०१
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
किन्देव᳘त्य ऽएष᳘ पशुः᳘ स्यादि᳘ति प्राजापत्यः᳘ स्यादि᳘त्याहुः प्रजा᳘पतिर्वा᳘ ऽएतम᳘ग्रे᳘ ऽभ्यपश्यत्त᳘स्मात्प्राजापत्य᳘ ऽए᳘वैष᳘[[!!]] पशुः᳘ स्यादिति[[!!]]॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
किन्देव᳘त्य ऽएष᳘ पशुः᳘ स्यादि᳘ति प्राजापत्यः᳘ स्यादि᳘त्याहुः प्रजा᳘पतिर्वा᳘ ऽएतम᳘ग्रे᳘ ऽभ्यपश्यत्त᳘स्मात्प्राजापत्य᳘ ऽए᳘वैष᳘[[!!]] पशुः᳘ स्यादिति[[!!]]॥
मूलम् - Weber
त᳘दाहुः॥
किंदेव᳘त्य एष᳘ पशुः᳘ स्यादि᳘ति प्राजापत्यः᳘ स्यादि᳘त्याहुः प्रजा᳘पतिर्वा᳘ एतम᳘ग्रेऽभ्य᳘पश्यत्त᳘स्मात्प्राजापत्य᳘ एॗवैष᳘ पशुः᳘ स्यादि᳘ति॥
मूलम् - विस्वरम्
पशुदेवताविकल्पाभिधायकं ब्राह्मणम् ।
तदाहुः- किंदेवत्य एष पशुः स्यादिति । प्राजापत्यः स्यादित्याहुः । प्रजापतिर्वा एतमग्रे ऽभ्यपश्यत् । तस्मात्प्राजापत्य एवैष पशुः स्यादिति ॥ १ ॥
सायणः
अथास्य पशोः प्रजापतिः सूर्य इन्द्राग्नी चेति त्रयो देवा विकल्पिता 1 इति दर्शयितुं क्रमेण तं तं पक्षं सोपपत्तिकमाह- तदाहुः किंदेवत्य एष पशुः स्यादित्यादिना । प्रजापतिना आदौ दृष्टत्वात् अस्य पशोः प्रजापतिर्देवतेति केचिदाहुः ॥ १ ॥
Eggeling
- Here, now, they say, ‘To what deity should this victim belong?’–‘It should belong to Prajāpati,’ they say; ‘for it was Prajāpati who first saw it: therefore it is to Prajāpati that this victim should belong.’
०२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थो ऽअ᳘प्याहुः॥
सौर्य्य᳘ ऽए᳘वैष᳘ पशुः᳘ स्यादि᳘ति त᳘स्मादेत᳘स्मिन्न᳘स्तमिते पश᳘वो बध्यन्ते बध्नन्त्ये᳘कान्यथा गोष्ठमे᳘क ऽउप समा᳘यन्ति त᳘स्मात्सौर्य्य᳘ ऽए᳘वैष᳘ पशुः᳘ स्यादिति[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थो ऽअ᳘प्याहुः॥
सौर्य्य᳘ ऽए᳘वैष᳘ पशुः᳘ स्यादि᳘ति त᳘स्मादेत᳘स्मिन्न᳘स्तमिते पश᳘वो बध्यन्ते बध्नन्त्ये᳘कान्यथा गोष्ठमे᳘क ऽउप समा᳘यन्ति त᳘स्मात्सौर्य्य᳘ ऽए᳘वैष᳘ पशुः᳘ स्यादिति[[!!]]॥
मूलम् - Weber
अ᳘थो अ᳘प्याहुः॥
सौर्य᳘ एॗवैष᳘ पशुः᳘ स्यादि᳘ति त᳘स्मादेत᳘स्मिन्न᳘स्तमिते पश᳘वो बध्यन्ते बध्नन्त्ये᳘कान्यथागोष्ठमे᳘क 2 उपसमा᳘यन्ति त᳘स्मात्सौर्य᳘ एॗवैष᳘ पशुः᳘ स्यादि᳘ति॥
मूलम् - विस्वरम्
अथो अप्याहुः । सौर्य एवैष पशुः स्यादिति । तस्मादेतस्मिन्नस्तमिते पशवो बध्यन्ते । बध्नन्त्येकान्यथा गोष्ठम् एक उप समायन्ति । तस्मात्सौर्य एवैष पशुः स्यादिति ॥ २ ॥
सायणः
अपरे सूर्ये अस्तमिते पशूनां स्वस्वस्थाने बन्धनदर्शनात् सर्वेषां स्वस्वस्थाने प्राप्तेश्च हेतोः सूर्यायत्तस्थितित्वात् ‘सौर्य एव’ इत्याहुः ॥ २ ॥
Eggeling
- And they also say, ‘To Sūrya (the sun) that victim should belong;’–whence it is that cattle are tied up when he (the sun) has set: some of them
they tie up 3 in their respective stables, and others just flock together:–’therefore,’ they say, ‘it is to Sūrya that this victim should belong.’
