०१
विश्वास-प्रस्तुतिः
जनको᳘ ह वै व्वै᳘देहः॥
(हो) ब्राह्मणै᳘र्द्धाव᳘यद्भिः समा᳘जगाम श्वेत᳘केतुना ऽऽरुणेये᳘न सो᳘मशुष्मेण सा᳘त्ययज्ञिना या᳘ज्ञवल्क्येन ता᳘न्होवाच कथ᳘ङ्कथमग्निहोत्र᳘ञ्जुहुथे᳘ति॥
मूलम् - श्रीधरादि
जनको᳘ ह वै व्वै᳘देहः॥
(हो) ब्राह्मणै᳘र्द्धाव᳘यद्भिः समा᳘जगाम श्वेत᳘केतुना ऽऽरुणेये᳘न सो᳘मशुष्मेण सा᳘त्ययज्ञिना या᳘ज्ञवल्क्येन ता᳘न्होवाच कथ᳘ङ्कथमग्निहोत्र᳘ञ्जुहुथे᳘ति॥
मूलम् - Weber
जनको᳘ ह वै वै᳘देहो 1 ॥
ब्राह्मणै᳘र्धाव᳘यद्भिः समा᳘जगाम श्वेत᳘केतुनारुणेये᳘न सो᳘मशुष्मेण सा᳘त्ययज्ञिना या᳘ज्ञवल्क्येन ता᳘न्होवाच कथं᳘-कथमग्निहोत्रं᳘ जुहुथे᳘ति॥
मूलम् - विस्वरम्
जनको ह वै वैदेहो ब्राह्मणैर्धावयद्भिः समाजगाम श्वेतकेतुना ऽऽरुणेयेन, सोमशुष्मेण सात्ययज्ञिना, याज्ञवल्क्येन, तान्होवाच कथं कथमग्निहोत्रं जुहुथेति ॥ १ ॥
सायणः
तथा अग्निहोत्रहोमे पूर्वोक्तयोराहुत्योरूर्ध्वगत्यादिविषयां विद्यां वक्तुं आख्यायिका प्रस्तूयते- जनको ह वै वैदेह इत्यादिना । ‘धावयद्भिः’ देशांतरादागतैः ब्राह्मणैः ‘समाजगाम’ संगतो बभूव । तान् ब्राह्मणानाह- श्वेतकेतुनेति । ‘श्वेतुकेतुः’ नामारुणेः पुत्रः । ‘सोमशुष्मः’ नाम सत्ययज्ञस्य पुत्रः कश्चित् । याज्ञवल्क्यस्तृतीयः । एवमेतैस्त्रिभिः संगतो जनकः अग्निहोत्रविषयं विचारं कृतवान् इत्याह- तान् होवाचेति । ‘तान्’ श्वेतकेतुप्रमुखान् ब्राह्मणान् ‘उवाच’ उक्तवान् । हे ब्राह्मणाः ! यूयं केन प्रकारेण अग्निहोत्राख्यं होमं कुरुथ । तत्सर्वं ब्रूतेत्यर्थः ॥ १ ॥
Eggeling
- Now, Janaka of Videha once met some Brāhmaṇas who were travelling about 2, to wit, Śvetaketu Āruṇeya, Somaśushma Sātyayajñi, and Yājñavalkya. He said to them, ‘How do ye each of you perform the Agnihotra?’
०२
विश्वास-प्रस्तुतिः
स᳘ होवाच श्वेत᳘केतुरारुणेयः᳘॥ (यो᳘) घर्म्मा᳘वेव᳘ सम्म्राडहम᳘जस्रौ य᳘शसा व्विष्य᳘न्दमानाव᳘न्यो ऽन्य᳘स्मिञ्जुहोमी᳘ति कथं तदि᳘त्यादित्यो वै᳘ घर्म्मस्त᳘ᳫँ᳘ साय᳘मग्नौ᳘ जुहोम्यग्निर्वै᳘ घर्म्मस्त᳘म्प्रात᳘रादित्ये᳘ जुहोमी᳘ति किᳫँ᳭ स᳘ भवति य᳘ ऽएव᳘ञ्जुहोत्य᳘जस्र ऽएव᳘ श्रिया य᳘शसा भवत्येत᳘योश्च देव᳘तयोः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयतीति[[!!]]॥
मूलम् - श्रीधरादि
स᳘ होवाच श्वेत᳘केतुरारुणेयः᳘॥ (यो᳘) घर्म्मा᳘वेव᳘ सम्म्राडहम᳘जस्रौ य᳘शसा व्विष्य᳘न्दमानाव᳘न्यो ऽन्य᳘स्मिञ्जुहोमी᳘ति कथं तदि᳘त्यादित्यो वै᳘ घर्म्मस्त᳘ᳫँ᳘ साय᳘मग्नौ᳘ जुहोम्यग्निर्वै᳘ घर्म्मस्त᳘म्प्रात᳘रादित्ये᳘ जुहोमी᳘ति किᳫँ᳭ स᳘ भवति य᳘ ऽएव᳘ञ्जुहोत्य᳘जस्र ऽएव᳘ श्रिया य᳘शसा भवत्येत᳘योश्च देव᳘तयोः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयतीति[[!!]]॥
मूलम् - Weber
स᳘ होवाच॥
श्वेत᳘केतुरारुणेयो᳘ घर्मा᳘वेव᳘ सम्राडहम᳘जस्रौ य᳘शसा विष्य᳘न्दमानावॗन्योऽन्य᳘स्मिन्जुहोमी᳘ति 3 कथं तदि᳘त्यादित्यो वै᳘ घर्मस्त᳘ᳫं᳘ साय᳘मग्नौ᳘ जुहोम्यग्निर्वै᳘ घर्मस्त᳘म् प्रात᳘रादित्ये᳘ जुहोमी᳘ति किᳫं स᳘ भवति य᳘ एवं᳘ जुहोत्य᳘जस्र एव᳘ श्रिया य᳘शसा भवत्येत᳘योश्च देव᳘तयोः सा᳘युज्यᳫं सलोक᳘तां जयती᳘ति॥
मूलम् - विस्वरम्
स होवाच श्वेतकेतुरारुणेयः । घर्मावेव सम्राडहमजस्रौ यशसा विष्यंदमानावन्यो ऽन्यरिमन् जुहोमीति । कथं तदिति । आदित्यो वै घर्मः । तं सायमग्नौ जुहोमि । अग्निर्वै घर्मः । तं प्रातरादित्ये जुहोमीति । किं स भवति । य एवं जुहोतीति । अजस्र एव श्रिया यशसा भवति । एतयोश्च देवतयोः सायुज्यं सलोकतां जयतीति ॥ २ ॥
सायणः
