०१
विश्वास-प्रस्तुतिः
स य᳘ ऽएष᳘ बहुसारः[[!!]]॥
स᳘ हापश᳘व्यस्त᳘स्मात्तादृ᳘शम्पशु᳘कामो यू᳘पन्न᳘ कुर्व्वीता᳘थ य᳘ ऽएष᳘ फल्गुप्रासहः[[!!]] स᳘ ह पश᳘व्यस्त᳘स्मात्तादृ᳘शम्पशु᳘कामो यू᳘पङ्कुर्व्वीत॥
मूलम् - श्रीधरादि
स य᳘ ऽएष᳘ बहुसारः[[!!]]॥
स᳘ हापश᳘व्यस्त᳘स्मात्तादृ᳘शम्पशु᳘कामो यू᳘पन्न᳘ कुर्व्वीता᳘थ य᳘ ऽएष᳘ फल्गुप्रासहः[[!!]] स᳘ ह पश᳘व्यस्त᳘स्मात्तादृ᳘शम्पशु᳘कामो यू᳘पङ्कुर्व्वीत॥
मूलम् - Weber
स य᳘ एष᳘ बहुसारः᳟॥
स᳘ हापशव्यस्त᳘स्मात्तादृ᳘शम् पशु᳘कामो यू᳘पं न᳘ कुर्वीता᳘थ य᳘ एष᳘ फल्गु᳘प्रासहः स᳘ ह पशव्य᳘स्त᳘स्मात्तादृ᳘शम् पशु᳘कामो यूपं कुर्वीत॥
मूलम् - विस्वरम्
स य एष बहुसारः स ह अपशव्यः । तस्मात्तादृशं पशुकामो यूपं न कुर्वीत । अथ य एष फल्गुप्रासहः । स ह पशव्यः । तस्मात् तादृशं पशुकामो यूपं कुर्वीत ॥ १ ॥
सायणः
इत्थं यूपस्य पालाशत्वं प्रतिपाद्य तत्रापि बहुसारस्य पशुविरोधित्वमल्पसारस्य पशुसमृद्धिकारणत्वं च क्रमेण दर्शयति- स एष बहुसार इत्यादिना । ‘सः अपशव्यः’ पशूनामहितः । अथ य एष फल्गुप्रासह इति । अथशब्दः उक्तवैलक्षण्यद्योतनार्थ उक्तः । प्रकर्षेण सहते अभिभवतीति ‘प्रासहः’ बलम् । फल्गु इति तुच्छनाम । अल्पवाचक इत्यर्थः । ‘स पशव्यः’ । तस्मात्तादृशमित्यादि स्पष्टम् ॥ १ ॥
Eggeling
- Such a (sacrificial stake) as has much substance 1 is not auspicious to cattle, whence he who desires to have cattle should not make such a one his sacrificial stake: but such a one as is of little hardness is auspicious to cattle, whence he who desires to have cattle should make such a one his sacrificial stake.
