०१
विश्वास-प्रस्तुतिः
तद्य᳘था ह वै᳘॥
(वा ऽ) इद᳘ᳫँ᳘ रथचक्रं᳘ वा कौलालचक्रम्वा᳘ प्रतिष्ठितङ्क्र᳘न्देदेव᳘ᳫँ᳘ है᳘वेमे᳘ लोका ऽअ᳘ध्रुवा ऽअ᳘प्रतिष्ठिता ऽआसुः॥
मूलम् - श्रीधरादि
तद्य᳘था ह वै᳘॥
(वा ऽ) इद᳘ᳫँ᳘ रथचक्रं᳘ वा कौलालचक्रम्वा᳘ प्रतिष्ठितङ्क्र᳘न्देदेव᳘ᳫँ᳘ है᳘वेमे᳘ लोका ऽअ᳘ध्रुवा ऽअ᳘प्रतिष्ठिता ऽआसुः॥
मूलम् - Weber
तद्य᳘था ह वै᳟॥
इदं᳘ रथचक्रं᳘ वा कौलालचक्रं वा᳘प्रतिष्ठितं क्र᳘न्देदेव᳘ᳫं᳘ 1 हैॗवेमे᳘ लोका अ᳘ध्रुवा अ᳘प्रतिष्ठिता आसुः॥
मूलम् - विस्वरम्
अग्निहोत्रे महउपस्थानम् ।
तद्यथा ह वा इदं रथचक्रं वा कौलालचक्रं वा प्रतिष्ठितं क्रंदेत् । एवं हैवेमे लोका अध्रुवा अप्रतिष्ठिता आसुः ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
अग्निहोत्रे कर्मणि मह इत्युपस्थानं तदार्ढ्याय कर्तव्यनिमित्तं विधातुं आख्यायिकामाह- तद्यथा ह वा इदमित्यादिना । यथा लोके रथादिचक्रं आलम्बनकाष्ठादिराहित्येन भूमाववस्थितं सत् चलति । ‘एवमिमे’ त्रयः ‘लोकाः’ ‘अप्रतिष्ठिता आसुः’ ॥ १ ॥
Eggeling
- Verily, even as this cart-wheel, or a potter’s wheel, would creak 2 if not steadied, so, indeed, were these worlds unfirm and unsteadied.
०२
विश्वास-प्रस्तुतिः
स᳘ ह प्रजा᳘पतिरीक्षा᳘ञ्चक्रे॥
कथ᳘न्न्विमे᳘[[!!]] लोका᳘ ध्रुवाः प्र᳘तिष्ठिताः स्युरि᳘ति स᳘ ऽएभि᳘श्चैव प᳘र्व्वतैर्न्नदी᳘भिश्चेमा᳘मदृᳫँ᳭ हद्व᳘योभिश्च म᳘रीचिभिश्चान्त᳘रिक्षञ्जीमू᳘तैश्च न᳘क्षत्रैश्च दि᳘वम्॥
मूलम् - श्रीधरादि
स᳘ ह प्रजा᳘पतिरीक्षा᳘ञ्चक्रे॥
कथ᳘न्न्विमे᳘[[!!]] लोका᳘ ध्रुवाः प्र᳘तिष्ठिताः स्युरि᳘ति स᳘ ऽएभि᳘श्चैव प᳘र्व्वतैर्न्नदी᳘भिश्चेमा᳘मदृᳫँ᳭ हद्व᳘योभिश्च म᳘रीचिभिश्चान्त᳘रिक्षञ्जीमू᳘तैश्च न᳘क्षत्रैश्च दि᳘वम्॥
मूलम् - Weber
स᳘ ह प्रजा᳘पतिरीक्षां᳘ चक्रे॥
कॗथं न्विमे᳘ लोका᳘ ध्रुवाः प्र᳘तिष्ठिताः स्युरि᳘ति स᳘ एभि᳘श्चैव प᳘र्वतैर्नदी᳘भिश्चेमा᳘मदृंहद्व᳘योभिश्च म᳘रीचिभिश्चान्त᳘रिक्षं जीमू᳘तैश्च न᳘क्षत्रैश्च दि᳘वम्॥
मूलम् - विस्वरम्
स ह प्रजापतिरीक्षांचक्रे । कथं न्विमे लोका ध्रुवाः प्रतिष्ठिताः स्युरिति । स एभिश्चैव पर्वतैर्नदीभिश्चेमामदृंहत् । वयोभिश्च मरीचिभिश्चान्तरिक्षम् । जीमूतैश्च नक्षत्रैश्च दिवम् ॥ २ ॥
सायणः
तस्य परिहारोपायं प्रजापतिर्विचिंत्य ‘नदीभिः’ ‘पर्वतैश्च’ उर्वी, पक्षिभिः रश्मिभिश्च ‘अन्तरिक्षम्,’ मेघैर्नक्षत्रैश्च ‘दिवं,’ दृढीचकार ॥ २ ॥
Eggeling
- Prajāpati then bethought him, ‘How may these worlds become firm and steadied?’ By means of the mountains and rivers he stablished this (earth), by means of the birds and sun-motes 3 the air, and by means of the clouds and stars the sky.