तत्र प्रथमं श्वेतकेतुनोक्तं प्रतिवचनं दर्शयति- स होवाचेति । घर्मावेवेत्यादि । श्वेतकेतुवाक्यम् । हे ‘सम्राट्’ जनक ! ‘अजस्रौ’ संततौ दीप्यमानौ ‘यशसा’ प्रकाशेन ‘विष्यन्दमानौ’ कृत्स्नं जगत् व्याप्नुवन्तौ प्रकाशयंतौ ‘घर्मौ’ अग्न्यादित्यावेव ‘अन्यो ऽन्यस्मिन् जुहोमीति’ । कथं तद्धवनमिति जनकेन पृष्ठे प्रतिवक्ति- आदित्यो वै घर्म इति । दीप्यमानत्वात् घर्म आदित्यः । “घृ क्षरणदीप्त्योः"- (धा. पा. जु. प. १४) इत्यस्मात् औणादिको मप्रत्ययः । तं घर्मशब्दाभिधेयं आदित्यं सायंकाले अग्नावनुप्रविष्टम् ‘अहं जुहोमि’ हविषा तर्पयामि । अथाग्निरपि घर्मः । स प्रातरादित्यमनुप्रविशति । तमग्निं प्रातःकाले ‘आदित्ये’ स्थितं हविषा प्रीणयामि । एवं विदुषो जुह्वतः प्रश्नपूर्वकं फलमाह- किं स भवतीति । यो यजमानः अन्यो ऽन्यस्मिन्नवस्थितौ घर्मशब्दाभिधेयौ अग्न्यादित्यौ कालद्वये जुहोति । ‘सः’ यजमानः किमात्मको भवतीत्यर्थः । य एवमिति । ‘श्रिया’ लक्ष्म्या ‘यशसा’ कीर्त्या च ‘अजस्रः’ संततः ‘एव भवति’ । एतदैहिकं फलम् । देहावसाने तु एतयोरग्न्यादित्ययोर्देवतयोः ‘सायुज्यं’ सयुग्भावम् ‘सलोकतां’ समानलोकत्वं च ‘जयति’ प्राप्नोति ॥ २ ॥
Eggeling
- Śvetaketu Āruṇeya replied, ‘O great king, I make offering, in one another, to two heats, never-failing and overflowing with glory.’–‘How is that?’ asked the king.–‘Well, Āditya (the sun) is heat: to him I make offering in Agni in the evening; and Agni, indeed, is heat: to him I make offering in the morning in Āditya 4.’–‘What becomes of him who offers in this way?’ asked the
king.–‘He verily becomes never-failing in prosperity and glory, and attains to ’the fellowship of those two deities, and to an abode in their world.’
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ होवाच शो᳘मशुष्मः सा᳘त्ययज्ञिः᳘॥
(स्ते᳘) ते᳘ज ऽएव᳘ सम्म्राडहं ते᳘जसि जुहोमी᳘ति कथन्तदि᳘त्यादित्यो वै ते᳘जस्त᳘ᳫँ᳘ साय᳘मग्नौ᳘ जुहोम्यग्निर्वै ते᳘जस्तं᳘ प्रात᳘रादित्ये᳘ जुहोमी᳘ति किᳫँ᳭ स᳘ भवति य᳘ ऽएव᳘ञ्जुहोती᳘ति तेजस्वी᳘ यश᳘स्व्यन्नादो᳘[[!!]] भवत्येत᳘योश्चैव᳘ देव᳘तयोः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयतीति[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ होवाच शो᳘मशुष्मः सा᳘त्ययज्ञिः᳘॥
(स्ते᳘) ते᳘ज ऽएव᳘ सम्म्राडहं ते᳘जसि जुहोमी᳘ति कथन्तदि᳘त्यादित्यो वै ते᳘जस्त᳘ᳫँ᳘ साय᳘मग्नौ᳘ जुहोम्यग्निर्वै ते᳘जस्तं᳘ प्रात᳘रादित्ये᳘ जुहोमी᳘ति किᳫँ᳭ स᳘ भवति य᳘ ऽएव᳘ञ्जुहोती᳘ति तेजस्वी᳘ यश᳘स्व्यन्नादो᳘[[!!]] भवत्येत᳘योश्चैव᳘ देव᳘तयोः सा᳘युज्यᳫँ᳭ सलोक᳘ताञ्जयतीति[[!!]]॥
मूलम् - Weber
अ᳘थ होवाच शो᳘मशुष्मः सा᳘त्ययज्ञिः॥
ते᳘ज एव᳘ सम्राडहं ते᳘जसि जुहोमी᳘ति कथं तदि᳘त्यादित्यो वै ते᳘जस्त᳘ᳫं᳘ साय᳘मग्नौ᳘ जुहोम्यग्निर्वै ते᳘जस्त᳘म् प्रात᳘रादित्ये᳘ जुहोमी᳘ति किᳫं स᳘ भवति य᳘ एवं᳘ जुहोती᳘ति तेजस्वी᳘ यशस्व्य᳘न्नादो᳘ भवत्येत᳘योश्चैव᳘ देव᳘तयोः सा᳘युज्यᳫं सलोक᳘तां जयती᳘ति॥
मूलम् - विस्वरम्
अथ होवाच सोमशुष्मः सात्ययज्ञिः । तेज एव सम्राट् । अहं तेजसि जुहोमीति । कथं तदिति । आदित्यो वै तेजः । तं सायमग्नौ जुहोमि । अग्निर्वै तेजः । तं प्रातरादित्ये जुहोमीति । किं स भवति । य एवं जुहोतीति । तेजस्वी यशस्व्यन्नादो भवति । एतयोश्चैव देवतयोः सायुज्यं सलोकतां जयतीति ॥ ३ ॥
सायणः
एवं श्वेतकेतुना स्वाभिमतं अग्निहोत्रहोमस्वरूपमभिहितम् । अथ सोमशुष्मः स्वमतमुक्तवानिति दर्शयति- अथ होवाचेति । ‘अथशब्दः’ आनंतर्ये । हे ‘सम्राट् !’ तेजोरूपमेव मदीयमग्निहोत्रम् । अतो ऽहमग्न्यादिस्ययोरुभयत्रानुगते ‘तेजसि’ तेजोरूपे जुहोमीति । कथं तदित्यादि पूर्ववत् योज्यम् ॥ ३ ॥
Eggeling
- Then Somaśushma Sātyayajñi said, ‘I, O king, make offering to light in light.’–‘How is that?’ asked the king.–‘Well, Āditya is light: to him I make offering in Agni in the evening; and Agni, indeed, is light: to him I make offering in Āditya in the morning.’–‘What becomes of him who offers in this way? He verily becomes lightsome, and glorious, and prosperous; and attains to the fellowship of those two deities, and to an abode in their world.’
