०१

विश्वास-प्रस्तुतिः

केशि᳘गृहपतीनामु ह॥
सम्म्राड्दु᳘घाᳫँ᳭ शार्द्दूलो᳘ जघान स᳘ह स सत्रि᳘ण ऽआमन्त्रया᳘ञ्चक्रे[[!!]] केह प्रा᳘यश्चित्तिरि᳘ति ते᳘ होचु᳘र्न्नेह प्रा᳘यश्चित्तिरस्ति ख᳘ण्डिक ऽएवौ᳘द्भरिरस्य प्रा᳘यश्चित्तिम्वे᳘द स᳘ ऽउ त ऽएतादृ᳘क्चैव᳘ काम᳘यते᳘ ऽतश्च पा᳘पीय ऽइ᳘ति॥

मूलम् - श्रीधरादि

केशि᳘गृहपतीनामु ह॥
सम्म्राड्दु᳘घाᳫँ᳭ शार्द्दूलो᳘ जघान स᳘ह स सत्रि᳘ण ऽआमन्त्रया᳘ञ्चक्रे[[!!]] केह प्रा᳘यश्चित्तिरि᳘ति ते᳘ होचु᳘र्न्नेह प्रा᳘यश्चित्तिरस्ति ख᳘ण्डिक ऽएवौ᳘द्भरिरस्य प्रा᳘यश्चित्तिम्वे᳘द स᳘ ऽउ त ऽएतादृ᳘क्चैव᳘ काम᳘यते᳘ ऽतश्च पा᳘पीय ऽइ᳘ति॥

मूलम् - Weber

केशि᳘गृहपतीनामु ह॥
सम्राड्दु᳘घां शार्दूलो᳘ जघान स᳘ ह ससत्त्रि᳘ण 1 आमन्त्रयां᳘ चक्रेॗ केह प्रा᳘यश्चित्तिरि᳘ति ते᳘ होचुॗर्नेह प्रा᳘यश्चित्तिरस्ति ख᳘ण्डिक एवौ᳘द्भारिरस्य प्रा᳘यश्चित्तिं वेद स᳘ उ त एतादृ᳘क्चैव᳘ काम᳘यते᳘ऽतश्च पा᳘पीय इ᳘ति॥

मूलम् - विस्वरम्

अथ पशुप्रायश्चित्तीयाः स्पृतिहोमाः ।

केशिगृहपतीनामु ह सम्राड्दुघां शार्द्दूलो जघान । सह स सत्रिण आमंत्रयांचक्रे; केह प्रायश्चित्तिरिति । ते होचुः- नेह प्रायश्चित्तिरस्ति । खण्डिक एवौद्भरिरस्य प्रायश्चित्तिं वेद । स उ त एतादृक् चैव कामयते । अतश्च पापीय इति ॥ १ ॥

सायणः

अथ स्पृत्याख्यान् होमान् पशुप्रायश्चित्ततया विधातुं आख्यायिकामाह- केशिगृहपतीनामु हेत्यादिना । पुरा किल केशिनो नाम राजानः सत्रयागमनुतिष्ठन्तः गृहपतय आसुः । तेषां ‘सम्राड्दुघां’ प्रवर्ग्यदोहनार्थां गां ‘शार्दूलः’ दुष्टमृगः ‘जघान’ । तेन च ‘सह स सत्रिणः’ उपेत्य ‘आमन्त्रयांचक्रे’ । कथमिह धर्मधुग्हननविषये ‘का प्रायश्चित्तिरिति’ तेन पृष्टास्ते ‘नेह प्रायश्चित्तिः अस्ति’ इति उक्त्वा प्रायश्चित्तज्ञमकथयन् । उद्भरिपुत्रः ‘खण्डिक एवास्य प्रायश्चित्तं’ जानाति । ‘सः’ एव ‘एतादृक्’ एतादृशमेव ‘कामयते’ । कीदृशमिति तदाह- अतश्च पापीय इति । अत्यन्तं पापयुक्तं गोवधादिदोषयुक्तमित्यर्थः । तस्मात्तमेव पृच्छेति ॥ १ ॥

Eggeling
  1. Now, once upon a time, a tiger killed the samrāj-cow 2 of those (who were sacrificing) with (the king of the) Keśin as their Gr̥hapati 3. He (the king 4) said to his fellow-sacrificers, ‘What atonement is there for this?’ They replied, ‘There is no atonement for this: Khaṇḍika Audbhāri alone knows an atonement for it; but he certainly desires as much as this, and worse than this 5, (to happen) to thee.’

