०१

विश्वास-प्रस्तुतिः

जनको᳘ ह व्वै᳘देहः॥
(हो) बहुदक्षिणे᳘न यज्ञे᳘नेजे स᳘ ह ग᳘वाᳫँ᳭ सह᳘स्रमवरुन्ध᳘न्नुवाचैता᳘ वो ब्राह्मणा यो ब्र᳘ह्मिष्ठः स ऽउ᳘दजतामि᳘ति॥

मूलम् - श्रीधरादि

जनको᳘ ह व्वै᳘देहः॥
(हो) बहुदक्षिणे᳘न यज्ञे᳘नेजे स᳘ ह ग᳘वाᳫँ᳭ सह᳘स्रमवरुन्ध᳘न्नुवाचैता᳘ वो ब्राह्मणा यो ब्र᳘ह्मिष्ठः स ऽउ᳘दजतामि᳘ति॥

मूलम् - Weber

जनको᳘ ह वै᳘देहो॥
बहुदक्षिणे᳘न यज्ञे᳘नेजे स᳘ ह ग᳘वाᳫं सह᳘स्रमवरुन्ध᳘न्नुवाचैता᳘ वो ब्राह्मणा यो ब्र᳘ह्मिष्ठः स उ᳘दजतामि᳘ति॥

मूलम् - विस्वरम्

जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । स ह गवां सहस्रमवरुन्धन्नुवाच । एता वो ब्राह्मणा यो ब्रह्मिष्ठः स उदजतामिति ॥ १ ॥

सायणः

अथ अग्निहोत्रदर्शपूर्णमासादियागदेवतानां तत्त्वतः प्राणशब्दाभिधेयपरमात्मरूपतां विजिगीषुकथामुखेन विवक्षुः आख्यायिकां प्रस्तौति- जनको ह वैदेह इति । विदेहदेशानां राजा ‘वैदेहः’ । बहुदक्षिणेनेति । सहस्रसर्ववेदसदक्षिणेनेत्यर्थः । ‘यज्ञेन ईजे’ इष्टवान् । यजेर्लिटि यजादित्वात् संप्रसारणम् । स ह गवामित्यादि । ‘सः’ खलु जनकः ‘गवां सहस्रं’ यज्ञसंभाराय ‘अवरुन्धन्’ स्थापयन्नुवाच । हे ब्राह्मणाः ! ‘वः’ युष्माकं मध्ये ‘यो ब्रह्मिष्ठः’ ब्रह्मनिष्ठो विद्यातिशयवान् । ‘स एताः’ सहस्रसंख्याका गाः ‘उदजतां’ उत्क्षिपतु स्वगृहं गमयत्वित्यर्थः । “अज गतिक्षेपणयोः” (धा. पा. भ्वा. प. २३०) इति धातुः ॥ १ ॥

Eggeling
  1. Janaka of Videha performed a sacrifice accompanied with numerous gifts to the priests. Setting apart a thousand cows, he said, ‘He who is the most learned in sacred writ amongst you, O Brāhmaṇas, shall drive away these (cows) 1!’

०२

विश्वास-प्रस्तुतिः

स᳘ होवाच॥ या᳘ज्ञवल्क्यो ऽर्व्वा᳘चीरेता ऽइ᳘ति ते᳘ होचुस्त्व᳘ᳫँ᳘ स्विन्नो याज्ञवल्क्य ब्र᳘ह्मिष्ठो ऽसी३ ऽइ᳘ति स᳘ होवाच न᳘मो ऽस्तु ब्र᳘ह्मिष्ठाय गो᳘कामा ऽएव᳘ व्वय᳘ᳫँ᳘ स्म ऽइ᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥ या᳘ज्ञवल्क्यो ऽर्व्वा᳘चीरेता ऽइ᳘ति ते᳘ होचुस्त्व᳘ᳫँ᳘ स्विन्नो याज्ञवल्क्य ब्र᳘ह्मिष्ठो ऽसी३ ऽइ᳘ति स᳘ होवाच न᳘मो ऽस्तु ब्र᳘ह्मिष्ठाय गो᳘कामा ऽएव᳘ व्वय᳘ᳫँ᳘ स्म ऽइ᳘ति॥

मूलम् - Weber

स᳘ होवाच या᳘ज्ञवल्क्यो॥
ऽर्वाचीरेता इ᳘ति ते᳘ होचुस्त्व᳘ᳫं᳘ स्विन्नो याज्ञवल्क्य ब्र᳘ह्मिष्ठोऽसी३ इ᳘ति स᳘ होवाच न᳘मोऽस्तु ब्र᳘ह्मिष्ठाय गो᳘कामा एव᳘ वय᳘ᳫं᳘ स्म इ᳘ति॥

मूलम् - विस्वरम्

स होवाच याज्ञवल्क्यः- अर्वाचीरेता इति । ते होचुः । त्वं स्विन्नो याज्ञवल्क्य ब्रह्मिष्ठो ऽसी ३ इति । स होवाच- नमो ऽस्तु ब्रह्मिष्ठाय, गोकामा एव वयं स्म इति ॥ २ ॥