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो) य᳘दह᳘मग्नि᳘मुद्ध᳘राम्यग्निहोत्र᳘मेव तदु᳘द्यच्छाम्यादित्यम्वा᳘ ऽअस्तं य᳘न्तᳫँ᳭ स᳘र्व्वे देवा ऽअ᳘नुयन्ति ते᳘ म ऽएत᳘मग्निमु᳘द्धृतं दृ᳘ष्ट्वोपा᳘वर्तन्ते᳘ ऽथाहम्पा᳘त्राणि निर्ण्णि᳘ज्योपवा᳘प्याग्निहोत्री᳘न्दोहयित्वा प᳘श्यन्प᳘श्यतस्तर्प्पयामी᳘ति त्वन्ने᳘दिष्ठं याज्ञवल्क्याग्निहोत्र᳘स्यामीमाᳫँ᳭सिष्ठा धेनुशतं᳘ ददामी᳘ति होवाच न᳘ त्वे᳘वैनयोस्त्वमु᳘त्क्रान्तिं न ग᳘तिं न᳘ प्रतिष्ठां न तृ᳘प्तिं न पु᳘नरा᳘वृत्तिं न᳘ लोक᳘म्प्रत्युत्थायि᳘नमि᳘त्युक्त्वा र᳘थमास्था᳘य प्रधावया᳘ञ्चकार॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो) य᳘दह᳘मग्नि᳘मुद्ध᳘राम्यग्निहोत्र᳘मेव तदु᳘द्यच्छाम्यादित्यम्वा᳘ ऽअस्तं य᳘न्तᳫँ᳭ स᳘र्व्वे देवा ऽअ᳘नुयन्ति ते᳘ म ऽएत᳘मग्निमु᳘द्धृतं दृ᳘ष्ट्वोपा᳘वर्तन्ते᳘ ऽथाहम्पा᳘त्राणि निर्ण्णि᳘ज्योपवा᳘प्याग्निहोत्री᳘न्दोहयित्वा प᳘श्यन्प᳘श्यतस्तर्प्पयामी᳘ति त्वन्ने᳘दिष्ठं याज्ञवल्क्याग्निहोत्र᳘स्यामीमाᳫँ᳭सिष्ठा धेनुशतं᳘ ददामी᳘ति होवाच न᳘ त्वे᳘वैनयोस्त्वमु᳘त्क्रान्तिं न ग᳘तिं न᳘ प्रतिष्ठां न तृ᳘प्तिं न पु᳘नरा᳘वृत्तिं न᳘ लोक᳘म्प्रत्युत्थायि᳘नमि᳘त्युक्त्वा र᳘थमास्था᳘य प्रधावया᳘ञ्चकार॥
मूलम् - Weber
अ᳘थ होवाच या᳘ज्ञवल्क्यः॥
य᳘दह᳘मग्नि᳘मुद्ध᳘राम्यग्निहोत्र᳘मेव तदु᳘द्यछाम्यादित्यं वा᳘ अस्तं य᳘न्तᳫं स᳘र्वे देवा अ᳘नुयन्ति ते᳘ म एत᳘मग्निमु᳘द्धृतं दृॗष्ट्वोपा᳘वर्तन्ते᳘ऽथाहम् पा᳘त्राणि निर्णि᳘ज्योपवा᳘प्याग्निहोत्रीं᳘ दोहयित्वा प᳘श्यन्प᳘श्यतस्तर्पयामी᳘ति त्वं ने᳘दिष्ठं याज्ञवल्क्याग्निहोत्र᳘स्यामीमांसिष्ठा धेनुशतं᳘ ददामी᳘ति होवाच नॗ त्वेॗवैनयोस्त्वमु᳘त्क्रात्रिं न ग᳘तिं न᳘ प्रतिष्ठां न तृ᳘प्तिं न पु᳘नरा᳘वृत्तिं न᳘ लोक᳘म् प्रत्युत्थायि᳘नमि᳘त्युक्त्वा र᳘थमास्था᳘य प्रधावयां᳘ चकार॥
मूलम् - विस्वरम्
अथ होवाच याज्ञवल्क्यः । यदहमग्निहोत्रमुद्धरामि । अग्निहोत्रमेव तदुद्यच्छामि । आदित्यं वा अस्तं यंतं सर्वे देवा अनुयन्ति । ते म एतमग्निमुद्धृतं दृष्ट्वोपावर्तंते । अथाहं पात्राणि निर्णिज्योपवाप्याग्निहोत्रीं दोहयित्वा पश्यन् पश्यतस्तर्पयामीति । त्वं नेदिष्ठं याज्ञवल्क्याग्निहोत्रस्यामीमांसिष्ठाः । धेनुशतं ददामीति होवाच । न त्वेवैनयोस्त्वमुत्क्रांतिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनम्, इत्युक्त्वा रथमास्थाय प्रधावयांचकार ॥ ४ ॥
सायणः
अथ याज्ञवल्क्यः स्वमतमुक्तवानित्याह- अथ होवाचेति । यदहमित्यादि । हे जनक ! ‘यत्’ यदा आहवनीयमग्निं गार्हपत्यादहमुद्धरामि । तत्तदानीं ‘कृत्स्नं’ अंगोपांगसहितं ‘अग्निहोत्रमेव’ ‘उद्यच्छामि’ उद्गृह्णामि । एतदेवोद्यमनं प्रतिपादयति- आदित्यं वा अस्तं यंतमित्यादिना । ‘अस्तं’ गच्छंतमादित्यं अन्ये ‘सर्वे देवाः’ ‘अनुयन्ति’ अनुगच्छंति । ‘ते’ सर्वे मदीयमेवमग्निमुद्धृतं ‘दृष्ट्वा’ नूनमसावग्निहोत्रं होष्यतीत्यभिप्रायेण पुनरावर्तंते । ‘अथ’ तेषु उपावृत्तेषु ‘अहं पात्राणि’ स्रुक्स्रुवादीनि ‘निर्णिज्य’ प्रक्षाल्य ‘उपवाप्य’ निधाय ‘अग्निहोत्रीं’ गां ‘दोहयित्वा’ ‘पश्यन्’ सन् तान् देवान् साक्षीकुर्वन् पश्यतस्तान् हविषा ‘तर्पयामि’ इत्येवं याज्ञवल्क्येन स्वाभिमते अग्निहोत्रस्वरूपे अभिहिते जनकेन यत् कृतम् तद्दर्शयति- हे याज्ञवल्क्य ! त्वं ‘नेदिष्ठं’ अन्तिकतमं अतिशयेन सम्यक् ‘अग्निहोत्रस्य’ स्वरूपं ‘अमीमांसिष्ठाः’ विचारितवानसि । “मान पूजायाम्” (धा. पा. भ्वा. प. ९९७) इत्यस्मात् “मान्बधदान् शान्भ्यः” (पा. सू. ३ । १ । ६) इति सन्, अभ्यासस्य च दीर्घत्वम् । “मानेर्जिज्ञासायाम्” (पा. सू. ३ । १ । ६ वा.) इति परिगणनात् विचारार्थता । हे याज्ञवल्क्य ! विदुषे तुभ्यं धेनूनां शतं पारितोषिकं ‘ददामि’ ‘इति’ खलु तदानीं जनकः ‘उवाच’ । एवं त्रिषु ब्राह्मणेषु स्वाभिमतमग्निहोत्ररूपमुक्तवत्सु जनकः स्वावगतं उत्क्रांतिगत्यादिकं याज्ञवल्क्यो ऽपि न जानातीत्यनुक्रामति- न त्वेवैनयोरिति । तुशब्दः पक्षं व्यावर्तयति । नैव ‘अनयोः’ अग्निहोत्राहुत्योर्याज्ञवल्क्य ! त्वं ‘उत्क्रांतिं’ उत्क्रमणरूपं जानासि । ‘न गतिं’ गमनम् । ‘प्रतिष्ठां’ अनयोरास्पदं न जानासि । तृप्तिस्तर्पणम् । ‘पुनरावृत्तिः’ पुनरावर्तनम् । प्रतिलक्ष्योस्थानशीलः प्रत्युत्थायी तादृशलोकं न जानासीति सर्वत्र संबंधः । एवमुक्त्वा ‘रथमास्थाय’ अनुरुह्य जनकः ‘प्रधावयांचकार’ स्वां पुरीं प्रतिजगामेत्यर्थः ॥ ४ ॥