०२

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
सं᳘ग्रहीतर्युङ्ग्धि᳘ मे ऽस्यन्त्स्या᳘मि स यद्य᳘ह मे व्वक्ष्य᳘ति स᳘माप्स्यामि य᳘द्यु मा मारयिष्य᳘ति यज्ञम्वि᳘कृष्टम᳘नुवि᳘क्रक्ष्य ऽइ᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
सं᳘ग्रहीतर्युङ्ग्धि᳘ मे ऽस्यन्त्स्या᳘मि स यद्य᳘ह मे व्वक्ष्य᳘ति स᳘माप्स्यामि य᳘द्यु मा मारयिष्य᳘ति यज्ञम्वि᳘कृष्टम᳘नुवि᳘क्रक्ष्य ऽइ᳘ति॥

मूलम् - Weber

स᳘ होवाच॥
सं᳘ग्रहीतर्युङ्ग्धि᳘ मे स्यन्त्स्या᳘मि स यद्य᳘ह मे वक्ष्य᳘ति स᳘माप्स्यामि य᳘द्यु मा मारयिष्य᳘ति यज्ञं वि᳘कृष्टम᳘नु वि᳘क्रक्ष्य इ᳘ति॥

मूलम् - विस्वरम्

स होवाच- संग्रहीतर्युङ्धि मे । स्यन्त्स्यामि । स यद्यह मे वक्ष्यति । समाप्स्यामि । यद्यु मा मारयिष्यति । यज्ञं विकृष्टमनुविक्रक्ष्य इति ॥ २ ॥

सायणः

अथ गृहपतिषु प्रधानभूतः केशिराजः रथयंतारमुवाच- मे रथं ‘युङ्धि’ योजय । ‘स्यन्त्स्यामि’ गमिष्यामि । ‘सः’ ह खण्डिकः ‘यदि अह मे वक्ष्यति’ प्रायश्चित्तिं तर्हि ‘समाप्स्यामि’ सत्रम् । अथ प्रायश्चित्तिकथनमकृत्वा निराकरिष्यति । तदा ‘विकृष्टं’ विकारं प्राप्तं ‘यज्ञमनु’ अहमपि ‘विक्रक्ष्ये’ विकारं प्राप्स्ये ॥ २ ॥

Eggeling
  1. He said, ‘Charioteer, put to my horses; I shall drive thither: if so be he will tell me, I shall succeed (with my sacrifice); but if he will have me die, I shall be shattered along with the shattered sacrifice.’

०३

विश्वास-प्रस्तुतिः

स᳘ ह युक्त्वा᳘ ययावा᳘जगाम॥
त᳘ᳫँ᳘ ह प्रतिख्या᳘योवाच य᳘न्न्वेता᳘न्ये᳘वाजि᳘नानि मृगे᳘षु भ᳘वन्त्य᳘थैषाम्पृष्ठी᳘रपि शी᳘र्य्य पचामहे कृष्णाजिन᳘म्मे ग्रीवास्वा᳘बद्धमि᳘त्येव᳘ मेद᳘मधृषो ऽभ्य᳘वस्यन्तू३मि᳘ति॥

मूलम् - श्रीधरादि

स᳘ ह युक्त्वा᳘ ययावा᳘जगाम॥
त᳘ᳫँ᳘ ह प्रतिख्या᳘योवाच य᳘न्न्वेता᳘न्ये᳘वाजि᳘नानि मृगे᳘षु भ᳘वन्त्य᳘थैषाम्पृष्ठी᳘रपि शी᳘र्य्य पचामहे कृष्णाजिन᳘म्मे ग्रीवास्वा᳘बद्धमि᳘त्येव᳘ मेद᳘मधृषो ऽभ्य᳘वस्यन्तू३मि᳘ति॥

मूलम् - Weber

स᳘ ह युक्त्वा᳘ ययावा᳘जगाम॥
त᳘ᳫं᳘ ह प्रतिख्या᳘योवाच यॗन्न्वेता᳘न्येॗवाजि᳘नानि मृगे᳘षु भ᳘वन्त्य᳘थैषाम् पृष्टी᳘रपिशी᳘र्य पचामहे कृष्णाजिन᳘म् मे ग्रीवास्वा᳘बद्धमि᳘त्येव᳘ मेद᳘मधृषोऽभ्य᳘वस्यन्त्तू३ मि᳘ति 6

