०१
विश्वास-प्रस्तुतिः
स य᳘त्पशु᳘ना यक्ष्य᳘माणः॥
(ण ऽ) ए᳘कारत्निं यू᳘पङ्कुरुत᳘ ऽइम᳘मेव ते᳘न लोक᳘ञ्जयत्य᳘थ य᳘द्द्व्यरत्निमन्त᳘रिक्षलोक᳘मेव[[!!]] ते᳘न जयत्य᳘थ य᳘त्त्र्यरत्निन्दि᳘वमेव[[!!]] ते᳘न जयत्य᳘थ यच्च᳘तुररत्निन्दि᳘श ऽएव[[!!]] ते᳘न जयति स वा᳘ ऽएष त्र्यरत्निर्वैव च᳘तुररत्निर्व्वा पशुबन्धयूपो᳘ भवत्य᳘थ यो᳘ ऽत ऊर्ध्वः᳘ सौम्य᳘स्यैव᳘ सो ऽध्वरस्य[[!!]]॥
मूलम् - श्रीधरादि
स य᳘त्पशु᳘ना यक्ष्य᳘माणः॥
(ण ऽ) ए᳘कारत्निं यू᳘पङ्कुरुत᳘ ऽइम᳘मेव ते᳘न लोक᳘ञ्जयत्य᳘थ य᳘द्द्व्यरत्निमन्त᳘रिक्षलोक᳘मेव[[!!]] ते᳘न जयत्य᳘थ य᳘त्त्र्यरत्निन्दि᳘वमेव[[!!]] ते᳘न जयत्य᳘थ यच्च᳘तुररत्निन्दि᳘श ऽएव[[!!]] ते᳘न जयति स वा᳘ ऽएष त्र्यरत्निर्वैव च᳘तुररत्निर्व्वा पशुबन्धयूपो᳘ भवत्य᳘थ यो᳘ ऽत ऊर्ध्वः᳘ सौम्य᳘स्यैव᳘ सो ऽध्वरस्य[[!!]]॥
मूलम् - Weber
स य᳘त्पशु᳘ना यक्ष्य᳘माणः॥
ए᳘कारत्निं यू᳘पं कुरुत᳘ इम᳘मेव ते᳘न लोकं᳘ जयत्य᳘थ यद्द्व्य᳘रत्निमन्तरिक्षलोक᳘मेव ते᳘न जयत्य᳘थ यत्त्र्य᳘रत्निं दि᳘वमेव ते᳘न जयत्य᳘थ यच्च᳘तुरर्त्निं दि᳘श एव ते᳘न जयति स वा᳘ एष त्र्य᳘रत्निर्वैव च᳘तुररत्निर्वा पशुबन्धयूपो᳘ भवत्य᳘थ यो᳘ऽत ऊर्ध्वः᳘ सौम्य᳘स्यैवॗ सोऽध्वर᳘स्य॥
मूलम् - विस्वरम्
स यत्पशुना यक्ष्यमाण एकारत्निं यूपं कुरुते । इममेव तेन लोकं जयति । अथ यत् द्व्यरत्निम्, अंतरिक्षलोकमेव तेन जयति । अथ यत् त्र्यरत्निं, दिवमेव तेन जयति । अथ यच्चतुररत्निं, दिश एव तेन जयति । स वा एष त्र्यरत्निर्वैव चतुररत्निर्वा पशुबंधयूपो भवति । अथ यो ऽत ऊर्ध्वः; सौम्यस्यैव सो ऽध्वरस्य ॥ १ ॥
सायणः
इत्थं यूपार्हं वृक्षं तत्स्वरूपं चाभिधाय, अथ यूपप्रमाणमाह 1- स यत् पशुना यक्ष्यमाण इत्यादिना । ‘तेन’ एकारत्नियूपस्वीकारेण ‘इमं लोकं जयति’ । परं न स्वर्गमित्यर्थः । एवं ‘द्व्यरत्निमंतरिक्षलोकमेव’ । एवं त्र्यरत्निचतुररत्निभ्यां द्युलोकं दश दिशश्च जयति । तस्मात्तथाविधोभयजयस्य इष्टत्वात् त्र्यरत्निं चतुररत्निं वा कुर्यात् । ननु- इतः परमपि अरत्निप्रमाणविशेषो ऽस्ति; 2 स किं नोपादीयते इत्याकांक्षायां तस्य सोमयागविषयतामाह- अथ यो ऽत ऊर्ध्व इति ॥ १ ॥
Eggeling
- Now, when he who is about to perform an animal sacrifice makes a stake one cubit long, he thereby gains this (terrestrial) world; and when (he makes) one two cubits long, he thereby gains the air-world; and when be makes one three cubits long, he thereby gains the heavens; and when he makes one four cubits long, he thereby gains the regions. But, indeed, that sacrificial stake of the (ordinary) animal sacrifice is either three or four cubits long, and one that is above that belongs to the Soma-sacrifice.
