०१

विश्वास-प्रस्तुतिः

भृ᳘गुर्ह वै व्वा᳘रुणिः॥
(र्व्व᳘) व्व᳘रुणम्पित᳘रम्विद्यया᳘ ऽतिमेने त᳘द्ध व्व᳘रुणो व्विदा᳘ञ्चकारा᳘ति वै᳘ मा व्विद्य᳘या मन्यत ऽइ᳘ति॥

मूलम् - श्रीधरादि

भृ᳘गुर्ह वै व्वा᳘रुणिः॥
(र्व्व᳘) व्व᳘रुणम्पित᳘रम्विद्यया᳘ ऽतिमेने त᳘द्ध व्व᳘रुणो व्विदा᳘ञ्चकारा᳘ति वै᳘ मा व्विद्य᳘या मन्यत ऽइ᳘ति॥

मूलम् - Weber

भृ᳘गुर्ह वै वा᳘रुणिः॥
व᳘रुणम् पित᳘रं विद्यया᳘तिमेने त᳘द्ध व᳘रुणो विदां᳘ चकारा᳘तिवै᳘ मा विद्य᳘या मन्यत इ᳘ति॥

मूलम् - विस्वरम्

भृगुर्ह वै वारुणिर्वरुणं पितरं विद्यया ऽतिमेने । तद्ध वरुणो विदांचकार । अति वै मा विद्यया मन्यत इति ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथ समिदाधानादीनां वनस्पत्यादिरूपफलप्राप्तिसाधनतां विवक्षुः आख्यायिकां रचयति- भृगुर्ह वै वारुणिरिति । ‘अतिमेने’ अतिक्रान्तमात्मानं मन्यते स्मेत्यर्थः । तद्ध वरुणं इत्यादि । निरिति । ‘तत्’ अतिक्रमणं ‘वरुणः’ ‘विदांचकार’ ज्ञातवान् ‘विद्यया’ खलु ‘मां’ अयं पुत्रः ‘अतिमन्यते’ अतिशयितमात्मानं मन्यत इति ॥ १ ॥

Eggeling
  1. Now, Bhr̥gu, the son of Varuṇa, deemed himself superior to his father Varuṇa in knowledge 1. Varuṇa became aware of this: ‘He deems himself superior to me in knowledge,’ he thought.

०२

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
प्रा᳘ङ्पुत्रक व्व्रजतात्त᳘त्र यत्प᳘श्येत᳘द्दृष्ट्वा᳘ दक्षिणा᳘ व्व्रजतात्त᳘त्र यत्प᳘श्येस्त᳘द्दृष्ट्वा᳘ प्रत्य᳘ग्व्रजतात्त᳘त्र यत्प᳘श्येस्त᳘द्दृष्ट्वो᳘दग्व्रजतात्त᳘त्र यत्प᳘श्येस्त᳘द्दृ᳘ष्ट्वैत᳘योः पू᳘र्व्वयोरु᳘त्तरम᳘न्ववान्तरदेश᳘म्व्रजतात्त᳘त्र यत्प᳘श्येस्त᳘न्म ऽआ᳘चक्षीथा ऽइ᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
प्रा᳘ङ्पुत्रक व्व्रजतात्त᳘त्र यत्प᳘श्येत᳘द्दृष्ट्वा᳘ दक्षिणा᳘ व्व्रजतात्त᳘त्र यत्प᳘श्येस्त᳘द्दृष्ट्वा᳘ प्रत्य᳘ग्व्रजतात्त᳘त्र यत्प᳘श्येस्त᳘द्दृष्ट्वो᳘दग्व्रजतात्त᳘त्र यत्प᳘श्येस्त᳘द्दृ᳘ष्ट्वैत᳘योः पू᳘र्व्वयोरु᳘त्तरम᳘न्ववान्तरदेश᳘म्व्रजतात्त᳘त्र यत्प᳘श्येस्त᳘न्म ऽआ᳘चक्षीथा ऽइ᳘ति॥

मूलम् - Weber

स᳘ होवाच॥
प्रा᳘ङ् पुत्रक व्रजतात्त᳘त्र यत्प᳘श्येत᳘द्दृष्ट्वा᳘ दक्षिणा᳘ व्रजतात्त᳘त्र यत्प᳘श्येस्त᳘द्दृष्ट्वा᳘ प्रत्य᳘ग्व्रजतात्त᳘त्र यत्प᳘श्येस्त᳘द्दृष्ट्वो᳘दग्व्रजतात्त᳘त्र यत्प᳘श्येस्त᳘द्दृॗष्ट्वैत᳘योः पू᳘र्वयोरु᳘त्तरम᳘न्ववान्तरदेशं᳘ व्रजतात्त᳘त्र यत्प᳘श्येस्त᳘न्म आ᳘चक्षीथा इ᳘ति॥

मूलम् - विस्वरम्

स होवाच- प्राङ् पुत्रक व्रजतात् । तत्र यत्पश्येः; तत् दृष्ट्वा दक्षिणा व्रजतात् । तत्र यत्पश्येः; तत् दृष्ट्वा प्रत्यग् व्रजतात् । तत्र यत्पश्येः; तत् दृष्ट्वोदग् व्रजतात् । तत्र यत्पश्येः; तत् दृष्ट्वैतयोः पूर्वयोरुत्तरमन्ववांतरदेशं व्रजतात् । तत्र यत्पश्येः; तन्म आचक्षीथा इति ॥ २ ॥

सायणः

अथ तस्य पुत्रस्य अहंकारं खण्डयितुं प्रागादिदिक्षु गत्वा तत्रत्यं दृष्टं ममाचक्ष्वेति पुत्रं नियुंक्ते- स होवाचेति । पुत्रकेति “अनुकंपायाम्”- (पा. सू. ५ । ३ । ६७) इति कन् । हे पुत्रक ! प्राङ्मुखः सन् प्राचीं दिशं ‘व्रजतात्’ व्रज । “तुह्योस्तातङ्” (पा. सू. ७ । १ । ३५) इति तातङादेशः । ‘तत्र’ प्राच्यां दिशि ‘यत्पश्येः’ यद्वस्तु द्रक्ष्यसि, ‘तत् दृष्ट्वा’ ‘दक्षिणा व्रजतात्’ दक्षिणां दिशं गच्छेत्यर्थः ! पूर्ववत् योज्यम् । एतयोरित्यादि । उदीच्यां दिशि प्ररिथतं दृष्ट्वा अनंतरमेव ‘एतयोः पूर्वयो’ प्रत्यगुदग्देशयोः ‘उत्तरमनु’ प्राप्तं दृष्ट्वा ‘अवांतरदेशं व्रजतात्’ । तत्रावांतरदेशे ‘यत् पश्येः’ । ‘तत्’ प्रागादिदिक्षु दृष्टं ‘आचक्षीथाः’ अवब्रूहि ॥ २ ॥

Eggeling
  1. He said, ‘Go thou eastward, my boy; and

having seen there what thou shalt see, go thou southwards; and having seen there what thou shalt see, go thou westward; and having seen there what thou shalt see, go thou northward; and having seen there what thou shalt see, go thou toward the northern of those two intermediate quarters in front 2, and tell me then what thou shalt see there.’