सायणः

एवं स राज्ञो वाक्यमाकर्ण्य याज्ञवल्क्यो मदीयं गृहं प्रति एता गावः प्रस्थापनीया इत्युक्तवानित्याह- स होवाचेति । ‘अर्वाचीः’ अस्मदभिमुखाः ‘एताः’ गाः उदजतामित्यनुषंगः । एतत् याज्ञवल्क्यवाक्यं श्रुत्वा क्रुद्धानां अन्येषां ब्राह्मणानां वचनं दर्शयति- त्वं स्विदिति । हे याज्ञवल्क्य ! ‘नः’ अस्माकं मध्ये ‘त्वं स्वित्’ स्विदिति वितर्के । त्वं किं ? ‘ब्रह्मिष्ठो ऽसि’ ब्रह्मवित्तमो ऽसि इति ”क्षियाशीःप्रैषेषु तिङाकांक्षम्” (पा. सू. ८ । २ । १०४) इति निन्दायां प्लुतिः । एवमधिक्षिप्ते सति याज्ञवल्क्येन यदुक्तं तद्दर्शयति- स होवाचेति । युष्माकं मध्ये ‘ब्रह्मिष्ठाय’ नमो ऽस्तु । ‘गोकामा एव वयं’ केवलं ‘स्मः’ भवाम इति ॥ २ ॥

Eggeling
  1. Yājñavalkya then said, ‘This way (drive) them!’ They said, ‘Art thou really the most learned in sacred writ amongst us, Yājñavalkya?’ He replied, ‘Reverence be to him who is most learned in sacred writ! We are but hankering after cows 2!’

०३

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
को᳘ न ऽइम᳘म्प्रक्ष्यती᳘ति स᳘ होवाच व्विदग्धः᳘ शा᳘कल्यो ऽहमि᳘ति त᳘ᳫँ᳘ हो प्रतिख्या᳘योवाच त्वा᳘ᳫँ᳘ स्विच्छाकल्य ब्राह्मणा᳘ ऽउल्मुकावक्ष᳘यणमक्रता३ ऽइ᳘ति॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
को᳘ न ऽइम᳘म्प्रक्ष्यती᳘ति स᳘ होवाच व्विदग्धः᳘ शा᳘कल्यो ऽहमि᳘ति त᳘ᳫँ᳘ हो प्रतिख्या᳘योवाच त्वा᳘ᳫँ᳘ स्विच्छाकल्य ब्राह्मणा᳘ ऽउल्मुकावक्ष᳘यणमक्रता३ ऽइ᳘ति॥

मूलम् - Weber

ते᳘ होचुः॥
को᳘ न इम᳘म् प्रक्ष्यती᳘ति स᳘ होवाच विदग्धः शा᳘कल्योऽहमि᳘ति त᳘ᳫं᳘ ह प्रतिख्या᳘योवाच त्वा᳘ᳫं᳘ स्विछाकल्य ब्राह्मणा᳘ उल्मुकावक्ष᳘यणमक्रता३इ᳘ति॥

मूलम् - विस्वरम्

ते होचुः- को न इमं प्रक्ष्यतीति, स होवाच विदग्धः शाकल्यः- अहमिति । तं हो प्रतिख्यायोवाच । त्वां स्विच्छाकल्य ! ब्राह्मणा उल्मुकावक्षयणमक्रता ३ इति ॥ ३ ॥

सायणः

एवमुपहसिते सति अन्यैर्ब्राह्मणैर्यत् कृतं तदुपन्यस्यति- ते होचुरिति । ‘ते ‘ह’ खलु ब्राह्मणाः । ‘ऊचुः’ उक्तवंतः । ‘नः’ अस्माकं मध्ये ‘कः’ ‘इमं’ याज्ञवल्क्यं ‘प्रक्ष्यति’ प्रष्टुं समर्थो भवतीति । एवं विचारावस्थायामेव ‘विदग्धः’ प्रगल्भः ‘शाकल्यः’ नाम प्रसिद्धो महर्षिः ‘उवाच’ अहं प्रक्ष्यामीति । ‘तं’ शाकल्यं ‘प्रतिख्याय’ प्रत्यवेक्ष्य याज्ञवल्क्यः ‘उवाच’ । हे शाकल्य ! इमे ‘ब्राह्मणाः’ । स्विदिति वितर्के । नूनं ‘त्वां’ उल्मुकावक्षयणम् । अर्द्धदग्धकाष्ठमुल्मुकं तस्य बहिर्निरसनं अवक्षयणं विनाशः । तादृगवक्षयणं तथाविधं त्वां ‘अक्रत’ अकृषंत । “मन्त्रे घस०”- (पा. सू. २ । ४ । ८०) इत्यादिना च्लेर्लुक् । अत्रापि पूर्ववन्निन्दायां प्लुतिः ॥ ३ ॥

Eggeling
  1. They then said (to one another), ‘Which of us shall question him?’ The shrewd Śākalya said, ‘I!’ When he (Yājñavalkya) saw him, he said, ‘Have the Brāhmaṇas made of thee a thing for quenching the firebrand, Śākalya?’