०२
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्य्य᳘) य᳘जेदा᳘ज्यभागौ ना३ ऽइ᳘ति य᳘जेदि᳘त्याहुश्च᳘क्षुषी वा᳘ ऽएते᳘ यज्ञ᳘स्य यदा᳘ज्यभागौ कि᳘मृते पु᳘रुषश्च᳘क्षुर्भ्याᳫँ᳭ स्यादि᳘ति यावद्वै᳘[[!!]] भागि᳘नᳫँ᳭ स्वे᳘न भागधे᳘येन न᳘ निर्भ᳘जन्त्य᳘निर्भक्तो वै स ता᳘वन्मन्यते᳘ ऽथ य᳘दैव तᳫँ᳭ स्वे᳘न भागधे᳘येन निर्भ᳘जन्त्य᳘थैव स नि᳘र्भक्तो मन्यते स य᳘त्रैतद्धो᳘ता ऽन्वा᳘हास्ना र᳘क्षः स᳘ᳫँ᳘सृजतादि᳘ति त᳘देनᳫँ᳭ स्वे᳘न भागधे᳘येन नि᳘र्भजति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्य्य᳘) य᳘जेदा᳘ज्यभागौ ना३ ऽइ᳘ति य᳘जेदि᳘त्याहुश्च᳘क्षुषी वा᳘ ऽएते᳘ यज्ञ᳘स्य यदा᳘ज्यभागौ कि᳘मृते पु᳘रुषश्च᳘क्षुर्भ्याᳫँ᳭ स्यादि᳘ति यावद्वै᳘[[!!]] भागि᳘नᳫँ᳭ स्वे᳘न भागधे᳘येन न᳘ निर्भ᳘जन्त्य᳘निर्भक्तो वै स ता᳘वन्मन्यते᳘ ऽथ य᳘दैव तᳫँ᳭ स्वे᳘न भागधे᳘येन निर्भ᳘जन्त्य᳘थैव स नि᳘र्भक्तो मन्यते स य᳘त्रैतद्धो᳘ता ऽन्वा᳘हास्ना र᳘क्षः स᳘ᳫँ᳘सृजतादि᳘ति त᳘देनᳫँ᳭ स्वे᳘न भागधे᳘येन नि᳘र्भजति॥
मूलम् - Weber
त᳘दाहुः॥
य᳘जेदा᳘ज्यभागौ ना३ इ᳘ति य᳘जेदि᳘त्याहुश्च᳘क्षुषी वा᳘ एते᳘ यज्ञ᳘स्य यदा᳘ज्यभागौ कि᳘मृते पु᳘रुषश्च᳘क्षुर्भ्याᳫं स्यादि᳘ति या᳘वद्वै᳘ भागि᳘नᳫं स्वे᳘न भागधे᳘येन न᳘ निर्भ᳘जन्त्य᳘निर्भक्तो वै स ता᳘वन्मन्यते᳘ऽथ यॗदैव तᳫं स्वे᳘न भागधे᳘येन निर्भ᳘जन्त्य᳘थैव स नि᳘र्भक्तो मन्यते स य᳘त्रैतद्धो᳘तान्वा᳘हास्ना र᳘क्षः स᳘ᳫं᳘सृजतादि᳘ति त᳘देनᳫं स्वे᳘न भागधे᳘येन नि᳘र्भजति॥
मूलम् - विस्वरम्
तदाहुः- यजेदाज्यभागौ ना३ इति । यजेदित्याहुः । चक्षुषी वा एते यज्ञस्य । यदाज्यभागौ । किमृते पुरुषश्चक्षुर्भ्यां स्यादिति । यावद्वै भागिनं स्वेन भागधेयेन न निर्भजंति । अनिर्भक्तो वै स तावन्मन्यते । अथ यदैव तं स्वेन भागधेयेन निर्भजन्ति । अथैव स निर्भक्तो मन्यते । स यत्रैतद्धोता ऽन्वाह । “अस्ना रक्षः संसृजतात्”- इति । तदेनं स्वेन भागधेयेन निर्भजति ॥ २ ॥
सायणः