०३

विश्वास-प्रस्तुतिः

स᳘ ह त᳘त ऽएव प्राङ्प्र᳘वव्व्राज᳘॥
(जै᳘) ए᳘दु पु᳘रुषैः पु᳘रुषान्प᳘र्व्वाण्येषाम्पर्व्वशः᳘ सम्व्र᳘श्चम्पर्व्वशो᳘ व्विभ᳘जमानानिदं त᳘वेदम्ममे᳘ति स᳘ होवाच भीष्मं᳘ बत भोः पु᳘रुषान्वा᳘ ऽएतत्पु᳘रुषाः प᳘र्व्वाण्येषाम्पर्व्वशः᳘ सम्व्र᳘श्चम्प᳘र्व्वशो व्व्यभक्षते᳘ति[[!!]] ते᳘ होचुरित्थं वा᳘ ऽइ᳘मे ऽस्मा᳘नमु᳘ष्मिंल्लो᳘के ऽसचन्त ता᳘न्वय᳘मिद᳘मिह प्र᳘तिसचामहा ऽइ᳘ति स᳘ होवाचा᳘स्तीह प्रा᳘यश्चित्ती३रि᳘त्यस्ती᳘ति का᳘ ऽति पिता᳘ ते व्वेदे᳘ति॥

मूलम् - श्रीधरादि

स᳘ ह त᳘त ऽएव प्राङ्प्र᳘वव्व्राज᳘॥
(जै᳘) ए᳘दु पु᳘रुषैः पु᳘रुषान्प᳘र्व्वाण्येषाम्पर्व्वशः᳘ सम्व्र᳘श्चम्पर्व्वशो᳘ व्विभ᳘जमानानिदं त᳘वेदम्ममे᳘ति स᳘ होवाच भीष्मं᳘ बत भोः पु᳘रुषान्वा᳘ ऽएतत्पु᳘रुषाः प᳘र्व्वाण्येषाम्पर्व्वशः᳘ सम्व्र᳘श्चम्प᳘र्व्वशो व्व्यभक्षते᳘ति[[!!]] ते᳘ होचुरित्थं वा᳘ ऽइ᳘मे ऽस्मा᳘नमु᳘ष्मिंल्लो᳘के ऽसचन्त ता᳘न्वय᳘मिद᳘मिह प्र᳘तिसचामहा ऽइ᳘ति स᳘ होवाचा᳘स्तीह प्रा᳘यश्चित्ती३रि᳘त्यस्ती᳘ति का᳘ ऽति पिता᳘ ते व्वेदे᳘ति॥

मूलम् - Weber

स᳘ ह त᳘त एव प्राङ् प्र᳘वव्राज॥
ए᳘दु पु᳘रुषैः पु᳘रुषान्प᳘र्वाण्येषाम् पर्वशः᳘ संव्र᳘श्चम् पर्वशो᳘ विभ᳘जमानानिदं त᳘वेदम् ममे᳘ति स᳘ होवाच भीष्म᳘म् बत भोः पु᳘रुषान्न्वा᳘ 3 एतत्पु᳘रुषाः प᳘र्वाण्येषाᳫं संव्र᳘श्चम् पर्वशो व्य᳘भक्षते᳘ति ते᳘ होचुरित्थं वा᳘ इॗमेऽस्मा᳘नमु᳘ष्मिंलोॗकेऽसचन्त ता᳘न्वय᳘मिद᳘मिह प्र᳘तिसचामहा इ᳘ति स᳘ होवाचा᳘स्तीह प्रा᳘यश्चित्ती३रि᳘त्यस्ती᳘ति का᳘-ति पिता᳘ ते वेदे᳘ति॥

मूलम् - विस्वरम्

स ह तत एव प्राङ् प्रवव्राजैदु पुरुषैः पुरुषान्पर्वाण्येषां पर्वशः संव्रश्चं पर्वशो विभजमानान्, इदं तवेदं ममेति । स होवाच- भीष्मं बत भोः पुरुषान्वा एतत्पुरुषाः पर्वाण्येषां पर्वशः संव्रश्चं पर्वशो व्यभक्षतेति । ते होचुः- इत्थं वा इमे ऽस्मानमुष्मिन् लोके ऽसचंत । तान् वयमिदमिह प्रतिसचामहा इति । स होवाच- अस्तीह प्रायश्चित्ती ३ रिति । अस्तीति । का ऽति । पिता ते वेदेति ॥ ३ ॥

सायणः

इत्थं वरुणेन निरुक्तः ‘सः’ भृगुः ‘ततः’ अनन्तरमेव प्रागादिदिक्षु पर्यटनं कृतवानित्याह- स ह तत एवेत्यादिना । ‘प्रवव्राजैत्’ प्रवव्राजैव । एच्छब्दो ऽवधारणे । उशब्दश्चार्थे । तत् पूर्वस्यां दिशि व्रजित्वा इदमद्राक्षीदित्याह- पुरुषैः पुरुषानिति । ‘एषां’ पुरुषाणां संबंधीनि ‘पर्वाणि’ वपूंषि अवयवसंधीन् ‘पर्वशः संवृश्चम्’ पर्वणि पर्वणि संवृश्च्य संच्छिद्य ‘पर्वशः’ एकैकं पर्व ‘तवेदं ममेदं’ इत्यन्यैः ‘पुरुषैः’ ‘विभजमानान् पुरुषान्’ प्राच्यां दिशि दृष्ट्वा ‘सः’ खलु भृगुः ‘उवाच’ उक्तवान् । बतेति खेदे । ‘भीष्मं’ भयंकरं खलु एतत् भो पुरुषाः ! एवं भयकारणं दृष्टं विधत्ते- ‘पुरुषाः’ यूयं अन्यान् ‘पुरुषान् पर्वशः’ पर्वणि इदं तवेदं ममेति ‘व्यभक्षत’ विभक्तवंतः स्थ । किं कृत्वा ‘एषां’ पुरुषाणां ‘पर्वाणि’ अवयवसंधीन् । ‘पर्वशः’ पर्वणि पर्वणि ‘संवृश्चं’ संवृश्चय । इति भृगुणोक्ते सर्वे ‘ते’ विभक्तारः पुरुषा जनास्तं प्रत्यूचुः- ‘इमे’ विभज्यमानाः पुरुषाः ‘इत्थमेव अस्मान्’ ‘अमुष्मिन्’ परस्मिन् ‘लोके’ ‘असचंत’ प्राप्तवंतः “षच समवाये” (धा. पा. भ्वा. आ. १०२२) इति धातुः । अतस्तान् वैरनिर्यातनार्थं इदमिदानीं ‘वयं’ इहास्मिन् लोके ‘प्रतिसचामहै’ कृतसंव्रश्चनस्य प्रत्यर्पणेन संप्राप्नवामेत्यर्थः । एवमुक्ते सति ‘सः’ खलु भृगुरुवाच उक्तवान् । इहास्मिन् विषये का अस्ति प्रायश्चित्तिरिति । प्रश्नार्थे प्लुतिः । ‘सा अस्तीति" तस्य प्रतिवचनम् । पुनः पृच्छति- का ऽतीति । अस्मद्बुद्धिमतिक्रम्य वर्तमाना सा प्रायश्चित्तिः का किंरूपेत्यर्थः । पितेति प्रतिवचनम् । हे भृगो ! ‘ते’ तव ‘पिता वेद’ तां प्रायश्चित्तिं जानाति । एवमुत्तरेष्वपि पर्यायेषु योग्यम् ॥ ३ ॥

Eggeling
  1. He then went forth from thence eastward, and lo, men were dismembering men 4, hewing off their limbs one by one, and saying, ‘This to thee, this to me!’ He said, ‘Horrible! woe is me! men here have dismembered men, hewing off their limbs one by one!’ They replied, ‘Thus, indeed, these dealt with us in yonder world, and so we now deal with them in return.’ He said, ‘Is there no atonement for this?’–‘Yes, there is,’ they replied.–‘What is it?’–‘Thy father knows.’