०४

विश्वास-प्रस्तुतिः

स᳘ होवाच॥ क᳘ति देवा᳘ याज्ञवल्क्ये᳘ति त्र᳘यश्च त्री᳘ च शता त्र᳘यश्च त्री᳘ च सहस्रेत्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति त्र᳘यस्त्रि᳘ᳫँ᳘शदित्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति त्र᳘य ऽइत्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति द्वावित्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्येत्य᳘ध्यर्द्ध ऽइ᳘त्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्येत्ये᳘क ऽइत्योमि᳘ति होवाच कतमे ते त्र᳘यश्च त्री᳘ च शता त्र᳘यश्च त्री᳘ च सहस्रे᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥ क᳘ति देवा᳘ याज्ञवल्क्ये᳘ति त्र᳘यश्च त्री᳘ च शता त्र᳘यश्च त्री᳘ च सहस्रेत्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति त्र᳘यस्त्रि᳘ᳫँ᳘शदित्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति त्र᳘य ऽइत्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति द्वावित्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्येत्य᳘ध्यर्द्ध ऽइ᳘त्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्येत्ये᳘क ऽइत्योमि᳘ति होवाच कतमे ते त्र᳘यश्च त्री᳘ च शता त्र᳘यश्च त्री᳘ च सहस्रे᳘ति॥

मूलम् - Weber

स᳘ होवाच क᳘ति देवा याज्ञवल्क्ये᳘ति त्र᳘यश्च त्री᳘ च शता त्र᳘यश्च त्री᳘ च सहस्रेत्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति त्र᳘यस्त्रिंशदित्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति त्र᳘य इत्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्ये᳘ति द्वावित्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्येत्य᳘ध्यर्ध इत्योमि᳘ति होवाच क᳘त्येव᳘ देवा᳘ याज्ञवल्क्येत्ये᳘क इत्योमि᳘ति होवाच कतमे ते त्र᳘यश्च त्री᳘ च शता त्र᳘यश्च त्री᳘ च सहस्रे᳘ति॥

मूलम् - विस्वरम्

स होवाच- कति देवा याज्ञवल्क्य ! इति, त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति, ओमिति होवाच । कत्येव देवा याज्ञवल्क्य ! इति त्रयस्त्रिँ शदिति, ओमिति होवाच । कत्येव देवा याज्ञवल्क्य ! इति, त्रय इति, ओमिति होवाच । कत्येव देवा याज्ञवल्क्य ! इति, द्वाविति, ओमिति होवाच । कत्येव देवा याज्ञवल्क्य ! इति, अध्यर्द्ध इति, ओमिति होवाच । कत्येव देवा याज्ञवल्क्य ! इति, एक इति, ओमिति होवाच । कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥ ४ ॥

सायणः

एतद्वाक्यमनादृत्यैव शाकल्यः प्रष्टुमुपचक्रमे इत्याह- स होवाचेति । हे याज्ञवल्क्य ! ‘कति’ संख्याका ‘देवाः’ अग्निहोत्रादिषु कर्मसु हविर्भोक्तृत्वेन वर्तत इति प्रश्नः । ‘त्रयस्त्रिंशदिति’ अस्योत्तरं याज्ञवल्क्येनोक्तम् । ओमिति निपात एवंशब्दार्थः । हे याज्ञवल्क्य ! त्वया यदुक्त त्रयस्त्रिंशत्संख्याका देवा इति एवमेवैतदिति शाकल्यो ऽङ्गीचकारेत्यर्थः । पुनरपि विशेषजिज्ञासया पृच्छति- कति देवा इति । प्रश्नस्य वक्ष्यमाणस्य सर्वस्य एकविषयत्वद्योतनाय सर्वत्र एवकारः । अन्यत् निगदसिद्धम् । द्वितीयप्रश्नस्य ‘त्रयः’ इत्युत्तरम् । तृतीयस्य ‘द्वौ’ इति । ‘अध्यर्द्धः’ इति चतुर्थस्य । ‘एकः’ इति पंचमप्रश्नस्योत्तरम् । एवं शाकल्ययाज्ञवल्क्ययोः प्रश्नप्रतिवचनाभ्यां पर्यवसितदेवतायाः एकत्वं प्रदर्श्य पुनः शाकल्यस्य उक्ताक्षेपपरं प्रश्नमुद्भावयति- कतमे ते इति । वैश्वदेवनिविदि एवमाम्नायते- “त्रयश्च त्री च शता त्रयश्च त्री च सहस्रा” इति । अयमर्थः- अधिकानि त्रीणि शतानि त्रीणि सहस्राणि च । एतत्संख्यासंख्येया विश्वे देवाः । ‘ते कतमे’ किंरूपाः । त्रयस्त्रिंशदादिषु त्वयोक्तेषु यजनीयेष्वनंतर्भावादित्यर्थः ॥ ४ ॥

Eggeling
  1. He said 3, ‘How many gods are there, Yājñavalkya?’–‘Three hundred and three, and three thousand and three,’ he replied.–‘Yea, so it is!’ he said. ‘How many gods are there really, Yājñavalkya?’–‘Thirty-three.’–‘Yea, so it is!’ he said.

‘How many gods are there really, Yājñavalkya?’–‘Three.’–‘Yea, so it is!’ he said. ‘How many gods are there really, Yājñavalkya?’–‘Two.’–‘Yea, so it is!’ he said. ‘How many gods are there really, Yājñavalkya?’–‘One and a half.’–‘Yea, so it is!’ he said. ‘How many gods are there really, Yājñavalkya?’–‘One.’–‘Yea, so it is!’ he said. ‘Who are those three hundred and three, and three thousand and three?’

