०१

विश्वास-प्रस्तुतिः

हविर्य्यज्ञ᳘विधो ह वा᳘ ऽअन्यः᳘ पशुबन्धः᳘॥
सव᳘विधो ऽन्यः स᳘ हैष᳘ हविर्य्यज्ञ᳘विधो य᳘स्मिन्व्रत᳘मुपन᳘यति य᳘स्मिन्नपः᳘ प्रण᳘यति य᳘स्मिन्पूर्णपात्र᳘न्निन᳘यति य᳘स्मिन्विष्णुक्रमा᳘न्क्रम᳘यत्य᳘थ हैष᳘ सव᳘विधो य᳘स्मिन्नेता᳘नि न᳘ क्रिय᳘न्ते॥

मूलम् - श्रीधरादि

हविर्य्यज्ञ᳘विधो ह वा᳘ ऽअन्यः᳘ पशुबन्धः᳘॥
सव᳘विधो ऽन्यः स᳘ हैष᳘ हविर्य्यज्ञ᳘विधो य᳘स्मिन्व्रत᳘मुपन᳘यति य᳘स्मिन्नपः᳘ प्रण᳘यति य᳘स्मिन्पूर्णपात्र᳘न्निन᳘यति य᳘स्मिन्विष्णुक्रमा᳘न्क्रम᳘यत्य᳘थ हैष᳘ सव᳘विधो य᳘स्मिन्नेता᳘नि न᳘ क्रिय᳘न्ते॥

मूलम् - Weber

हविर्यज्ञ᳘विधो ह वा᳘ अन्यः᳘ पशुबन्धः᳟॥
सव᳘विधोऽन्यः स᳘ हैष᳘ हविर्यज्ञ᳘विधो य᳘स्मिन्व्रत᳘मुपन᳘यति य᳘स्मिन्नपः᳘ प्रण᳘यति य᳘स्मिन्पूर्णपात्रं᳘ निन᳘यति य᳘स्मिन्विष्णुक्रमा᳘न्क्रम᳘यत्य᳘थ हैष᳘ सव᳘विधो य᳘स्मिन्नेता᳘नि न᳘ क्रिय᳘न्ते॥

मूलम् - विस्वरम्

पशुबन्धस्येष्टिसवविधत्वेन द्वैविध्याभिधायकं ब्राह्मणम् ।

हविर्यज्ञविधो ह वा अन्यः पशुबंधः । सवविधो ऽन्यः । स हैष हविर्यज्ञविधः, यस्मिन् व्रतमुपनयति । यस्मिन्नपः प्रणयति । यस्मिन्पूर्णपात्रं निनयति । यस्मिन् विष्णुक्रमान् क्रमयति । अथ हैष सवविधः, यस्मिन्नेतानि न क्रियंते ॥ १ ॥

सायणः

अथ इष्टिविधत्वं सवविधत्वं चेति पशुबंधस्य द्वैविध्यं दर्शयति- हविर्यज्ञविधो ह वा इति । ‘अन्यः’ एक ‘पशुबंधः’ ‘हविर्यज्ञविधः’ हविर्यज्ञो दर्शपूर्णमासेष्टिः तत्प्रकारकः । ‘अन्यः’ एकः ‘पशुबन्धः’ ‘सवविधः’ । सवः सोमः अभिषवयुक्तः सोमयागः तत्प्रकारक इत्यर्थः । तत्र हविर्यज्ञविधस्य स्वरूपमाह- स हैष हविर्यज्ञविध 1 इति । ‘यस्मिन्’ पशुबंधकर्मणि ‘व्रतमुपनयति’ उपगच्छति । प्रणीताख्यानामपां प्रणयनं करोति । अंते पूर्णपात्रनिनयनं विष्णुक्रमणं च यस्मिन् भवति । स पशुबंधो व्रतोपायनादीष्टिधर्माणां योगात् हविर्यज्ञविध इत्यर्थः । एतेषां व्रतोपायनादीनां विरह एव सवविधस्य लक्षणमित्याह- अथ हैष सवविध इति ॥ १ ॥

Eggeling
  1. Now there is one animal sacrifice of the Haviryajña order 2, and another of the order of the Soma-sacrifice. Of the Haviryajña order is that at which he (the Adhvaryu) brings him fast-food 3, leads water

forward 4, and pours out a jarful of water 5, and at which (the Sacrificer) strides the Vishṇu-strides 6; and of the order of the Soma-sacrifice is that (animal sacrifice) at which these (rites) are not performed.

०२

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(रि᳘) इ᳘ष्टिः पशुबन्धा᳘३ महायज्ञा३ ऽइ᳘ति महायज्ञ ऽइ᳘ति ह ब्रूयादि᳘ष्टिं वै त᳘र्हि पशुबन्ध᳘मक᳘र्व्व्येनमकृक्षथा ऽइ᳘त्येनम् ब्रूयात्॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(रि᳘) इ᳘ष्टिः पशुबन्धा᳘३ महायज्ञा३ ऽइ᳘ति महायज्ञ ऽइ᳘ति ह ब्रूयादि᳘ष्टिं वै त᳘र्हि पशुबन्ध᳘मक᳘र्व्व्येनमकृक्षथा ऽइ᳘त्येनम् 1 ब्रूयात्॥

मूलम् - Weber

त᳘दाहुः॥
इ᳘ष्टिः पशुबन्धा᳘३ महायज्ञा३ इ᳘ति महायज्ञ इ᳘ति ह ब्रूयादि᳘ष्टिं वै त᳘र्हि पशुबन्ध᳘मकॗर्व्येनमकृक्षथा 7 इ᳘त्येनम् ब्रूयात्॥