०३
विश्वास-प्रस्तुतिः
(ᳫँ᳭) स म᳘ह ऽइ᳘ति व्या᳘हरत्॥
(त्प) पश᳘वो वै म᳘हस्त᳘स्माद्य᳘स्यैते᳘ बह᳘वो भ᳘वन्ति भू᳘यिष्ठमस्य कु᳘ले महीयन्ते बह᳘वो ह वा᳘ ऽअस्यैते᳘ भवन्ति भू᳘यिष्ठᳫँ᳭ हास्य कु᳘ले महीयन्ते त᳘स्माद्य᳘द्येनमाय᳘तनाद्बाधेरन्वा[[!!]] प्र᳘ वा याप᳘येयुरग्निहोत्र᳘ᳫँ᳘ हुत्वा म᳘ह ऽइत्यु᳘पतिष्ठेत प्र᳘ति प्रज᳘या पशुभिस्तिष्ठति᳘[[!!]] नाय᳘तनाच्च्यवते॥
मूलम् - श्रीधरादि
(ᳫँ᳭) स म᳘ह ऽइ᳘ति व्या᳘हरत्॥
(त्प) पश᳘वो वै म᳘हस्त᳘स्माद्य᳘स्यैते᳘ बह᳘वो भ᳘वन्ति भू᳘यिष्ठमस्य कु᳘ले महीयन्ते बह᳘वो ह वा᳘ ऽअस्यैते᳘ भवन्ति भू᳘यिष्ठᳫँ᳭ हास्य कु᳘ले महीयन्ते त᳘स्माद्य᳘द्येनमाय᳘तनाद्बाधेरन्वा[[!!]] प्र᳘ वा याप᳘येयुरग्निहोत्र᳘ᳫँ᳘ हुत्वा म᳘ह ऽइत्यु᳘पतिष्ठेत प्र᳘ति प्रज᳘या पशुभिस्तिष्ठति᳘[[!!]] नाय᳘तनाच्च्यवते॥
मूलम् - Weber
स म᳘ह इ᳘ति व्या᳘हरत्॥
पश᳘वो वै म᳘हस्त᳘स्माद्य᳘स्यैते᳘ बह᳘वो भ᳘वन्ति 4 भू᳘यिष्ठमस्य कु᳘ले महीयन्ते बह᳘वो ह वा᳘ अस्यैते᳘ भवन्ति भू᳘यिष्ठᳫं हास्य कु᳘ले महीयन्ते त᳘स्माद्य᳘द्येनमाय᳘तनाद्बा᳘धेरन्वा प्र᳘ वा याप᳘येयुरग्निहोत्र᳘ᳫं᳘ हुत्वा म᳘ह इत्यु᳘पतिष्ठेत प्र᳘ति प्रज᳘या पशु᳘भिस्तिष्ठतिॗ नाय᳘तनाच्च्यवते॥
मूलम् - विस्वरम्
स मह इति व्याहरत् । पशवो वै महः । तस्माद्यस्यैते बहवो भवन्ति । भूयिष्ठमस्य कुले महीयंते । बहवो ह वा अस्यैते भवंति । भूयिष्ठं हास्य कुले महीयंते । तस्माद्यद्येनमायतनाद्बाधेरन् वा, प्र वा यापयेयुः । अग्निहोत्रं हुत्वा मह इत्युपतिष्ठेत । प्रति प्रजया पशुभिस्तिष्ठति । नायतनाच्च्यवते ॥ ३ ॥
सायणः
‘सः’ तथा दृढान् दृष्ट्वा ‘महः’ इत्युवाच । तत्र महःशब्दार्थमाह- पशवो वै मह इति । उक्तमर्थं लोकप्रसिद्ध्या प्रमाणयति- तस्माद्यस्यैते बहव इति । यत एभिः पशुभिः ‘महीयन्ते’ । अतः ‘एते’ ‘महः’ । उक्तार्थज्ञानं प्रशंसति- बहवो ह वा इति । एते भवन्ति पशव इत्यर्थः । इदानीं मह इत्युपस्थानं विधत्ते- तस्माद्यद्येनमिति । एनमग्निं ‘आयतनात्’ स्वस्थानात् ‘बाधेरन्’ किंचिदुपद्रवं चक्रुः । ‘प्र वा यापयेयुः’ आयतनादन्यत्र गमयेयुर्वा । तदा ‘अग्निहोत्रं हुत्वा’ ‘महः इत्युपतिष्ठेत’ । तथा सति सो ऽग्निः