०५

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
महिमा᳘न ऽए᳘वैषामेते त्र᳘यस्त्रिᳫँ᳭श᳘त्त्वेव᳘ देवा ऽइ᳘ति कतमे ते त्र᳘यस्त्रिᳫँ᳭शदि᳘त्यष्टौ व्व᳘सव ऽए᳘कादश रुद्रा द्वा᳘दशादित्यास्त ऽए᳘कत्रिᳫँ᳭शदि᳘न्द्रश्चैव᳘ प्रजा᳘पतिश्च त्रयस्त्रिᳫँ᳭शावि᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
महिमा᳘न ऽए᳘वैषामेते त्र᳘यस्त्रिᳫँ᳭श᳘त्त्वेव᳘ देवा ऽइ᳘ति कतमे ते त्र᳘यस्त्रिᳫँ᳭शदि᳘त्यष्टौ व्व᳘सव ऽए᳘कादश रुद्रा द्वा᳘दशादित्यास्त ऽए᳘कत्रिᳫँ᳭शदि᳘न्द्रश्चैव᳘ प्रजा᳘पतिश्च त्रयस्त्रिᳫँ᳭शावि᳘ति॥

मूलम् - Weber

स᳘ होवाच॥
महिमा᳘न एॗवैषामेते त्र᳘यस्त्रिंशॗत्त्वेव᳘ देवा इ᳘ति कतमे ते त्र᳘यस्त्रिंशदि᳘त्यष्टौ व᳘सव ए᳘कादश रुद्रा द्वा᳘दशादित्यास्त ए᳘कत्रिंशदि᳘न्द्रश्चैव᳘ प्रजा᳘पतिश्च त्रयस्त्र्ंशावि᳘ति॥

मूलम् - विस्वरम्

स होवाच- महिमान एवैषामेते, त्रयस्त्रिंशत्त्वेव देवा इति । कतमे ते त्रयस्त्रिंशदिति । अष्टौ वसवः, एकादश रुद्राः, द्वादशादित्याः, त एकत्रिंशत् । इंद्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति ॥ ५ ॥

सायणः

‘सः’ खलु याज्ञवल्क्यः ‘उवाच’ ‘एषां’ त्रयस्त्रिंशत्संख्याकानां देवानां ‘महिमान एव’ त्रयश्च त्री च शतेत्यादीनि केवलं माहात्म्यमानान्मन्ये । ‘त्रयस्त्रिंशदिति’ यदुक्तं स एव परमार्थ इत्याह- त्रयस्त्रिंशत्त्वेवेति । के पुनस्ते त्रयस्त्रिंशदिति पृच्छति- कतमे त इति । ‘अष्टौ वसवः’ इत्यादि तस्योत्तरम् । त्रयस्त्रिंशाविति । त्रयस्त्रिंशत्संख्यापूरकावित्यर्थः । निगदसिद्धमन्यत् ॥ ५ ॥

Eggeling
  1. He replied, ‘These are their powers, but thirty-three gods indeed there are.’–‘Who are those thirty-three? Eight Vasus, eleven Rudras, and twelve Ādityas,–that makes thirty-one; and Indra and Prajāpati make up the thirty-three.’

०६

विश्वास-प्रस्तुतिः

कतमे व्व᳘सव ऽइ᳘ति॥
(त्य) अग्नि᳘श्च पृथिवी᳘ च व्वायु᳘श्चान्त᳘रिक्षञ्चादि᳘त्यश्च[[!!]] द्यौ᳘श्च चन्द्र᳘माश्च न᳘क्षत्राणि चैते व्व᳘सव ऽएते᳘ हीदᳫँ᳭ स᳘र्व्वं व्वास᳘यन्ते ते य᳘दिदᳫँ᳭ स᳘र्व्वं व्वास᳘यन्ते त᳘स्माद्व᳘सव ऽइ᳘ति॥

मूलम् - श्रीधरादि

कतमे व्व᳘सव ऽइ᳘ति॥
(त्य) अग्नि᳘श्च पृथिवी᳘ च व्वायु᳘श्चान्त᳘रिक्षञ्चादि᳘त्यश्च[[!!]] द्यौ᳘श्च चन्द्र᳘माश्च न᳘क्षत्राणि चैते व्व᳘सव ऽएते᳘ हीदᳫँ᳭ स᳘र्व्वं व्वास᳘यन्ते ते य᳘दिदᳫँ᳭ स᳘र्व्वं व्वास᳘यन्ते त᳘स्माद्व᳘सव ऽइ᳘ति॥

मूलम् - Weber

कतमे व᳘सव इ᳘ति॥
अग्नि᳘श्च पृथिवी᳘ च वायु᳘श्चान्त᳘रिक्षं चादित्य᳘श्च द्यौ᳘श्च चन्द्र᳘माश्च न᳘क्षत्राणि चैते व᳘सव एतेॗ हीदᳫं स᳘र्वं वास᳘यन्ते ते य᳘दिदᳫं स᳘र्वं वास᳘यन्ते त᳘स्माद्व᳘सव इ᳘ति॥

मूलम् - विस्वरम्

कतमे वसव इति । अग्निश्च पृथिवी च वायुश्चांतरिक्षं च आदित्यश्च द्यौश्च चंद्रमाश्च नक्षत्राणि च इति वसवः । एते हीदं सर्वं वासयन्ते । यदिदं सर्वं वासयन्ते, तस्माद्वसव इति ॥ ६ ॥

सायणः

प्रश्नपूर्वकं वसूनां स्वरूपमाह- कतमे वसव इति । अग्न्यादीनां वसुशब्दाभिधेयत्वं उपपादयति- एते हीदमिति । ‘हि’ यस्मादेते अग्न्यादयः ‘इदं सर्वं’ जगत् ‘वासयन्ते’ निवासात्मकं कुर्वंति । तस्माद्वसुहेतुत्वात्, ‘वसवः’ इत्युच्यते इत्यर्थः ॥ ६ ॥

Eggeling
  1. ‘Who are the Vasus?’–‘Agni, the Earth, Vāyu (the wind), the Air, Āditya (the sun), Heaven, the Moon, and the Stars:–these are the Vasus, for these cause all this (universe) to abide (vas), and hence they are the Vasus.’