मूलम् - विस्वरम्

स ह युक्त्वा ययौ । आजगाम । तं ह प्रतिख्यायोवाच । यन्नु एतान्येवाजिनानि मृगेषु भवन्ति । अथैषां पृष्ठीरपि शीर्य पचामहे । कृष्णाजिनं मे ग्रीवास्वाबद्धमिति । एव मेदमधृषो ऽभ्यवस्यन्तू ३ मिति ॥ ३ ॥

सायणः

‘स ह’ रथमश्वैः संयोज्य खंडिकसमीपं ‘ययौ’ । सो ऽपि खण्डिकः ‘तं’ केशिनं ‘आजगाम’ । गत्वा च विवक्तुं केशिनं ‘प्रतिख्याय’ निराकृत्य स्वयमेव प्रथमं ‘उवाच’ । हे केशिन् ! त्वया यत् धर्मदुघाया गोः अजिनं ग्रीवासु धृतम् । ‘एतान्येव’ एतादृशान्येव ‘अजिनानि मृगेषु भवंति’ उपलभ्यन्ते । ‘अथैषां’ मध्ये ‘पृष्ठीः’ अल्पशरीरा मृगीरपि ‘शीर्य’ विशरणं कृत्वा ‘पचामहे’ । तदीयं ‘कृष्णाजिनं मे ग्रीवासु’ कण्ठे ‘आबद्धं’ ‘इति’ ‘अभ्यवस्यन्तुं’ हन्तुं ‘मा’ मां ‘इदमधृषः’ धार्ष्ट्यं कृतवान् ॥ ३ ॥

Eggeling
  1. Having put to the horses, he drove off, and

came thither 7. When he (Khaṇḍika) saw 8 him, he said, ‘Seeing that there are those skins on deer, we break their ribs and cook them: the skin of the black antelope is attached to my neck 9–is it with thoughts such as these that thou hast dared to drive over to me?’

०४

विश्वास-प्रस्तुतिः

ने᳘ति होवाच॥
सम्म्राड्दु᳘घाम्वै᳘ मे भगवः शार्द्दू᳘लो ऽवधीत्स यद्य᳘ह मे व्वक्ष्य᳘सि स᳘माप्स्यामि य᳘द्यु मा मारयिष्य᳘सि यज्ञम्वि᳘कृष्टम᳘नुविक्रक्ष्य ऽइ᳘ति[[!!]]॥

मूलम् - श्रीधरादि

ने᳘ति होवाच॥
सम्म्राड्दु᳘घाम्वै᳘ मे भगवः शार्द्दू᳘लो ऽवधीत्स यद्य᳘ह मे व्वक्ष्य᳘सि स᳘माप्स्यामि य᳘द्यु मा मारयिष्य᳘सि यज्ञम्वि᳘कृष्टम᳘नुविक्रक्ष्य ऽइ᳘ति[[!!]]॥

मूलम् - Weber

ने᳘ति होवाच॥
सम्राड्दु᳘घां वै᳘ मे भगवः शार्दूॗलोऽवधीत्स यद्य᳘ह मे वक्ष्य᳘सि स᳘माप्स्यामि य᳘द्यु मा मारयिष्य᳘सि यज्ञं वि᳘कृष्टम᳘नु वि᳘क्रक्ष्य इ᳘ति॥

मूलम् - विस्वरम्

नेति होवाच । सम्राड्दुघां वै मे भगवः शार्दूलो ऽवधीत् । स यद्यह मे वक्ष्यसि । रामाप्स्यामि । यद्यु मा मारयिष्यसि । यज्ञं विकृष्टमनुविक्रक्ष्य इति ॥ ४ ॥

सायणः

एवं तेन खंडिकेनोक्ते ‘सः’ ‘राजा’ ‘नेति होवाच’ अयमभिप्रायो न भवति । किंतु हे भगवन् ! ‘सम्राड्दुघां’ ‘शार्द्दूलो ऽवधीत्’ । तस्मात् ‘सः’ त्वं ‘यद्यह’ यद्येव ‘मे’ ‘वक्ष्यसि’ तस्य समाधानोपायं तर्हि यज्ञं ‘समाप्स्यामि’ । अथ ‘यदि उ’ ‘मा’ मां ‘मारयिष्यसि’ तदा यज्ञं न समाप्स्यामि । तथा सति तदा स यज्ञो विकृष्टो भविष्यति । तं ‘विकृष्टं यज्ञमनु’ अहमपि ‘विक्रक्ष्ये’ इत्युवाच ॥ ४ ॥

Eggeling
  1. ‘Not so,’ he replied; ‘a tiger has killed my samrāj-cow, reverend sir; if so be thou wilt tell me, I shall succeed; but if thou wilt have me die, I shall be shattered along with the shattered sacrifice.’