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थो ऽअ᳘प्याहुः॥
(रै) ऐन्द्राग्न᳘ ऽए᳘वैष᳘ पशुः[[!!]] स्यादि᳘त्येते वै᳘ देव᳘ते ऽअ᳘न्वन्त्ये᳘ देवा यद्या᳘र्तो य᳘जते पार᳘यत ऽएव य᳘दि म᳘हसा य᳘जते पार᳘यत ऽएव त᳘स्मादैन्द्राग्न᳘ ऽए᳘वैष᳘ पशुः᳘ स्यादि᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थो ऽअ᳘प्याहुः॥
(रै) ऐन्द्राग्न᳘ ऽए᳘वैष᳘ पशुः[[!!]] स्यादि᳘त्येते वै᳘ देव᳘ते ऽअ᳘न्वन्त्ये᳘ देवा यद्या᳘र्तो य᳘जते पार᳘यत ऽएव य᳘दि म᳘हसा य᳘जते पार᳘यत ऽएव त᳘स्मादैन्द्राग्न᳘ ऽए᳘वैष᳘ पशुः᳘ स्यादि᳘ति॥
मूलम् - Weber
अ᳘थो अ᳘प्याहुः॥
ऐन्द्राग्न᳘ एॗवैष᳘ पशुः᳘ स्यादि᳘त्येते वै᳘ देव᳘ते अ᳘न्वन्त्ये᳘ देवा यद्या᳘र्तो य᳘जते पार᳘यत एव य᳘दि म᳘हसाय᳘जते पार᳘यत एव त᳘स्मादैन्द्राग्न᳘ एॗवैष पशुः᳘ स्यादि᳘ति॥
मूलम् - विस्वरम्
अथो अप्याहुः । ऐन्द्राग्न एवैष पशुः स्यादिति । एते वै देवते अन्वन्ये देवाः । यद्यार्तो यजते पारयत एव । यदि महसा यजते पारयत एव । तस्मादैन्द्राग्न एवैष पशुः स्यादिति ॥ ३ ॥
सायणः
अन्ये तु इन्द्राग्न्योः सर्वदेवताप्राधान्यात् स्वोद्देशेन यागं कृतवतां क्रमेणार्तिनाशकत्वात् महसः प्रापकत्वाच्च पशोरिन्द्राग्नी एव देवते इत्याहुः ॥ ३ ॥
Eggeling
- And they also say, ‘To Indra and Agni that victim should belong; for behind these two deities are (all) the other gods;–if one who is afflicted sacrifices, those two (gods) sustain him; and if one sacrifices with (a desire for) abundance 4, they sustain him: therefore it is to Indra and Agni that this victim should belong.’
०४
विश्वास-प्रस्तुतिः
प्राण᳘ ऽएव᳘ पशुबन्धः[[!!]]॥
(स्त᳘) त᳘स्माद्या᳘वज्जी᳘वति᳘ नास्यान्यः᳘ पशूना᳘मीष्टे बद्धा᳘ ह्यस्मिन्नेते भ᳘वन्ति॥
मूलम् - श्रीधरादि
प्राण᳘ ऽएव᳘ पशुबन्धः[[!!]]॥
(स्त᳘) त᳘स्माद्या᳘वज्जी᳘वति᳘ नास्यान्यः᳘ पशूना᳘मीष्टे बद्धा᳘ ह्यस्मिन्नेते भ᳘वन्ति॥
मूलम् - Weber
प्राण᳘ एव᳘ पशुबन्धः᳟॥
त᳘स्माद्या᳘वज्जीवतिॗ नास्यान्यः᳘ पशूना᳘मीष्टे बद्धाॗ ह्यास्मिन्नेते भ᳘वन्ति॥
मूलम् - विस्वरम्
प्राण एव पशुबन्धः । तस्माद्यावज्जीवति । नास्यान्यः पशूनामीष्टे । बद्धा ह्यस्मिन्नेते भवन्ति ॥ ४ ॥
सायणः
पशुत्वस्य प्राणात्मकतां तत्परिज्ञातुः पशुना आर्तिहेतुतां समर्थयते- प्राण एव पशुबन्ध इति । तस्मात् पशोः प्राणाभिमानित्वात् स पशुबन्धयाजी यावन्तं कालं ‘जीवति’ ‘अस्य’ यजमानस्य ‘पशूनाम्’ ‘नान्यः’ तस्करादिः स्वामी भवति । किं तु ‘अस्मिन्’ संबद्धा एव ‘एते’ पशव ‘भवन्ति’ । तस्मात् प्राणरूपता युक्ता ॥ ४ ॥
Eggeling
- The animal sacrifice, indeed, is the breath, whence, as long as one lives, no other has power over his cattle, for they are tied to him.
०५
विश्वास-प्रस्तुतिः
स᳘ ह प्रजा᳘पतिरग्नि᳘मुवाच॥
य᳘जै त्वया᳘ त्वा ऽऽलभा ऽइ᳘ति ने᳘ति होवाच व्वायु᳘म्ब्रूही᳘ति स᳘ ह व्वायु᳘मुवाच य᳘जै त्व᳘या᳘ त्वा ऽऽलभा ऽइ᳘ति ने᳘ति होवाच पु᳘रुषम्ब्रूही᳘ति स᳘ ह पु᳘रुषमुवाच य᳘जै त्वया᳘ त्वा ऽऽलभा ऽइ᳘ति ने᳘ति होवाच पशू᳘न्ब्रूही᳘ति स᳘ ह पशू᳘नुवाच य᳘जै युष्मा᳘भिरा᳘ वो लभा ऽइ᳘ति ने᳘ति होचुश्चन्द्र᳘मसम्ब्रूही᳘ति स᳘ ह चन्द्र᳘मसमु᳘वाच य᳘जै त्वया᳘ त्वा ऽऽलभा ऽइ᳘ति ने᳘ति होवाचादित्य᳘म्ब्रूही᳘ति स᳘ हादित्य᳘मुवाच य᳘जै त्वया᳘ त्वा ऽऽलभा ऽइ᳘ति तथे᳘ति होवाच य᳘ ऽउ त ऽएते ना᳘चीकमन्त कि᳘मु म ऽएते᳘षु स्यादि᳘ति य᳘द्यत्काम᳘येथा ऽइ᳘ति तथे᳘ति तमा᳘लभत᳘ सो ऽस्याय᳘म्पशुरा᳘लब्धः सं᳘ज्ञप्तो ऽश्वयत्त᳘मेता᳘भिराप्री᳘भिरा᳘प्रीणात्तद्य᳘देनमेता᳘भिराप्री᳘भिरा᳘प्रीणात्त᳘स्मादा᳘प्रियो ना᳘म त᳘स्मादु पशुᳫँ᳭ सं᳘ज्ञप्तं ब्रूयाच्छे᳘तान्नु᳘ मुहूर्तमि᳘ति स या᳘वन्तमश्वमेधे᳘नेष्ट्वा᳘ लोकञ्ज᳘यति ता᳘वन्तमेतेन[[!!]] जयति॥