इत्थं यूपस्योपादेयं प्रमाणमभिधाय तस्याज्यभागयोरवश्यकर्तव्यतामाह 1- तदाहुर्यजेदाज्यभागौ ना इतीती । आज्यभागौ हि यज्ञस्य चक्षुषी । यथा ‘चक्षुर्भ्यामृते’ दृशोरभावे ‘पुरुषः’ ‘किं स्यात् ?’ न किंचिद्भवति । नश्यत्येवेत्यर्थः । तस्मादवश्यमनुष्ठेयौ इत्यभिप्रायः । अथ पशुविशंसनविषयप्रैषमध्ये “अस्ना रक्षः सँसृजतात् इति यः प्रैषभागः तेन रक्षोभ्यः स्वभागप्रदानं कृतं भवतीति लोकदृष्टांतेन दर्शयति- यावद्वै भागिनमित्यादिना । ‘यावद्वै भागिनं’ भागार्हं ‘स्वेन भागधेयेन’ तवायं भागो दत्त इति वा तस्य तदीयं भागं प्रयच्छत इति वा अभिधानपुरःसरं ‘न निर्भजंति’ निर्णीतभागं कुर्वंति । ‘सः’ पुमान् ‘अनिर्भक्तो वै’ भागान्निष्कासितो न भवति खलु । अनिर्भक्तः अहमिति ‘तावन्मन्यते’ संपूर्णं मन्यते । ‘अथ’ उक्तवैपरीत्येन ‘यदैव’ खलु लोभादिना ‘तं’ भागार्हं पुरुषं ‘स्वेन भागधेयेन निर्भजंति’ निर्णीतभागं न कुर्वंति । ‘अथैव’ तदा खलु । ‘सः’ तु भागान्निर्भक्तो ऽहं भागान्निर्गतो ऽहं इत्यात्मानं ‘मन्यते’ । तस्माल्लोके एवं दर्शनात् ‘स होता’ ‘यत्र’ यदा एतदिदानीं ‘अन्वाह’ । कथं ? “अस्ना रक्षः संसृजतात्” इति । ‘अस्ना’ पशुरक्तेन ‘रक्षः’ राक्षसं ‘संसृजतादिति’ ब्रूयात् । ‘तदा एनं स्वेन भागधेयेन निर्भजति’ अनेन इतरादेयांगविषयप्रैषवत् एतत् प्रैषवाक्यमपि अवश्यं वक्तव्यमिति उक्तं भवति ॥ २ ॥
Eggeling
- As to this they say, ‘Should he offer the butter-portions or not?’–‘Let him offer them,’ they say; ‘for the two butter-portions are the eyes of the sacrifice, and what were man without eyes?’ For as long as a co-sharer is not bought off by (receiving) a share of his own, so long does he consider himself not bought off; but when he is bought off by a share of his own, then, indeed, he considers himself bought
off: when the Hotr̥, on that occasion 3, recites, ‘Endow the Rakshas with blood!’ he buys him off by (assigning to him) a share of his own.