०५

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
(चा) आमंत्रणी᳘यान्वा᳘मंत्रया ऽइ᳘ति ता᳘न्हामं᳘त्र्योवाच य᳘द्यस्मै व्वक्ष्या᳘म्यमु᳘ष्यै᳘वेद᳘म्प्रजा᳘ भविष्य᳘ति न म᳘म लोकी᳘ त्वह᳘म्भविष्यामि[[!!]] य᳘द्यु वा᳘ ऽअस्मै न᳘ व्वक्ष्या᳘मि म᳘मै᳘वेद᳘म्प्रजा᳘ भविष्य᳘ति[[!!]] नामु᳘ष्य लोकी᳘ त्वसौ᳘[[!!]] भविष्यती᳘ति ते᳘ होचुर्म्मा᳘ भगवो व्वोचो ऽयम्वाव᳘ क्षत्रि᳘यस्य लोक ऽइ᳘ति स᳘ होवाच व्वक्ष्या᳘म्ये᳘वामूर्व्वै रा᳘त्रयो भू᳘यस्य ऽइ᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
(चा) आमंत्रणी᳘यान्वा᳘मंत्रया ऽइ᳘ति ता᳘न्हामं᳘त्र्योवाच य᳘द्यस्मै व्वक्ष्या᳘म्यमु᳘ष्यै᳘वेद᳘म्प्रजा᳘ भविष्य᳘ति न म᳘म लोकी᳘ त्वह᳘म्भविष्यामि[[!!]] य᳘द्यु वा᳘ ऽअस्मै न᳘ व्वक्ष्या᳘मि म᳘मै᳘वेद᳘म्प्रजा᳘ भविष्य᳘ति[[!!]] नामु᳘ष्य लोकी᳘ त्वसौ᳘[[!!]] भविष्यती᳘ति ते᳘ होचुर्म्मा᳘ भगवो व्वोचो ऽयम्वाव᳘ क्षत्रि᳘यस्य लोक ऽइ᳘ति स᳘ होवाच व्वक्ष्या᳘म्ये᳘वामूर्व्वै रा᳘त्रयो भू᳘यस्य ऽइ᳘ति॥

मूलम् - Weber

स᳘ होवाच॥
आमन्त्रणी᳘यान्न्वा᳘मन्त्रया 10 इ᳘ति ता᳘न्हाम᳘न्त्र्योवाच य᳘द्यस्मै वक्ष्या᳘म्यमु᳘ष्यैॗवेद᳘म् प्रजा᳘ भविष्य᳘ति न म᳘म लोकी त्व᳘ह᳘म् भविष्यामि य᳘द्यु वा᳘ अस्मै न᳘ वक्ष्या᳘मि म᳘मैॗवेद᳘म् प्रजा᳘ भविष्य᳘तिॗ नामु᳘ष्य लोकी त्व᳘सौ᳘ भविष्यती᳘ति ते᳘ होचुर्मा᳘ भगवो वोचोऽयं वाव᳘ क्षत्रि᳘यस्य लोक इ᳘ति स᳘ होवाच वक्ष्या᳘म्येॗवामूर्वै रा᳘त्रयो भू᳘यस्य इ᳘ति॥

मूलम् - विस्वरम्

स होवाच- आमंत्रणीयान्वामंत्रया इति । तान् हामंत्र्योवाच । यद्यस्मै वक्ष्यामि; अमुष्यैवेदं प्रजा भविष्यति, न मम, लोकी त्वहं भविष्यामि । यद्यु वा अस्मै न वक्ष्यामि; ममैवेदं प्रजा भविष्यति, नामुष्य, लोकी त्वसौ भविष्यतीति । ते होचुः- मा भगवो वोचः । अयं वाव क्षत्त्रियस्य लोक इति । स होवाच- वक्ष्याम्येव, अमूर्वै रात्रयो भूयस्य इति ॥ ५ ॥