मूलम् - विस्वरम्

तदाहुः- इष्टिः पशुबंधा ३ महायज्ञा ३ इति । महायज्ञ इति ह ब्रूयात् । इष्टि वै तर्हि पशुबंधमकः । उ एनमकृक्षथा इत्येवं ब्रूयात् ॥ २ ॥

सायणः

सवविधत्वमेव सिद्धांतयितुं मीमांसामाह- तदाहुरिति । तत्तत्र पशुयागविषये आहुर्विचारयंति । किमयं पशुयागः ‘इष्टिः’ उत ‘महायज्ञः’ ? इति । महांश्चासौ यज्ञश्चेति महायज्ञः सोमयागः । “विचार्यमाणानाम्" (पा. सू. ८ । २ । ९७) इति उभयत्र प्लुतिः । तत्र सिद्धांतमाह- महायज्ञ इति हेति । पशुयागः ‘महायज्ञः’ इत्येव ‘ब्रूयात्’ । ‘तर्हि’ पशुबंधस्य इष्टिरूपत्वे ‘पशुबंधं’ पशुयागं पुरोडाशसाध्यामिष्टिमेव ‘अकः’ कृतवान् भवति । उशब्दस्तुशब्दार्थे । अपि तु- ‘एनं’ पशुबंधं ‘अकृक्षथाः’ कृष्टवानसीति एवमेव खलु एनमिष्टिविधं पशुबंधं कुर्वाणं ‘ब्रूयात्’ । अतो महायज्ञ एव पशुबंध इति साधीयान् पक्षः ॥ २ ॥

Eggeling
  1. Concerning this they ask, ‘Is the animal sacrifice an ishṭi or a great (Soma-) sacrifice?’–‘A great sacrifice,’ let him say; ‘for in that (other) case 8 thou hast made the animal sacrifice an ishṭi, and shattered it.’ Thus he should say to him.

०३

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘स्य प्रयाजा᳘ ऽएव᳘ प्रातःसवन᳘म्॥
(म) अनुयाजा᳘स्तृती᳘यसवन᳘म्पुरोडा᳘श ऽएव मा᳘ध्यन्दिनᳫँ᳭ स᳘वनम्॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘स्य प्रयाजा᳘ ऽएव᳘ प्रातःसवन᳘म्॥
(म) अनुयाजा᳘स्तृती᳘यसवन᳘म्पुरोडा᳘श ऽएव मा᳘ध्यन्दिनᳫँ᳭ स᳘वनम्॥

मूलम् - Weber

त᳘स्य प्रयाजा᳘ एव᳘ प्रातःसवन᳘म्॥
अनुयाजा᳘स्तृतीयसवन᳘म् पुरोडा᳘श एव मा᳘ध्यन्दिनᳫं स᳘वनम्॥

मूलम् - विस्वरम्

तस्य प्रयाजा एव प्रातःसवनम् । अनुयाजास्तृतीयसवनम् । पुरोडाश एव माध्यंदिनं सवनम् ॥ ३ ॥

सायणः

ननु- तस्य महायज्ञत्वे कानि पुनस्तत्संबंधीनि त्रीणि सवनानीति तान्याह- तस्य प्रयाजा एवेति । ये इमे एकादश ‘प्रयाजाः’ पशुयागात्पुरस्तादनुष्ठीयंते । ‘त एव’ पशुयागसंबंधि ‘प्रातःसवनम्’ । तथा एकादशानुयाजाः पशुयागस्योपरिष्टात् अनुष्ठीयमाना एव ‘तृतीयं सवनम्’ प्रयाजादनंतरं अंगयागात्पूर्वं क्षिप्रविधानात् “यद्देवत्यः पशुस्तद्देवत्यः पुरोडाशः कार्यः” इति यः पुरोडाशयागो मध्ये अनुष्ठीयते एतदेव ‘माध्यंदिनं सवनम्’ ॥ ३ ॥

Eggeling
  1. Its fore-offerings are the morning-service 9, its after-offerings the evening-service, and its sacrificial cake 10 the midday-service.

०४

विश्वास-प्रस्तुतिः

(न्त) तद्धै᳘के॥
व्वपा᳘याᳫँ᳭ हुता᳘यान्द᳘क्षिणा नयन्ति त᳘दु त᳘था न᳘ कुर्य्याद्यो᳘ हैनन्त᳘त्र ब्रूया᳘द्बहिर्द्धा न्वा᳘ ऽअय᳘म्प्राणे᳘भ्यो द᳘क्षिणा ऽअनैषीन्न᳘ प्राणा᳘नददक्षदन्धो᳘ वा स्रामो᳘ वा बधिरो᳘ वा पक्षहतो᳘ वा भविष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥

मूलम् - श्रीधरादि

(न्त) तद्धै᳘के॥
व्वपा᳘याᳫँ᳭ हुता᳘यान्द᳘क्षिणा नयन्ति त᳘दु त᳘था न᳘ कुर्य्याद्यो᳘ हैनन्त᳘त्र ब्रूया᳘द्बहिर्द्धा न्वा᳘ ऽअय᳘म्प्राणे᳘भ्यो द᳘क्षिणा ऽअनैषीन्न᳘ प्राणा᳘नददक्षदन्धो᳘ वा स्रामो᳘ वा बधिरो᳘ वा पक्षहतो᳘ वा भविष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥

मूलम् - Weber

तद्धै᳘के॥
वपायाᳫं हुता᳘यां द᳘क्षिणा नयन्ति त᳘दु त᳘था न᳘ कुर्याद्यो᳘ हैनं त᳘त्र ब्रूया᳘द्बहिर्धा न्वा᳘ अय᳘म् प्राणे᳘भ्यो द᳘क्षिणा अनैषीन्न᳘ प्राणा᳘नददक्षदन्धो᳘ वा स्रामो᳘ वा बधिरो᳘ वा पक्षहतो᳘ वा भविष्यती᳘तीश्वरो᳘ ह त᳘थैव᳘ स्यात्॥

मूलम् - विस्वरम्

तद्धैके वपायां हुतायां दक्षिणा नयन्ति । तदु तथा न कुर्यात् । यो हैनं तत्र ब्रूयात् । बहिर्द्धा न्वा अयं प्राणेभ्यो दक्षिणा अनैषीत् । न प्राणानददक्षत् । अंधो वा स्नामो वा बधिरो वा पक्षहतो वा भविष्यतीति । ईश्वरो ह तथैव स्यात् ॥ ४ ॥

सायणः

एवं त्रीणि सवनानि कल्पयित्वा तदुपजीवनेन दक्षिणाकालं विधित्सुः शाखांतरीयं दक्षिणाकालमनुवदति- तद्धैक इति । ‘वपायां हुतायां’ सत्यां मार्जनं कृत्वा पशुपुरोडाशात् प्रागेव ‘एके’ शाखिनः पश्वंगभूता ‘दक्षिणा नयन्ति’ ऋत्विग्भ्यः प्रयच्छंतीत्यर्थः । तदेतन्निराकरोति- तदु तथेति । यो हैनमित्यादि । ‘एनं’ पूर्वोक्ते काले दक्षिणा नयन्तम् । तत्र कश्चिदभिज्ञ आगत्य ‘ब्रूयात्’ । किमिति ? ‘अयं’ यजमानः प्राणेभ्यो ऽपि ‘बहिर्द्धा’ बाह्यदेशे ‘न्वै’ खलु ‘दक्षिणाः अनैषीत्’ । तया दक्षिणया तान् ‘प्राणान्’ ‘नाददक्षत्’ नावीवृधत् । “दक्ष वृद्धौ” (धा. पा. भ्वा. प. ६०९) इत्यस्माल्लुङि चङि रूपम् । एवं दक्षिणायां प्राणबाह्यदेशस्थायां प्राणवृद्ध्यभावे सति स यजमानः ‘अंधो वा’ ‘स्रामः’ व्रणी वा ‘बधिरो वा’ ‘पक्षहतः’ एकांगवातेन शुष्कार्द्धकायो वा ‘भविष्यतीति’ । एवमुक्ते सति ‘तथैव’ भवितुं अयं ‘ईश्वरः स्यात्’ ॥ ४ ॥

Eggeling
  1. Now, some bring up the Dakshiṇās (presents to the priests) when the omentum has been offered 11;

but let him not do so, for if, in that case, any one were to say of him, ‘Surely, this (Sacrificer) has brought the Dakshiṇās outside of the vital airs (or, of life), he has not strengthened his vital airs: he will become either blind, or lame, or deaf, or paralyzed on one side;’ then that would indeed he likely to come to pass.

०५

विश्वास-प्रस्तुतिः

(दि) इत्थ᳘मेव᳘ कुर्य्यात्॥
(त्पु) पुरोडाशेडा᳘यामेवो᳘पहूतायां द᳘क्षिणा नयेदैन्द्रो वा᳘ ऽअय᳘म्मध्यतः᳘ प्राण᳘ ऽइम᳘मे᳘वैत᳘दैन्द्र᳘म्मध्यतः᳘ प्राणन्द᳘क्षिणाभिर्दक्षयत्यैन्द्रम्वै मा᳘ध्यन्दिनᳫँ᳭ स᳘वनम्मा᳘ध्यन्दिने वै स᳘वने द᳘क्षिणा नीयन्ते त᳘स्मात्पुरोडाशेडा᳘यामेवो᳘पहूतायान्द᳘क्षिणा नयेत्॥

मूलम् - श्रीधरादि

(दि) इत्थ᳘मेव᳘ कुर्य्यात्॥
(त्पु) पुरोडाशेडा᳘यामेवो᳘पहूतायां द᳘क्षिणा नयेदैन्द्रो वा᳘ ऽअय᳘म्मध्यतः᳘ प्राण᳘ ऽइम᳘मे᳘वैत᳘दैन्द्र᳘म्मध्यतः᳘ प्राणन्द᳘क्षिणाभिर्दक्षयत्यैन्द्रम्वै मा᳘ध्यन्दिनᳫँ᳭ स᳘वनम्मा᳘ध्यन्दिने वै स᳘वने द᳘क्षिणा नीयन्ते त᳘स्मात्पुरोडाशेडा᳘यामेवो᳘पहूतायान्द᳘क्षिणा नयेत्॥

मूलम् - Weber

इत्थ᳘मेव᳘ कुर्यात्॥
पुरोडाशेडा᳘यामेवो᳘पहूतायां द᳘क्षिणा नयेदैन्द्रो वा᳘ अय᳘म् मध्यतः᳘ प्राण᳘ इम᳘मेॗवैत᳘दैन्द्र᳘म् मध्यतः᳘ प्राणं द᳘क्षिणाभिर्दक्षयत्यैन्द्रं वै मा᳘ध्यन्दिनᳫं स᳘वनम् मा᳘ध्यन्दिने वै स᳘वने द᳘क्षिणा नीयन्ते त᳘स्मात्पुरोडाशेडा᳘यामेवो᳘पहूतायां द᳘क्षिणा नयेत्॥