Eggeling
- Then Yājñavalkya said, ‘When I take out the fire (from the Gārhapatya), it is the Agnihotra itself, I thereby raise 5 Now when Āditya (the sun) sets, all the gods follow him; and when they see that fire taken out by me, they turn back. Having then cleansed the (sacrificial) vessels, and deposited them (on the Vedi), and having milked the Agnihotra cow, I gladden them, when I see them, and when they see me.’–‘Thou, O Yājñavalkya, hast inquired most closely into the nature of the Agnihotra,’ said the king; ‘I bestow a hundred cows on thee. But not even thou (knowest) either the uprising, or the progress, or the support, or the contentment, or the return, or the renascent world of those two (libations of the Agnihotra).’ Thus saying, he mounted his car and drove away.
०५
विश्वास-प्रस्तुतिः
ते᳘ होचुः॥
(र᳘) अ᳘ति वै᳘ नो ऽय᳘ᳫँ᳘ राज᳘न्यबन्धुरवादीद्ध᳘न्तैनम्ब्रह्मो᳘द्यमाह्व᳘यामहा ऽइ᳘ति[[!!]] स᳘ होवाच या᳘ज्ञवल्क्यो ब्राह्मणा वै᳘ व्वय᳘ᳫँ᳘ स्मो राज᳘न्यबन्धुरसौ[[!!]] य᳘द्यमु᳘म्वयञ्ज᳘येम क᳘मजैष्मे᳘ति ब्रूयामा᳘थ य᳘द्यसा᳘वस्माञ्ज᳘येद्ब्राह्मणा᳘न्राज᳘न्यबन्धुरजैषीदि᳘ति[[!!]] नो ब्रूयु᳘र्म्मेदमा᳘दृढ्वमि᳘ति त᳘द्धास्य जज्ञुर᳘थ ह या᳘ज्ञवल्क्यो र᳘थमास्था᳘यानुप्रधावया᳘ञ्चकार त᳘ᳫँ᳘ हान्वा᳘जगाम स᳘ होवाचाग्निहोत्रं᳘ याज्ञवल्क्य व्वे᳘दितू ३ मि᳘त्यग्निहोत्र᳘ᳫँ᳘ सम्म्राडि᳘ति॥
मूलम् - श्रीधरादि
ते᳘ होचुः॥
(र᳘) अ᳘ति वै᳘ नो ऽय᳘ᳫँ᳘ राज᳘न्यबन्धुरवादीद्ध᳘न्तैनम्ब्रह्मो᳘द्यमाह्व᳘यामहा ऽइ᳘ति[[!!]] स᳘ होवाच या᳘ज्ञवल्क्यो ब्राह्मणा वै᳘ व्वय᳘ᳫँ᳘ स्मो राज᳘न्यबन्धुरसौ[[!!]] य᳘द्यमु᳘म्वयञ्ज᳘येम क᳘मजैष्मे᳘ति ब्रूयामा᳘थ य᳘द्यसा᳘वस्माञ्ज᳘येद्ब्राह्मणा᳘न्राज᳘न्यबन्धुरजैषीदि᳘ति[[!!]] नो ब्रूयु᳘र्म्मेदमा᳘दृढ्वमि᳘ति त᳘द्धास्य जज्ञुर᳘थ ह या᳘ज्ञवल्क्यो र᳘थमास्था᳘यानुप्रधावया᳘ञ्चकार त᳘ᳫँ᳘ हान्वा᳘जगाम स᳘ होवाचाग्निहोत्रं᳘ याज्ञवल्क्य व्वे᳘दितू ३ मि᳘त्यग्निहोत्र᳘ᳫँ᳘ सम्म्राडि᳘ति॥
मूलम् - Weber
ते᳘ होचुः॥
अ᳘ति वै᳘ नोऽयं᳘ राजन्य᳘बन्धुरवादीद्ध᳘न्तैनम् ब्रह्मो᳘द्यमाह्व᳘यामहा इ᳘ति स᳘ होवाच या᳘ज्ञवल्क्यो ब्राह्मणा वै᳘ वय᳘ᳫं᳘ स्मो राजन्य᳘बन्धुरसौ य᳘द्यमुं᳘ वयं ज᳘येम क᳘मजैष्मे᳘ति ब्रूयामा᳘थ य᳘द्यसा᳘वस्मान्ज᳘येद्ब्राह्मणा᳘न्राजन्य᳘बन्धुरजैषीदि᳘ति नो ब्रूयुॗर्मेदमा᳘दृढ्वमि᳘ति त᳘द्धास्य जज्ञुर᳘थ ह या᳘ज्ञवल्क्यो र᳘थमास्ता᳘यानुप्रधावयां᳘ चकार त᳘ᳫं᳘ हान्वा᳘जगाम स᳘ होवाचाग्निहोत्रं᳘ याज्ञवल्क्य वे᳘दितू३मि᳘त्यग्निहोत्र᳘ᳫं᳘ सम्राडि᳘ति॥
मूलम् - विस्वरम्
ते होचुः- अति वै नो ऽयं राजन्यबंधुररवादीत् । हंत ! एनं ब्रह्मोद्यमाह्नयामहा इति । स होवाच याज्ञवल्क्यः- ब्राह्मणा वै वयं स्मः । राजन्यबंधुरसौ । यद्यमुं वयं जयेम; कमजैष्मेति ब्रूयाम । अथ यद्यसावस्मान् जयेत् । ब्राह्मणान् राजन्यबंधुरजैषीदिति नो ब्रूयुः । मेदमादृढ्वमिति । तद्धास्य जज्ञुः । अथ ह याज्ञवल्क्यो रथमास्थायानुप्रधावयांचकार । तं हान्वाजगाम । स होवाच । अग्निहोत्रं याज्ञवल्क्य वेदितू ३ मिति । अग्निहोत्रं सम्राडिति ॥ ५ ॥
सायणः