०४

विश्वास-प्रस्तुतिः

स᳘ ह त᳘त ऽएव᳘ दक्षिणा प्र᳘वव्व्राज᳘॥
ए᳘दु पु᳘रुषैः पु᳘रुषान्प᳘र्व्वाण्येषाम्पर्व्वशः᳘ सङ्क᳘र्तम्पर्व्व्वशो᳘ व्विभ᳘जमानानिदन्त᳘वेदम्ममे᳘ति स᳘ होवाच भीष्म᳘म्बत भोः पु᳘रुषान्वा᳘ ऽएतत्पु᳘रुषाः प᳘र्व्वाण्येषाम्पर्व्वशः᳘ सङ्क᳘र्तम्पर्व्वशो व्व्यभक्षते᳘ति[[!!]] ते᳘ होचुरित्थम्वा᳘ ऽइमे ऽस्मा᳘नमु᳘ष्मिंल्लो᳘के ऽसचन्त ता᳘न्वय᳘मिद᳘मिह प्र᳘तिसचामहा ऽइ᳘ति स᳘ होवाचा᳘स्तीह प्रा᳘यश्चित्ती३रि᳘त्यस्ती᳘ति का᳘ ऽति पि᳘तैव᳘ ते व्वेदे᳘ति॥

मूलम् - श्रीधरादि

स᳘ ह त᳘त ऽएव᳘ दक्षिणा प्र᳘वव्व्राज᳘॥
ए᳘दु पु᳘रुषैः पु᳘रुषान्प᳘र्व्वाण्येषाम्पर्व्वशः᳘ सङ्क᳘र्तम्पर्व्व्वशो᳘ व्विभ᳘जमानानिदन्त᳘वेदम्ममे᳘ति स᳘ होवाच भीष्म᳘म्बत भोः पु᳘रुषान्वा᳘ ऽएतत्पु᳘रुषाः प᳘र्व्वाण्येषाम्पर्व्वशः᳘ सङ्क᳘र्तम्पर्व्वशो व्व्यभक्षते᳘ति[[!!]] ते᳘ होचुरित्थम्वा᳘ ऽइमे ऽस्मा᳘नमु᳘ष्मिंल्लो᳘के ऽसचन्त ता᳘न्वय᳘मिद᳘मिह प्र᳘तिसचामहा ऽइ᳘ति स᳘ होवाचा᳘स्तीह प्रा᳘यश्चित्ती३रि᳘त्यस्ती᳘ति का᳘ ऽति पि᳘तैव᳘ ते व्वेदे᳘ति॥

मूलम् - Weber

स᳘ ह त᳘त एव᳘ दक्षिणा प्र᳘वव्राज॥
ए᳘दु पु᳘रुषैः पु᳘रुषान्प᳘र्वाण्येषाम् पर्वशः᳘ संक᳘र्तम् पर्वशो᳘ विभ᳘जमानानिदं त᳘वेदम् ममे᳘ति स᳘ होवाच भीष्म᳘म् बत भोः पु᳘रुषान्न्वा᳘ एतत्पु᳘रुषाः पर्वाण्येषाम् पर्वशः᳘ संक᳘र्तम् पर्वशो व्य᳘भक्षते᳘ति ते᳘ होचुरित्थं वा᳘ इमेऽस्मा᳘नमु᳘ष्मिंलोॗकेऽसचन्त ता᳘न्वय᳘मिद᳘मिह प्र᳘तिसचामहा इ᳘ति स᳘ होवाचा᳘स्तीह प्रा᳘यश्चित्ती३रि᳘त्यस्ती᳘ति का᳘-ति पिॗतैव᳘ ते वेदे᳘ति॥

मूलम् - विस्वरम्

स ह तत एव दक्षिणा प्रवव्राजैदु पुरुषैः पुरुषान्पर्वाण्येषां पर्वशः संकर्तं पर्वशो विभजमानान्, इदं तवेदम्ममेति । स होवाच- भीष्मं बत भोः पुरुषान् वा एतत् पुरुषाः पर्वाण्येषां पर्वशः संकर्तं पर्वशो व्यभक्षतेति । ते होचुः- इत्थं वा इमे ऽस्मानमुष्मिन् लोके ऽसचंत । तान् वयमिदमिह प्रतिसचामहा इति । स होवाच- अस्तीह प्रायश्चित्ती ३ रिति । अस्तीति । का ऽति । पितैव ते वेदेति ॥ ४ ॥

सायणः

पर्वशः संकर्तमिति । “कृती छेदने” (धा. पा. तु. प. १५४) इति धातुः । अस्मात् णमुल् । पर्वणि पर्वणि सम्यक् कर्तनं कृत्वेत्यर्थः । अन्यत्समानं पूर्वेण ॥ ४ ॥

Eggeling
  1. He went forth from thence southward, and lo, men were dismembering men, cutting up their limbs one by one, and saying, ‘This to thee, this to me!’ He said, ‘Horrible! woe is me! men here have dismembered men, cutting up their limbs one by one!’ They replied, ‘Thus, indeed, these dealt with us in yonder world, and so we now deal with them in return.’ He said, ‘Is there no atonement for this?’–‘Yes, there is,’ they replied.–‘What is it?’–‘Thy father knows.’

०५

विश्वास-प्रस्तुतिः

स᳘ ह त᳘त ऽएव᳘ प्रत्यङ्प्र᳘वव्व्राज᳘॥
(जै᳘) ए᳘दु पु᳘रुषैः पु᳘रुषाँस्तूष्णीमा᳘सीनाँस्तूष्णीमा᳘सीनैरद्य᳘मानान्त्स᳘ होवाच भीष्मं᳘ बत भोः पु᳘रुषान्वा᳘ ऽएतत्पु᳘रुषास्तूष्णीमा᳘सीनाँस्तूष्णीमा᳘सीना ऽअदन्ती᳘ति ते᳘ होचुरित्थं वा᳘ इ᳘मे ऽस्मा᳘नमु᳘ष्मिंल्लो᳘के ऽसचन्त ता᳘न्वय᳘मिद᳘मिह प्र᳘तिसचामहा ऽइ᳘ति स᳘ होवाचा᳘स्तीह प्रा᳘यश्चित्ती३रि᳘त्यस्ती᳘ति का᳘ ऽति पि᳘तैव᳘ ते व्वेदे᳘ति॥

मूलम् - श्रीधरादि

स᳘ ह त᳘त ऽएव᳘ प्रत्यङ्प्र᳘वव्व्राज᳘॥
(जै᳘) ए᳘दु पु᳘रुषैः पु᳘रुषाँस्तूष्णीमा᳘सीनाँस्तूष्णीमा᳘सीनैरद्य᳘मानान्त्स᳘ होवाच भीष्मं᳘ बत भोः पु᳘रुषान्वा᳘ ऽएतत्पु᳘रुषास्तूष्णीमा᳘सीनाँस्तूष्णीमा᳘सीना ऽअदन्ती᳘ति ते᳘ होचुरित्थं वा᳘ इ᳘मे ऽस्मा᳘नमु᳘ष्मिंल्लो᳘के ऽसचन्त ता᳘न्वय᳘मिद᳘मिह प्र᳘तिसचामहा ऽइ᳘ति स᳘ होवाचा᳘स्तीह प्रा᳘यश्चित्ती३रि᳘त्यस्ती᳘ति का᳘ ऽति पि᳘तैव᳘ ते व्वेदे᳘ति॥

