०१
विश्वास-प्रस्तुतिः
पशुबन्धे᳘न यजते॥
पश᳘वो वै᳘ पशुबन्धः स य᳘त्पशुबन्धे᳘न य᳘जते पशुमा᳘नसानी᳘ति ते᳘न गृहे᳘षु यजेत गृहे᳘षु पशू᳘न्बध्ना ऽइ᳘ति ते᳘न सुयवसे᳘ यजेत सुयवसे᳘ पशू᳘न्बध्ना ऽइ᳘ति जी᳘र्य्यन्ति ह वै जु᳘ह्वतो य᳘जमानस्याग्न᳘यो ऽग्नीञ्जीर्य्यतो᳘ ऽनु य᳘जमानो य᳘जमानम᳘नु गृहा᳘श्च पश᳘वश्च॥ शतम् ५९००॥
मूलम् - श्रीधरादि
पशुबन्धे᳘न यजते॥
पश᳘वो वै᳘ पशुबन्धः स य᳘त्पशुबन्धे᳘न य᳘जते पशुमा᳘नसानी᳘ति ते᳘न गृहे᳘षु यजेत गृहे᳘षु पशू᳘न्बध्ना ऽइ᳘ति ते᳘न सुयवसे᳘ यजेत सुयवसे᳘ पशू᳘न्बध्ना ऽइ᳘ति जी᳘र्य्यन्ति ह वै जु᳘ह्वतो य᳘जमानस्याग्न᳘यो ऽग्नीञ्जीर्य्यतो᳘ ऽनु य᳘जमानो य᳘जमानम᳘नु गृहा᳘श्च पश᳘वश्च॥ शतम् ५९००॥
मूलम् - Weber
पशुबन्धे᳘न यजते॥
पश᳘वो वै᳘ पशुबन्धः स य᳘त्पशुबन्धे᳘न य᳘जते पशुमा᳘नसानी᳘ति ते᳘न गृहे᳘षु यजेत गृहे᳘षु पशू᳘न्बध्ना इ᳘ति ते᳘न सुयवसे᳘ यजेत सुयवसे᳘ पशू᳘न्बध्ना इ᳘ति जी᳘र्यन्ति ह वै जु᳘ह्वतो य᳘जमानस्याग्न᳘योऽग्नीन्जी᳘र्यतो᳘ऽनु य᳘जमानो य᳘जमानम᳘नु गृहा᳘श्च पश᳘वश्च॥
मूलम् - विस्वरम्
पशुबंधेन यजते । पशवो वै पशुबन्धः । स यत्पशुबंधेन यजते । पशुमानसानीति । तेन गृहेषु यजेत । गृहेषु पशून् बध्ना इति । तेन सुयवसे यजेत । सुयवसे पशून् बध्ना इति । जीर्यन्ति ह वै जुह्वतो यजमानस्याग्नयः । अग्नीन् जीर्यतो ऽनु यजमानः । यजमानमनु गृहाश्च पशवश्च ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
अथ दर्शपूर्णमासवत् नित्यं प्रतिसंवत्सरं यष्टव्यं पशुयागं विधत्ते- पशुबन्धेन इति । पशुर्बध्यते यज्ञार्थं यस्मिन् कर्मणि स पशुबन्धः । “उद्भिदा यजेत” इतिवत् यजिसमानाधिकृतत्वात् यागनामधेयम् । अयमर्थः- पशुबन्धाख्येन यागेन वक्ष्यमाणं फलं भावयेदित्यर्थः । ‘यजते’ इति वर्तमानापदेशे ऽपि पशुयागस्याप्राप्तत्वेन विधेयत्वात् पंचमलकाराश्रयणेन विधिः । तस्य तावत् पशुफलसाधनत्वमाह- पशवो वै पशुबन्ध इति । यः पशुबन्धाख्यो यागः । सो ऽव्यभिचारेण पशुसाधनत्वात् ‘पशवः’ एव । तथा च ‘पशुबन्धेन यजते’ इति यदस्ति, तेनाहं यजमानः ‘पशुमानसानि’ बहुपशुको भवानीति । तेनैवाभिप्रायेण पशुयागं कुर्यादित्यर्थः । अर्थात् अनुदवसायापि तेन यष्टव्यमिति विधत्ते- तेन गृहेष्विति । ‘तेन’ पशुबन्धेन देवयजनांतरमनध्यवसाय स्वेष्वेव ‘गृहेषु’ 1 यष्टव्यम् । एवं