मूलम् - विस्वरम्

इत्थमेव कुर्यात् । पुरोडाशेडायामेवोपहूतायां दक्षिणा नयेत् । ऐंद्रो वा अयं मध्यतः प्राणः । इममेव तदैन्द्रं मध्यतः प्राणं दक्षिणाभिर्दक्षयति । ऐन्द्रं वै माध्यंदिनं सवनम् । माध्यंदिने वै सवने दक्षिणा नीयन्ते । तस्मात्पुरोडाशेडायामेवोपहूतायां दक्षिणा नयेत् ॥ ५ ॥

सायणः

तर्हि कस्मिन् काले दक्षिणादानमित्याशंक्य स्वमतमाह- इत्थमेवेति । ‘इत्थं’ अनेन वक्ष्यमाणप्रकारेण दक्षिणादानं कुर्यात् । स एव प्रकार उच्यते- पुरोडाशेडायामिति । वपायागानन्तरं क्षिप्रविधानार्थो निरुक्तो यः पुरोडाशः तस्य या इडा तस्यामेवोपहूतायां मार्जनांते पशुयागांगभूता ‘दक्षिणा नयेत्’ । ‘अयं मध्यतः’ शरीरमध्ये वर्तमानः ‘प्राणः’ ‘ऐंद्रो वै’ इंद्रदेवताकः । ‘एतत्’ एतर्हि ‘इममेवैन्द्रं’ मध्यतो ऽवस्थितं प्राणं मध्यतो नीयमानाभिः ‘दक्षिणाभिः’ ‘दक्षयति’ वर्द्धयति बलयति । अपि च पुरोडाशस्य माध्यंदिनसवनरूपत्वमुक्तम् । तत्सवनं साकल्येन ‘ऐंद्रं’ इंद्रदेवताकम् । “प्रातःसुतमपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते” इति मंत्रवर्णात् सोमयागे हि ‘माध्यंदिने’ तदंगभूताः ‘दक्षिणाः’ ऋत्विगर्थं ‘नीयन्ते’ । तस्मात् माध्यंदिनसवनत्वेन संस्तुतपुरोडाशेडायामुपहूतायां दक्षिणानयनं कार्यमित्यर्थः ॥ ५ ॥

Eggeling
  1. Let him perform it in this way:–when the Iḍā of the cake-offering has been invoked, he should bring up the Dakshiṇās; for to Indra belongs this vital air in the centre (of the body): by means of the Dakshiṇās he thus strengthens this vital air in the centre (of the body); and to Indra also belongs the midday Soma-service, and at the midday-service the Dakshiṇās are brought up: therefore. he should bring up the Dakshiṇās after the invocation of the Iḍā of the cake-offering.

०६

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘दाहुः॥
(र᳘) अ᳘ध्वर्य्यो य᳘द्दीक्षित᳘स्य᳘ नानवभृ᳘थो ऽवक᳘ल्पते᳘ क्वैनमदिदीक्ष ऽइ᳘त्यावभृथा᳘दनू᳘द्दृᳫँ᳭हेयुरध्वर्य्यु᳘श्च प्रतिप्रस्थाता᳘ च हो᳘ता च मैत्रावरुण᳘श्च ब्रह्मा चा᳘ग्नीद्ध्रश्चैतैर्वा᳘ ऽएष ष᳘ड्ढोता त᳘मनुद्रु᳘त्य ष᳘ड्ढोतारं जुहोत्ये᳘कामा᳘हुतिङ्कृत्वा प᳘ञ्च वा᳘ ऽऽज्याद्द्यौ᳘ष्पृष्ठ᳘मन्त᳘रिक्षमात्मा᳘ ऽङ्गैर्यज्ञ᳘म्पृथिवीᳫँ᳭ श᳘रीरैः॥ व्वा᳘चस्पते᳘ ऽच्छिद्रया व्वाचा᳘ ऽच्छिद्रया जुह्वा᳘ दिवि᳘ देवावृ᳘धᳫँ᳭ हो᳘त्रामैरयत्स्वाहे᳘ति᳘ सैव᳘ दीक्षा[[!!]]॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘दाहुः॥
(र᳘) अ᳘ध्वर्य्यो य᳘द्दीक्षित᳘स्य᳘ नानवभृ᳘थो ऽवक᳘ल्पते᳘ क्वैनमदिदीक्ष ऽइ᳘त्यावभृथा᳘दनू᳘द्दृᳫँ᳭हेयुरध्वर्य्यु᳘श्च प्रतिप्रस्थाता᳘ च हो᳘ता च मैत्रावरुण᳘श्च ब्रह्मा चा᳘ग्नीद्ध्रश्चैतैर्वा᳘ ऽएष ष᳘ड्ढोता त᳘मनुद्रु᳘त्य ष᳘ड्ढोतारं जुहोत्ये᳘कामा᳘हुतिङ्कृत्वा प᳘ञ्च वा᳘ ऽऽज्याद्द्यौ᳘ष्पृष्ठ᳘मन्त᳘रिक्षमात्मा᳘ ऽङ्गैर्यज्ञ᳘म्पृथिवीᳫँ᳭ श᳘रीरैः॥ व्वा᳘चस्पते᳘ ऽच्छिद्रया व्वाचा᳘ ऽच्छिद्रया जुह्वा᳘ दिवि᳘ देवावृ᳘धᳫँ᳭ हो᳘त्रामैरयत्स्वाहे᳘ति᳘ सैव᳘ दीक्षा[[!!]]॥