मूलम् - Weber

स᳘ ह त᳘त एव᳘ प्रत्यङ् प्र᳘वव्राज॥
ए᳘दु पु᳘रुषैः पु᳘रुषांस्तूष्णीमा᳘सीनांस्तूष्णीमा᳘सीनैरद्य᳘मानान्त्स᳘ होवाच भीष्म᳘म् बत भोः पु᳘रुषान्न्वा᳘ एतत्पु᳘रुषास्तूष्णीमा᳘सीनांस्तूष्णीमा᳘सीना अदन्ती᳘ति ते᳘ होचुरित्थं वा᳘ इॗमेऽस्मा᳘नमु᳘ष्मिंलोॗकेऽसचन्त ता᳘न्वय᳘मिद᳘मिह प्र᳘तिसचामहा इ᳘ति स᳘ होवाचा᳘स्तीह प्रा᳘यश्चित्ती३रि᳘त्यस्ती᳘ति का᳘-ति पिॗतैव᳘ ते वेदे᳘ति॥

मूलम् - विस्वरम्

स ह तत एव प्रत्यङ् प्रवव्राजैदु पुरुषैः पुरुषांस्तूष्णीमासीनांस्तूष्णीमासीनैरद्यमानान् । स होवाच- भीष्मं बत भोः पुरुषान्वा एतत्पुरुषास्तूष्णीमासीनाँस्तूष्णीमासीना अदंतीति । ते होचुः- इत्थं वा इमे ऽस्मानमुष्मिन् लोके ऽसचंत । तान् वयमिदमिह प्रतिसचामहा इति । स होवाच- अस्तीह प्रायश्चित्ती ३ रिति । अस्तीति । का ऽति । पितैव ते वेदेति ॥ ५ ॥

सायणः

एवं दक्षिणस्यां दिशि गमनमुक्त्वा अनंतरं प्रतीच्यां दिशि आह- स ह तत एवेति । ‘ततः’ दक्षिणदिग्गमनानंतरमेव । ‘सः’ खलु भृगुः प्रत्यङ्मुखः सन् प्रतीचीं दिशं ‘प्रवव्राज’ इत्यादि पूर्ववत् । तूष्णीमासीनानिति । ‘तूष्णीं’ वाग्व्यवहारपरित्यागेन उपविशतः पुरुषान् तथाविधपुरुषैरद्यमानानित्यर्थः । गतमन्यत् ॥ ५ ॥

Eggeling
  1. He went forth from thence westward, and lo, men, sitting still, were being eaten by men, sitting still! He said, ‘Horrible! woe is me! men, sitting still, are eating men, sitting still!’ They replied, ‘Thus, indeed, these have dealt with us in yonder world, and so we now deal with them in return.’ He said, ‘Is there no atonement for this? Yes, there is,’ they replied.–‘What is it? Thy father knows.’

०६

विश्वास-प्रस्तुतिः

स᳘ ह त᳘त ऽएवो᳘दङ्प्र᳘वव्राज᳘॥
(जै᳘) ए᳘दु पु᳘रुषैः पु᳘रुषानाक्रन्द᳘यत ऽआक्रन्द᳘यद्भिरद्य᳘मानान्त्स᳘ होवाच भीष्म᳘म्बत भोः पु᳘रुषान्वा᳘ ऽएतत्पु᳘रुषा ऽआक्रन्द᳘यत ऽआक्रन्द᳘यन्तो ऽदन्ती᳘ति ते᳘ होचुरित्थम्वा᳘ ऽइ᳘मे ऽस्मा᳘नमु᳘ष्मिंल्लो᳘के ऽसचन्त ता᳘न्वय᳘मिद᳘मिह प्र᳘तिसचामहा ऽइ᳘ति स᳘ होवाचा᳘ ऽस्तीह प्रा᳘यश्चित्ती३रि᳘त्यस्ती᳘ति का᳘ ऽति पि᳘तैव᳘ ते व्वेदे᳘ति॥

मूलम् - श्रीधरादि

स᳘ ह त᳘त ऽएवो᳘दङ्प्र᳘वव्राज᳘॥
(जै᳘) ए᳘दु पु᳘रुषैः पु᳘रुषानाक्रन्द᳘यत ऽआक्रन्द᳘यद्भिरद्य᳘मानान्त्स᳘ होवाच भीष्म᳘म्बत भोः पु᳘रुषान्वा᳘ ऽएतत्पु᳘रुषा ऽआक्रन्द᳘यत ऽआक्रन्द᳘यन्तो ऽदन्ती᳘ति ते᳘ होचुरित्थम्वा᳘ ऽइ᳘मे ऽस्मा᳘नमु᳘ष्मिंल्लो᳘के ऽसचन्त ता᳘न्वय᳘मिद᳘मिह प्र᳘तिसचामहा ऽइ᳘ति स᳘ होवाचा᳘ ऽस्तीह प्रा᳘यश्चित्ती३रि᳘त्यस्ती᳘ति का᳘ ऽति पि᳘तैव᳘ ते व्वेदे᳘ति॥

मूलम् - Weber

स᳘ ह त᳘त एवो᳘दङ् प्र᳘वव्राज॥
ए᳘दु पु᳘रुषैः पु᳘रुषानाक्रन्द᳘यत आक्रन्द᳘यद्भिरद्य᳘मानान्त्स᳘ होवाच भीष्म᳘म् बत भोः पु᳘रुषान्न्वा᳘ एतत्पु᳘रुषा आक्रन्द᳘यत आक्रन्द᳘यन्तोऽदन्ती᳘ति ते᳘ होचुरित्थं वा᳘ इॗमेऽस्मा᳘नमु᳟॥

मूलम् - विस्वरम्

स ह तत एवोदङ् प्रवव्राजैदु पुरुषैः पुरुषानाक्रंदयत आक्रंदयद्भिरद्यमानान् । स होवाच- भीष्मं बत भोः पुरुषान् वा आक्रंदयत आक्रंदतो ऽदंतीति । ते होचुः- इत्थं वा इमे ऽस्मानमुष्मिन् लोके ऽसचंत । तान् वयमिदमिह प्रतिसचामहा इति । स होवाच- अस्तीह प्रायश्चित्ती ३ रिति । अस्तीति । का ऽति । पितैव ते वेदेति ॥ ६ ॥

सायणः

अथ उदीच्यां दिशि प्रव्रजनं विधत्ते- स ह तत एवेति । ‘उदङ्’ उदङ्मुखः । आक्रंदयत इत्यादि । आक्रंदनं आक्रोशनं कुर्वतः पुरुषान् तादृशैः ‘पुरुषैः’ ‘अद्यमानान्’ भक्ष्यमाणानित्यर्थः । गतमन्यत् ॥ ६ ॥

Eggeling
  1. He went forth from thence northward, and lo, men, crying aloud, were being eaten by men, crying aloud! He said, ‘Horrible! woe is me! men, crying aloud, here are eating men, crying aloud!’ They replied, ‘Thus, indeed, these dealt with us in yonder world, and so we now deal with them in return.’ He said, ‘Is there no atonement for this?’–‘Yes, there is,’ they replied.–‘What is it? Thy father knows.’