यष्टुरभिप्रायमाह- गृहेषु पशूनिति । ‘गृहेषु’ मदीयेषु यागफलभूतान् ‘पशून् बध्नै’ बध्नानि बद्धान् करवाणि अनेनाभिप्रायेण । देशं विधाय कालं विधत्ते- तेन सुयवस इति । शोभनानि यवसानि तृणानि यस्मिन् ऋतौ स कालः सुयवसः । गतमन्यत् । इत्थं पशुबंधस्य फलसाधनतामुक्त्वा दर्शपूर्णमासवन्नित्यत्वं प्रतिपादयितु अकरणे प्रत्यवायमाह- जीर्येति ह वा इति । अग्निहोत्रं ‘जुह्वतः’ पशुयागमकुर्वतः ‘यजमानस्याग्नयः’ गार्हपत्याद्याः ‘जीर्यंति’ जीर्णा भवंति खलु । जीर्यतो ऽग्नीननुलक्ष्य ‘यजमानः’ जीर्यति । यजमानस्य जरानन्तरं तदीयाः ‘गृहाः’ गवाद्याः ‘पशवश्च’ जीर्यन्ति ॥ १ ॥
Eggeling
- He performs the animal sacrifice. Now the animal sacrifice means cattle: thus, when he performs the animal sacrifice (paśubandha, the binding of the animal), it is in order that he may be possessed of cattle. Let him perform it at his home, thinking, ‘I will bind (attach) cattle to my home.’ Let him perform it in the season of abundant fodder, thinking, ‘I will bind to myself cattle in a season of abundant fodder. For, whilst he is offering 2, the Sacrificer’s fires become worn out, and so does the Sacrificer, along with the worn-out fires, and along with the Sacrificer his house and cattle.
०२
विश्वास-प्रस्तुतिः
स य᳘त्पशुबन्धे᳘न य᳘जते॥
(ते ऽग्नी᳘) अग्नी᳘ने᳘वैतत्पु᳘नर्ण्णवान्कुरुते ऽग्नीना᳘म्पुनर्ण्णव᳘ताम᳘नु य᳘जमानो य᳘जमानम᳘नु गृहा᳘श्च पश᳘वश्चायु᳘ष्यो ह वा᳘ ऽअस्यैष᳘ ऽआत्मनिष्क्र᳘यणो भवति माᳫँ᳭सीय᳘न्ति ह वै जु᳘ह्वतो य᳘जमानस्याग्न᳘यस्ते य᳘जमानमेव[[!!]] ध्या᳘यन्ति य᳘जमानᳫँ᳭ स᳘ङ्कल्पयन्ति प᳘चन्ति वा᳘ ऽअन्ये᳘ष्वग्नि᳘षु वृथा माᳫँ᳭स᳘मथैते᳘षान्ना᳘तो ऽन्या᳘[[!!]] माᳫँ᳭साशा᳘ व्विद्यते य᳘स्यो चैते भ᳘वन्ति॥
मूलम् - श्रीधरादि
स य᳘त्पशुबन्धे᳘न य᳘जते॥
(ते ऽग्नी᳘) अग्नी᳘ने᳘वैतत्पु᳘नर्ण्णवान्कुरुते ऽग्नीना᳘म्पुनर्ण्णव᳘ताम᳘नु य᳘जमानो य᳘जमानम᳘नु गृहा᳘श्च पश᳘वश्चायु᳘ष्यो ह वा᳘ ऽअस्यैष᳘ ऽआत्मनिष्क्र᳘यणो भवति माᳫँ᳭सीय᳘न्ति ह वै जु᳘ह्वतो य᳘जमानस्याग्न᳘यस्ते य᳘जमानमेव[[!!]] ध्या᳘यन्ति य᳘जमानᳫँ᳭ स᳘ङ्कल्पयन्ति प᳘चन्ति वा᳘ ऽअन्ये᳘ष्वग्नि᳘षु वृथा माᳫँ᳭स᳘मथैते᳘षान्ना᳘तो ऽन्या᳘[[!!]] माᳫँ᳭साशा᳘ व्विद्यते य᳘स्यो चैते भ᳘वन्ति॥