सायणः

‘स होवाच’ एवमुक्तः खंडिकः कथनविषये संदिहानः सन् ‘आमंत्रणीयान्’ आत्मीयान् ‘उत्’ क्षिप्रं ‘आमंत्रयै’ आह्वयै इत्युवाच । तानामंत्रणीयान् ‘आमंत्र्य’ इत्थमुवाच । हे विचारकाः ! शृणुत । ‘यदि अस्मै’ केशिने ‘वक्ष्यामि’ प्रायश्चित्तविधां तर्हि ‘अमुष्य’ केशिनः ‘एव’ ‘इदं’ सर्वं ‘प्रजा’ भविष्यति, ‘न मम’ भविष्यति प्रजा । विद्याप्राप्तये अस्मत्तो ऽपतत्वात् । परं ‘अहं’ ‘लोकी’ विद्याप्रदानसुकृतेन परलोकवानेव भविष्यामि । यदि ‘अस्मै न वक्ष्यामि’ । तर्हि ‘ममैव’ ‘प्रजा भविष्यति’ । ‘नामुष्य’ राज्ञः, प्रजाफलसाधनविद्याया अप्राप्तत्वात् । न पुनः ‘लोकी’ लोकवान् ‘असौ’ राजा ‘भविष्यति’ । कर्मवैगुण्यस्य अपरिहारिष्यमाणत्वात् । एवं विरोधे उद्भाविते सति ‘ते’ आप्ता ‘ऊचुः’- हे भगवः ! विद्यां ‘मा वोचः’ । क्षत्रियस्यास्य लोको न भविष्यतीति । ननु- तवानुशयः स तस्य नास्तीति । ‘अयं वाव’ अयमेव खलु ‘क्षत्रियस्य लोकः’ । तस्मात् सो ऽस्त्यत्र । तैः एवमुक्ते सति ‘सः’ खंडिकः तद्वचनमतिक्रम्य ‘उवाच’ । एतल्लोकसंबंधिन्यो रात्रयः अल्पीयस्यः । ‘अमू रात्रयः’ परलोकसंबंधिन्यो बह्व्यो भवंति । अतः ‘वक्ष्याम्येव’ इत्युवाच ॥ ५ ॥

Eggeling
  1. He said, ‘I will take counsel with my counsellors 11.’ Having called them to counsel, he said, ‘If I tell him, his race, not mine, will prevail here 12,

but I shall gain the (other) world; and if I do not tell him, my own race, not his, will prevail here, but he will gain the (other) world.’ They said, ‘Do not tell him, reverend sir, for, surely, this (the earth) is the Kshatriya’s world 13.’ He replied, ‘Nay, I will tell him: there are more nights 14 up yonder.’

०६

विश्वास-प्रस्तुतिः

त᳘स्मा ऽउ हैत᳘दुवाच॥
स्पृ᳘तीर्हु᳘त्वा ऽन्यामा᳘जते᳘ति ब्रूतात्सा᳘ ते सम्म्राड्दु᳘घा स्यादि᳘ति चद्रा᳘न्त्ते म᳘नः स्पृणोमि स्वा᳘हा सू᳘र्य्यात्ते च᳘क्षु स्पृणोमि स्वा᳘हा व्वाता᳘त्ते[[!!]] प्राणा᳘न्त्स्पृणोमि स्वा᳘हा दिग्भ्य᳘स्ते श्रो᳘त्रᳫँ᳭ स्पृणोमि स्वा᳘हा ऽद्भ्य᳘स्ते लो᳘हितᳫँ᳭ स्पृणोमि स्वा᳘हा पृथिव्यै᳘ ते श᳘रीरᳫँ᳭ स्पृणोमि स्वाहेत्य᳘थान्यामा᳘जते᳘ति ब्रूतात्सा᳘ ते सम्म्राड्दु᳘घा स्यादि᳘ति त᳘तो हैव स ऽउ᳘त्ससाद कैशिनी᳘रे᳘वेमा ऽअ᳘प्येत᳘र्हि प्रजा᳘ जायन्ते॥