०७

विश्वास-प्रस्तुतिः

स᳘ ह त᳘त ऽए᳘वैत᳘योः पू᳘र्व्वयोः॥
(रु᳘) उ᳘त्तरम᳘न्ववान्तरदेशम्प्र᳘वव्राजै᳘दु स्त्रि᳘यौ कल्याणीञ्चा᳘तिकल्याणीञ्च ते ऽअ᳘न्तरेण पु᳘रुषः कृष्णः᳘ पिङ्गाक्षो᳘ दण्ड᳘पाणिस्तस्थौ त᳘ᳫँ᳘ हैनं दृष्ट्वा भी᳘र्व्विवेद स हे᳘त्य स᳘म्विवेश त᳘ᳫँ᳘ ह पि᳘तोवाचा᳘धीष्व स्वाध्यायङ्क᳘स्मान्नु᳘ स्वाध्यायं ना᳘धीष ऽइ᳘ति स᳘ होवाच किम᳘ध्येष्ये न कि᳘ञ्च᳘नास्ती᳘ति त᳘द्ध व्व᳘रुणो व्विदा᳘ञ्चकारा᳘द्र्यग्वा ऽइ᳘ति॥

मूलम् - श्रीधरादि

स᳘ ह त᳘त ऽए᳘वैत᳘योः पू᳘र्व्वयोः॥
(रु᳘) उ᳘त्तरम᳘न्ववान्तरदेशम्प्र᳘वव्राजै᳘दु स्त्रि᳘यौ कल्याणीञ्चा᳘तिकल्याणीञ्च ते ऽअ᳘न्तरेण पु᳘रुषः कृष्णः᳘ पिङ्गाक्षो᳘ दण्ड᳘पाणिस्तस्थौ त᳘ᳫँ᳘ हैनं दृष्ट्वा भी᳘र्व्विवेद स हे᳘त्य स᳘म्विवेश त᳘ᳫँ᳘ ह पि᳘तोवाचा᳘धीष्व स्वाध्यायङ्क᳘स्मान्नु᳘ स्वाध्यायं ना᳘धीष ऽइ᳘ति स᳘ होवाच किम᳘ध्येष्ये न कि᳘ञ्च᳘नास्ती᳘ति त᳘द्ध व्व᳘रुणो व्विदा᳘ञ्चकारा᳘द्र्यग्वा ऽइ᳘ति॥

मूलम् - Weber

स᳘ ह त᳘त एॗवैत᳘योः पू᳘र्वयोः॥
उ᳘त्तरम᳘न्ववान्तरदेशम् प्र᳘वव्राजे᳘दु स्त्रि᳘यौ कल्याणीं चा᳘तिकल्याणीं च ते अ᳘न्तरेण पु᳘रुषः कृष्णः᳘ पिङ्गाक्षो᳘ दण्ड᳘पाणिस्तस्थौ त᳘ᳫं᳘ हैनं दृष्ट्वा भी᳘र्विवेद स हे᳘त्य सं᳘विवेश त᳘ᳫं᳘ ह पिॗतोवाचा᳘धीष्व स्वाध्यायं क᳘स्मान्नु᳘ स्वाध्यायं ना᳘धीष इ᳘ति स᳘ होवाच किम᳘ध्येष्ये न किं᳘ चॗनास्ती᳘ति त᳘द्ध व᳘रुणो विदां᳘ चकारा᳘द्राग्वा 5 इ᳘ति॥

मूलम् - विस्वरम्

स ह तत एवैतयोः पूर्वयोरुत्तरमन्ववांतरदेशं प्रवव्राजैदु स्त्रियौ कल्याणीं चातिकल्याणीं च । से अंतरेण पुरुषः कृष्णः पिंगाक्षो दण्डपाणिस्तस्थौ । तं हैनं दृष्ट्वा भीर्विवेद । स हेत्य संविवेश । तं ह पितोवाच- अधीष्व स्वाध्यायम् । कस्मान्नु स्वाध्यायं नाधीष इति । स होवाच- किमध्येष्ये, न किंचनास्तीति । तद्ध वरुणो विदांचकार- अद्र्यग्वा इति ॥ ७ ॥

सायणः

अथ पूर्वयोरवांतरदेशस्य व्रजनं दर्शयति- स ह तत एवेति । ‘सः’ खलु भृगुः उदग्गमनानंतरमेव ‘एतयोः’ पूर्वोक्तयोर्दिशोः । उत्तरभागमवांतरदेशं ‘अनु’ लक्ष्य ‘प्रवव्राजैदु’ प्रजगामैव । तत्र खलु व्रजित्वा ‘कल्याणीं’ शोभनां ‘अतिकल्याणीं’ चाशोभनां द्वे स्त्रियावद्राक्षीत् । ‘ते अंतरेण’ । “अंतरा ऽन्तरेणयुक्ते” (पा. सू. २ । ३ । ४) इति द्वितीया । कश्चित् ‘पुरुषः’ ‘पिंगाक्षः’ पिंगे पिंगलवर्णे अक्षिणी यस्येति “बहुव्रीहौ सक्थ्यक्ष्णोः” (पा. सू. ५ । ४ । ११३) इति षच् समासांत । ‘दंडपाणिः’ उद्यतदंडहस्तः । ‘तस्थौ’ स्थितवान् । तं हैनं दृष्ट्वा भीर्विवेदेति । ‘तं’ पुरुषं ‘दृष्ट्वा’ ‘भीर्विवेद’ भीतिं लब्धवान् । “विद्लृ लाभे” (धा. पा. तु. उ. १५१) इत्यस्माल्लिट् । भीरिति “सुपां सुलुक्” (पा. सू. ७ । १ । ३९) इति द्वितीयैकवचनस्य सु आदेशः । एवं चतसृषु दिक्षु उग्रकर्माणि दृष्ट्वा अंते चावांतरदेशे शोभनाशोभनयोः स्त्रियोर्मध्ये स्थितं भयंकरं पुरुषविशेषं च दृष्ट्वा भीतः स किं कृतवान् इति तदाह- स हेत्यादि । ‘सः’ खलु । एत्यागत्य पितृगृहं प्राप्य ‘संविवेश’ संवेशनं शयनं कृतवान् । एवं वरुणः । पुत्रस्य भृगोः अहंकारमपनीय तस्मै उपदिदेशेत्याह- तं हेति । ‘तं’ खलु भृगुं पिता वरुणः ‘उवाच’ उक्तवान् । किमिति ? हे पुत्र ! ‘स्वाध्यायं’ स्वशाखामधीष्व पठ । ‘कस्मात्’ ‘स्वाध्यायं’ ‘नाधीषे’ न पठसि । “इङ् अध्ययने” (धा. पा. अ. आ. ३६) इति धातुः । एवं पित्रा उक्ते पुत्रस्य प्रतिवचनं दर्शयति- स होवाचेति । ‘सः’ खलु पुत्रः ‘उवाच’ उक्तवान् । ‘किमध्येष्ये’ कस्य वेदस्याध्ययनं करिष्यामि । ‘किंचन’ किमपि अनधीतं अध्येतव्यं मम नास्तीति । तद्ध वरुण इति । तत्तत्र भृगुणा एवमुक्ते सति वरुणस्तस्याभिप्रायं ‘विदांचकार’ ज्ञातवान् । ‘अद्यग्वै’ अदृष्टः आहितः खलु त्वमसि ॥ ७ ॥

Eggeling
  1. He went forth from thence toward the northern of those two intermediate quarters in front, and lo, there were two women, one beautiful, one over-beautiful 6: between them stood a man, black, with yellow eyes, and a staff in his hand. On seeing him, terror seized him, and he went home, and sat down. His father said to him, ‘Study thy day’s lesson (of scripture): why dost thou not, study thy lesson?’ He said, What am I to study? there is nothing whatever.’ Then Varuṇa knew, ‘He has indeed seen it!