०७

विश्वास-प्रस्तुतिः

कतमे᳘ रुद्रा ऽइ᳘ति॥
द᳘शेमे पु᳘रुषे प्राणा᳘ ऽआ᳘त्मैकादशस्ते᳘ य᳘दा ऽस्मान्म᳘र्त्याच्छ᳘रीरादुत्क्रा᳘मन्त्य᳘थ रोदयन्ति तद्य᳘द्रोदयन्ति[[!!]] त᳘स्माद्रुद्रा ऽइ᳘ति॥

मूलम् - श्रीधरादि

कतमे᳘ रुद्रा ऽइ᳘ति॥
द᳘शेमे पु᳘रुषे प्राणा᳘ ऽआ᳘त्मैकादशस्ते᳘ य᳘दा ऽस्मान्म᳘र्त्याच्छ᳘रीरादुत्क्रा᳘मन्त्य᳘थ रोदयन्ति तद्य᳘द्रोदयन्ति[[!!]] त᳘स्माद्रुद्रा ऽइ᳘ति॥

मूलम् - Weber

कतमे᳘ रुद्रा इ᳘ति॥
द᳘शेमे पु᳘रुषे प्राणा᳘ आॗत्मैकादशस्ते᳘ यॗदास्मान्म᳘र्त्याछ᳘रीरादुत्क्रा᳘मन्त्य᳘थ रोदयन्ति तद्य᳘द्रोद᳘यन्ति त᳘स्माद्रुद्रा इ᳘ति॥

मूलम् - विस्वरम्

कतमे रुद्रा इति । दशेमे पुरुषे प्राणाः, आत्मैकादशः । ते यदा ऽस्मान्मर्त्याच्छरीरादुत्क्रामंति । अथ रोदयंति । तद्यद्रोदयंति तस्मादुद्रा इति ॥ ७ ॥

सायणः

अथ प्रश्नपूर्वकं रुद्राणां स्वरूपमाह- कतमे रुद्रा इति । दशेमे पुरुषे प्राणा इति । सप्त शीर्षण्याः प्राणाः, द्वाववांचौ, दशमः प्राणो नाभिः, तेषां सर्वेषां शब्दानामाश्रयभूतं आत्मशब्दाभिधेयं मन एव ‘एकादशः’ रुद्रः । तेषां रुद्रशब्दाभिधेयतामाह- ते यदा ऽस्मान्मर्त्यादिति । ‘ते’ आत्मैकादशाः प्राणाः ‘यदा’ यस्मिन् काले ‘अस्मान्मर्त्यात्’ मरणधर्मकाच्छरीरात् ‘उत्क्रामन्ति’ निर्गच्छन्ति । अथानन्तरमेव बांधवान् ‘रोदयन्ति’ एतदपेक्षं रुद्रनामनिर्वचनं करोति- तद्यद्रोदयंतीति ॥ ७ ॥

Eggeling
  1. ‘Who are the Rudras?’–‘These ten vital airs in man, and the self (spirit) is the eleventh: when these depart from this mortal body, they cause wailing (rud), and hence they are the Rudras.’

०८

विश्वास-प्रस्तुतिः

कतम᳘ ऽआदित्या ऽइ᳘ति॥
द्वा᳘दश मा᳘साः संवत्सर᳘स्यैत᳘ ऽआदित्या᳘ ऽएते᳘ हीदᳫँ᳭ स᳘र्व्वमाद᳘दाना य᳘न्ति ते य᳘दिदᳫँ᳭ स᳘र्व्वमाद᳘दाना य᳘न्ति त᳘स्मादादित्या ऽइ᳘ति॥

मूलम् - श्रीधरादि

कतम᳘ ऽआदित्या ऽइ᳘ति॥
द्वा᳘दश मा᳘साः संवत्सर᳘स्यैत᳘ ऽआदित्या᳘ ऽएते᳘ हीदᳫँ᳭ स᳘र्व्वमाद᳘दाना य᳘न्ति ते य᳘दिदᳫँ᳭ स᳘र्व्वमाद᳘दाना य᳘न्ति त᳘स्मादादित्या ऽइ᳘ति॥

मूलम् - Weber

कतम᳘ आदित्या इ᳘ति॥
द्वा᳘दश मा᳘साः संवत्सर᳘स्यैत᳘ आदित्या᳘ एतेॗ हीदᳫं स᳘र्वमाद᳘दाना य᳘न्ति ते य᳘दिदᳫं स᳘र्वमाद᳘दाना य᳘न्ति त᳘स्मादादित्या इ᳘ति॥

मूलम् - विस्वरम्

कतम आदित्या इति । द्वादश मासाः संवत्सरस्य एत आदित्याः । एते हीदं सर्वमाददाना यंति, ते यदिदं सर्वमाददाना यंति; तस्मादादित्या इति ॥ ८ ॥

सायणः

अथ प्रश्नपूर्वकं आदित्यानां स्वरूपमाह- कतम आदित्या इत्यादिना । संवत्सरसंबंधिनः चैत्रादयः ‘द्वादश मासाः’ त एवादित्याः । ‘एते’ खलु ‘इदं सर्वं’ चराचरात्मकं जगत् ‘आददानाः’ स्वीकुर्वन्तो ग्रसंतः ‘यंति’ गच्छंति । ते यदिदमिति । आदित्यनामनिरुक्तिः ॥ ८ ॥

Eggeling
  1. ‘Who are the Ādityas?’–‘The twelve months of the year: these are the Ādityas, for they pass whilst laying hold on everything here; and inasmuch as they pass whilst laying hold (ā-dā) on everything here, they are the Ādityas.’