मूलम् - श्रीधरादि

त᳘स्मा ऽउ हैत᳘दुवाच॥
स्पृ᳘तीर्हु᳘त्वा ऽन्यामा᳘जते᳘ति ब्रूतात्सा᳘ ते सम्म्राड्दु᳘घा स्यादि᳘ति चद्रा᳘न्त्ते म᳘नः स्पृणोमि स्वा᳘हा सू᳘र्य्यात्ते च᳘क्षु स्पृणोमि स्वा᳘हा व्वाता᳘त्ते[[!!]] प्राणा᳘न्त्स्पृणोमि स्वा᳘हा दिग्भ्य᳘स्ते श्रो᳘त्रᳫँ᳭ स्पृणोमि स्वा᳘हा ऽद्भ्य᳘स्ते लो᳘हितᳫँ᳭ स्पृणोमि स्वा᳘हा पृथिव्यै᳘ ते श᳘रीरᳫँ᳭ स्पृणोमि स्वाहेत्य᳘थान्यामा᳘जते᳘ति ब्रूतात्सा᳘ ते सम्म्राड्दु᳘घा स्यादि᳘ति त᳘तो हैव स ऽउ᳘त्ससाद कैशिनी᳘रे᳘वेमा ऽअ᳘प्येत᳘र्हि प्रजा᳘ जायन्ते॥

मूलम् - Weber

त᳘स्मा उ हैत᳘दुवाच॥
स्पृ᳘तीर्हुॗत्वान्यामा᳘जते᳘ति ब्रूतात्सा᳘ ते सम्राड्दु᳘घा स्यादि᳘ति चन्द्रा᳘त्ते म᳘न स्पृणोमि स्वा᳘हा सू᳘र्यात्ते च᳘क्षु स्पृणोमि स्वा᳘हा वा᳘तात्ते प्राणा᳘न्त्स्पृणोमि स्वा᳘हा दिग्भ्य᳘स्ते श्रो᳘त्रᳫं स्पृणोमि स्वा᳘हाद्भ्य᳘स्ते लो᳘हितᳫं स्पृणोमि स्वा᳘हा पृथिव्यै᳘ ते श᳘रीरᳫं स्पृणोमि स्वाहेत्य᳘थान्यामा᳘जते᳘ति ब्रूतात्सा᳘ ते सम्राड्दु᳘घा 15 स्यादि᳘ति त᳘तो हैव स उ᳘त्ससाद कैशिनी᳘रेॗवेमा अ᳘प्येत᳘र्हि प्रजा᳘ जायन्ते॥

मूलम् - विस्वरम्

तस्मा उ हैतदुवाच- स्पृतीर्हुत्वा ऽन्यामाजतेति ब्रूतात् । सा ते सम्राड्दुघा स्यादिति । “चंद्रात्ते मनः स्पृणोमि स्वाहा । सूर्यात्ते चक्षुः स्पृणोमि स्वाहा । वातात्ते प्राणान् स्पृणोमि स्वाहा । दिग्भ्यस्ते श्रोत्रं स्पृणोमि स्वाहा । अद्भ्यस्ते लोहितं स्पृणोमि स्वाहा । पृथिव्यै ते शरीरं स्पृणोमि स्वाहा” इति । अथान्यामाजतेति ब्रूतात् । सा ते सम्राड्दुघा स्यादिति । ततो हैव स उत्ससाद । कैशिनीरेवेमा अप्येतर्हि प्रजा जायन्ते ॥ ६ ॥