०३
विश्वास-प्रस्तुतिः
(त्ये) एतद्वै᳘ पशोः᳘ संज्ञप्य᳘मानस्य॥
हृ᳘दयᳫँ᳭ शु᳘क्सम᳘वैति हृ᳘दयाच्छू᳘लन्तद्ये᳘ सह हृ᳘दयेन पशुᳫँ᳘ श्रप᳘यन्ति पु᳘नः पशुᳫँ᳭ शु᳘गनुवि᳘ष्पन्देत पार्श्वत᳘ ऽए᳘वैनत्काष्ठे᳘ प्रतृ᳘द्य श्रपयेत्॥
मूलम् - श्रीधरादि
(त्ये) एतद्वै᳘ पशोः᳘ संज्ञप्य᳘मानस्य॥
हृ᳘दयᳫँ᳭ शु᳘क्सम᳘वैति हृ᳘दयाच्छू᳘लन्तद्ये᳘ सह हृ᳘दयेन पशुᳫँ᳘ श्रप᳘यन्ति पु᳘नः पशुᳫँ᳭ शु᳘गनुवि᳘ष्पन्देत पार्श्वत᳘ ऽए᳘वैनत्काष्ठे᳘ प्रतृ᳘द्य श्रपयेत्॥
मूलम् - Weber
एतद्वै᳘ पशोः᳘ संज्ञप्य᳘मानस्य॥
हृ᳘दयं शु᳘क्सम᳘वैति हृ᳘दयाछू᳘लं तद्ये᳘ सह हृ᳘दयेन पशुं᳘ श्रप᳘यन्ति पु᳘नः पशुं शु᳘गनुवि᳘ष्पन्देत 4 पार्श्वत᳘ एॗवैनत्काष्ठे᳘ प्रतृ᳘द्य श्रपयेत्॥
मूलम् - विस्वरम्
एतद्वै पशोः संज्ञप्यमानस्य हृदयं शुक् समवैति । हृदयाच्छूलम् । तत् ये सह हृदयेन पशुं श्रपयंति । पुनः पशुं शुगनुविष्यंदेत । पार्श्वत एवैनत्काष्ठे प्रतृद्य श्रपयेत् ॥ ३ ॥
सायणः
अथ पश्ववयवपाकविषये कंचिद्विशेषमाह- एतद्वै पशोरित्यादिना । ‘संज्ञप्यमानस्य’ पशोः ‘शुक्’ मरणजन्यः शोकः ‘हृदयं’ संप्राप्नोति, तस्य सुखदुःखोपलंभनस्थानत्वात् । ततः ‘हृदयात्’ हृदयशूलं ‘समवैति’ । तस्मात् ‘हृदयेन सह’ इतरपश्ववयवानां पाके सति कृत्स्नं पश्ववयवं पुनः पुनः शुचं प्राप्नोति, तत्परिहारोपायमाह- पार्श्वत एवैनदिति 5 । ‘एनत्’ हृदयपुण्डरीकं ‘काष्ठे’ शूलाकारे ‘प्रतृद्य प्रविद्धं कृत्वा कुंभ्यां पार्श्वत एव ‘श्रपयेत्’ ॥ ३ ॥
Eggeling
- For on that occasion 6 the anguish of the victim, in being slaughtered, becomes concentrated in the heart, and from the heart (it flows) into the spit. Thus, if they (were to) cook the animal together with the heart, the anguish would again spread all over the animal: let him therefore cook it (the heart) after spitting it from the side on a stick.
०४
विश्वास-प्रस्तुतिः
(दु᳘) उ᳘पस्तृणीत ऽआ᳘ज्यम्॥
(न्त᳘) त᳘त्पृथिव्यै᳘ रूप᳘ङ्करोति हिरण्यशकलम᳘वदधाति त᳘दग्ने᳘ रूप᳘ङ्करोति व्वपाम᳘वदधाति त᳘दन्त᳘रिक्षस्य रूप᳘ङ्करोति हिरण्यशकलम᳘वदधाति[[!!]] त᳘दादित्य᳘स्य रूप᳘ङ्करोत्य᳘थ य᳘दुप᳘रिष्टादभिघार᳘यति त᳘द्दिवो᳘ रूप᳘ङ्करोति सा वा᳘ ऽएषा᳘ पञ्चावत्ता᳘ व्वपा᳘ भवति पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्त᳘वः सम्वत्सर᳘स्य त᳘स्मात्पञ्चावत्ता᳘ व्वपा᳘ भवति॥
मूलम् - श्रीधरादि
(दु᳘) उ᳘पस्तृणीत ऽआ᳘ज्यम्॥
(न्त᳘) त᳘त्पृथिव्यै᳘ रूप᳘ङ्करोति हिरण्यशकलम᳘वदधाति त᳘दग्ने᳘ रूप᳘ङ्करोति व्वपाम᳘वदधाति त᳘दन्त᳘रिक्षस्य रूप᳘ङ्करोति हिरण्यशकलम᳘वदधाति[[!!]] त᳘दादित्य᳘स्य रूप᳘ङ्करोत्य᳘थ य᳘दुप᳘रिष्टादभिघार᳘यति त᳘द्दिवो᳘ रूप᳘ङ्करोति सा वा᳘ ऽएषा᳘ पञ्चावत्ता᳘ व्वपा᳘ भवति पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्त᳘वः सम्वत्सर᳘स्य त᳘स्मात्पञ्चावत्ता᳘ व्वपा᳘ भवति॥
मूलम् - Weber
उ᳘पस्तृणीत आ᳘ज्यम्॥
त᳘त्पृथिव्यै᳘ रूपं᳘ करोति हिरण्यशकलम᳘वदधाति त᳘दग्ने᳘ रूपं᳘ करोति वपाम᳘वदधाति त᳘दन्त᳘रिक्षस्य रूपं᳘ करोति हिरण्यशकल᳘म᳘वदधाति त᳘दादित्य᳘स्य रूपं᳘ करोत्य᳘थ य᳘दुप᳘रिष्टादभिघार᳘यति त᳘द्दिवो᳘ रूपं᳘ करोति सा वा᳘ एषा᳘ पञ्चावत्ता᳘ वपा᳘ भवति पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्त᳘वः संवत्सर᳘स्य त᳘स्मात्पञ्चावत्ता᳘ वपा᳘ भवति॥