०८

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
यान्वै तत्प्रा᳘च्यां दिश्य᳘द्राक्षीः पु᳘रुषैः पु᳘ रुषान्प᳘र्व्वाण्येषाम्पर्व्वशः᳘ सम्व्र᳘श्चं पर्व्वशो᳘ व्विभ᳘जमानानिदं त᳘वेदम्ममे᳘ति व्व᳘नस्प᳘तयो वै ते᳘ ऽअभूवन्त्स यद्व᳘नस्प᳘तीनाᳫँ᳭ समि᳘धमाद᳘धाति ते᳘न व्व᳘नस्प᳘तीन᳘वरुन्धे ते᳘न व्व᳘नस्प᳘तीनां लोकं᳘ जयति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
यान्वै तत्प्रा᳘च्यां दिश्य᳘द्राक्षीः पु᳘रुषैः पु᳘ रुषान्प᳘र्व्वाण्येषाम्पर्व्वशः᳘ सम्व्र᳘श्चं पर्व्वशो᳘ व्विभ᳘जमानानिदं त᳘वेदम्ममे᳘ति व्व᳘नस्प᳘तयो वै ते᳘ ऽअभूवन्त्स यद्व᳘नस्प᳘तीनाᳫँ᳭ समि᳘धमाद᳘धाति ते᳘न व्व᳘नस्प᳘तीन᳘वरुन्धे ते᳘न व्व᳘नस्प᳘तीनां लोकं᳘ जयति॥

मूलम् - Weber

स᳘ होवाच॥
यान्वै तत्प्रा᳘च्यां दिश्य᳘द्राक्षीः पु᳘रुषैः पु᳘ रुषान्प᳘र्वाण्येषाम् पर्वशः᳘ संव्र᳘श्चम् पर्वशो᳘ विभ᳘जमानानिदं त᳘वेदम् ममे᳘ति व᳘नस्प᳘तयो वै ते᳘ अभूवन्त्स यद्व᳘नस्प᳘तीनाᳫं समि᳘धमाद᳘धाति ते᳘न व᳘नस्प᳘तीन᳘वरुन्द्धे ते᳘न व᳘नस्प᳘तीनां लोकं᳘ जयति॥

मूलम् - विस्वरम्

स होवाच- यान् वै तत् प्राच्यां दिश्यद्राक्षीः, पुरुषैः पुरुषान् पर्वाण्येषां पर्वशः संवृश्चं पर्वशो विभजमानान्, इदं तवेदं ममेति । वनस्पतयो वै ते अभूवन् । स यद्वनस्पतीनां समिधमादधाति । तेन वनस्पतीनवरुंधे । तेन वनस्पतीनां लोकं जयति ॥ ८ ॥

सायणः

अथ तेन भृगुणा प्रागादिदिक्षु यत् यत् पूर्वं दृष्टं तत्सर्वं तस्योपदिशति- स होवाचेति । ‘सः’ खलु वरुणः ‘उवाच’ उक्तवान् । ‘यान्’ खलु पुरुषान् तत्तत्र ‘प्राच्यां दिशि’ हे पुत्र ! त्वं ‘अद्राक्षीः’ दृष्टवानसि । पुरुषैः पुरुषानित्यादि पूर्ववत् । वनस्पतयो वै ते इति । ‘ते’ पर्वशो वृश्च्यमानाः पलाशखदिरादिवनस्पतयः ‘अभूवन्’ । तथा सति ‘सः’ यजमानः ‘वनस्पतीनां’ संबंधिनीं ‘समिधं’ संवृश्च्य अग्नावादधातीति यदस्ति ‘तेन वनस्पतीनवरुंधे’ स्वाधीनत्वेन लभते । तेनावरोधेन ‘वनस्पतीनां’ संबंधी यो लोकः तं ‘जयति’ प्राप्नोति ॥ ८ ॥

Eggeling
  1. He spake, ‘As to those men whom thou

sawest in the eastern region being dismembered by men hewing off their limbs one by one, and saying, “This to thee, this to me!” they were the trees: when one puts fire-wood from trees on (the fire) he subdues the trees, and conquers the world of trees.

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ या᳘नेतद्द᳘क्षिणायां दिश्य᳘द्राक्षीः॥
पु᳘रुषैः पु᳘रुषान्प᳘र्व्वाण्येषाम्पर्व्वशः᳘ सङ्क᳘र्तम्पर्व्वशो᳘ व्विभ᳘जमानानिदं त᳘वेदम्ममे᳘ति पश᳘वो वै ते᳘ ऽअभूवन्त्स यत्प᳘यसा जुहो᳘ति ते᳘न पशून᳘वरुन्धे ते᳘न पशूनां᳘ लोक᳘ञ्जयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ या᳘नेतद्द᳘क्षिणायां दिश्य᳘द्राक्षीः॥
पु᳘रुषैः पु᳘रुषान्प᳘र्व्वाण्येषाम्पर्व्वशः᳘ सङ्क᳘र्तम्पर्व्वशो᳘ व्विभ᳘जमानानिदं त᳘वेदम्ममे᳘ति पश᳘वो वै ते᳘ ऽअभूवन्त्स यत्प᳘यसा जुहो᳘ति ते᳘न पशून᳘वरुन्धे ते᳘न पशूनां᳘ लोक᳘ञ्जयति॥

मूलम् - Weber

अ᳘थ या᳘नेततद्द᳘क्षिणायां दिश्य᳘द्राक्षीः॥
पु᳘रुषैः पु᳘रुषान्प᳘र्वाण्येषाम् पर्वशः᳘ संक᳘र्तम् पर्वशो᳘ विभ᳘जमानानिदं त᳘वेदम् ममे᳘ति पश᳘वो वै ते᳘ अभूवन्त्स यत्प᳘यसा जुहो᳘ति ते᳘न पशून᳘वरुन्धे ते᳘न पशूनां᳘ लोकं᳘ जयति॥

मूलम् - विस्वरम्

अथ यानेतद्दक्षिणायां दिश्यद्राक्षीः, पुरुषैः पुरुषान् पर्वाण्येषां पर्वशः संकर्तं पर्वशो विभजमानान्, इदं तवेदं ममेति । पशवो वै ते अभूवन् । स यत् पयसा जुहोति । तेन पशूनवरुंधे । तेन पशूनां लोकं जयति ॥ ९ ॥

सायणः

अथ दक्षिणस्यां दिशि दृष्टस्य स्वरूपं कथयति- अथ यानेतदिति । पूर्ववद्योज्यम् । पशवो वै त इति । ‘ते’ पर्वशः संकृत्यमानाः छिद्यमानाः पुरुषाः ‘पशवः’ गवादय आसन्नित्यर्थः । तथा सति ‘सः’ यजमानः ‘पयसा’ अग्निहोत्रं ‘जुहोतीति’ यदस्ति ‘तेन पशूनवरुंधे’ तेनं पश्ववरोधनेन ‘पशूनां’ सम्बन्धिनं ‘लोकं जयति’ लभते ॥ ९ ॥

Eggeling
  1. ‘And as to those men whom thou sawest in the southern region being dismembered by men cutting up their limbs one by one, and saying, “This to thee, this to me!” they were the cattle; when one makes offering with milk he subdues the cattle, and conquers the world of cattle.