मूलम् - श्रीधरादि
स᳘ ह प्रजा᳘पतिरग्नि᳘मुवाच॥
य᳘जै त्वया᳘ त्वा ऽऽलभा ऽइ᳘ति ने᳘ति होवाच व्वायु᳘म्ब्रूही᳘ति स᳘ ह व्वायु᳘मुवाच य᳘जै त्व᳘या᳘ त्वा ऽऽलभा ऽइ᳘ति ने᳘ति होवाच पु᳘रुषम्ब्रूही᳘ति स᳘ ह पु᳘रुषमुवाच य᳘जै त्वया᳘ त्वा ऽऽलभा ऽइ᳘ति ने᳘ति होवाच पशू᳘न्ब्रूही᳘ति स᳘ ह पशू᳘नुवाच य᳘जै युष्मा᳘भिरा᳘ वो लभा ऽइ᳘ति ने᳘ति होचुश्चन्द्र᳘मसम्ब्रूही᳘ति स᳘ ह चन्द्र᳘मसमु᳘वाच य᳘जै त्वया᳘ त्वा ऽऽलभा ऽइ᳘ति ने᳘ति होवाचादित्य᳘म्ब्रूही᳘ति स᳘ हादित्य᳘मुवाच य᳘जै त्वया᳘ त्वा ऽऽलभा ऽइ᳘ति तथे᳘ति होवाच य᳘ ऽउ त ऽएते ना᳘चीकमन्त कि᳘मु म ऽएते᳘षु स्यादि᳘ति य᳘द्यत्काम᳘येथा ऽइ᳘ति तथे᳘ति तमा᳘लभत᳘ सो ऽस्याय᳘म्पशुरा᳘लब्धः सं᳘ज्ञप्तो ऽश्वयत्त᳘मेता᳘भिराप्री᳘भिरा᳘प्रीणात्तद्य᳘देनमेता᳘भिराप्री᳘भिरा᳘प्रीणात्त᳘स्मादा᳘प्रियो ना᳘म त᳘स्मादु पशुᳫँ᳭ सं᳘ज्ञप्तं ब्रूयाच्छे᳘तान्नु᳘ मुहूर्तमि᳘ति स या᳘वन्तमश्वमेधे᳘नेष्ट्वा᳘ लोकञ्ज᳘यति ता᳘वन्तमेतेन[[!!]] जयति॥
मूलम् - Weber
स᳘ ह प्रजा᳘पतिरग्नि᳘मुवाच॥
य᳘जै त्वया᳘ त्वा लभा इ᳘ति ने᳘ति होवाच वायु᳘म् ब्रूही᳘ति स᳘ ह वायु᳘मुवाच य᳘जै त्व᳘या᳘ त्वा लभा इ᳘ति ने᳘ति होवाच पु᳘रुषम् ब्रूही᳘ति स᳘ ह पु᳘रुषमुवाच य᳘जै त्वया᳘ त्वा लभा इ᳘ति ने᳘ति होवाच पशू᳘न्ब्रूही᳘ति स᳘ ह पशू᳘नुवाच य᳘जै युष्मा᳘भिरा᳘ वो लभा इ᳘ति ने᳘ति होचुश्चन्द्र᳘मसम् ब्रूही᳘ति स᳘ ह चन्द्र᳘मसमुवाच य᳘जै त्वया᳘ त्वा लभा इ᳘ति ने᳘ति होवाचादित्य᳘म् ब्रूही᳘ति स᳘ हादित्य᳘मुवाच य᳘जै त्वया᳘ त्वा लभा इ᳘ति तथे᳘ति होवाच य᳘ उ त एते ना᳘चीकमन्त कि᳘मु म एते᳘षु स्यादि᳘ति य᳘द्यत्काम᳘येथा इ᳘ति तथे᳘ति तमा᳘लभतॗ सोऽस्याय᳘म् पशुरा᳘लब्धः सं᳘ज्ञप्तोऽश्वयत्त᳘मेता᳘भिराप्री᳘भिरा᳘प्रीणात्तद्य᳘देनमेता᳘भिराप्री᳘भिरा᳘प्रीणात्त᳘स्मादाॗप्रियो 5 ना᳘म त᳘स्मादु पशुᳫं सं᳘ज्ञप्तम् ब्रूयाछे᳘तां नु᳘ मुहूर्तमि᳘ति स या᳘वन्तमश्वमेधे᳘नेष्ट्वा᳘ लोकं ज᳘यति ता᳘वन्तमेते᳘न जयति॥
मूलम् - विस्वरम्
स ह प्रजापतिरग्निमुवाच । यजै त्वया त्वा ऽऽलभा इति । नेति होवाच । वायुं ब्रूहीति । स ह वायुमुवाच । यजै त्वया त्वा ऽऽलभा इति । नेति होवाच । पुरुषं ब्रूहीति । स ह पुरुषमुवाच । जै त्वया त्वा ऽऽलभा इति । नेति होवाच । पशुन् ब्रूहीति । स ह पशूनुवाच । यजै युष्माभिरा वो लभा इति । नेति होचुः । चंद्रमसं ब्रूहीति । स ह चंद्रमसमुवाच । यजै त्वया त्वा ऽऽलभा इति । नेति होवाच । आदित्यं ब्रूहीति । स हादित्यमुवाच । यजै त्वया त्वा ऽऽलभा इति । तथेति होवाच । य उ त एते नाचीकमन्त । किमु म एतेषु स्यादिति । यद्यत्कामयेथा इति । तथेति तमालभत । सो ऽस्यायं पशुरालब्धः संज्ञप्तः अश्वयत् । तमेताभिराप्रीभिराप्रीणात् । तद्यदेनमेताभिराप्रीभिराप्रीणात् । तस्मादाप्रियो नाम । तस्मादु पशुं संज्ञप्तं ब्रूयाच्छेतान्नुमुहूर्तमिति । स यावन्तमश्वमेधेनेष्ट्वा लोकं जयति । तावन्तमेतेन जयति ॥ ५ ॥
सायणः