एवमुक्त्वा यानमारुह्य निर्गते राजनि क्रुद्धा ब्राह्मणाः किं कृतवंत ? इत्याह- ते होचुरित्यादिना । निकृष्टो राजन्यः ‘राजन्यबंधुः’ । क्रोधवशात् तस्य निकृष्टत्वारोपः । ‘अयं’ ‘राजन्यबंधुः’ ‘नः’ अस्माकं यज्ञं ‘अत्यवादीत्’ अस्मत्तः अतिशयेनोक्तवान् । ‘हंत’ इति खेदे । ‘एनं’ राजन्यबंधुम् । ‘ब्रह्मोद्यं’ ब्रह्मविषये वादं कर्तुं ‘आह्वयामहै’ । तत्र चायं पराजितो भविष्यतीत्यभिप्रायः । स होवाचेत्यादि । तेषां मध्ये ‘सः’ खलु ‘याज्ञवल्क्यः उवाच’ उक्तवान् । वयं ब्राह्मणाः खलु भवामः । ‘असौ’ जनकः क्षत्त्रियः । ‘यदि अमुं’ जनकं ब्रह्मोद्येन ‘वयं जयेम’ । तर्हि ‘कं’ पुरुषं ‘अजैष्मेति ब्रूयाम’ । वर्णतो निकृष्टत्वादसौ अस्माभिर्जेतुमनर्ह इत्यर्थः । ‘यदि’ चासौ जनक एवास्मान् ‘जयेत्’ । तदा ‘राजन्यबन्धुः’ क्षत्त्रियः ‘ब्राह्मणान् अजैषीत्’ ‘इति नः’ अस्माकं ‘अयशः’ सर्वे जना ब्रूयुरित्यर्थः । अतः ‘इदं’ ब्रह्मोद्याह्वानं ‘मा आदृढ्वं’ नाद्रियध्वमित्यर्थः । कथं तर्हि राजन्यबंधुनोक्तं अर्थजातं वयं जानीम इति विचार्य तत्कारणं ऋषयो दृष्टवंत इत्याह-तद्धास्येति । अस्योक्तस्यार्थजातस्यावगमनकारणं ज्ञातवंत इत्यर्थः । तदेव प्रदर्श्यते- अथ ह याज्ञवल्क्य इति । ‘अथ’ एवंविचारानंतरमेव ‘याज्ञवल्क्यः’ महर्षिः स्वकीयं रथमारुह्य ‘अनुप्रधावयांचकार’ शीघ्रमनुजगाम । ‘तं’ जनकं ‘अन्वाजगाम’ तं ‘जनकं’ अन्वाजगाम’ अनुप्राप । ‘सः’ च गत्वा आगतं याज्ञवल्क्यं दृष्ट्वा च उक्तवान् । हे याज्ञवल्क्य ! किमग्निहोत्रं ‘वेदितुं’ ज्ञातुं आगतो ऽसीति । प्रश्नार्थे वाक्यस्य टेः प्लुतः । हे ‘सम्राट् !’ अग्निहोत्रं’ वेदितुं आगतो ऽस्मीति याज्ञवल्क्यस्य प्रतिवचनम् ॥ ५ ॥
Eggeling
- They said, ‘Surely, this fellow of a Rājanya has outtalked us: come, let us challenge him to
a theological disputation!’ Yājñavalkya said, ‘We are Brāhmaṇas, and he is a Rājanya: if we were to vanquish him, whom should we say we had vanquished? But if he were to vanquish us, people would say of us that a Rājanya had vanquished Brāhmaṇas: do not think of this!’ They approved of his words. But Yājñavalkya, mounting his car, drove after (the king). He overtook him, and he (the king) said, ‘Is it to know the Agnihotra, Yājñavalkya?’–‘The Agnihotra, O king!’ he replied.
०६
विश्वास-प्रस्तुतिः
ते वा᳘ ऽएते᳘ ऽआ᳘हुती हुते ऽउ᳘त्क्रामतः॥ (स्ते᳘) ते᳘ ऽअन्त᳘रिक्षमा᳘विशतस्ते᳘ ऽअन्त᳘रिक्षमे᳘वाहवनी᳘यङ्कुर्व्वा᳘ते व्वायु᳘ᳫँ᳘ समि᳘धम्म᳘रीचीरेव᳘ शुक्रामा᳘हुतिन्ते᳘ ऽअन्त᳘रिक्षन्त᳘र्प्पयतस्ते त᳘त ऽउ᳘त्क्रामतः॥
मूलम् - श्रीधरादि
ते वा᳘ ऽएते᳘ ऽआ᳘हुती हुते ऽउ᳘त्क्रामतः॥ (स्ते᳘) ते᳘ ऽअन्त᳘रिक्षमा᳘विशतस्ते᳘ ऽअन्त᳘रिक्षमे᳘वाहवनी᳘यङ्कुर्व्वा᳘ते व्वायु᳘ᳫँ᳘ समि᳘धम्म᳘रीचीरेव᳘ शुक्रामा᳘हुतिन्ते᳘ ऽअन्त᳘रिक्षन्त᳘र्प्पयतस्ते त᳘त ऽउ᳘त्क्रामतः॥
मूलम् - Weber
ते वा᳘ एते᳟॥
आ᳘हुती हुते उ᳘त्क्रामतः ते᳘ अन्त᳘रिक्षमा᳘विशतस्ते᳘ अन्त᳘रिक्षमेॗवाहवनी᳘यं कुर्वा᳘ते वायु᳘ᳫं᳘ समि᳘धम् म᳘रीचीरेव᳘ शुक्रामा᳘हुतिं ते᳘ अन्त᳘रिक्षं तर्पयतस्ते त᳘त उ᳘त्क्रामतः॥
मूलम् - विस्वरम्
ते वा एते आहुती हुते उत्क्रामतः । ते अंतरिक्षमाविशतः । ते अंतरिक्षमेवाहवनीयं कुर्वाते । वायुं समिधम् । मरीचीरेव शुक्रामाहुतिम् । ते अंतरिक्षं तर्पयतः । ते तत उत्क्रामतः ॥ ६ ॥
सायणः
अथ जनकः प्राक् अज्ञातत्वेन आत्मना उपन्यस्तान् उत्क्रांत्यादीन् तस्मै याज्ञवल्क्याय कथयति- ते वा एते इति । ‘ते’ त्वया उक्ते ‘एते’ सायंप्रातःकालीने अग्निहोत्राहुती ‘हुते’ अग्नौ प्रक्षिप्ते सत्यौ ‘उत्क्रामतः’ ऊर्ध्वं गच्छतः । ‘ते अंतरिक्षं’ लोकं ‘आविशतः’ प्रविशतः । अनंतरं ‘ते’ आहुती अंतरिक्षलोकमेव आहवनीयाग्निं ‘कुर्वाते’ । अंतरिक्षलोकस्याहवनीयत्वे तत्र यो वायुः तं ‘वायुं’ समिद्रूपेण कुरुतः । तथा मरीचयः सूर्यरश्मयः । ता एव ‘शुक्रां’ निर्मलां ‘आहुतिं’ कुरुतः । एवंभूताः ‘ते’ आहुती ‘अन्तरिक्षं’ लोकं ‘तर्पयतः’ । तस्मादन्तरिक्षात् ‘ते’ आहुती ‘उत्क्रामतः’ निष्क्रामतः ऊर्ध्वं गच्छतः ॥ ६ ॥
Eggeling
- ‘Well, those two libations, when offered, rise upwards: they enter the air, and make the air their offering-fire, the wind their fuel, the sun-motes their pure libation: they satiate the air, and rise upwards therefrom.