मूलम् - Weber
स य᳘त्पशुबन्धे᳘न य᳘जते॥
अग्नी᳘नेॗवैतत्पु᳘नर्णवान्कुरुतेऽग्नीना᳘म् पुनर्णव᳘ताम᳘नु य᳘जमानम᳘नु गृहा᳘श्च पश᳘वश्चायुॗष्यो ह वा᳘ अस्यैष᳘ आत्मनिष्क्र᳘यणो भवति मांसीय᳘न्ति ह वै जु᳘ह्वतो य᳘जमानस्याग्न᳘यस्ते य᳘जमानमेव᳘ ध्या᳘यन्ति य᳘जमानᳫं सं᳘कल्पयन्ति प᳘चन्ति वा᳘ अन्ये᳘ष्वग्नि᳘षु वृथामांसम᳘थैते᳘षां ना᳘तोऽन्या᳘ मांसाशा᳘ विद्यते य᳘स्यो चैते भ᳘वन्ति॥
मूलम् - विस्वरम्
स यत् पशुबंधेन यजते । अग्नीनेवैतत् पुनर्णवान् कुरुते । अग्नीनां पुनर्णवतामनु यजमानः । यजमानमनु गृहाश्च पशवश्च । आयुष्यो ह वा अस्यैष आत्मनिष्क्रयणो भवति । मांसीयंति ह वै जुह्वतो यजमानस्याग्नयः । ते यजमानमेव ध्यायन्ति । यजमानं संकल्पयन्ति । पचन्ति वा अन्येष्वग्निषु वृथा मांसम् । अथैतेषां नातो ऽन्या मांसाशा विद्यते । यस्य उ चैते भवंति ॥ २ ॥
सायणः
एवं दोषमुपन्यस्य पशुबन्धस्य तत्परिहारहेतुतामाह- स यत्पशुबन्धेनेति । वपाहुत्यादिपाशुकेन हविषा अग्नीन् तर्पयित्वा ‘पुनर्णवान्’ जीर्यदवस्थां विहाय पुनरुद्भूतशक्तिकान् ‘कुरुते’ । ‘अग्नीनां’ संबंधिनी या ‘पुनर्णवता’ पुनरुद्भूतशक्तिता तामनुलक्ष्य ‘यजमानो ऽपि’ पुनर्णवो भवति । यजमानानंतरं तत्संभूताः ‘गृहाः पशवश्च’ पुनर्णवा भवंति । तस्मात्पशुकामनाभावे ऽपि अग्नीनां शक्त्युद्बोधनार्थं संवत्सरे संवत्सरे सुयवसकाले 3 पशुयागः कर्तव्यः । अथास्यायुर्हेतुतामाह- आयुष्यो ह वा इति । ‘अस्य’ यजमानस्य ‘एषः’ पशुबन्धः ‘आयुष्यः’ आयुषे हितः आयुर्वृद्ध्यर्थो भवति । कुत इत्यत आह- आत्मनिष्क्रयण इति । यस्मादयं यजमानस्यात्मनः शरीरस्य अग्निभ्यः सकाशात् निष्क्रयणार्थः तस्मादायुष्यः । एतदेव विवृणोति- मांसीयंतीति । अग्निहोत्रं ‘जुह्वतो यजमानस्य’ अग्नयः ‘मांसीयन्ति’ मांसं खादितुमिच्छंति । इच्छानन्तरं ‘ते’ अग्नयः कदा असौ पशुना यजते इति ‘यजमानमेव’ सर्वदा ’ ध्यायन्ति’ । काले प्राप्ते पशुना यागाकरणे सति तं यजमानं ‘संकल्पयंति’ भक्षयितुमध्यवस्यंति । ननु- वृथामांसेनैव क्रयलब्धेनाग्नयः कस्मान्न तोषणीया इत्याशंक्याह- पचति वा इति । ‘अन्येषु’ लौकिकाग्निषु ‘वृथामांसं’ अवैधं हिंसया संपादितं मांसं ‘पचंति’ । तेन ते लौकिकाग्नयस्तृप्ता भवन्ति । अथशब्दस्तुशब्दार्थः । ‘एतेषां’ तु गार्हपत्यादीनां वैदिकानामग्नीनां ‘नातो ऽन्या’ अतो ऽस्मात् वैधात्मकहविषः अन्या ‘मांसाशा’ मांसकामना ‘न विद्यते’ नास्ति । ‘यस्यैते’ अग्नयः ‘भवंति’ । अतस्तमेव यजमानं हविष्ट्वेन स्वीकर्तुमुद्युक्ता भवति ॥ २ ॥