मूलम् - विस्वरम्
उपस्तृणीत आज्यम्; तत्पृथिव्यै रूपं करोति । हिरण्यशकलमवदधाति; तदग्ने रूपं करोति । वपामवदधाति; तदन्तरिक्षस्य रूपं करोति । हिरण्यशकलमवदधाति; तदादित्यस्य रूपं करोति । अथ यदुपरिष्टादभिघारयति; तद्दिवो रूपं करोति । सा वा एषा पञ्चावत्ता वपा भवति । पांक्तो यज्ञः, पांक्तः पशुः, पञ्चर्तवः संवत्सरस्य, तस्मात्पञ्चावत्ता वपा भवति ॥ ४ ॥
सायणः
अथ वपावदानस्य पञ्चावत्तत्वप्रकारं 5 संपादयन् पृथिव्यादिलोकत्रयात्मना अग्न्यादित्यात्मना च प्रशंसति- उपस्तृणीत आज्यमित्यादिना । धानाकरंभादिपञ्चद्रव्यसाध्यत्वात् ‘यज्ञः पांक्तः’ । लोमत्वङ्मांसास्थिमज्जाख्यपञ्चधातुमयत्वात् ‘पशुः पांक्तः’ । सुगममन्यत् ॥ ४ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे सप्तमे ऽध्याये चतुर्थं ब्राह्मणम् ॥ ११ । ७ । ४ ॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे सप्तमो ऽध्यायः समाप्तः ॥ (११ । ७) ॥
Eggeling
- He makes an underlayer of ghee (in the offering-ladle): this he makes a type of the earth; he then puts a chip of gold thereon: this he makes a type of fire; he then puts the omentum thereon: this he makes a type of the air; he then puts a chip of gold thereon: this he makes a type of the sun; and what (ghee) he pours upon it, that he makes a type of the heavens. This, then, is that five-portioned omentum,–fivefold is the sacrifice, fivefold the sacrificial animal, and five seasons there are in the year: this is why the omentum consists of five portions 7.
-
त्र्यरत्निश्चतुररत्निर्वा । एकारत्निप्रभृतीनेके । का. श्रौ. सू. ६ । २४ । २५ । ↩︎ ↩︎
-
पञ्चारत्निः पञ्चदशपर्यन्तः सोमे दशसप्तचतुर्दशवर्जमपरिमितो वा । सप्तदश वाजपेये । एकविँशतिरश्वमेधे । का. श्रौ. सू. ६ । २९-३१ ॥ ↩︎
-
125:1 Viz. at the time when the victim is cut up. Cf. Ait. Br. II, 7,–‘Endow ye the Rakshas with blood!’ he says; for by (assigning to them) the husks and the sweepings of the grain the gods deprived the Rakshas of their share in the Haviryajña, and by the blood (they deprived them) of that in the great (Soma-) sacrifice: thus by saying, ‘Endow ye the Rakshas with blood!’ he dispossesses the Rakshas of the sacrifice by assigning to them their own share.–The Adhvaryu then smears a stalk of grass with the blood with, ‘Thou art the Rakshas’ share,’ throws it on the heap of rubbish, and treads on it with, ‘Herewith I tread down the Rakshas,’ &c. Cf. III, 8, 2, 13-15. ↩︎
-
वि᳘ष्यंदेत P. ↩︎
-
शूले हृदयं प्रतृद्य शामित्रे श्रपयति । का. श्रौ. सू. ६ । १६२ । इति । ↩︎ ↩︎
-
125:2 See III, 8, 5, 8. ↩︎
-
125:3 Or, cuttings; see III, 8, 2, 26. ↩︎