०९

विश्वास-प्रस्तुतिः

कतम ऽइ᳘न्द्रः कतमः᳘ प्रजा᳘पतिरि᳘ति॥
स्तनयित्नु᳘रेवे᳘न्द्रो यज्ञः᳘ प्रजा᳘पतिरि᳘ति कतम᳘ स्तनयित्नुरि᳘त्यश᳘निरि᳘ति कतमो᳘ यज्ञ ऽइ᳘ति पश᳘व ऽइ᳘ति॥

मूलम् - श्रीधरादि

कतम ऽइ᳘न्द्रः कतमः᳘ प्रजा᳘पतिरि᳘ति॥
स्तनयित्नु᳘रेवे᳘न्द्रो यज्ञः᳘ प्रजा᳘पतिरि᳘ति कतम᳘ स्तनयित्नुरि᳘त्यश᳘निरि᳘ति कतमो᳘ यज्ञ ऽइ᳘ति पश᳘व ऽइ᳘ति॥

मूलम् - Weber

कतम इ᳘न्द्रः कतमः᳘ प्रजा᳘पतिरि᳘ति॥
स्तनयित्नु᳘रेवे᳘न्द्रो यज्ञः᳘ प्रजा᳘पतिरि᳘ति कतम᳘ स्तनयित्नुरि᳘त्यश᳘निरि᳘ति कतमो᳘ यज्ञ इ᳘ति पश᳘व इ᳘ति॥

मूलम् - विस्वरम्

कतम इंद्रः कतमः प्रजापतिरिति । स्तनयित्नुरेवेन्द्रः, यज्ञः प्रजापतिरिति । कतमः स्तनयित्नुरिति, अशनिरिति । कतमो यज्ञ इति, पशव इति ॥ ९ ॥

सायणः

इन्द्रप्रजापत्योः स्वरूपं प्रश्नपूर्वकमाह- कतम इंद्र इति । ‘स्तनयित्नुः स्तननशीलो गर्जन् पर्जन्य एव ‘इन्द्रः’ । दर्शपूर्णमासादिः ‘यज्ञ एव प्रजापतिरिति’ । एकरूपतां व्युदस्य स्तनयित्नुयज्ञयोः प्रश्नपूर्वकं स्वरूपमाह- कतमः स्तनयित्नुरिति । ‘अशनिः’ प्रसिद्धः । यज्ञसाधनत्वात्पशूनां यज्ञत्वम् ॥ ९ ॥

Eggeling
  1. ‘Who is Indra, and who Prajāpati?’–‘Indra, indeed, is thunder 4, and Prajāpati the sacrifice.’–‘What is thunder?’–‘The thunderbolt.’–‘What is the sacrifice?’–‘Cattle.’

१०

विश्वास-प्रस्तुतिः

कतमे ते त्र᳘यो देवा ऽइ᳘ति॥
(ती) इम᳘ ऽएव त्र᳘यो लोका᳘ ऽएषु᳘ हीमे स᳘र्व्वे देवा ऽइ᳘ति कतमौ तौ द्वौ᳘ देवावित्य᳘न्नं चैव᳘ प्राणश्चे᳘ति कतमो᳘ ऽध्यर्द्ध ऽइति᳘[[!!]] यो ऽय᳘म्प᳘वत ऽइ᳘ति य᳘दस्मिन्निदᳫँ᳭ स᳘र्व्वमध्या᳘र्ध्नोत्तेना᳘ध्यर्द्ध ऽइ᳘ति कतम ऽए᳘को देव ऽइ᳘ति प्राण ऽइ᳘ति॥

मूलम् - श्रीधरादि

कतमे ते त्र᳘यो देवा ऽइ᳘ति॥
(ती) इम᳘ ऽएव त्र᳘यो लोका᳘ ऽएषु᳘ हीमे स᳘र्व्वे देवा ऽइ᳘ति कतमौ तौ द्वौ᳘ देवावित्य᳘न्नं चैव᳘ प्राणश्चे᳘ति कतमो᳘ ऽध्यर्द्ध ऽइति᳘[[!!]] यो ऽय᳘म्प᳘वत ऽइ᳘ति य᳘दस्मिन्निदᳫँ᳭ स᳘र्व्वमध्या᳘र्ध्नोत्तेना᳘ध्यर्द्ध ऽइ᳘ति कतम ऽए᳘को देव ऽइ᳘ति प्राण ऽइ᳘ति॥

मूलम् - Weber

कतमे ते त्र᳘यो देवा इ᳘ति॥
इम᳘ एव त्र᳘यो लोका᳘ एषुॗ हीमे स᳘र्वे देवा इ᳘ति कतमौ तौ द्वौ᳘ देवावित्य᳘न्नं चैव᳘ प्राणश्चे᳘ति कतमो᳘ऽध्यर्ध इ᳘तिॗ योऽयम् प᳘वत इ᳘ति कतम ए᳘को देव इ᳘ति प्राण इ᳘ति॥