Eggeling
- And when he performs the animal sacrifice, he renews his fires, and so, along with the renewal of his fires, does the Sacrificer (renew himself), and along with the Sacrificer his house and cattle. And beneficial to life, indeed, is that redemption of his
own self 4; for whilst he is offering the Sacrificer’s fires long for flesh; they set their minds on the Sacrificer and harbour designs on him. In other fires 5 people do indeed cook any kind of meat, but these (sacrificial fires) have no desire for any other flesh but this (sacrificial animal), and for him to whom they belong.
०३
विश्वास-प्रस्तुतिः
स य᳘त्पशुबन्धे᳘न य᳘जते॥
(त ऽ) आत्मा᳘नमे᳘वैतन्नि᳘ष्क्रीणीते व्वीरे᳘ण व्वीर᳘म्वीरो हि᳘ पशु᳘र्व्वीरो य᳘जमान ऽएत᳘दु ह वै᳘ परम᳘मन्ना᳘द्यं य᳘न्माᳫँ᳭सᳫँ᳭ स᳘ परम᳘स्यै᳘वान्ना᳘द्यस्यात्ता᳘ भवति तम्वै᳘ सम्वत्सरो ना᳘नीजनम᳘तीयादा᳘युर्वै᳘ सम्वत्सर ऽआ᳘युरे᳘वैत᳘दमृ᳘तमात्म᳘न्धत्ते॥
मूलम् - श्रीधरादि
स य᳘त्पशुबन्धे᳘न य᳘जते॥
(त ऽ) आत्मा᳘नमे᳘वैतन्नि᳘ष्क्रीणीते व्वीरे᳘ण व्वीर᳘म्वीरो हि᳘ पशु᳘र्व्वीरो य᳘जमान ऽएत᳘दु ह वै᳘ परम᳘मन्ना᳘द्यं य᳘न्माᳫँ᳭सᳫँ᳭ स᳘ परम᳘स्यै᳘वान्ना᳘द्यस्यात्ता᳘ भवति तम्वै᳘ सम्वत्सरो ना᳘नीजनम᳘तीयादा᳘युर्वै᳘ सम्वत्सर ऽआ᳘युरे᳘वैत᳘दमृ᳘तमात्म᳘न्धत्ते॥
मूलम् - Weber
स य᳘त्पशुबन्धे᳘न य᳘जते॥
आत्मा᳘नमेॗवैतन्नि᳘ष्क्रीणीते वीरे᳘ण वीरं᳘ वीरो हि᳘ पशु᳘र्वीरो य᳘जमान एत᳘दु ह वै᳘ परम᳘न्ना᳘द्यं य᳘न्मांसᳫं स᳘ परम᳘स्यैॗवान्ना᳘द्यस्यात्ता᳘ भवति तं वै᳘ संवत्सरो ना᳘नीजनम᳘तीयादा᳘युर्वै᳘ संवत्सर आ᳘युरेॗवैत᳘दमृ᳘तमात्म᳘न्धत्ते॥
मूलम् - विस्वरम्
स यत्पशुबंधेन यजते । आत्मानमेवैतन्निष्क्रीणीते । वीरेण वीरम् । वीरो हि पशुः । वीरो यजमानः । एतदु ह वै परममन्नाद्यं यन्मांसम् । स परमस्यैवा ऽन्नाद्यस्यात्ता भवति । तं वै संवत्सरो नानीजानमतीयात् । आयुर्वै संवत्सरः । आयुरेवैतदमृतमात्मन् धत्ते ॥ ३ ॥