विहितस्य पशोः उक्तप्राणरूपतोपपादनाय तस्यैव अग्न्यादिषड्देवतामयत्वोपपादनाय च आख्यायिकामाह- स ह प्रजापतिरग्निमुवाचेत्यादिना । पुरा किल ‘प्रजापतिरग्निमुवाच’ । किमिति ? यजै त्वयेति । त्वां पशुं कृत्वा ‘यजै’ इति । तस्यैव व्याख्यानम्- त्वा ऽऽलभै इति । पशुभूतस्य तव आलंभं करिष्यामीति स प्रजापतिना पृष्टो ऽपि अग्निः ‘नेति होवाच’ निराचकारेत्यर्थः । हेत्यनेन पुरावृत्तत्वं द्योत्यते । एवं निराकुर्वन्नग्निः अन्ते आदित्य एव पशुर्भविष्यतीति अमुमर्थं मनसि कृत्वा ‘वायुं ब्रूहि’ इत्युवाच । एवं वायुपुरुषपशुचन्द्राः प्रजापतिना पशुभावाय पृष्टाः स्वं स्वं प्रतिषिध्य उत्तरमुत्तरं पृच्छेत्यूचुः । अथ तेषु निराकर्तृषु सत्सु चंद्रमसा आदित्यं पृच्छेत्युक्तः प्रजापतिः ‘आदित्यमुवाच’ ‘त्वया यजै’ इति । स तु तथेत्युवाच । अंगीकृत्य पुनरब्रवीत् । ‘एते’ पुनः पशुभावं नाकामयन्त । कामयतः ‘मे’ एतेष्वग्न्यादिषु किं स्यात् । एतेषां स्वभूतं वस्तु किं लब्धं भवेदिति । स प्रजापतिरादित्यमुवाच- यद्यत्कामयेथा इति । तत्तद्दास्यामीति शेषः । कामितस्वरूपमुपरि वक्ष्यति- “स प्रागमेवाग्नेरादत्त” इत्यादिना । एवमुक्त्वा वाचं स्वीकृत्य तथा ऽस्त्वित्युक्ते स प्रजापतिस्तमालंभत । ‘स आलब्धः’ ‘संज्ञप्तः’ पशुः ‘अश्वयत्’ उच्छूनः अभवत् । तं उच्छूनं पशुं ‘एताभिः’ प्रसिद्धाभिः “समिद्धो अद्य” (वा. सं. २९ । २५) इत्यादिभिराप्रीभिः 6 ‘आप्रीणात्’ अतर्पयत् । प्रसंगादाप्रीशब्दं निर्वक्ति- तद्यदेनमेताभिरिति । यस्मादेनं पशुं ‘एताभिराप्रीणात्’ । आप्रीतं संतुष्टं चक्रे । ‘तस्मात्’ आप्रीणामन्नसाधनत्वात् ‘आप्रियः’ इति ‘नाम’ संपन्नम् । तदेव प्रीणनजनितं शयनं विधत्ते- ‘तस्मादु पशुं संज्ञप्तं ब्रूयात्’- शेतान्नुमुहूर्तमिति 7 । तदाह ‘शेतान्नुमुहूर्तमिति’ । मुहूर्तो घटिकाद्वयम् । अत्यंतसंयोगे द्वितीया (पा. सू. २ । ३ । ५) इति । ‘शेताम्’ तावंतं कालं आप्रीणनेन आत्यन्तिकं सुखं प्राप्त इव अयं पशुः शयनं करोत्वित्यर्थः । अथ यथा अश्वमेधेन इष्टभावनापुरःसरं पशुनेष्टवतः फलमाह- स यावन्तमश्वमेधेनेष्ट्वा लोकं जयति तावन्तमेतेन जयति इति । एतेन आदित्यात्मना भावितेन पशुनेत्यर्थः । वेदितुः फलं चैतत् द्रष्टव्यम् । एतेनोक्तार्थज्ञानेनेत्यर्थः ॥ ५ ॥
Eggeling
- Prajāpati said to Agni, ‘I will perform sacrifice with thee: I will lay hands upon thee (as a victim).’–‘Nay,’ said he, ‘speak unto man!’ He said to man, ‘I will perform sacrifice with thee: I will lay hands upon thee.’–‘Nay,’ said he, ‘speak unto the cattle!’ He said to the cattle, ‘I will perform sacrifice with you: I will lay hands upon you.’–‘Nay,’ said they, ‘speak unto the moon!’ He said to the moon, ‘I will perform sacrifice with thee: I will lay hands upon thee,’–‘Nay,’ said he, ‘speak unto the sun!’ He said to the sun, ‘I will perform sacrifice with thee: I will lay hands upon thee.’ ‘So be it!’ said he; ‘but seeing that those liked it not (to be slaughtered), what, then, shall become mine that now is with these 8?’–‘Whatsoever
thou mayest desire,’ he said.–‘So be it,’ he replied. He laid hands upon him, and this is that animal of his seized (for sacrifice). When slaughtered, it swelled, and by means of those Āprī-hymns, he appeased it 9; and inasmuch as, by means of these Āprī-hymns, he appeased it, they are called Āprīs. And let him, for that reason, say of the slaughtered animal, ‘Let it lie for a moment!’ As great as the world is which he gains by performing the horse-sacrifice, so great a world does he gain by this (animal sacrifice).
