०१
विश्वास-प्रस्तुतिः
चत्वा᳘रो ह वा᳘ ऽअग्न᳘यः॥
(ऽ) आ᳘हित ऽउ᳘द्धृतः प्र᳘हृतो व्वि᳘हृतो ऽय᳘मेव᳘ लोक ऽआ᳘हितो ऽन्तरिक्षलोक ऽउ᳘द्धृतो द्यौष्प्र᳘हृतो दि᳘शो व्वि᳘हृतो ऽग्नि᳘रेवा᳘हितो व्वायुरु᳘द्धृत ऽआदित्यः प्र᳘हृतश्चन्द्र᳘मा व्वि᳘हृतो गा᳘र्हपत्य ऽएवा᳘हित ऽआहवनी᳘य ऽउ᳘द्धृतो ऽथ[[!!]] य᳘मेत᳘माहवनी᳘यात्प्राञ्चम्प्रण᳘यन्ति स प्र᳘हृतो᳘ ऽथ य᳘मेतमु᳘दञ्चं पशुश्रपणा᳘याह᳘रन्ति य᳘ञ्चोपय᳘ङ्भ्यः स व्वि᳘हृतस्त᳘स्मात्प्रहा᳘र्य्ये ऽग्नौ᳘ पशुबन्धेन[[!!]] यजेत॥
मूलम् - श्रीधरादि
चत्वा᳘रो ह वा᳘ ऽअग्न᳘यः॥
(ऽ) आ᳘हित ऽउ᳘द्धृतः प्र᳘हृतो व्वि᳘हृतो ऽय᳘मेव᳘ लोक ऽआ᳘हितो ऽन्तरिक्षलोक ऽउ᳘द्धृतो द्यौष्प्र᳘हृतो दि᳘शो व्वि᳘हृतो ऽग्नि᳘रेवा᳘हितो व्वायुरु᳘द्धृत ऽआदित्यः प्र᳘हृतश्चन्द्र᳘मा व्वि᳘हृतो गा᳘र्हपत्य ऽएवा᳘हित ऽआहवनी᳘य ऽउ᳘द्धृतो ऽथ[[!!]] य᳘मेत᳘माहवनी᳘यात्प्राञ्चम्प्रण᳘यन्ति स प्र᳘हृतो᳘ ऽथ य᳘मेतमु᳘दञ्चं पशुश्रपणा᳘याह᳘रन्ति य᳘ञ्चोपय᳘ङ्भ्यः स व्वि᳘हृतस्त᳘स्मात्प्रहा᳘र्य्ये ऽग्नौ᳘ पशुबन्धेन[[!!]] यजेत॥
मूलम् - Weber
चत्वा᳘रो ह वा᳘ अग्न᳘यः॥
आ᳘हित उ᳘द्धृतः प्र᳘हृतो वि᳘हृतोऽय᳘मेव᳘ लोक आ᳘हितोऽन्तरिक्षलोक उ᳘द्धृतो द्यौष्प्र᳘हृतो दि᳘शो वि᳘हृतोऽग्नि᳘रेवा᳘हितो वायुरु᳘द्धृत आदित्यः प्र᳘हृतश्चन्द्र᳘मा वि᳘हृतो गा᳘र्हपत्य एवा᳘हित आहवनी᳘य उ᳘द्धृतो᳘ऽथ य᳘मेत᳘माहवनी᳘यात्प्राञ्चम् प्रण᳘यन्ति स प्र᳘हृतो᳘ऽथ य᳘मेतमु᳘दञ्चम् पशुश्रपणा᳘याह᳘रन्ति यं᳘ चोपय᳘ङ्भ्यः स वि᳘हृतस्त᳘स्मात्प्रहा᳘र्येऽग्नौ᳘ पशुबन्धे᳘न यजेत॥
मूलम् - विस्वरम्
अग्नेश्चातुर्विध्याभिधायकं ब्राह्मणम् ।
चत्वारो ह वा अग्नयः । आहितः, उद्धृतः प्रहृतः, विहृतः । अयमेव लोक आहितः । अन्तरिक्षलोक उद्धृतः । द्यौष्प्रहृतः । दिशो विहृतः । अग्निरेवाहितः । वायुरुद्धृतः । आदित्यः प्रहृतः । चंद्रमा विहृतः । गार्हपत्य एवाहितः । आहवनीय उद्धृतः । अथ यमेतमाहवनीयात्प्रांचं प्रणयन्ति स प्रहृतः । अथ यमेतमुदंचं पशुश्रपणायाहरंति यं चोपयड्भ्यः स विहृतः । तस्मात्प्रहार्ये ऽग्नौ पशुबन्धेन यजेत ॥ १ ॥
सायणः
अथाहवनीयात्प्राक्प्रहृते उत्तरवेदिके अग्नौ पशुयागः कर्तव्य इति विधातुं अग्नेराहितादिभेदेन चातुर्विध्यं दर्शयति- चत्वारो ह वा अग्नय इत्यादिना । अन्यदायतनं कृत्वा नूतनमुत्पाद्य स्थापितो ऽग्निः ‘आहितः’ । उद्धरणात्संपादितः ‘उद्धृतः’ । प्राकृतप्रणयनात्संपादितः ‘प्रहृतः’ । इतस्ततो विहरणात् ‘विहृतः’ । उक्तमाहितादिचतुष्टयं भूराद्यात्मना अग्न्याद्यात्मना च स्तौति- अयमेव लोक इत्यादिना । भूरादीनामग्न्यादीनां आहितादिरूपत्वकल्पनायां पूर्वं पूर्वं प्रति उत्तरस्योत्तरस्य उपर्युपरि वर्तमानत्वं साम्यम् । इदानीं आहितादीनां अभिप्रेतमर्थं स्वयमेव विवृणोति- गार्हपत्य एवाहित इत्यादिना । पशुश्रपणार्थो यः अग्निः स शामित्रः, यश्च गुदकांडहोमार्थः सः ‘विहृतः’ । उप समीपे अंगयागानन्तरं यष्टव्या गुदहोमा ‘उपयजः’ । तदर्थं हृत इत्यर्थः । तदर्थमेव वर्णितं तत्प्रयोजनमाह- तस्मात् प्रहार्ये ऽग्नौ पशुबन्धेन यजेतेति । ‘प्रहार्ये’ उत्तरवेदिके इत्यर्थः ॥ १ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यंदिनीयशतपथब्राह्मणभाष्ये एकादशकांडे ऽष्टमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ ११ । ८ । २ ॥
Eggeling
- Verily, there are four kinds of fire,–the one laid down, the one taken out, the one taken forward, and the one spread (over the three hearths). Now, that which is laid down is this very (terrestrial) world; that which is taken out is the air-world, that which is taken forward is the sky, and that which is spread is the regions. And that which is laid down is Agni, that which is taken out is Vāyu (the wind), that which is taken forward is Āditya (the sun), and that which is spread is Candramas (the moon). And that which is laid down is the Gārhapatya, that which is taken out is the Āhavanīya, that which is taken forward is the (fire) they lead forth eastwards from the Āhavanīya; and that which is spread is the one they take northwards for the cooking of the victim, and that (used) for the by-offerings 1: let him therefore perform the animal sacrifice on a fire taken forward.
-
127:1 See III, 8, 3, 18; 8, 4, 9, with note. ↩︎