मूलम् - विस्वरम्

कतमे ते त्रयो देवा इति, इम एव त्रयो लोकाः, एषु हीमे सर्वे देवा इति । कतमौ तौ द्वौ देवाविति, अन्नं चैव प्राणश्चेति । कतमो ऽध्यर्द्ध इति, यो ऽयं पवत इति । यदस्मिन्निदं सर्वमध्यार्ध्नोत् तेनाध्यर्द्ध इति । कतम एको देव इति, प्राण इति ॥ १० ॥

सायणः

‘कतमे ते त्रयो देवा इति’ प्रागुक्तं विवृणोति- कतमे ते त्रय इति । देवानां मध्ये किंलक्षणाः ‘ते त्रयो देवाः’ “वा बहूनां जातिपरिप्रश्ने डतमच्” (पा. सू. ५ । ३ । ९३) इति डतमच् प्रत्ययः । ‘इमे’ पृथिव्याद्याः ‘त्रयो लोकाः’ ‘एत एव त्रयो देवाः’ । ‘हि’ यस्मात् ‘एते’ अग्न्यादयो देवाः त्रिषु लोकेषु प्रतिवसंति ‘तस्मात्’ अग्न्यादिदेवैरधिष्ठितत्वात् अभेदोपचारेण लोका एव देवा इत्यर्थः । द्वावित्यस्य प्रश्नपूर्वकमुत्तरमाह- कतमौ ताविति । देवमनुष्याद्यात्मकं कृत्स्नं जगत् भोक्तृभोग्यात्मकं अतो भोग्यमन्नं भोक्ता प्राणश्चेति इमावेव द्वौ देवौ । अत एवमाम्नायते- “एतावद्वा इदं सर्वमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः” इति । कतमो ऽध्यर्द्ध इत्यादि । ‘यो ऽयं’ अध्यात्ममधियज्ञं च वायुः ‘पवते’ अयमेवाध्यर्द्धो देवः । ननु एकस्यैवास्य कथमध्यर्द्धात्मकत्वमित्याशंक्य अध्यर्द्धशब्दं निर्वक्ति- यदस्मिन्निति । ‘यत्’ यस्मात् ‘अस्मिन्’ वायौ सूत्रात्मनि आधारभूते ‘इदं सर्वं’ जगत् ‘अध्यार्ध्नोत्’ अधिकमृद्धमभवत् । तस्मात् अधिकार्द्धहेतुत्वात् सर्वदेवतासमष्टिरूपः प्राणः अध्यर्द्धरूप उच्यत इत्यर्थः । ‘एकः’ इत्येतत् प्रश्नपूर्वकं व्याचष्टे- कतम एको देव इति ॥ १० ॥

Eggeling
  1. ‘Who are those three gods?’–‘These three worlds, for therein all the gods are contained.’–‘Who are those two gods?’–‘Food and breath. (life).’–‘Who is the one and a half?’–‘He who is blowing here 5 (Vāyu, the wind).’–‘Who is the one god?’–‘Breath.’

११

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
(चा) अनतिप्रश्न्या᳘म्मा देव᳘ताम᳘त्यप्राक्षीः पुरेत्तिथ्यै᳘[[!!]] मरिष्यसि न ते᳘ ऽस्थीनि चन᳘ गृहान्प्रा᳘प्स्यन्ती᳘ति स᳘ ह त᳘थैव᳘ ममार त᳘स्य हा᳘प्यन्यन्म᳘न्यमानाः परिमोषिणो᳘ ऽस्थीन्य᳘पजह्रुस्त᳘स्मा᳘न्नोपवादी᳘ 6 स्यादुत᳘ ह्येवंवित्परो[[!!]] भ᳘वति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
(चा) अनतिप्रश्न्या᳘म्मा देव᳘ताम᳘त्यप्राक्षीः पुरेत्तिथ्यै᳘[[!!]] मरिष्यसि न ते᳘ ऽस्थीनि चन᳘ गृहान्प्रा᳘प्स्यन्ती᳘ति स᳘ ह त᳘थैव᳘ ममार त᳘स्य हा᳘प्यन्यन्म᳘न्यमानाः परिमोषिणो᳘ ऽस्थीन्य᳘पजह्रुस्त᳘स्मा᳘न्नोपवादी᳘ स्यादुत᳘ ह्येवंवित्परो[[!!]] भ᳘वति॥

मूलम् - Weber

स᳘ होवाच॥
अनतिप्रश्न्या᳘म् मा देव᳘ताम᳘त्यप्राक्षीः पुॗरेतिथ्यै᳘ मरिष्यसि न ते᳘ऽस्थीनि चन᳘ गृहान्प्रा᳘प्स्यन्ती᳘ति स᳘ ह त᳘थैव᳘ ममार त᳘स्य हा᳘प्यन्यन्म᳘न्यमानाः परिमोषिणो᳘ऽस्थीन्य᳘पजह्रुस्त᳘स्माॗन्नोपवादी᳘ स्यादुतॗ ह्येवंवित्प᳘रो भ᳘वति॥

मूलम् - विस्वरम्

स होवाच । अनतिप्रश्न्यां मा देवतामत्यप्राक्षीः । पुरेत्तिथ्यै मरिष्यसि । न ते ऽस्थीनि चन गृहान् प्राप्स्यन्तीति । स ह तथैव ममार । तस्य हाप्यन्यन्मन्यमानाः परिमोषिणो ऽस्थीन्यपजह्नुः । तस्मान्नोपवादी स्यात् । उत हि एवंवित्परो भवति ॥ ११ ॥