०७
विश्वास-प्रस्तुतिः
(स्ते) ते दि᳘वमा᳘विशतः॥
(स्ते᳘) ते᳘ दि᳘वमे᳘वाहवनी᳘यङ्कुर्व्वा᳘ते ऽआदित्य᳘ᳫँ᳘ समि᳘धञ्चन्द्र᳘मसमेव᳘ शुक्रामा᳘हुतिन्ते दि᳘वन्तर्प्पयतस्ते त᳘त ऽआ᳘वर्तेते॥
मूलम् - श्रीधरादि
(स्ते) ते दि᳘वमा᳘विशतः॥
(स्ते᳘) ते᳘ दि᳘वमे᳘वाहवनी᳘यङ्कुर्व्वा᳘ते ऽआदित्य᳘ᳫँ᳘ समि᳘धञ्चन्द्र᳘मसमेव᳘ शुक्रामा᳘हुतिन्ते दि᳘वन्तर्प्पयतस्ते त᳘त ऽआ᳘वर्तेते॥
मूलम् - Weber
ते दि᳘वमा᳘विशतः॥
ते दि᳘वमेॗवाहवनी᳘यं कुर्वा᳘ते आदित्य᳘ᳫं᳘ समि᳘धं चन्द्र᳘मसमेव᳘ शुक्रामा᳘हुतिं ते दि᳘वं तर्पयतस्ते त᳘त आ᳘वर्तेते॥
मूलम् - विस्वरम्
ते दिवमाविशतः । ते दिवमेवाहवनीयं कुर्वाते । आदित्यं समिधम् । चन्द्रमसमेव शुक्रामाहुतिम् । ते दिवं तर्पयतः । ते तत आवर्तेते ॥ ७ ॥
सायणः
उत्क्रम्य च ‘ते’ आहुती ‘दिवं’ द्युलोकं स्वर्गाख्यं ‘आविशतः’ । ते दिवमेवेत्यादि । पूर्वेण समानार्थम् । अत्रोत्क्रामत इति उत्क्रांतिरुक्ता । अंतरिक्षमाविशत इति गतिरुक्ता । अंतरिक्षमेवाहवनीयं कुर्वाते इत्यादिना प्रतिष्ठा उक्ता । अंतरिक्षं तर्पयत इति तृप्तिः । अथ पुनरावृत्तिं कथयति । द्युलोकस्य प्रीणनानंतरं ततस्तस्मात् द्युलोकात् ‘ते’ आहुती ‘आवर्तेते’ ॥ ७ ॥
Eggeling
- ‘They enter the sky, and make the sky their offering-fire, the sun their fuel, and the moon their pure libation: they satiate the sky, and return from there.
०८
विश्वास-प्रस्तुतिः
ते᳘ ऽइमामा᳘विशतः॥
(स्ते᳘ ऽ) ते᳘ ऽइमा᳘मे᳘वाहवनी᳘यङ्कुर्व्वा᳘ते ऽअग्नि᳘ᳫँ᳘ समि᳘धमो᳘षधीरेव᳘ शुक्रामा᳘हुतिन्ते᳘ ऽइमा᳘न्तर्प्पयतस्ते त᳘त ऽउ᳘त्क्रामतः॥
मूलम् - श्रीधरादि
ते᳘ ऽइमामा᳘विशतः॥
(स्ते᳘ ऽ) ते᳘ ऽइमा᳘मे᳘वाहवनी᳘यङ्कुर्व्वा᳘ते ऽअग्नि᳘ᳫँ᳘ समि᳘धमो᳘षधीरेव᳘ शुक्रामा᳘हुतिन्ते᳘ ऽइमा᳘न्तर्प्पयतस्ते त᳘त ऽउ᳘त्क्रामतः॥
मूलम् - Weber
ते᳘ इमामा᳘विशतः॥
ते᳘ इमा᳘मेॗवाहवनी᳘यं कुर्वा᳘ते अग्नि᳘ᳫं᳘ समि᳘धमो᳘षधीरेव᳘ शुक्रामा᳘हुतिं ते᳘ इमां᳘ तर्पयतस्ते त᳘त उ᳘त्क्रामतः॥
मूलम् - विस्वरम्
ते इमामाविशतः । ते इमामेवाहवनीयं कुर्वाते । अग्निं समिधम् । ओषधीरेव शुक्रामाहुतिम् । ते इमां तर्पयतः । ते तत उत्क्रामतः ॥ ८ ॥
सायणः
आवर्तमाने च ते ‘इमां’ पृथिवीं ‘आविशतः’ । ते इमामेवाहवनीयं कुर्वाते इत्यादि व्याख्यातप्रायम् । भूमिरेवाहवनीयो ऽग्निः । तदधिष्ठाता अग्निरेव समित् । तत्रत्या औषधय एव शुक्रा शुक्ला आहुतिः । ईदृशी ‘ते’ आहुती ‘इमां’ पृथिवीं ‘तपर्यतः’ ततस्तस्याः पृथिव्याः सकाशात् ‘ते’ आहुती ‘उत्क्रामतः’ ॥ ८ ॥
Eggeling
- ‘They enter this (earth), and make this (earth) their offering-fire, the fire their fuel, and the herbs their pure libation: they satiate this (earth), and rise upwards therefrom.