०६
विश्वास-प्रस्तुतिः
तम्प्रा᳘ची दि᳘क्॥
(क्प्रा) प्राणे᳘त्यनुप्रा᳘णत्प्राण᳘मे᳘वास्मिँस्त᳘ददधात्तन्द᳘क्षिणा दि᳘ग्व्याने᳘त्यनुप्रा᳘णद्व्यान᳘मे᳘वास्मिँस्त᳘ददधात्त᳘म्प्रती᳘ची दि᳘गपाने᳘त्यनुप्रा᳘णदपान᳘मे᳘वास्मिँस्त᳘ददधात्तमु᳘दीची दि᳘गुदाने᳘त्यनुप्रा᳘णदुदान᳘मे᳘वास्मिँस्त᳘ददधात्त᳘मूर्ध्वा दि᳘क्समाने᳘त्यनुप्रा᳘णंत्समान᳘मे᳘वास्मिँस्त᳘ददधात्त᳘स्मादु पुत्र᳘ञ्जातम᳘कृत्तनाभिं प᳘ञ्च ब्राह्मणा᳘न्ब्रूयादि᳘त्येनमनुप्रा᳘णिते᳘ति य᳘द्यु तान्न᳘ व्विन्देदपि[[!!]] स्वय᳘मे᳘वानुपरिक्रा᳘ममनुप्रा᳘ण्यात्स स᳘र्व्वमा᳘युरेत्या᳘हैव᳘ जरा᳘यै जीवति॥
मूलम् - श्रीधरादि
तम्प्रा᳘ची दि᳘क्॥
(क्प्रा) प्राणे᳘त्यनुप्रा᳘णत्प्राण᳘मे᳘वास्मिँस्त᳘ददधात्तन्द᳘क्षिणा दि᳘ग्व्याने᳘त्यनुप्रा᳘णद्व्यान᳘मे᳘वास्मिँस्त᳘ददधात्त᳘म्प्रती᳘ची दि᳘गपाने᳘त्यनुप्रा᳘णदपान᳘मे᳘वास्मिँस्त᳘ददधात्तमु᳘दीची दि᳘गुदाने᳘त्यनुप्रा᳘णदुदान᳘मे᳘वास्मिँस्त᳘ददधात्त᳘मूर्ध्वा दि᳘क्समाने᳘त्यनुप्रा᳘णंत्समान᳘मे᳘वास्मिँस्त᳘ददधात्त᳘स्मादु पुत्र᳘ञ्जातम᳘कृत्तनाभिं प᳘ञ्च ब्राह्मणा᳘न्ब्रूयादि᳘त्येनमनुप्रा᳘णिते᳘ति य᳘द्यु तान्न᳘ व्विन्देदपि[[!!]] स्वय᳘मे᳘वानुपरिक्रा᳘ममनुप्रा᳘ण्यात्स स᳘र्व्वमा᳘युरेत्या᳘हैव᳘ जरा᳘यै जीवति॥
मूलम् - Weber
तम् प्रा᳘ची दि᳘क्॥
प्राणे᳘त्यनुप्रा᳘णत्प्राण᳘मेॗवास्मिंस्त᳘ददधात्तं द᳘क्षिणा दि᳘ग्व्याने᳘त्यनुप्रा᳘णद्व्यान᳘मेॗवास्मिंस्त᳘ददधात्त᳘म् प्रती᳘ची दि᳘गपाने᳘त्यनुप्रा᳘णदपान᳘मेॗवास्मिंस्त᳘ददधात्तमु᳘दीची दि᳘गुदाने᳘त्यनुप्रा᳘णदुदान᳘मेॗवास्मिंस्त᳘ददधात्त᳘मूर्ध्वा दि᳘क्समाने᳘त्यनुप्रा᳘णत्समान᳘मेॗवास्मिंस्त᳘ददधात्त᳘स्मादु पुत्रं᳘ जातम᳘कृत्तनाभिम् प᳘ञ्च ब्राह्मणा᳘न्ब्रूयादि᳘त्येनमनुप्रा᳘णिते᳘ति य᳘द्यु तान्न᳘ विन्देद᳘पि स्वय᳘मेॗवानुपरिक्रा᳘ममनुप्रा᳘ण्यात्स स᳘र्वमा᳘युरेत्या᳘ हैव᳘ जरा᳘यै जीवति॥
मूलम् - विस्वरम्
तं प्राची दिक् प्राणेत्यनुप्राणत्; प्राणमेवास्मिंस्तददधात् । तं दक्षिणा दिग्व्यानेत्यनुप्राणत् । व्यानमेवास्मिंस्तददधात् । तं प्रतीची दिगपानेत्यनुप्राणत्; अपानमेवास्मिंस्तददधात् । तमुदीची दिगुदानेत्यनुप्राणत्; उदानमेवास्मिंस्तददधात् । तमूर्ध्वा दिक् समानेत्यनुप्राणत्; समानमेवास्मिंस्तददधात् । तस्मादु पुत्रं जातमकृत्तनाभिं पंच ब्राह्मणान् ब्रूयादित्येनमनुप्राणितेति । यद्युतान्न विंदेत् । अपि स्वयमेवानुपरिक्राममनुप्राण्यात् । स सर्वमायुरेति । आ हैव जरायै जीवति ॥ ६ ॥
सायणः
‘तं’ निष्प्राणत्वेन उच्छ्नं आदित्यलक्षणं पशुं ‘प्राची’ दिग्देवता हे गतप्राण पशो ! त्वं ‘प्राण’ प्राणवायुविशिष्टो भव ‘इति अनुप्राणत्’ । तस्योपरि श्वासं दत्तवतीत्यर्थः । अस्मिन्पशौ ‘प्राणमेव’ तत्तेनानुप्राणनेन ‘अदधात्’ स्थापितवति । तथा ‘दक्षिणा दिक्’ ‘व्यान’ इत्युक्त्वा ‘अनुप्राणत्’ तेन ‘व्यानमस्मिन्नदधात्’ । एवं प्रतीच्युदीच्यूर्ध्वा ऽऽख्यास्तिस्रो ऽपि दिशः क्रमेण ‘अपानं उदानं समानं’ च ‘तस्मिन्’ अदधुः । प्रसंगात् किंचित्पुरुषार्थं प्रयोगमाह- तस्मादु 10 पुत्रं जातमकृत्तनाभिमिति । नाभिच्छेदनात्पूर्वं पंच ब्राह्मणान् “एत्य एनमनुप्राणित” ‘इति ब्रूयात्’ । इतिशब्देन दिक्कृतः प्रकारः प्रदर्श्यते । पंच ब्राह्मणान् पंच दिक्षु अवस्थाप्य प्रागादिक्रमेण प्राणेत्येवमुक्त्वा शिशोरुपरि श्वासं प्रक्षिपेदित्यर्थः । ब्राह्मणानामलाभे कथमिति तत्राह- यद्यु तानिति । ब्राह्मणालाभे स्वपितैव सर्वतः परिक्रम्योक्तप्रकारं कुर्यात् । एवं कृते सति शिशुः ‘सर्वं’ शतसंवत्सररूपम् ‘आयुरेति’ च ‘आ हैव जरायै जीवति’ जरापर्यंतं जीवतीत्यर्थः । अनेन प्राण एव पशुबंध इति अधिभावना प्रदर्शिता भवति ॥ ६ ॥
Eggeling
- The (wind of the) eastern region breathed over that (dead victim), saying, ‘Breathe forth!’ and thereby laid the breath (of the mouth) into it; the southern region breathed over it, saying, ‘Breathe through!’ and thereby laid the through-breathing into it; the western region breathed over it, saying, ‘Breathe off!’ and thereby laid the off-breathing into it; the northern region breathed over it, saying, ‘Breathe up!’ and thereby laid the up-breathing (of the nostrils) into it; the upper region breathed over it, saying, ‘Breathe all about!’ and thereby laid the circulating breathing into it. Therefore, regarding a new-born son, let him say to five Brāhmaṇas, before the navel-string has been cut, ‘Breathe over him in this way 11!’ But if he should be unable to obtain them he may even
himself breathe over him whilst walking round him; and that (son of his) attains the full measure of life 12 and lives to old age.