सायणः

एवं याज्ञवल्क्यः शाकल्येन पृष्टं देवतास्वरूपमाविष्कृत्य शाकल्यमधिक्षिपति- स होवाचेति । याज्ञवल्क्यः ‘उवाच’ किमिति ? हे शाकल्य ! ‘अनतिप्रश्न्यां’ प्रश्नपदमतिक्रांता प्राणरूपा देवता अनतिप्रश्न्या तां देवतां ‘मा अत्यप्राक्षीः’ अतिक्रम्य पृष्टवानसि । ‘पुरेत्तिथ्यै’ पंचम्यर्थे चतुर्थी । आगामिन्यास्तिथेः पुरस्तादेव त्वं देशांतरे ‘मरिष्यसि’ । ‘ते’ तव ‘अस्थीन्यपि’ ‘न गृहान् प्राप्स्यतीति’ । एवं याज्ञवल्क्यः शशाप । सो ऽपि शाकल्यः ‘तथैव’ याज्ञवल्क्यशापप्रकारेण ‘ममार’ मृतो बभूव । तच्छिष्यैः गृहं प्रत्याह्रियमाणानि अस्थीन्यपि ‘अन्यन्मन्यमानाः’ सुवर्णादिद्रव्यत्वेन जानंतः ‘परिमोषिणः’ तस्कराः ‘अपजह्नुः’ । यस्मादेवं ‘तस्मात्’ विजिगीषुकथारूपेण तत्त्वनिष्टमुपेत्य वादी न भवेत् । ‘उत’ अपि तु ‘एवंवित्परो भवति’ । उक्तप्रकारेण यः प्राणस्वरूपं जानाति तं विद्वांसमुपेत्य तात्पर्येण सेवायुक्तो भवेदित्यर्थः ॥ ११ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यंदिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे षष्ठे ऽध्याये तृतीयं ब्राह्मणम् ॥ ११ । ६ । ३ ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे षष्ठो ऽध्यायः समाप्तः ॥ (११ । ६) ॥

Eggeling
  1. He (Yājñavalkya) said, ‘Thou hast gone on questioning me beyond the deity 7, beyond which there must be no questioning: thou shalt die ere such and such a day, and not even thy bones shall reach thy home!’ And so, indeed, did he (Śākalya) die; and robbers carried off his bones 8, taking them for something else 9. Wherefore let no man decry 10 any one, for even (by) knowing this, he gets the better of him 11.

  1. 115:1 One might also construe,–These are yours, O Brāhmaṇas: he who is the most learned in sacred writ shall drive (them) away. Cf. Delbrück, Altind. Syntax, pp. 251, 363. ↩︎

  2. 115:2 Gokāmā eva kevalaṁ vayaṁ smaḥ bhavāmaḥ, Sāy. ↩︎

  3. 115:3 See XIV, 6, 9, 1 seqq . ↩︎

  4. 116:1 Sāyaṇa takes ‘stanayitnu’ in the sense of ’thunder-cloud,’–stanayitnuḥ stananaśīlo garjan parjanya ity arthaḥ. ↩︎

  5. 117:1 XIV, 6, 9, 10, the use of ‘adhyardha (having one half over)’ in connection with the wind is accounted for by a fanciful etymology, viz. because the wind succeeds (or prevails) over (adhy-ardh) everything here. ↩︎

  6. अत्र (श. प. १४ । ६ । ९) बृहदारण्यकोक्तं शाकल्यब्राह्मणमप्यनुसंधेयम् । ↩︎

  7. 117:2 That is, as would seem, Prajāpati, cf. XIV, 6, 6, 1 , where Yājñavalkya tells Gārgī how one world is ‘woven and rewoven’ on another, the last being that of Prajāpati, which was woven on that of the Brahman; and when Gārgī asks him as to what world the Brahman-world was woven on, he gives the same reply as here, viz. that there must be no questioning beyond that deity (Prajāpati). ↩︎

  8. 117:3 Prof. Weber, Ind. Streifen, I, p. 23, connects this feature with the belief in a strictly personal existence after death prevailing at the time of the Brāhmaṇa, which involved, as a matter of great moment, the careful collection of the bones after the corpse had been burnt, with a view to their being placed in an earthen vessel and buried.–Cf. Āśval. Gr̥hyas. IV, 5, 1 seqq.; Kāty. Śr. XXI, 3, 7 seqq. See also J. Muir, Orig. Sanskrit Texts, vol. v, p. 316. ↩︎

  9. 117:4 That is, mistaking them for gold or some other valuable substance, comm.,–anyan manyamānāḥ suvarṇādidravyatvena jānantaḥ. ↩︎

  10. 117:5 Or, ‘revile,’ as the St. Petersb. Dict. takes it. Possibly, however, ‘upa-vad’ has here the sense of ’to speak to,’ i.e. ’to question or lecture some one.’ ↩︎

  11. 117:6 The commentary is partly corrupt and not very intelligible:– Yasmād evaṁ tasmād iti goshu kathārūpeṇa tattvanikr̥(ti)m upetya vādī na bhavet, sva (? svayam) api tu evaṁvit paro bhavati, uktaprakāreṇa yaḥ prāṇasvarūpaṁ jānāti taṁ vidvāṁsam upetya tātparyeṇā savā (? ātmanā) yukto bhaved ity arthaḥ, Sāy. Cf. Weber, Ind. Stud. V, p. 36.1, note.–Prof. Delbrück, Altind. Syntax, p. 528, takes ‘paro bhavati’ in the sense of ‘he becomes one of the other side, or shore,’ i.e. he dies. ↩︎