मूलम् - Weber

त᳘दाहुः॥
अ᳘ध्वर्यो य᳘द्दीक्षित᳘स्यॗ नानवभृॗथोऽवक᳘ल्पतेॗ क्वैनमदिदीक्ष इॗत्यावभृथा᳘दनू᳘द्दृंहेयुरध्वर्यु᳘श्च प्रतिप्रस्थाता᳘ च हो᳘ता च मैत्रावरुण᳘श्च ब्रह्मा चा᳘ग्नीध्रश्चैतैर्वा᳘ एष ष᳘ड्ढोता त᳘मनुद्रु᳘त्य ष᳘ड्ढोतारं जुहोत्ये᳘कामा᳘हुतिं कृत्वा प᳘ञ्च वा᳘ज्या द्यौ᳘ष्पृष्ठ᳘मन्त᳘रिक्षमात्मा᳘ङ्गैर्यज्ञ᳘म् 12 पृथिवीं श᳘रीरैः॥
वा᳘चस्पते᳘ऽछिद्रया वाचा᳘छिद्रया जुह्वा᳘ दिवि᳘ देवावृ᳘धᳫं हो᳘त्रामैरयत्स्वाहे᳘तिॗ सैव᳘ दीक्षा᳟॥

मूलम् - विस्वरम्

तदाहुः- अध्वर्यो यद्दीक्षितस्य नानवभृथो ऽवकल्पते । क्वैनमदिदीक्ष इति । आवभृथादनूद्दृँ हेयुः । अध्वर्युश्च प्रतिप्रस्थाता च । होता च मैत्रावरुणश्च । ब्रह्मा चाग्नीध्रश्च । एतैर्वा एष षड्ढोता । तमनुद्रुत्य षड्ढोतारं जुहोति । एकामाहुतिं कृत्वा पंच वा ऽऽज्यात्- “द्यौष्पृष्ठमन्तरिक्षमात्मा ऽङ्गैर्यज्ञं पृथिवीं शरीरैः । वाचस्पते ऽच्छिद्रया वाचा ऽच्छिद्रया जुह्वा दिवि देवावृधं होत्रामैरयत्स्वाहा”- इति । सैव दीक्षा ॥ ६ ॥

सायणः

अथ षड्ढोतृहोमं विधित्सुः तस्य दीक्षारूपतां संपादयितुं प्रश्नमुद्भावयति- तदाहुरिति । हे ‘अध्वर्यो !’ ‘दीक्षितस्य’ दीक्षया संस्कृतस्य यजमानस्य ‘अनवभृथः’ अवभृथाभावः ‘नावकल्पते’ अवभृथस्य दीक्षामोचनरूपत्वात् । ‘एनं’ पशुबन्धयाजिनं ‘क्व’ कुत्र ‘अदिदीक्षः’ दीक्षया संस्कृतवानसि । (धा. पा. भ्वा. आ. ६१०) इति दीक्षेर्ण्यंताल्लुङि रूपम् । इतिशब्दो हेतौ । यस्मादेवं पशुबंधयाजिनः अध्वर्युकृता दीक्षा नास्ति, तस्मात् तन्मोचनरूपात् ‘अवभृथात्’ ‘एनं’ ‘अनूद्दृंहेयुः’ । सर्वे जना इति शेषः । षट् ऋत्विजः । एतेन ऋत्विग्भिः ‘एषः’ वक्ष्यमाणो मन्त्रः ‘षड्ढोता’ षट् यज्ञहोतारो होमनिष्पादकाः यस्मिन्निति व्युत्पत्तेः । ‘षड्ढोतारमनुद्रुत्य’ पठित्वा पंचगृहीतेनाज्येन ‘एकामाहुतिं’ जुहुयात् । पंच वेति । एकैकेन स्रुवेण एकैकाहुतिरिति ‘पंच वा’ आज्याहुतयो होतव्याः । अत एवोक्तं सूत्रकृता “षड्ढोतारं पंचगृहीतं मनसा ऽनुद्रुत्य जुहोत्येकामाहुतिं पंच वा”- (का. श्रौ. सू. ६ । ३३) इति । तं षड्ढोतृमन्त्रं पठति- द्यौष्पृष्ठमिति । हे ‘वाचस्पते !’ ब्रह्मन् ! विराडात्मक ‘द्यौः’ द्युलोकः तव ‘पृष्ठं’ पृष्ठभागः । अंतरिक्षलोकः ‘आत्मा’ हृदयस्थानीयः । सः त्वं ‘अंगैः’ स्वकीयैरवयवैः । ‘यज्ञं’ च प्राप्नोषि । तथा तव व्यष्टिभूतैर्मनुष्यादिशरीरैः ‘पृथिवीं’ व्याप्नोषि । व्याप्य च ‘अच्छिद्रया वाचा’ स्तोत्रशस्त्रादिलक्षणया । तथा च्छिद्ररहितया ‘जुह्वा’ स्रुचा साधनभूतया । ‘दिवि’ द्युलोके । ‘देवावृधं’ देवानां वर्द्धयित्रीम् । ‘होत्रां’ हूयमानां आहुतिम् । ‘ऐरयत्’ पुरुषव्यत्ययः । ‘अगमय’ । ‘स्वाहा’ ॐ इदं हविः सुहुतमस्तु । इति मन्त्रार्थः । एषैवाहुतिः पशुबन्धस्य दीक्षा । अतः पशुबन्धात्मकस्य महायज्ञस्य दीक्षाभावादवभृथो न युक्त इति न चोद्यमित्यर्थः ॥ ६ ॥