०७
विश्वास-प्रस्तुतिः
स᳘ प्राण᳘मे᳘वाग्नेरा᳘दत्त॥
त᳘स्मादेष ना᳘नुपध्मातो ना᳘नुपज्वालितो ज्वलत्या᳘त्तो᳘ ह्यस्य[[!!]] प्राण ऽआ᳘ ह वै᳘ द्विषतो भ्रा᳘तृव्यस्य प्राण᳘न्दत्ते य᳘ ऽएवं व्वे᳘द॥
मूलम् - श्रीधरादि
स᳘ प्राण᳘मे᳘वाग्नेरा᳘दत्त॥
त᳘स्मादेष ना᳘नुपध्मातो ना᳘नुपज्वालितो ज्वलत्या᳘त्तो᳘ ह्यस्य[[!!]] प्राण ऽआ᳘ ह वै᳘ द्विषतो भ्रा᳘तृव्यस्य प्राण᳘न्दत्ते य᳘ ऽएवं व्वे᳘द॥
मूलम् - Weber
स᳘ प्राण᳘मेॗवाग्नेरा᳘दत्त॥
त᳘स्मादेष ना᳘नुपध्मातो ना᳘नुपज्वलितो ज्वलत्या᳘त्तो ह्य᳘स्य प्राण आ᳘ ह वै᳘ द्विषतो भ्रा᳘तृव्यस्य प्राणं᳘ दत्ते य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
स प्राणमेवाग्नेरादत्त । तस्मादेष नानुपध्मा नानुपज्वालितो ज्वलति । आत्तो ह्यस्य प्राणः । आ ह वै द्विषतो भ्रातृव्यस्य प्राणं दत्ते । य एवं वेद ॥ ७ ॥
सायणः
“किमु म एतेषु स्यात्” इति आदित्येन उक्ते सति “यद्यत्कामयेथाः” इति प्रजापतिना यत् प्राक् दत्तम्, तस्य स्वीकारं दर्शयति- प्राणमेवाग्नेरादत्तेत्यादिना । प्राण आत्तो ऽअग्नेरिति कथं निश्चीयत इति ? । तत्र लिंगमाह- तस्मादेष इति । तस्मादात्तप्राणत्वादेव अग्निरनुपध्मातो मुखस्थेन वायुना ऽप्रेर्यमाणः तथा काष्ठादिना उपज्वलनमप्राप्तः कदाचिदपि ‘न ज्वलति’ । अतः अधिगम्यते प्राण आदित्येन स्वीकृत इति आ ह वै द्विषत इति । वेदितुः फलकथनम् ॥ ७ ॥
Eggeling
- He (the sun) took unto himself Agni’s breath; whence that (fire) does not blaze unless fanned or kindled, for its breath has been taken from it; and, verily, he who knows this takes away the breath of life from his spiteful enemy.
०८
विश्वास-प्रस्तुतिः
रूप᳘मेव᳘ व्वायोरा᳘दत्त॥
त᳘स्मादेत᳘स्य लेल᳘यत ऽइवैवो᳘पशृण्वन्ति न᳘ त्वेनं पश्यन्त्या᳘त्त᳘ᳫँ᳘ ह्यस्य[[!!]] रूपमा᳘ ह वै᳘ द्विषतो भ्रा᳘तृव्यस्य रूप᳘न्दत्ते य᳘ ऽएवं व्वे᳘द॥
मूलम् - श्रीधरादि
रूप᳘मेव᳘ व्वायोरा᳘दत्त॥
त᳘स्मादेत᳘स्य लेल᳘यत ऽइवैवो᳘पशृण्वन्ति न᳘ त्वेनं पश्यन्त्या᳘त्त᳘ᳫँ᳘ ह्यस्य[[!!]] रूपमा᳘ ह वै᳘ द्विषतो भ्रा᳘तृव्यस्य रूप᳘न्दत्ते य᳘ ऽएवं व्वे᳘द॥
मूलम् - Weber
रूप᳘मेव वायोरा᳘दत्त॥
त᳘स्मादेत᳘स्य लेल᳘यत इवैवो᳘पशृण्वन्ति नॗ त्वेनम् पश्यन्त्या᳘त्तᳫं ह्य᳘स्य रूपमा᳘ ह वै द्विषतो भ्रा᳘तृव्यस्य रूपं᳘ दत्ते य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
रूपमेव वायोरादत्त । तस्मादेतस्य लेलयत इवैवोपशृण्वंति । न त्वेनं पश्यंति । आत्तं ह्यस्य रूपम् । आ ह वै द्विषतो भ्रातृव्यस्य रूपं दत्ते । य एवं वेद ॥ ८ ॥
सायणः
वायोः सकाशात् रूपादाने कारणमाह- तस्मादेतस्य लेलयत इवैवोपशृण्वंतीति । ‘लेलयतः’ चलतः अस्य शृण्वंति । किं त्वेनं अग्न्यादिवन्न साक्षात्पश्यन्ति । आ ह वा इति वेदितुः फलश्रुतिः । एवं सर्वत्रादत्त इति संबंधः ॥ ८ ॥
Eggeling
- He took to himself Vāyu’s form; whence people hear it (the wind), as it were, shaking, but do not see it, for its form has been taken from it; and, verily, he who knows this takes away the form of his spiteful enemy.