प्रतिष्ठितो भवति । यजमानो ऽपि प्रजादिभिः प्रतिष्ठितो भवति । न प्रच्युतो भवति । अथवा ‘महः’ इत्युपस्थानविधातुः फलप्रदर्शनपरमिदं वाक्यम् । तस्मिन्पक्षे एवमुक्तविधिना उपस्थानकर्तारम् ‘आयतनात्’ स्वगृहक्षेत्रादेः सकाशात् । गतमन्यत् ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यंदिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे ऽष्टमे ऽध्याये प्रथमं ब्राह्मणम् ॥ ११ । ८ । १ ॥
Eggeling
- He then exclaimed, ‘Wealth!’–now, wealth 5 (mahas) means cattle, whence they (cattle) thrive (mahīyante 6) exceedingly in the homestead of one who possesses many of them; and this (Sacrificer), indeed, possesses many of them, and in his homestead they do thrive exceedingly. Wherefore, if people were either to forcibly drive him from his home, or to bid him go forth, let him, after performing the Agni-hotra, approach (the fires) saying, ‘Wealth’; and he becomes firmly established by offspring and cattle, and is not deprived of his home.
-
Sây. seems to read ह्वलति instead of क्रन्देत् ↩︎
-
126:1 Sāyaṇa apparently takes ‘krand’ in the sense of ’to shake, or wabble,’–’even as a cart-wheel or some other wheel, not standing on the ground for want of the wooden rest (ālambana-kāshṭḥa,? axle-pin) or some other thing, would wabble (hvalet).’ What Sāyaṇa means to say, probably, is that the verb used by the author expresses the effect of the action intended. ↩︎
-
126:2 Or, sun-beams (raśmi), as Sāyaṇa takes ‘marīci’; cf. Weber, Ind. Stud. IX, p. 9, note. ↩︎
-
द्यस्यैते पशवो भवन्ति Sây ↩︎
-
126:3 Or, joy;–cp. II, 3, 4, 25, which would seem to be the passage referred to in the present paragraph. ↩︎
-
126:4 Or, perhaps, ’they enjoy themselves, gambol,’ as the St. Petersb. Dict. takes it. Differently, again, Sāyaṇa,–yata ebhiḥ paśubhir mahīyate (he thrives?), ata ete mahaḥ. ↩︎