Eggeling
  1. Here now they say, ‘Seeing that the want of the purificatory bath in the case of the initiated is improper, Adhvaryu, when didst thou initiate him?’ Well, let them 13 sustain him till the purificatory bath,–to wit, the Adhvaryu, the Pratiprasthātr̥, the Hotr̥, the Maitrāvaruṇa, the Brahman, and the

Āgnīdhra, for it is through these that this (formula) is called ‘shaḍḍḥotr̥ 14’: having rapidly muttered that ‘shaḍḍḥotr̥,’ he offers, performing either one or five oblations of ghee 15,–‘The heaven is his 16 back, the air his body, O Vācaspati, by his limbs he gave rise to the sacrifice, by his forms to the earth; by his flawless voice and his flawless tongue to the god-gladdening invocation, Hail!’ This, indeed, is his initiation.

०७

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र᳘) अ᳘ध्वर्य्यो य᳘द्दीक्षित᳘स्य᳘ नानवभृ᳘थो ऽवक᳘ल्पते᳘ क्वैनमवभृथम᳘वनेष्यसी᳘ति स य᳘द्धृदयशूले᳘न च᳘रन्ति स᳘ है᳘वैत᳘स्यावभृथः[[!!]]॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र᳘) अ᳘ध्वर्य्यो य᳘द्दीक्षित᳘स्य᳘ नानवभृ᳘थो ऽवक᳘ल्पते᳘ क्वैनमवभृथम᳘वनेष्यसी᳘ति स य᳘द्धृदयशूले᳘न च᳘रन्ति स᳘ है᳘वैत᳘स्यावभृथः[[!!]]॥

मूलम् - Weber

त᳘दाहुः॥
अ᳘ध्वर्यो य᳘द्दीक्षित᳘स्यॗ नानवभृॗथोऽवक᳘ल्पतेॗ क्वैनमवभृथम᳘वनेष्यसी᳘ति स य᳘द्धृदयशूले᳘न च᳘रन्ति स᳘ हैॗवैत᳘स्यावभृथः᳟॥

मूलम् - विस्वरम्

तदाहुः- अध्वर्यो यद्दीक्षितस्य नानवभृथो ऽवकल्पते । क्वैनमवभृथमवनेष्यसीति । स यत् हृदयशूलेन चरन्ति । स ह एवैतस्यावभृथः ॥ ७ ॥

सायणः

कः पुनरवभृथ इत्याशंक्य प्रश्नमुद्भावयति- तदाहुरिति । तत्तत्र पशुबंधे आहुश्चोदयंति । हे अध्वर्यो ! यद्यस्मात् दीक्षासंस्कृतस्य यजमानस्य महायज्ञस्यावभृथः सन्नवभृथाभावो नावकल्पते । तस्मादवभृथो ऽवश्यं संपादनीयः । तमवभृथं ‘क्व’ कुत्र प्रदेशे ‘एनं’ पशुबंधयाजिनं ‘अवनेष्यसि’ प्रापयिष्यसीति । एवं ब्रह्मवादिनां प्रश्नमुपन्यस्य श्रुतिः स्वयमुत्तरं ब्रूते- स यत् हृदयशूलेनेति । हृदयलक्षणमवदानं यस्मिन् काष्ठे प्रतृद्य पच्यते तत् ‘हृदयशूलं’ तेन ‘चरंति’ तस्योद्वासनं कुर्वतीति यदस्ति । ‘एतस्य’ पशुबंधस्य ‘स एवावभृथः’ ॥ ७ ॥

Eggeling
  1. As to this they say, ‘Seeing that the want of the purificatory bath in the case of the initiated is improper, Adhvaryu, when didst thou take him down to the purificatory bath?’ Well, when they perform with the heart-spit 17, that is his purificatory bath.

०८

विश्वास-प्रस्तुतिः

(थो) म᳘धुको ह स्माह पै᳘ङ्ग्यः॥
(ङ्ग्यो) व्विसोमे᳘न वा ऽए᳘के पशुबन्धे᳘न य᳘जन्ते स᳘सोमेनै᳘के दिवि वै सो᳘म ऽआसीत्त᳘ङ्गायत्री व्व᳘यो भूत्वा᳘ ऽऽहरत्त᳘स्य य᳘त्पर्णम᳘च्छिद्यत त᳘त्पर्ण᳘स्य पर्णत्वमि᳘ति न्वा ऽएतद् ब्रा᳘ह्मणमुद्यते व्विसोमे᳘न वा ऽए᳘के पशुबन्धे᳘न य᳘जन्ते स᳘सोमेनै᳘के स᳘ हैष᳘ व्विसोमे᳘न पशुबन्धे᳘न यजते᳘ यो ऽन्यम्पा᳘लाशाद्यू᳘पङ्कुरुते᳘ ऽथ हैष स᳘सोमेन पशुबन्धे᳘न यजते यः पा᳘लाशं यू᳘पङ्कुरुते त᳘स्मात्पा᳘लाशमेव यू᳘पङ्कुर्व्वीत॥