०९
विश्वास-प्रस्तुतिः
चित्त᳘मेव पु᳘रुषस्या᳘दत्त॥
त᳘स्मादाहुर्द्देवचित्त᳘न्त्वा ऽवतु मा᳘ मनुष्यचित्तमित्या᳘त्त᳘ᳫँ᳘ ह्यस्य चित्तमा᳘ ह वै᳘ द्विषतो भ्रा᳘तृव्यस्य चित्त᳘न्दत्ते य᳘ ऽएवं व्वे᳘द॥
मूलम् - श्रीधरादि
चित्त᳘मेव पु᳘रुषस्या᳘दत्त॥
त᳘स्मादाहुर्द्देवचित्त᳘न्त्वा ऽवतु मा᳘ मनुष्यचित्तमित्या᳘त्त᳘ᳫँ᳘ ह्यस्य चित्तमा᳘ ह वै᳘ द्विषतो भ्रा᳘तृव्यस्य चित्त᳘न्दत्ते य᳘ ऽएवं व्वे᳘द॥
मूलम् - Weber
चित्त᳘मेव पु᳘रुषस्या᳘दत्त॥
त᳘स्मादाहुर्देवचित्तं᳘ त्वावतु मा᳘ मनुष्यचित्तमित्या᳘त्तᳫं ह्यस्य चित्तमा᳘ ह वै᳘ द्विषतो भ्रा᳘तृव्यस्य चित्तं᳘ दत्ते य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
चित्तमेव पुरुषस्यादत्त, तस्मादाहुः, देवचित्तं त्वा ऽवतु, मा मनुष्यचित्तमिति । आत्तं ह्यस्य चित्तम् । आ ह वै द्विषतो भ्रातृव्यस्य चित्तं दत्ते, य एवं वेद ॥ ९ ॥
सायणः
तथा ‘पुरुषस्य’ ‘चित्तमेवादत्त’ आदित्यः । ‘तस्मात्’ क्वचित् आशास्यं पुरुषमाहुः । कथं ? ‘देवचित्तं त्वा ऽवतु, मा मनुष्यचित्तमिति’ । आ ह वा इत्यादि पूर्ववत् ॥ ९ ॥
Eggeling
- He took to himself man’s thought; whence people say, ‘The divine thought protect thee, man’s thought me!’ for his thought has been taken from him; and, verily, he who knows this takes away the thought of his spiteful enemy.
१०
विश्वास-प्रस्तुतिः
च᳘क्षुरेव᳘ पशूनामा᳘दत्त॥
त᳘स्मादेते᳘ चाकश्य᳘माना ऽइवैव न᳘ जानन्त्य᳘थ य᳘दै᳘वोपजि᳘घ्रन्त्य᳘थ जानन्त्या᳘त्त᳘ᳫँ᳘ ह्येषाञ्च᳘क्षुरा᳘ ह वै᳘ द्विषतो भ्रा᳘तृव्यस्य च᳘क्षुर्द्दत्ते य᳘ ऽएवम्वे᳘द॥
मूलम् - श्रीधरादि
च᳘क्षुरेव᳘ पशूनामा᳘दत्त॥
त᳘स्मादेते᳘ चाकश्य᳘माना ऽइवैव न᳘ जानन्त्य᳘थ य᳘दै᳘वोपजि᳘घ्रन्त्य᳘थ जानन्त्या᳘त्त᳘ᳫँ᳘ ह्येषाञ्च᳘क्षुरा᳘ ह वै᳘ द्विषतो भ्रा᳘तृव्यस्य च᳘क्षुर्द्दत्ते य᳘ ऽएवम्वे᳘द॥
मूलम् - Weber
च᳘क्षुरेव᳘ पशूनामा᳘दत्त॥
त᳘स्मादेते᳘ चाकश्य᳘माना इवैव न᳘ जानन्त्य᳘थ यॗदैॗवोपजि᳘घ्रन्त्य᳘थ जानन्त्याॗत्तᳫं ह्येषां च᳘क्षुरा᳘ ह वै᳘ द्विषतो भ्रा᳘तृव्यस्य च᳘क्षुर्तत्ते य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
चक्षुरेव पशूनामादत्त, तस्मादेते चाकश्यमाना इवैव न जानन्ति । अथ यदैवोपजिघ्रन्ति । अथ जानन्ति । आत्तं ह्येषां चक्षुः । आ ह वै द्विषतो भ्रातृव्यस्य चक्षुर्दत्ते, य एवं वेद ॥ १० ॥
सायणः
पशुभ्यः सकाशात् चक्षुष आदाने लिंगमाह- तस्मादेते चाकश्यमाना इवैव न जानन्ति । अथ यदैवोपजिघ्रंत्यथ जानन्ति इति । यस्मात्पशवो भृशं पश्यन्त इव वर्तमाना अपि न ‘जानन्ति’ । किंतु आघ्राणेन सर्वं ‘जानन्ति’ । तस्माच्चक्षुरात्तमिति निश्चीयते । शिष्टं पूर्ववत् ॥ १० ॥
Eggeling
- He took to himself the eye of cattle; whence, even whilst seeing clearly, as it were, they do not know anything, but only know what it is when they smell at it, for their eye has been taken from them; and, verily, he who knows this takes away the eye of his spiteful enemy.