सायणः

एवमुक्त्वा खंडिकः ‘तस्मै’ खलु ‘एतत्’ वक्ष्यमाणमुवाच- स्पृतीर्हुत्वेति 16 । होममंत्रेषु “स्पृणोमि”- इति लिंगात् एता आहुतयः स्पृतयः प्रापकत्वात् ‘स्पृतीः’ ताः ‘हुत्वा’ ‘अन्यां’ दोहार्थं ‘आजत’ दोग्ध्रीमाजत आगमयत ‘इति ब्रूतात्’ । तथाभिधानस्य प्रयोजनकथनम्- सा त इति । घर्मधुगिति । ‘घर्मः’ प्रवर्ग्यः तदर्थं या दुह्यते सा ‘घर्मदुघा’ । इदानीं स्पृतीराह- चंद्रात्ते मनः स्पृणोमीत्यादिना । प्रस्तुतत्वात् घर्मदुघा संबोध्यते । अथवा पशोर्मारणात् संज्ञप्यमानः पशुः संबोध्यते । हे गौः ! हे पशो ! वा ‘ते’ तव ‘मनः’ चंद्रात्सकाशात् तेन च मनः ‘स्पृणोमि’ प्रीणयामि प्रलयामि वा मनसश्चंद्रदेवताकत्वात् । तद्देवताभ्यः एता आहुतयः ‘स्वाहा’ सुहुता भवन्तु । एवं ‘सूर्यात्ते चक्षुः’ I ‘वातात्ते प्राणान्’ । ‘दिग्भ्यस्ते श्रोत्रम् ।’ ‘अद्भ्यस्ते लोहितम’ । ‘पृथिव्यै ते शरीरम्’ । इति पंचमन्त्रेषु सूर्यादेश्चक्षुराद्यभिमानित्वात् । ‘तस्मात्ते’ तव चक्षुरादीन् स्पृणोमीति व्याख्येयम् । स्पृतीर्हुत्वा ऽन्यामाजतेति वचनं दर्शयति- अथान्यामाजतेति । व्याख्यातम् । एवमुपदिष्टः ‘सः’ केशी ‘ततः’ देशात् ‘उत्ससाद’ गतवानभूत् । तस्मात् ‘अप्येतर्हि’ इदानीमपि इमा वर्तमानाः ‘प्रजाः’ ‘कैशिनीरेव’ केशवत्य एव । अथवा केशसंबंधिन्यः ‘जायन्ते’ । केशिना प्रजाभिवृद्धिकरविद्याया लब्धत्वात् ॥ ६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे ऽष्टमे ऽध्याये चतुर्थं ब्राह्मणम् ॥ (११ । ८ । ४) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे अष्टमो ऽध्यायः समाप्तः ॥ (११-८) ॥

इति संग्रहापरनामधेयमष्टाध्यायीनामकम् एकादशं काण्डं समाप्तम् ॥

Eggeling
  1. And, accordingly, he then said to him,–‘Having offered the Spr̥tis 17, he (the Adhvaryu) should say, “Drive up another (cow)!” and that one should be thy samrāj-cow 18.’–’[Having offered. with,] “From the moon I take thy mind, hail!–From the sun I take thine eye, hail!–From the wind I take thy breathings, hail!–From the regions I take thine ear, hail!–From the waters I take thy blood, hail!–From the earth

I take thy body, hail!” let him then say, “Drive up another (cow)!” and that one shall be thy samrāg cow!’ He then departed from thence 19, and, verily, members of the Keśin race are born here even to this day.


  1. जघान स᳘ सत्रिण A. pr. m. जघान स᳘ ह ससत्रि᳘ण A. sec. m. P., but ससत्रिन् is âdyudâtta at १२. १. १. १! Sây. has: तेन च सहसत्रिण उपेत्यामन्त्रयां चक्रिरे ! ↩︎

  2. 131:1 That is the cow which supplies the milk for the Pravargya; this milk, when heated, being called ‘gharma (heat)’ or ‘samrāj (sovereign king).’ See part ii, p. 104, note 3. ↩︎

  3. 131:2 Gr̥hapati, or house-lord, master of the house, is the title of the principal sacrificer at a sacrificial session (sattra).–According to Sāyaṇa, the Keśinaḥ were a race of nobles (rājānaḥ), who, on this occasion, were performing a ‘sattra,’ and are therefore styled ‘householders’ (gr̥hapati);–keśino nāma rājānaḥ sattrayāgam anutishṭḥanto gr̥hapataya āsuḥ, Sāyaṇa thus takes ‘keśi-gr̥hapatayaḥ,’ not as a bahuvrīhi, but as a tatpurusha (karmadhāraya, ’the Keśin householders’) which would, however, require the accent on the second member of the compound.–Though all those taking part in a sacrificial session ought to be Brahmans, the rule does not seem to have been strictly observed. Cf. part iv, introd., p. xxv; Weber, Ind. Stud. X, pp. 25 94. ↩︎

  4. 131:3 Gr̥hapatishu pradhānabhūtaḥ keśirājaḥ, Sāy. ↩︎

  5. 131:4 That is, that even a greater misfortune should happen to thee,–atyantaṁ pāpayuktaṁ govadhādidoshayuktam ity arthaḥ, Sāy. ↩︎

  6. मेद᳘मदृषो A. ↩︎

  7. 132:1 Sāyaṇa makes Khaṇḍika the subject of this last verb:–sa ha ratham aśvaiḥ saṁyojya Khaṇḍikasamīpaṁ yayau; sopi Khaṇḍikaḥ keśinam ājagāma, gatvā ca vivaktaṁ (? viviktaṁ) Keśinaṁ pratikhyāya nirākr̥tya sadayam eva prathamam uvāca. He thus seems not to allow here to ‘yā’ the meaning of ’to drive,’ but to take ‘yayau’ in the sense of ‘he went thither.’ It might, of course, also mean ‘he set off.’ ↩︎