मूलम् - श्रीधरादि

(थो) म᳘धुको ह स्माह पै᳘ङ्ग्यः॥
(ङ्ग्यो) व्विसोमे᳘न वा ऽए᳘के पशुबन्धे᳘न य᳘जन्ते स᳘सोमेनै᳘के दिवि वै सो᳘म ऽआसीत्त᳘ङ्गायत्री व्व᳘यो भूत्वा᳘ ऽऽहरत्त᳘स्य य᳘त्पर्णम᳘च्छिद्यत त᳘त्पर्ण᳘स्य पर्णत्वमि᳘ति न्वा ऽएतद् ब्रा᳘ह्मणमुद्यते व्विसोमे᳘न वा ऽए᳘के पशुबन्धे᳘न य᳘जन्ते स᳘सोमेनै᳘के स᳘ हैष᳘ व्विसोमे᳘न पशुबन्धे᳘न यजते᳘ यो ऽन्यम्पा᳘लाशाद्यू᳘पङ्कुरुते᳘ ऽथ हैष स᳘सोमेन पशुबन्धे᳘न यजते यः पा᳘लाशं यू᳘पङ्कुरुते त᳘स्मात्पा᳘लाशमेव यू᳘पङ्कुर्व्वीत॥

मूलम् - Weber

म᳘धुको ह स्माह पै᳘ङ्ग्यः॥
विसोमे᳘न वा ए᳘के पशुबन्धे᳘न य᳘जन्ते स᳘सोमेनै᳘के दिवि वै सो᳘म आसीत्तं᳘ गायत्री व᳘यो भूत्वा᳘हरत्त᳘स्य य᳘त्पर्णम᳘छिद्यत त᳘त्पर्ण᳘स्य पर्णत्वमि᳘ति न्वा एतद्ब्रा᳘ह्मणमुद्यते 18 विसोमे᳘न वा ए᳘के पशुबन्धे᳘न य᳘जन्ते स᳘सोमेनै᳘के स᳘ हैष᳘ विसोमे᳘न पशुबन्धे᳘न यजतेॗ योऽन्यम् पा᳘लाशाद्यू᳘पं कुरुते᳘ऽथ हैष स᳘सोमेन पशुबन्धे᳘न यजते यः पा᳘लाशं यू᳘पं कुरुते त᳘स्मात्पा᳘लाशमेव यू᳘पं कुर्वीत॥

मूलम् - विस्वरम्

मधुको ह स्माह पैंग्यः । विसोमेन वा एके पशुबंधेन यजंते । ससोमेनैके । दिवि वै सोम आसीत् । तं गायत्री वयो भूत्वा ऽऽहरत् । तस्य यत्पर्णमच्छिद्यत, तत्पर्णस्य पर्णत्वम् । इति न्वा एतत् ब्राह्मणमुद्यते । विसोमेन वा एके पशुबंधेन यजंते । ससोमेनैके । स हैष विसोमेन पशुबंधेन यजते । यो ऽन्यं पालाशाद्यूपं कुरुते । अथ हैष ससोमेन पशुबंधेन यजते । यः पालाशं यूपं कुरुते । तस्मात् पालाशमेव यूपं कुर्वीत ॥ ८ ॥

सायणः

निरूढपशुबंधरूपस्य पालाशयूपस्य पालाशवृक्षद्रव्यं 19 विधित्सुः उपोद्धातयति- मधुको ह स्मेति । पैङ्गिगोत्रः ‘मधुकः’ नाम महर्षिः ‘आह स्म’ । ‘एके’ केचन यजमाना ‘विसोमेन’ सोमरहितेन ‘पशुबन्धेन यजते’ । इममेव सोमसद्भावं दर्शयितुं पलाशवृक्षस्य सोमविकृतित्वं प्रागुक्तं (श. प. १ । ७ । १ । १; ३ । ३ । ४ । १०) स्मारयति- दिवि वै सोम इति । ‘दिवि’ द्युलोके खलु पुरा ‘सोम आसीत्’ । न पृथिव्यां नांतरिक्षे । ‘तं’ सोमं ‘गायत्री’ छंदः ‘वयो भूत्वा’ पक्षिरूपमास्थाय ‘आहरत्’ आहृतवती । आहरणसमये ‘तस्य’ सोमस्य ‘यत्पर्णमच्छिद्यत’ । स एव पलाशवृक्षः अभवत् । तस्मादेव कारणात् तस्य ‘पर्णवृक्षस्य’ ‘पर्णत्वं’ पर्णभावः “पलाशः” इति नाम संपन्नमिति । एवं खलु पुरा “एतत् ब्राह्मणं’ पलाशोत्पत्तिप्रतिपादकं वाक्यं ‘उद्यते’ पठ्यते । एवं पलाशवृक्षस्य सोमविकृतित्वमभिधाय प्रागुक्तमेव द्वैविध्यं अनुवादपूर्वकं विवृणोति- विसोमेन वा इति । ‘यः’ यजमानः पलाशवृक्षादन्यवृक्षांतरोत्पन्नं ‘यूपं कुरुते’ । एष खलु सोमविकृतिभूतपलाशस्य विरहात् सोमविकृतिरहितेन ‘पशुबंधेन यजते’ । अथ खलु ‘एषः’ वक्ष्यमाणो यजमानः ‘ससोमेन पशुबंधेन यजते’ ‘यः’ तत्र पालाशवृक्षाह्वं ‘यूपं कुरुते’ । पालाशयूपस्य सोमरूपत्वेन तद्वत्पशुबंधस्य ससोमकत्वं प्रतिपाद्य तत्प्रयोजनसिद्धये तमेव पक्षं निगमयति- तस्मात्पालाशमेवेति ॥ ८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यंदिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे सप्तमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ ११ । ७ । २ ॥

Eggeling
  1. Madhuka Paiṅgya once said, ‘Some perform the animal sacrifice without Soma, and others do so with Soma. Now, Soma was in the heavens, and Gāyatrī, having become a bird, fetched him; and inasmuch as one of his leaves (parṇa) was cut off 20,

that was how the Parṇa-tree arose:’ such, indeed, is (the passage in) the Brāhmaṇa that is told. And some, it is true, perform the animal sacrifice without Soma, and others with Soma; for he who makes the sacrificial stake other than of Palāśa wood, performs the animal sacrifice without Soma; and he who makes the sacrificial stake of Palāśa performs the animal sacrifice with Soma: therefore let him make his sacrificial stake of Palāśa wood.