०९
विश्वास-प्रस्तुतिः
(स्ते) ते पु᳘रुषमा᳘विशतः॥
(स्त᳘) त᳘स्य मु᳘खमे᳘वाहवनी᳘यङ्कुर्व्वा᳘ते जिह्वा᳘ᳫँ᳘ समि᳘धम᳘न्नमेव᳘ शुक्रामा᳘हुतिन्ते पु᳘रुषन्तर्प्पयतः स य᳘ ऽएवं᳘ व्विद्वा᳘नश्ना᳘त्यग्निहोत्र᳘मे᳘वास्य हुत᳘म्भवति ते त᳘त ऽउ᳘त्क्रामतः॥ [अर्द्धप्रपाठकः॥कं ५१॥]
मूलम् - श्रीधरादि
(स्ते) ते पु᳘रुषमा᳘विशतः॥
(स्त᳘) त᳘स्य मु᳘खमे᳘वाहवनी᳘यङ्कुर्व्वा᳘ते जिह्वा᳘ᳫँ᳘ समि᳘धम᳘न्नमेव᳘ शुक्रामा᳘हुतिन्ते पु᳘रुषन्तर्प्पयतः स य᳘ ऽएवं᳘ व्विद्वा᳘नश्ना᳘त्यग्निहोत्र᳘मे᳘वास्य हुत᳘म्भवति ते त᳘त ऽउ᳘त्क्रामतः॥ [अर्द्धप्रपाठकः॥कं ५१॥]
मूलम् - Weber
ते पु᳘रुषमा᳘विशतः॥
त᳘स्य मु᳘खमेॗवाहवनी᳘यं कुर्वा᳘ते जिह्वा᳘ᳫं᳘ समि᳘धम᳘न्नमेव᳘ शुक्रामा᳘हुतिं ते पु᳘रुषं तर्पयतः स य᳘ एवं᳘ विद्वा᳘नश्ना᳘त्यग्निहोत्र᳘मेॗवास्य हुत᳘म् भवति ते त᳘त उ᳘त्क्रामतः॥
मूलम् - विस्वरम्
ते पुरुषमाविशतः । तस्य मुखमेवाहवनीयं कुर्वाते । जिह्वां समिधम् । अन्नमेव शुक्रामाहुतिम् । ते पुरुषं तर्पयतः । स य एवं विद्वानश्नाति । अग्निहोत्रमेवास्य हुतं भवति । ते तत उत्क्रामतः ॥ ९ ॥
सायणः
उत्क्रम्य च ‘ते’ पुरुषं प्रविशतः । ‘तस्य’ मुखमेवाहवनीयो ऽग्निः । जिह्वैव समित् । तेन भुज्यमानमन्नमेव शुक्रा शुद्धा आहुतिः । एतद्वेदनस्यावांतरफलमाह- स य एवं विद्वानिति । एवमनेन प्रकारेण मुखादेरावहनीयादिरूपतां जानन् ‘अश्नाति’ । ‘अस्य’ पुरुषस्य तत्सर्वमग्निहोत्रात्मकमेव ‘हुतं’ भवति । ते तत उत्क्रामत इत्यादि । ‘ततः’ पुरुषात् ‘ते’ आहुती ‘उत्क्रामतः’ ॥ ९ ॥
Eggeling
- ‘They enter man, and make his mouth their offering-fire, his tongue their fuel, and food their pure libation: they satiate man; and, verily, for him who, knowing this, eats food the Agnihotra comes to be offered. They rise upwards from there.
१०
विश्वास-प्रस्तुतिः
(स्ते) ते स्त्रि᳘यमा᳘विशतः॥
(स्त᳘) त᳘स्या ऽउप᳘स्थमे᳘वाहवनी᳘यङ्कुर्व्वा᳘ते धा᳘रकाᳫँ᳭ समि᳘धन्धा᳘रका ह वै ना᳘मै᳘षैत᳘या ह वै᳘ प्रजा᳘पतिः प्रजा᳘ धारया᳘ञ्चकार रे᳘त ऽएव᳘ शुक्रामा᳘हुतिन्ते स्त्रि᳘यन्तर्प्पयतः स य᳘ ऽएवं᳘ व्विद्वा᳘न्मिथुन᳘मुपै᳘त्यग्निहोत्र᳘मे᳘वास्य हुत᳘म्भवति यस्त᳘तः पु᳘त्रो जा᳘यते स᳘ लोकः᳘ प्रत्युत्था᳘य्येत᳘दग्निहोत्रं᳘ याज्ञवल्क्य नातः[[!!]] प᳘रतरमस्ती᳘ति होवाच त᳘स्मै ह या᳘ज्ञवल्क्यो व्व᳘रं ददौ स᳘ होवाच कामप्रश्न᳘ ऽएव᳘ मे त्व᳘यि याज्ञवल्क्यासदि᳘ति त᳘तो ब्रह्मा᳘ जनक᳘ ऽआस॥
मूलम् - श्रीधरादि
(स्ते) ते स्त्रि᳘यमा᳘विशतः॥
(स्त᳘) त᳘स्या ऽउप᳘स्थमे᳘वाहवनी᳘यङ्कुर्व्वा᳘ते धा᳘रकाᳫँ᳭ समि᳘धन्धा᳘रका ह वै ना᳘मै᳘षैत᳘या ह वै᳘ प्रजा᳘पतिः प्रजा᳘ धारया᳘ञ्चकार रे᳘त ऽएव᳘ शुक्रामा᳘हुतिन्ते स्त्रि᳘यन्तर्प्पयतः स य᳘ ऽएवं᳘ व्विद्वा᳘न्मिथुन᳘मुपै᳘त्यग्निहोत्र᳘मे᳘वास्य हुत᳘म्भवति यस्त᳘तः पु᳘त्रो जा᳘यते स᳘ लोकः᳘ प्रत्युत्था᳘य्येत᳘दग्निहोत्रं᳘ याज्ञवल्क्य नातः[[!!]] प᳘रतरमस्ती᳘ति होवाच त᳘स्मै ह या᳘ज्ञवल्क्यो व्व᳘रं ददौ स᳘ होवाच कामप्रश्न᳘ ऽएव᳘ मे त्व᳘यि याज्ञवल्क्यासदि᳘ति त᳘तो ब्रह्मा᳘ जनक᳘ ऽआस॥
मूलम् - Weber
ते स्त्रि᳘यमा᳘विशतः॥
त᳘स्या उप᳘स्थमेॗवाहवनी᳘यं कुर्वा᳘ते धा᳘रकाᳫं समि᳘धं धा᳘रका ह वै ना᳘मैॗषैत᳘या ह वै᳘ प्रजा᳘पतिः प्रजा᳘ धारयां᳘ चकार रे᳘त एव᳘ शुक्रामा᳘हुतिं ते स्त्रि᳘यं तर्पयतः स य᳘ एवं᳘ विद्वा᳘न्मिथुन᳘मुपै᳘त्यग्निहोत्र᳘मेॗवास्य हुत᳘म् भवति यस्त᳘तः पुत्रो जा᳘यते स᳘ लोकः᳘ प्रत्युत्थाॗय्येत᳘दग्निहोत्रं᳘ याज्ञवल्क्य ना᳘तः प᳘रमस्ती᳘ति होवाच त᳘स्मै ह या᳘ज्ञवल्क्यो व᳘रं ददौ स᳘ होवाच कामप्रश्न᳘ एव᳘ मे त्व᳘यि याज्ञवल्क्यासदि᳘ति त᳘तो ब्रह्मा᳘ जनक᳘ आस॥
मूलम् - विस्वरम्
ते स्त्रियमाविशतः । तस्या उपस्थमेवाहवनीयं कुर्वाते । धारकां समिधम् । धारका ह वै नामैषा । एतया ह वै प्रजापतिः प्रजा धारयांचकार । रेत एव शुक्रामाहुतिम् । ते स्त्रियं तर्पयतः । स य एवं विद्वान् मिथुनमुपैति । अग्निहोत्रमेवास्य हुतं भवति । यस्ततः पुत्रो जायते । स लोकः प्रत्युत्थायी । एतदग्निहोत्रं याज्ञवल्क्य ! नातः परतरमस्ति, इति होवाच । तस्मै ह याज्ञवल्क्यो वरं ददौ । स होवाच- कामप्रश्न एव मे त्वयि याज्ञवल्क्यासदिति । ततो ब्रह्मा जनक आस ॥ १० ॥