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ या᳘नेत᳘त्प्रती᳘च्यां दिश्य᳘द्राक्षीः॥
पुरुषैः[[!!]] पु᳘रुषाँस्तूष्णीमा᳘सीनाँस्तूष्णीमा᳘सीनैरद्य᳘मानानो᳘षधयो वै ता᳘ ऽअभूवन्त्स यत्तृ᳘णेनावज्योत᳘यति तेनौ᳘षधीर᳘वरुन्धे तेनौ᳘षधीनां लोकं᳘ जयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ या᳘नेत᳘त्प्रती᳘च्यां दिश्य᳘द्राक्षीः॥
पुरुषैः[[!!]] पु᳘रुषाँस्तूष्णीमा᳘सीनाँस्तूष्णीमा᳘सीनैरद्य᳘मानानो᳘षधयो वै ता᳘ ऽअभूवन्त्स यत्तृ᳘णेनावज्योत᳘यति तेनौ᳘षधीर᳘वरुन्धे तेनौ᳘षधीनां लोकं᳘ जयति॥

मूलम् - Weber

अ᳘थ या᳘नेत᳘त्प्रती᳘च्यां दिश्य᳘द्राक्षीः॥
पु᳘रुषैः पु᳘रुषांस्तूष्णीमा᳘सीनांस्तूष्णीमा᳘सीनैरद्य᳘मानानो᳘षधयो वै ता᳘ अभूवन्त्स यत्तृ᳘णेनावज्योत᳘यति तेनौ᳘षधीर᳘वरुन्द्धे तेनौ᳘षधीनां लोकं᳘ जयति॥

मूलम् - विस्वरम्

अथ यानेतत् प्रतीच्यां दिश्यद्राक्षीः, पुरुषैः पुरुषान् तूष्णीमासीनान् तूष्णीमासीनैरद्यमानान्, ओषधयो वै ता अभूवन् । स यत् तृणेनावज्योतयति । तेनौषधीरवरुंधे । तेनौषधीनां लोकं जयति ॥ १० ॥

सायणः

अथ प्रतीच्यां दिशि दृष्टस्य स्वरूपमाह- अथ यानेतदिति । तूष्णीमासीनैरद्यमानानित्यंतं पूर्ववत् । ओषधयो वै ता इति । तास्तूष्णीमासीनैरद्यमानाः ‘औषधयः’ खलु ‘अभूवन्’ । तासामवरोधोपायमाह- स यदिति । ‘सः’ यजमानः अग्निहोत्रकर्मणि तत्साधनद्रव्यं तृणेन दर्भात्मकेन ‘अवज्योतयति’ अवद्योतयति अवाङ्मुखं हविष उपरि द्योतनं करोति इति यदस्ति ‘तेन’ तज्जातीयाः सर्वाः ‘ओषधीरवरुन्धे’ । सिद्धमन्यत् ॥ १० ॥

Eggeling
  1. ‘And as to those men thou sawest in the western region who, whilst sitting still, were being eaten by men sitting still, they were the herbs: when one illumines (the Agnihotra milk) with a straw 7, he subdues the herbs, and conquers the world of herbs.

११

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ या᳘नेतदु᳘दीच्यां दिश्य᳘द्राक्षीः॥
पु᳘रुषैः पु᳘रुषानाक्रन्द᳘यत ऽआक्रन्द᳘यद्भिरद्य᳘मानाना᳘पो वै ता᳘ ऽअभूवन्त्स य᳘दपः᳘ प्रत्यान᳘यति ते᳘नापो᳘ ऽवरुन्धे ते᳘नापां᳘ लोक᳘ञ्जयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ या᳘नेतदु᳘दीच्यां दिश्य᳘द्राक्षीः॥
पु᳘रुषैः पु᳘रुषानाक्रन्द᳘यत ऽआक्रन्द᳘यद्भिरद्य᳘मानाना᳘पो वै ता᳘ ऽअभूवन्त्स य᳘दपः᳘ प्रत्यान᳘यति ते᳘नापो᳘ ऽवरुन्धे ते᳘नापां᳘ लोक᳘ञ्जयति॥

मूलम् - Weber

अ᳘थ या᳘नेतदु᳘दीच्यां दिश्य᳘द्राक्षीः॥
पु᳘रुषैः पु᳘रुषानाक्रन्द᳘यत आक्रन्द᳘यद्भिरद्य᳘मानाना᳘पो वै ता᳘ अभूवन्त्स य᳘दपः᳘ प्रत्यान᳘यति ते᳘नापो᳘ऽवरुन्द्धे ते᳘नापां᳘ लोकं᳘ जयति॥

मूलम् - विस्वरम्

अथ यानेतदुदीच्यां दिश्यद्राक्षीः, पुरुषैः पुरुषानाक्रंदयत आक्रंदयद्भिरद्यमानान् । आपो वै ता अभूवन् । स यदपः प्रत्यानयति । तेनापो ऽवरुंधे । तेनापां लोकं जयति ॥ ११ ॥

सायणः

अथोत्तरदिशि दृष्टस्य स्वरूपमुपदिशति- अथ यानेतदिति । ‘अथ यान्’ पुरुषान् ‘उदीच्यां दिशि अद्राक्षीः’ । कथंभूतान् ‘आक्रंदयतः’ आक्रंदनमाक्रोशनं कुर्वाणान् ‘आक्रंदयद्भिः’ आक्रोशनं कुर्वद्भिः अन्यैः ‘पुरुषैः’ ‘अद्यमानान्’ भक्ष्यमाणान् । आपो वै ता इत्यादि । तथाविधाः आक्रंदयद्भिरद्यमानाः पुरुषाः ‘आपः’ खलु ‘ता अभूवन्’ । सर्वप्राणिभिरुपभुज्यमाना आप एव आक्रंदयत्पुरुषरूपेण दृष्टा इत्यर्थः । अथ तासामवरोधोपायमाह- स यदप इति । ‘सः’ यजमानः अग्निहोत्रसाधने तप्ते पयसि ‘अपः’ उदकं ‘प्रत्यानयति’ उपर्यासिंचतीति यदस्ति ‘तेन’ ताः ‘अपः अवरुंधे’ ॥ ११ ॥

Eggeling
  1. ‘And as to those men thou sawest in the northern region who, whilst crying aloud, were being eaten by men crying aloud, they were the waters: when one pours water to (the Agnihotra milk), he subdues the waters, and conquers the world of waters.

१२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ ये᳘ ऽएते[[!!]] स्त्रि᳘याव᳘द्राक्षीः॥ कल्याणीञ्चा᳘तिकल्याणीञ्च सा या᳘ कल्याणी सा᳘ श्रद्धा स यत्पू᳘र्व्वामा᳘हुतिञ्जुहो᳘ति ते᳘न श्रद्धाम᳘वरुन्धे ते᳘न श्रद्धा᳘ञ्जयत्य᳘थ या᳘ ऽतिकल्याणी सा᳘ ऽश्रद्धा स यदु᳘त्तरामा᳘हुतिञ्जुहो᳘ति तेना᳘श्रद्धाम᳘वरुन्धे तेना᳘श्रद्धा᳘ञ्जयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ ये᳘ ऽएते[[!!]] स्त्रि᳘याव᳘द्राक्षीः॥ कल्याणीञ्चा᳘तिकल्याणीञ्च सा या᳘ कल्याणी सा᳘ श्रद्धा स यत्पू᳘र्व्वामा᳘हुतिञ्जुहो᳘ति ते᳘न श्रद्धाम᳘वरुन्धे ते᳘न श्रद्धा᳘ञ्जयत्य᳘थ या᳘ ऽतिकल्याणी सा᳘ ऽश्रद्धा स यदु᳘त्तरामा᳘हुतिञ्जुहो᳘ति तेना᳘श्रद्धाम᳘वरुन्धे तेना᳘श्रद्धा᳘ञ्जयति॥

मूलम् - Weber

अ᳘थ ये᳘ एते᳟॥
स्त्रि᳘याव᳘द्राक्षीः कल्याणीं चा᳘तिकल्याणीं च सा या᳘ कल्याणी सा᳘ श्रद्धा स यत्पू᳘र्वामा᳘हुतिं जुहो᳘ति ते᳘न श्रद्धाम᳘वरुन्द्धे ते᳘न श्रद्धां᳘ जयत्य᳘थ या᳘तिकल्याणी सा᳘श्रद्धा स यदु᳘त्तरामा᳘हुतिं जुहो᳘ति तेना᳘श्रद्धाम᳘वरुन्द्धे तेना᳘श्रद्धां जयति॥