  8. 132:2 Sāyaṇa apparently takes ‘prati-khyā’ in the sense of ’to refuse admittance to, to reject,’ ‘abweisen.’ ↩︎

  9. 132:3 Sāyaṇa’s comment on this passage is as follows:–‘O Keśin, the skin of the cow that yields the gharma-milk is worn by thee on the neck: those (i.e. suchlike) skins, indeed, are (i.e. are seen) on deer; and having broken (i.e., torn to pieces) the “pr̥shṭi” (i.e. the small-sized does) amongst them we cook them: that black-antelope skin is fastened on my neck.’ Khaṇḍika having spoken thus, the king said, ‘No, this is not my intention.’ ↩︎

  10. आमन्त्रणी᳘यान्वा᳘म AP.- ibid. अमुष्मै एवेदं Sây. ↩︎

  11. 132:4 Literally, those that should be consulted, whom further on Sāyaṇa calls ‘āptāḥ’ or trusty men. ↩︎

  12. 132:5 Or, perhaps, the people here (the Keśins) will become his, not mine; cf. Delbrück, Altind. Syntax, pp. 32; 141 (two different renderings). Sāyaṇa, on the other hand, takes ‘prajā,’ not in the sense either of ‘family’ or ‘people,’ but in that of ‘(sacred) knowledge’–perhaps with reference to the threefold science (the Veda) as the thousandfold progeny of Vāc, speech (cf. IV, 5, 8, 4; 6, 7, 3; V, 5, 5, 12)–which Khaṇḍika would thus lose, whilst, by imparting the sacred knowledge, he would gain a seat in heaven. ↩︎

  13. 133:1 Sāyaṇa’s comment is not very intelligible, the MS. being more than usually corrupt on this last page:–evaṁvidhe virodha udbhāvitê sati to āptā ūcuḥ, he bhagavo vidyāṁ mā vocaḥ, kshatriyasya loko na bhavishyatīti; nanu tavānuśayaḥ (? appanage, domain, following) sa tasya nāsti; ayaṁ vāva ayam eva khalu, kshatriyasya lokas tasmāt sauspatrāter (?) evam ukte sati sadvecenarāpatra bhavānti (!) ato vakshyāmy evety uvāca. ↩︎

  14. 133:2 That is, days,–by giving up a brief life of earthly power and glory, he gains eternal life. ↩︎

  15. सा ते धर्मदुघा Sây. ↩︎

  16. घर्मधुक्छार्दूलहता चेत्स्पृतीर्जुहुयाच्चन्द्राते मनः स्पृणोमि स्वाहा, सूर्यात्ते चक्षुः स्पृणोमि स्वाहा, वातात्ते प्राणान्स्पृणोमि स्वाहा, दिग्भ्यस्ते श्रोत्रँ स्पृणोमि स्वाहा, अद्भ्यस्ते लोहितँ स्पृणोमि स्वाहा, पृथिव्यै ते शरीरँ स्पृणोमि स्वाहेति । हुत्वा ऽन्यामाजतेति ब्रूयात् । का. श्रौ. सू. २५ । १४७-१४८ । इति ॥ ↩︎

  17. 133:3 That is, oblations performed with a view of ’taking hold (spr̥)’ of something; cf. Katy. Śrautas. XXV, 6, 11. 12. ↩︎

  18. 133:4 The particle ‘iti’ here causes some difficulty of construction which would be removed by the latter clause being taken as part of the Adhvaryu’s speech; though Kātyāyana, it is true, does not recognise it as such. Perhaps, however, Khaṇḍika’s speech ends here, and what follows up to ’that one shall be thy samrāj-cow’ has to be taken as a ritualistic insertion, in which case the final ‘iti’ would have some such meaning as ‘having been told thus.’ ↩︎

  19. 134:1 Sāyaṇa takes this thus:–‘Thus instructed, Keśin disappeared (or, passed away, vanished, utsasāda vinashṭaḥ) from that region (tato deśāt)’–after which there is a lacuna in the MS. Perhaps, however, it is Khaṇḍika, rather than Keśin, to which this refers,–he (and his race) then, indeed, passed away from that region, whilst the Keśins flourished. ↩︎