०२
विश्वास-प्रस्तुतिः
(ता᳘) अ᳘थ य᳘स्यैत᳘द्वक्र᳘स्य सतः[[!!]]॥
शू᳘ल ऽइवा᳘ग्रम्भ᳘वति स᳘ ह कपोती ना᳘म स यो᳘ ह तादृ᳘शं यू᳘पङ्कुरुते᳘ पुरा हा᳘युषो ऽमुं᳘ लोक᳘मेति त᳘स्मात्तादृ᳘शमा᳘युष्कामो यू᳘पन्न᳘ कुर्व्वीत॥
मूलम् - श्रीधरादि
(ता᳘) अ᳘थ य᳘स्यैत᳘द्वक्र᳘स्य सतः[[!!]]॥
शू᳘ल ऽइवा᳘ग्रम्भ᳘वति स᳘ ह कपोती ना᳘म स यो᳘ ह तादृ᳘शं यू᳘पङ्कुरुते᳘ पुरा हा᳘युषो ऽमुं᳘ लोक᳘मेति त᳘स्मात्तादृ᳘शमा᳘युष्कामो यू᳘पन्न᳘ कुर्व्वीत॥
मूलम् - Weber
अ᳘थ य᳘स्यैत᳘द्वक्र᳘स्य सतः᳟॥
शू᳘ल-इवा᳘ग्रम् भ᳘वति स᳘ ह कपोती ना᳘म स यो᳘ ह तादृ᳘शं यू᳘पं कुरुते᳘ पुरा हा᳘युषोऽमुं᳘ लोक᳘मेति त᳘स्मात्तादृ᳘शमा᳘युष्कामो यू᳘पं न᳘ कुर्वीत॥
मूलम् - विस्वरम्
अथ यस्यैतत् वक्रस्य सतः शूल इवाग्रं भवति । स ह कपोती नाम । स यो ह तादृशं यूपं कुरुते । पुरा ह आयुषो ऽमुं लोकमेति । तस्मात्तादृशमायुष्कामो यूपं न कुर्वीत ॥ २ ॥
सायणः
इत्थमल्पसारस्य यूपार्हतामुक्त्वा तस्यैव सन्निवेशविशेषमुपजीव्य दोषमाह- अथ यस्यैतद्वक्रस्येति 2 । यश्च पलाशवृक्षो वक्रः सन् तीक्ष्णाग्रश्च भवति । ‘स ह’ स खलु तादृशः ‘कपोती’ कपोताख्या स्त्री पक्षिसन्निवेशसाम्यात् स पक्षी यथा दुर्न्निमित्तः स यथा आयुः क्षपयति । एवमेषो ऽपीत्यर्थः । तथाविधस्य परिग्रहे सति शतायुर्लक्षणस्य नियतस्य ‘आयुषः’ मध्ये ‘अमुं’ ‘लोकमेति’ म्रियत इत्यर्थः । ‘तस्मात्’ तादृशः आयुष्कामस्य नेष्ट इत्युक्तं भवति ॥ २ ॥
Eggeling
- And such a one as, while being crooked, has a top like a spit, is called ‘kapotī 3’; and whoever makes such a one his sacrificial stake certainly goes to yonder world before his full measure of life: therefore let no one wishing for long life make such a one his sacrificial stake.
०३
विश्वास-प्रस्तुतिः
(ता᳘) अ᳘थ य᳘ ऽएष ऽआ᳘नतः॥
(ऽ) उप᳘रिष्टाद᳘पनतो म᳘ध्ये[[!!]] सो ऽशना᳘यै रूपᳫँ᳭ स यो᳘ ह तादृ᳘शं यू᳘पं कुरु᳘ते ऽशना᳘युका हास्य भा᳘र्य्या भवन्ति त᳘स्मात्तादृ᳘शमन्ना᳘द्यकामो यू᳘पन्न᳘ कुर्व्वीता᳘थ य᳘ ऽएष ऽआ᳘नत ऽउप᳘रिष्टादु᳘पनतो म᳘ध्ये᳘ सो ऽन्ना᳘द्यस्य रूपं त᳘स्मात्तादृ᳘शमन्ना᳘द्यकामो[[!!]] यू᳘पङ्कुर्व्वीत॥
मूलम् - श्रीधरादि
(ता᳘) अ᳘थ य᳘ ऽएष ऽआ᳘नतः॥
(ऽ) उप᳘रिष्टाद᳘पनतो म᳘ध्ये[[!!]] सो ऽशना᳘यै रूपᳫँ᳭ स यो᳘ ह तादृ᳘शं यू᳘पं कुरु᳘ते ऽशना᳘युका हास्य भा᳘र्य्या भवन्ति त᳘स्मात्तादृ᳘शमन्ना᳘द्यकामो यू᳘पन्न᳘ कुर्व्वीता᳘थ य᳘ ऽएष ऽआ᳘नत ऽउप᳘रिष्टादु᳘पनतो म᳘ध्ये᳘ सो ऽन्ना᳘द्यस्य रूपं त᳘स्मात्तादृ᳘शमन्ना᳘द्यकामो[[!!]] यू᳘पङ्कुर्व्वीत॥