मूलम् - विस्वरम्

अथ ये एते स्त्रियावद्राक्षीः कल्याणीं चातिकल्याणीं च । सा या कल्याणी सा श्रद्धा । स यत्पूर्वामाहुतिं जुहोति । तेन श्रद्धामवरुंधे । तेन श्रद्धां जयति । अथ या ऽतिकल्याणी सा ऽश्रद्धा । स यदुत्तरामाहुतिं जुहोति । तेनाश्रद्धामवरुंधे । तेनाश्रद्धां जयति ॥ १२ ॥

सायणः

अथ ये अवांतरदिशि स्त्रियौ दृष्टे तयोः स्वरूपमाह- अथ ये एते इति । तत्र ‘या’ ‘कल्याणी’ शोभना स्त्री दृष्टा ‘सा श्रद्धा’ श्रुतिस्मृत्युदितकर्मस्वभिरतिरूपा देवता । तस्यां अवरोधोपायमाह- स यत्पूर्वामिति । अग्निहोत्रकर्मणि या पूर्वाहुतिः, तया श्रद्धा प्राप्यते इत्यर्थः । ‘अथ या अतिकल्याणी’ अशोभना स्त्री दृष्टा ‘सा अश्रद्धा’ श्रद्धाभावरूपा देवता । तस्या अवरोधोपायमाह- स यदुत्तरामिति । अग्निहोत्रकर्मणि या उत्तरा आहुतिर्हूयते, तथा निंदितकर्मविषयामश्रद्धां पुरुषः प्राप्नोतीत्यर्थः ॥ १२ ॥

Eggeling
  1. ‘And as to those two women whom thou sawest, one beautiful and one over-beautiful,–the beautiful one is Belief: when one offers the first libation (of the Agnihotra) he subdues Belief, and conquers Belief; and the over-beautiful one is Unbelief: when one offers the second libation, he subdues Unbelief, and conquers Unbelief.

१३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘ ऽएते॥ सो᳘ ऽन्तरेण पु᳘रुषः कृष्णः᳘ पिङ्गाक्षो᳘ दण्ड᳘पाणिर᳘स्थात्क्रो᳘धो वै᳘ सो ऽभूत्स य᳘त्स्रुच्यप᳘[[!!]] आनी᳘य यन्निन᳘यति ते᳘न क्रो᳘धम᳘वरुन्धे ते᳘न क्रो᳘धञ्जयति स य᳘ ऽएवं᳘ व्विद्वा᳘नग्निहोत्र᳘ञ्जुहो᳘ति ते᳘न स᳘र्व्वञ्ज᳘यति स᳘र्व्वम᳘वरुन्धे॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘ ऽएते॥ सो᳘ ऽन्तरेण पु᳘रुषः कृष्णः᳘ पिङ्गाक्षो᳘ दण्ड᳘पाणिर᳘स्थात्क्रो᳘धो वै᳘ सो ऽभूत्स य᳘त्स्रुच्यप᳘[[!!]] आनी᳘य यन्निन᳘यति ते᳘न क्रो᳘धम᳘वरुन्धे ते᳘न क्रो᳘धञ्जयति स य᳘ ऽएवं᳘ व्विद्वा᳘नग्निहोत्र᳘ञ्जुहो᳘ति ते᳘न स᳘र्व्वञ्ज᳘यति स᳘र्व्वम᳘वरुन्धे॥

मूलम् - Weber

अ᳘थ य᳘ एने सो᳘ऽन्तरेण पु᳘रुषः॥
कृष्णः᳘ पिङ्गाक्षो᳘ दण्ड᳘पाणिर᳘स्थात्क्रो᳘धो वैॗ सोऽभूत्स य᳘त्स्रुच्य᳘प᳘ आनी᳘य निन᳘यति ते᳘न क्रो᳘धम᳘वरुन्द्धे ते᳘न क्रो᳘धं जयति स य᳘ एवं᳘ विद्वा᳘नग्निहोत्रं᳘ जुहो᳘ति ते᳘न स᳘र्वं जयति स᳘र्वम᳘वरुन्द्धे॥

मूलम् - विस्वरम्

अथ य एते सो ऽन्तरेण पुरुषः कृष्णः पिंगाक्षो दंडपाणिरस्थात् । क्रोधो वै सो ऽभूत् । स यत् स्रुच्यप आनीय यन्निनयति । तेन क्रोधमवरुंधे । तेन क्रोधं जयति । स य एवं विद्वानग्निहोत्रं जुहोति । तेन सर्वं जयति । सर्वमवरुंधे ॥ १३ ॥

सायणः

अथैनयोर्मध्ये स्थितस्य पुरुषस्य स्वरूपमाह- अथ य एते इति । ‘अस्थात्’ स्थितवान् । ‘स कृष्णः’ ‘पुरुषः’ ‘क्रोधः अभूत्’ । क्रोधरूपा देवतेत्यर्थः । तस्य जयोपायमाह- स यदिति । ‘सः’ यजमानः अग्निहोत्रकर्मणि आहवनीयहोमानन्तरं ‘स्रुचि’ अग्निहोत्रहवण्याम् ‘अपः’ आनीयोदकमासिच्य ‘निनयति’ सिंचतीति यदस्ति ‘तेन क्रोधमवरुन्धे’ स्वाधीनं करोति । कृत्वा च तं क्रोधं ‘जयति’ निराकरोति । एवमाख्यायिकया पितापुत्रसंवादेन अग्निहोत्रसंबंधिनां समिदाधानादीनां वनस्पत्यादिलोकजयप्राप्तिरुक्ता । एतद्विदुषो ऽप्यस्त्येवेत्याह- स य एवं विद्वानिति । तेनाग्निहोत्रेण विद्यासहितेन । सिद्धमन्यत् ॥ १३ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यंदिनीयशतपथब्राह्मणभाष्ये एकादशकाण्डे षष्ठे ऽध्याये प्रथमं ब्राह्मणम् ॥ (११ । ६ । १) ॥

Eggeling
  1. ‘And as to the black man with yellow eyes,

who was standing between them with a staff in his hand, he was Wrath: when, having poured water into the spoon, one pours (the libation into the fire), he subdues Wrath, and conquers Wrath; and, verily, whosoever, knowing this, offers the Agnihotra, thereby conquers everything, and subdues everything.’


  1. 108:3 On this legend, see Prof. Weber, Indische Streifen, I, p. 24 seqq., where the scenes here depicted are taken to be reflections of the popular belief of the time as to the punishments awaiting the guilty in a future existence. ↩︎

  2. 109:1 That is to say, in the north-easterly direction. Prof. Weber seems to take it in the sense of the northern one of the two regions intermediate between the two (regions) first referred to. This, however, makes no sense. ↩︎

  3. भोः पु᳘रुषान्वा᳘ AP. thus also in the following कण्डिकाः, though alternating with षांन्वा᳘. ↩︎

  4. 109:2 I think, with Prof. Delbrück, Altind. Syntax, p. 404, that the instrumental ‘purushaiḥ’ stands in lieu of the accusative; this construction being adopted in order to avoid the double accusative and consequent ambiguity. ↩︎

  5. चकारा᳘द्यग्वा A. चकारा᳘ग्वा P. ↩︎

  6. 110:1 According to Sāyaṇa ‘ati-kalyāṇī’ means ’not beautiful (aśobhanā), ugly.’ Perhaps its real meaning is ‘one of past beauty,’ one whose beauty has faded. ↩︎

  7. 111:1 See II, 3, 1, 16. ↩︎