  1. व्रतोपायनप्रणीताज्यभागावदानपूर्णपात्रविष्णुक्रमान्कुर्याद्धविर्विधयज्ञविधे । का. श्रौ. सू. ६ । ३८ । ↩︎ ↩︎

  2. 119:3 That is, the offering of the Agnīshomīya he-goat which takes place on the day before the press-day (see part ii, p. 162 seqq.); whilst the Savanīya-paśubandha is performed on the day of the Soma-sacrifice itself; the victim being slaughtered during the morning-service, and the flesh-portions cooked during the day and offered at the evening-service (cf. part ii, p. 313, note 3; p. 356, note 3). ↩︎

  3. 119:4 That is, milk from the Vratadughā cow (which may be mixed with some rice or barley; III, 2, 2, 14), the only food to be taken by the Sacrificer during his dīkshā, or period of initiation–in this case on the day before the Soma-sacrifice. ↩︎

  4. 120:1 That is, the so-called ‘praṇītāḥ’ used for sacrificial purposes generally, and especially for supplying what is required for pressing the Soma. Cf. the comm. on Kāty. VI, 7, 19, where the ‘praṇītāpraṇayana’ is expressly referred to as a necessary element of the performance of the Agnīshomīya. ↩︎

  5. 120:2 For the pouring out of the water on the south side of the Vedi, at the end of the Haviryajña, see I, 9, 3, 1 seqq. ↩︎

  6. 120:3 The Sacrificer intercepts with his hands some of the water poured out, touches his face therewith, and then strides the three Vishṇu-strides; cf. I, 9, 3, 8 seqq. ↩︎

  7. Sây. seems to read उतैनमकृक्षथाः ↩︎

  8. 120:4 Viz. in case of the animal sacrifice being performed on the Haviryajña or Ishṭi model; which, strictly speaking, would involve the use of no other offering-material except milk, ghee, and dishes made of cereals. ↩︎

  9. 120:5 The usual order of subject and predicate would require the translation, ’the morning-service is its fore-offerings,’ which would hardly be in accordance with the author’s reasoning. ↩︎

  10. 120:6 For the paśu-puroḍāśa, III, 8, 3, 1 seqq. ↩︎

  11. 120:7 That is, prior to the offering of the ‘animal cake’ (paśu-puroḍāśa), whilst the presentation of the dakshiṇās–a head of cattle, or a milch-cow, or some other desirable object–according to Kāty. VI, 7, 29, should take place after the offering of the Iḍā, which marks the end of the Paśu-puroḍāśa-ishṭi. ↩︎

  12. वा᳘ज्याद्द्यौ᳘ष्पृ P. ↩︎

  13. 121:1 Sāyaṇa supplies ‘janāḥ,’ ’the people;’ but possibly the text of the commentary may be corrupt in this place. The author’s meaning would seem to be that, as there is no purificatory bath at the end of the animal sacrifice performed on the Soma-day, the Sacrificer’s strength is to be kept up by the Shaḍḍḥotr̥ formula (representing the six priests themselves) which will carry him as far as the purificatory bath at the end of the Soma-sacrifice. I am, however, far from sure that this is the real meaning of the passage. The Shaḍḍḥotr̥ is performed (at the animal sacrifice of the pressing-day) shortly after the beginning of the ceremonies connected with the Paśubandha, viz. immediately after the ‘yūpāhuti,’ see part ii, p. 162 seqq. ↩︎

  14. 122:1 That is, one containing (mentioning), or requiring, six offering-priests, the number required for the animal sacrifice. ↩︎

  15. 122:2 In either case the offering consists of five ladlings of ghee; and in the case of a single oblation, according to Sāyaṇa, a different dipping-spoon (sruva) would seem to be used for each ladling; unless, indeed, ’ekaikena sruvena’ mean ‘with one sruva-full each.’ According to Kāty. VI, 1, 36, the formula is merely ‘run through mentally.’ ↩︎

  16. 122:3 Sāyaṇa interprets ’thy back’; and he apparently supplies ‘prāpnoti’ at the end of the first half-verse, whilst ‘airayat’ he takes to stand for the second person singular. ↩︎

  17. 122:4 That is, when the heart is roasted on the spit prior to its being offered; see III, 8, 3, 16. This use of the spit is to take the place of the purificatory bath, the technical term of which is ‘spit-bath’ (śūlāvabhr̥tha), the spit being on that occasion buried at the point where the dry and the moist meet,’ see III, 8, 5, 8-10. ↩︎

  18. ह्मणमुच्यते Sây. ↩︎

  19. पालाशं बहुलपर्णम् । अभावे खदिरबिल्वरौहितकान् खदिराभावे इतरान् । का. श्रौ. सू. ६ । ८ । १० इति ॥ ↩︎

  20. 122:5 Either a leaf of Soma or a feather of Gāyatrī was cut off by an arrow shot by an archer pursuing Gāyatrī, and, on its falling to the earth, a Palāśa, or Parṇa, tree (Butea frondosa) sprang forth, see III, 3, 4, 10. ↩︎