मूलम् - Weber
अ᳘थ य᳘ एष आ᳘नतः॥
उप᳘रिष्टाद᳘पनतो म᳘ध्येॗ सोऽशना᳘यै रूपᳫं स यो᳘ ह तादृ᳘शं यू᳘पं कुरुॗतेऽशना᳘युका हास्य भा᳘र्या भवन्ति त᳘स्मात्तादृ᳘शमन्ना᳘द्यकामो यू᳘पं न᳘ कुर्वीता᳘थ य᳘ एष आ᳘नत उप᳘रिष्टादु᳘पनतो म᳘ध्येॗ सोऽन्ना᳘द्यस्य रूपं त᳘स्मात्तादृ᳘शम᳘न्ना᳘द्यकामो यू᳘पं कुर्वीत॥
मूलम् - विस्वरम्
अथ य एष आनत उपरिष्टादपनतो मध्ये । सो ऽशनायै रूपम् । स यो ह तादृशं यूपं कुरुते । अशनायुका हास्य भार्या भवन्ति । तस्मात्तादृशमन्नाद्यकामो यूपं न कुर्वीत । अथ य एष आनत उपरिष्टादुपनतो मध्ये । सो ऽन्नाद्यस्य रूपम् । तस्मात्तादृशमन्नाद्यकामो यूपं कुर्वीत ॥ ३ ॥
सायणः
अथ उक्तयूपवृक्षे अपनत्युपनत्योः क्रमेण अन्नविरोधित्वं अन्नसमृद्धिकत्वं च दर्शयति- अथ य एष आनत 2 4 उपरिष्टादित्यादि । अत्यन्तं नम्रः ‘अपनतः’ । ईषन्नम्र ‘उपनतः’ । ‘भार्याः’ भरणीयाः पुत्रभृत्यादयः । ते ‘अशनायुकाः’ सर्वदा क्षुत्पीडया अशनमेवेच्छन्तो भवन्ति । समानमन्यत् ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे सप्तमे ऽध्याये तृतीयं ब्राह्मणम् ॥ ११ । ७ । ३ ॥
Eggeling
- And such a one as is bent at the top, and bent outwards 5 in the middle, is a type of hunger (poverty); and if any one makes such a one his sacrificial stake, his dependants will certainly be hungry; therefore let no one wishing for food make such a one his sacrificial stake. But such a one as is bent at the top and bent inwards in the middle, is a type of food (prosperity): therefore let him who wishes for food make such a one his sacrificial stake.
-
123:1 That is, as would seem, made of very hard wood. It cannot mean ‘pithy,’ because at XIII, 4, 4, 9, the Khadira (acacia catechu), a tree of very hard, solid wood, is mentioned as ‘bahusāra.’ ↩︎
-
“शूलाग्रं वर्जयेन्नित्यं सर्वयज्ञेषु निन्दितम् । उच्छ्रयणे तथा ऽनर्हं यूपं वक्रं तु नाहरेत्” इति । का. यूपलक्षणपरि. सू. ॥ १५ ॥ ↩︎ ↩︎
-
123:2 Either ’that which has a pigeon (sitting) on it’ (kapotin, viz. yūpa), or, as Sāyaṇa takes it, fem. of ‘kapota,’–a female pigeon; i.e. a tree too much pointed at the top. ↩︎
-
अशुष्काग्रमूर्ध्वसकलशाखं मध्याग्रोपनतमव्रणम् । का. श्रौ. सू. ६ । ८ । इति । ↩︎
-
124:1 That is, as would seem, bent to the opposite side from that towards which the top tends. ↩︎