सायणः
तस्मादेवं विद्वान् यजमानः ‘पशुबंधेन यजते’ इति यदस्ति ‘एतत्’ एतेन ‘आत्मानं’ स्वशरीरमेव अग्निभ्यः सकाशात् ‘निष्क्रीणीते’ । पशुलक्षणं हविः मूल्यत्वेन दत्त्वा पुनः स्वं शरीरं स्वीकरोति । पशोर्वीर्यवत्त्वगुणयोगात् वीर्यवतो यजमानस्य तेन निष्क्रय उपपद्यते इत्याह- वीरेण वीरमिति । ‘निष्क्रीणीते’ इति संबंधः । पशुयजमानयोरुभयोरपि वीर्यवत्त्वात् वीरशब्दाभिधेयता प्रसिद्धा इत्याह- वीरो हीति । मांसात्मकं हविः उत्कृष्टान्नत्वेन स्तुवन् तद्यागस्य फलमाह- एतदु ह वा इति । ‘मांसं’ इति यदस्ति । एतदेव खलु ‘परमं’ उत्कृष्टं ‘अन्नाद्यम्’ । अतस्तेन इष्टवान् यजमानः ‘परमस्य’ उत्कृष्टस्यैव ‘अन्नाद्यस्य’ ‘अत्ता’ भोक्ता ‘भवति’ । ‘तं’ तथाविधं यजमानं पशुना इष्टवंतं ‘संवत्सरो नातीयात्’ नातिक्रामेत् । सर्वथा संवत्सरमध्ये पशुयागः कर्तव्य इत्यर्थः । एवं पशुयागसाधनत्वात् संवत्सरो ऽप्यायुरात्मक इत्याह- आयुर्वै संवत्सर इति । संवत्सरकालो ऽप्यायुरात्मकः । तस्मिन् काले पशुयागं कुर्वन् ‘अमृतं’ अखिलं एतत्संवत्सरात्मकमायुरेव ‘आत्मन्’ आत्मनि यजमानः ‘धत्ते’ धारयति ॥ ३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यंदिनीयशतपथब्राह्मणभाष्ये एकादशकांडे सप्तमे ऽध्याये प्रथमं ब्राह्मणम् ॥ (११-७-१ ॥)
Eggeling
- Now, when he performs the animal offering. he thereby redeems himself–male by male, for the victim is a male, and the Sacrificer is a male. And this, indeed, to wit, flesh, is the best kind of food: he thus becomes an eater of the best kind of food. Let not a year pass by for him without his offering; for the year means life: it is thus immortal life he thereby confers upon himself.
-
गृहेषु । का. श्रौ. सू. ६ । ३ । इति । ↩︎
-
118:2 Viz. the Agnihotra every morning and evening. ↩︎
-
पश्विज्या संवत्सरे संवत्सरे प्रावृषि । आवृत्तिमुखयोर्वा । का. श्रौ. सू. ६ । १-२ । इति । ↩︎
-
119:1 That is, the ransoming of one’s own life from the sacrificial fires, by offering an animal victim to them in lieu of his own self. ↩︎
-
119:2 That is, in ordinary, culinary fires. ↩︎