाक्षँसि᳘नं A. ↩︎
-
137:1 Or, after getting them ready, or prepared (klipti). ↩︎
-
नेष्ट्रादीनुन्नेता । का. श्रौ. सू. १२ । ४३ ॥ ↩︎
-
137:2 That is, one who has completed his course of theological study (brahmacarya), and has taken the bath (snāta) marking the end of that course, and his return to the bosom of his family. See above, pp. 48-50 (esp. XI, 3, 3, 7). ↩︎
-
137:3 Literally, the initiation in the regular succession. ↩︎
-
138:1 That is to say, when they become initiated in accordance with this knowledge. ↩︎