सायणः
‘ते स्त्रियमाविशतः’ । तत्राप्याहवनीयादीन् संपादयति- तस्या उपस्थमेवेति । स्त्रीसंबंधि यत्प्रजननं स आहवनीयो ऽग्निः । ‘धारकां समिधम्’ इति । तस्य प्रजननस्य या धारका श्रोणिः ताम् ‘समिधं कुर्वाते’ । धारकाख्यां निर्ब्रूते- धारका ह वा इति । एतया खलु श्रोण्या पुरा प्रजापतिः ‘प्रजा धारयांचकार’ धारितवान् । अतः अस्याः धारयत्यनयेति व्युत्पत्त्या धारकेति नाम संपन्नम् । तस्मिन्नुपस्थरूपे आहवनीये ऽग्नौ रेत एव ‘शुक्रा’ निर्मला ‘आहुतिः’ एवं ते अग्निहोत्राहुती स्त्रियामाविश्य तां ‘स्त्रियं तर्पयतः’ प्रीणयतः । एतद्वेदनस्य फलमाह- स य एवं विद्वानिति । उपस्थादेराहवनीयादिरूपतां ‘विद्वान्’ जानन् यः ‘मिथुनमुपैति’ स्त्रियमुपगच्छति । ‘अस्य’ तदग्निहोत्रमेव ‘हुतं भवति’ । ततस्तस्याः स्त्रियाः सकाशात् ‘यः पुत्रो जायते’ ‘सः’ प्रत्युत्थानशीलो लोकः । एतेन तं लोकं प्रत्युत्थायिनमिति प्रागुक्तमतिदिष्टं भवति । एवं जनकः स्वाभिमतं अग्निहोत्राहुत्योरुत्क्रांत्यादिकं प्रतिपाद्य उपसंहरति- एतदग्निहोत्रमिति । अस्मदुक्तप्रकारेणानुसंधीयमानं एतदेवाग्निहोत्रं कर्म । हे याज्ञवल्क्य ! अतो ऽस्मात् ‘परतरम्’ अधिकं ‘नास्तीति होवाच’ एवं जनकेन अग्निहोत्रस्वरूपविशेषे कथिते सति ‘तस्मै’ जनकाय ‘याज्ञवल्क्यः’ महर्षिः तुष्टः सन् ‘वरं ददौ’ । जनकः स्वाभिमतं वरं प्रार्थयते- स होवाचेति । हे याज्ञवल्क्य ! ‘त्वयि’ मम ’ कामप्रश्नः’ एव ‘यथाकामं’ प्रश्नः ‘एवासत्’ भवति । प्रष्टव्याप्रष्टव्यविभागो मा भूदित्यर्थः । ‘ततः’ याज्ञवल्क्यवरप्रदानादनन्तरं ‘सः’ जनकः ‘ब्रह्मा’ ब्रह्मिष्ठः संबभूव ॥ १० ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यंदिनीयशतपथब्राह्मणभाष्ये एकादशकांडे षष्ठे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (११ । ६ । २) ॥
Eggeling
- ‘They enter woman, and make her lap their offering-fire, her womb the fuel,–for that (womb) is called the bearer, because by it Prajāpati bore creatures,–and the seed their pure libation: they satiate woman; and, verily, for him who, knowing this, approaches his mate, the Agnihotra comes to
be offered. The son who is born therefrom is the renascent world: this is the Agnihotra, Yājñavalkya, there is nothing higher than this.’ Thus he spoke; and Yājñavalkya granted him a boon. He said, ‘Let mine be the (privilege of) asking questions of thee when I list, Yājñavalkya!’ Thenceforth Janaka was a Brahman.
-
वै᳘ वैदेहो P. ↩︎
-
112:1 Or, driving about (and officiating at sacrifices); see XI, 4, 1, 1. For a translation of this story see Max Müller, History of Ancient Sanskrit Literature, p. 421 seqq. ↩︎
-
विष्पं᳘दमाना A. विष्यं᳘दमाना P. ↩︎
-
112:2 Ādityaṁ sāyaṁkāle agnāv anupravishṭaṁ juhomi havishā tarpayāmi; athāgnir api gharmaḥ, sa prātar ādityam anupraviśati, tam agniṁ prātaḥkāle āditye sthitaṁ havishā prīṇayāmi, Sāy.–At II, 3, 1, 36, instead of–‘In the evening he offers Sūrya in Agni, and in the morning he offers Agni in Sūrya’–we ought probably to translate,–‘In the evening he makes offering to Sūrya in Agni, and in the morning he makes offering to Agni in Sūrya.’ The commentary there would admit of either rendering:–Agnir jyotir, iti mantreṇa juhvad agnāv eva santaṁ sūryaṁ juhoti, tathā ca gyotiḥśabdaḥ sūryavacanaḥ; prātaḥkāle tu sūrye santam agniṁ juhoti. ↩︎
-
113:1 Yad yadā āhavanīyaṁ gārhapatyād aham uddharāmi tat tadānīṁ kr̥tsnam aṅgopāṅgasahitam agnihotram eva udyacchāmi udvahāmi, Sāy. ↩︎