११
विश्वास-प्रस्तुतिः
भा᳘मेव᳘ चन्द्र᳘मस आ᳘दत्त॥
त᳘स्मादेन᳘योः सदृ᳘शयोः सतो᳘र्न्नतरा᳘ञ्चन्द्र᳘मा भात्या᳘त्ता᳘ ह्यस्य[[!!]] भा ऽआ᳘ ह वै᳘ द्विषतो भ्रा᳘तृव्यस्य भा᳘न्दत्ते य᳘ ऽएवं व्वे᳘द तद्यदा᳘दत्त त᳘स्मादादित्यः[[!!]]॥
मूलम् - श्रीधरादि
भा᳘मेव᳘ चन्द्र᳘मस आ᳘दत्त॥
त᳘स्मादेन᳘योः सदृ᳘शयोः सतो᳘र्न्नतरा᳘ञ्चन्द्र᳘मा भात्या᳘त्ता᳘ ह्यस्य[[!!]] भा ऽआ᳘ ह वै᳘ द्विषतो भ्रा᳘तृव्यस्य भा᳘न्दत्ते य᳘ ऽएवं व्वे᳘द तद्यदा᳘दत्त त᳘स्मादादित्यः[[!!]]॥
मूलम् - Weber
भा᳘मेव᳘ चन्द्र᳘मस आ᳘दत्त॥
त᳘स्मादेत᳘योः सदृ᳘शयोः सतो᳘र्नतरां᳘ चन्द्र᳘मा भात्या᳘त्ता ह्य᳘स्य भा आ᳘ ह वै᳘ द्विषतो भ्रा᳘तृव्यस्य भां᳘ दत्ते य᳘ एवं वे᳘द तद्यदा᳘दत्त त᳘स्मादादित्यः᳟॥
मूलम् - विस्वरम्
भामेव चन्द्रमस आदत्त; तस्मादेनयोः सदृशयोः सतोर्नतरां चन्द्रमा भाति । आत्ता ह्यस्य भाः । आ ह वै द्विषतो भ्रातृव्यस्य भां दत्ते । य एवं वेद । तद्यदादत्त, तस्मादादित्यः ॥ ११ ॥
सायणः
भामेव चन्द्रमस आदत्त इत्यादि । यस्माच्चन्द्रमसः सकाशात् प्रभा आहृता । तस्मात्समानप्रभयोरपि सतोश्चन्द्रसूर्ययोर्मध्ये ‘चन्द्रमाः’ ‘नतरां भाति’ नैव भाति । आत्तेत्यादि पूर्ववत् । उक्तविधमादानं निमित्तीकृत्य आदित्यशब्दो निष्पन्न इति दर्शयति- तद्यदादत्त तस्मादादित्य इति ॥ ११ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे अष्टमे ऽध्याये तृतीयं ब्राह्मणम् ॥ ११ ॥ ८ ॥ ३ ॥
Eggeling
- He took to himself the moon’s shine; whence of these two (sun and moon), though being similar, the moon shines much less, for its shine has been taken from it; and, verily, he who knows this takes away the shine from his spiteful enemy. And inasmuch as he took these away (ā-dā), he (the sun) is called Āditya.
-
ऐन्द्राग्नः सौर्यः प्राजापत्यो वा यमिच्छेत् । का. श्रौ. सू. ६ । ८० । ↩︎
-
कान्पथागोष्ठमे᳘क A. कात्यथागोष्ठमे᳘क P. prima manu. ↩︎
-
128:1 Or, perhaps, cattle are shut up–some of them they shut up. ↩︎
-
128:2 ? Thus, apparently, Sāyaṇa:–Anye tv indrāgnyoḥ sarvadevatāprādhānyāt svoddeśena yāgaṁ kr̥tavatāṁ krameṇārtināśak(atv)ān mahataḥ (? mahaśaḥ) prāpakatvāc ca paśur aindrāgna iti. ↩︎
-
आॗप्रियो instead of आॗप्र्यो ! ↩︎
-
“समिद्धो ऽअद्य” इत्याद्याः- “हविरदन्तु देवाः” इत्यन्ताः (वा. सं. २९ । २५-३६) जमदग्निदृष्टास्त्रैष्टुप्छन्दस्का द्वादश मन्त्रा आप्रिय इत्युच्यन्ते । ↩︎
-
संज्ञप्तः पशुरिति प्रोक्ते शेतान्नु मुहूर्तमित्याहासोमे । का. श्रौ. सू. ६ । ११७ ॥ ↩︎
-
128:3 Eteshāṁ svabhūtaṁ vastu kiṁ labdhaṁ bhavet, Sāy. ↩︎
-
129:1 See III, 8, 1, 2 (with note), where ‘ā-prī’ is apparently taken by the Brāhmaṇa in the sense of ’to fill up.’ ↩︎
-
प्रतिदिशं पंच ब्राह्मणानवस्थाप्य ब्रूयादिममनुप्राणितेति । पूर्वो ब्रूयात्प्राणेति । व्यानेति दक्षिणः । अपानेत्यपरः । उदानेत्युत्तरः । समानेति पञ्चम उपरिष्टादवक्षमाणो ब्रूयात् । स्वयं वा कुर्यादनुपरिक्राममविद्यमानेषु । पार. गृ. सू. १ । १६ । १०-१६ ॥ इति । ↩︎
-
129:2 The Brāhmans having been placed in the direction of the respective quarters, the father makes one after the other breathe upon the child,–the first from the east and the child’s head, the second from the right side, &c., in sunwise succession; the fifth (whose position is not specified) breathing right down upon the child. ↩︎
-
130:1 Viz. a hundred years, Sāy. See X, 2, 6, 9; part iv, introd., p. xxiii. ↩︎